*श्रीगुरुदेवाष्टकम्*
संसारदावानललीढलोक
त्राणाय कारुण्यघनाघनत्वम् ।
प्राप्तस्य कल्याणगुणार्णवस्य
वन्दे गुरोः श्रीचरणारविन्दम् ॥ १॥
महाप्रभोः कीर्तननृत्यगीत
वादित्रमद्यन्मनसो रसेन ।
रोमाञ्चकम्पाश्रुतरङ्गभाजो
वन्दे गुरोः श्रीचरणारविन्दम् ॥ २॥
श्रीविग्रहाराधननित्यनाना
शृङ्गारतन्मन्दिरमार्जनादौ ।
युक्तस्य भक्तांश्च नियुञ्जतोऽपि
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ३॥
चतुर्विधश्रीभगवत्प्रसाद
स्वाद्वन्नतृप्तान् हरिभक्तसङ्घान् ।
कृत्वैव तृप्तिं भजतः सदैव
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ४॥
श्रीराधिकामाधवयोरपार
माधुर्यलीलागुणरूपनाम्नाम् ।
प्रतिक्षणास्वादनलोलुपस्य
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ५॥
निकुञ्जयूनो रतिकेलिसिद्ध्यै
या यालिभिर्युक्तिरपेक्षणीया ।
तत्रातिदाक्ष्यादतिवल्लभस्य
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ६॥
साक्षाद्धरित्वेन समस्तशास्त्रै-
रुक्तस्तथा भाव्यत एव सद्भिः ।
किन्तो प्रभोर्यः प्रिय एव तस्य
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ७॥
यस्य प्रसादाद्भगवत्प्रसादो
यस्याप्रसादान् न गतिः कुतोऽपि ।
ध्यायन् स्तुवंस्तस्य यशस्त्रिसन्ध्यं
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ८॥
श्रीमद्गुरोरष्टकमेतदुच्चै-
र्ब्राह्मे मुहूर्ते पठति प्रयत्नात् ।
यस्तेन वृन्दावननाथ साक्षात्
सेवैव लभ्या जुषणोऽन्त एव ॥ ९॥
*इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीगुरुदेवाष्टकं सम्पूर्णम्*
*गुर्वष्टकम्*
वन्देऽहं सच्चिदानन्दं भेदातीतं जगद्गुरुम् ।
नित्यं पूर्णं निराकारं निर्गुणं सर्वसंस्थितम् ॥ १॥
परात्परतरं ध्येयं नित्यमानन्द-कारणम् ।
हृदयाकाश-मध्यस्थं शुद्ध-स्फटिक-सन्निभम् ॥ २॥
अखण्ड-मण्डलाकारं व्याप्तं येन चराऽचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ३॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ४॥
अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ५॥
चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् ।
विन्दु-नाद-कलातीतं तस्मै श्रीगुरवे नमः ॥ ६॥
अनेक-जन्म -संप्राप्त -कर्मबन्ध -विदाहिने ।
आज्ञज्ञान-प्रदानेन तस्मै श्रीगुरवे नमः ॥ ७॥
शिष्याणां मोक्षदानाय लीलया देहधारिणे ।
सदेहेऽपि विदेहाय तस्मै श्रीगुरवे नमः ॥ ८॥
गुर्वष्टकमिदं स्तोत्रं सायं-प्रातस्तु यः पठेत् ।
स विमुक्तो भवेल्लोकात् सद्गुरो कृपया ध्रुवम् ॥ ९॥
*इति गुर्वष्टकं सम्पूर्णम्*
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः।
गुरुर्साक्षात्परब्रह्म तस्मै श्रीगुरवे नमः।।
ध्यानमूलं गुरोर्मूतिः पूजामूलम गुरो पदम्।
मंत्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा।।
अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः।।
त्वमेव माता च पिता त्वमेव त्वमेव बंधुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव।।
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं।
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सदगुरुं तं नमामि।।