स्वामी रामतीर्थ (हिन्दी: स्वामी रामतीर्थ , आङ्ग्ल: swami ramtirth )स्वामी रामतीर्थस्य मूलनाम तीर्थरामः आसीत् । सः विवेकानन्दवत् हिन्दू-धर्मस्य, हिन्दू-संस्कृतेः च विदेशे प्रचारम् अकरोत् तादृशः भारतमातुः सुपुत्रः आसीत् । सः भारतस्य वेदान्तादीनां शास्त्राणां जापान-देशे, अमेरिका-देशे च प्रचारं कृत्वा तत्रत्यान् जनान् आत्मज्ञानं प्रति प्रबुद्धान् अकरोत् ।
जन्म परिवारश्च[सम्पादयतु]
रामतीर्थस्य जन्म १८७३ तमस्य वर्षस्य अक्तूबर-मासस्य द्वाविंशति(२२)तमे दिनाङ्के पञ्जाबराज्ये गुजरावाला-मण्डले मुरारीवाला-ग्रामे पण्डित हीरानन्द गोस्वामी इत्यस्य गृहे अभवत् । तस्य मूलनाम तीर्थरामः आसीत् । तस्य पितुः नाम हीरानन्द गोस्वामी आसीत् । यदा रामतीर्थः नवमासस्य आसीत्, तदा तस्य मातुः अवसानम् अभवत् । अतः तस्य मातुः नामोल्लेखः कुत्रापि न प्राप्यते । तस्य भगिन्याः नाम तीर्थदेवी आसीत् ।
बाल्यम्
मातुः मरणान्ते तीर्थरामस्य पालनं पितुर्भगिनिगृहे, स्वभगिनि गृहे च अभवत् । ते उभेऽपि धार्मिके आस्ताम् । अतः तयोः रुचिकरं कार्यं नित्यं कथाश्रवणं, हरिदर्शनं च आसीत् । ते रामतीर्थंम् अपि विविधाः कथाः श्रावयतः स्म । अतः सोऽपि कथाश्रवणरसिकः अभवत् । बाल्यकालात् तस्य पठने रुचिः आसीत् । अतः पठनेतरासु क्रीडादिषु क्रियासु तस्य रुचिः नासीत् । अतः बाल्ये क्रीडादि प्रवृत्तिभिः बालकस्य शरीरं यावत् सुदृढं भवति तावत् तस्य नासीत् । तथापि शरीरस्य दुर्बलतायाः प्रभावः तस्य अभ्यासे नासीत् ।
शिक्षणम्
तीर्थरामस्य सार्धपञ्चवर्षीये सति पिता तं मुरारीवाला-ग्रामस्य ऊर्दू-शालायां पैषयत् । शालायां तीर्थरामः फारसी-भाषायाः गुलिस्तां, बोस्ताम् इति नामकं पुस्तकद्वयम् अपठत् । ततः कानिचन अर्थपूर्णानि गद्यानि च कण्ठस्थानि अकरोत्, अन्यानि काव्यानि अपि कण्ठस्थानि अकरोत् । अतः शालायां तस्य प्रथमः क्रमः आगच्छति स्म । अतः तीर्थरामस्य निपुणतां दृष्ट्वा शालायाः मौलवी तस्योपरि बहुप्रसन्नः आसीत् । मौलवी इत्येतं प्रति तीर्थरामः अपि विश्वसति स्म । तीर्थरामः मौलवी इत्येस्मै गुरुदक्षिणायां गां वा महिषिं दातुम् इच्छति इति पितरम् असूचयत्, पिता अददात् च । शालायां प्रथमः क्रमः प्राप्तः, अतः तीर्थरामः शिष्यवृत्तिं च प्रापत् । अतः तस्य पठने रुचिः अवर्धत । किन्तु मुरारीवाला-ग्रामे तदानीम् आङ्लशाला नासीत् । गुजरानवाला-मण्डले पाठयितुं पितुः स्थितिः नासीत् । तथापि पिता तीर्थरामं गुजरानवाला-मण्डले स्वमित्रस्य भगत धन्नाराम इत्यस्य गृहं पैषयत् । तीर्थरामः अपि तत्र एकान्ते स्थित्वा पठने एव ध्यानं ददाति स्म । शालायाः निर्गत्य सः रामायणं, महाभारतं च पठति स्म । रात्रौ दीपकस्य प्रकाशे गणितविषयस्य गणनां करोति स्म । इत्थं कठोरपरिश्रमेण गुजरानवाला-मण्डलेऽपि सः प्रथमं क्रमं प्रापत् । पञ्जाबराज्ये सामान्ये व्यवहारे ऊर्दूभाषा एव प्रचलति स्म । अतः उच्चवर्णीयाः जनाः अपि ऊर्दूभाषां पठन्ति स्म । अतः तीर्थरामः संस्कृत-भाषां, हिन्दी-भाषां च न जानाति स्म । पञ्चदश(१५) वर्षस्य तीर्थरामः १८८८ तमे वर्षे मेट्रिक्-परीक्षायाम् उत्तीर्णः अभवत् । तदुत्तीर्य सः इतोऽपि पठितुम् इच्छति स्म । भाग्यवशात् गुजरानवाला-मण्डलस्य नगरपालिकापक्षात्, भगत धन्नाराम इत्यस्मात् च सः आर्थिकं साहाय्यं प्राप्नोति स्म । अतः पिता अपि तं लाहोर-नगरं सम्प्रेष्य पठितुम् अनुमतिम् अददात् ।
उच्चशिक्षणम्
तीर्थरामः लाहोर-नगरे फॉरमॅन क्रिश्च्यन् कॉलेज् इत्यस्मिन् प्रविष्टः । तीर्थरामस्य पठनस्य उत्साहं दृष्ट्वा कुटुम्बस्य निकटस्थः पण्डित रघुनाथ इत्ययम् तस्मै अभ्यासक्रमस्य पुस्तकानि दत्त्वा तस्य साहाय्यम् अकरोत् । तीर्थरामः महाविद्यालयं प्रविष्टः, तथाऽपि सारल्येन एव जीवति स्म । पठने एव स्वरुचिं योजयति स्म । तत्रत्यः आचार्यः अयं निपुणः छात्रः अस्ति किन्तु शरीरं प्रति ध्यानं न दास्यति चेत् प्रगतिं कर्तुं न शक्ष्यति इति अविचारयत् । तदर्थं सः तीर्थरामं प्रतिदिनं सायङ्काले व्यायामं कारयन्नेव गृहं गन्तुम् आदिशति स्म । लाहोर-नगरं गत्वा तीर्थरामः हिन्दी- भाषायाः महत्त्वम् अजानात् । अतः सः हिन्दी-भाषाम् अधीतवान् । सः तुलसीदासस्य कटुम्बस्य ब्राह्मणः आसीत् । अतः मित्रैः संस्कृतस्य अभ्यासार्थं सः सूचितः । इत्थं स्वस्य सरलस्वभावात् पठनकाले सः शिक्षकेषु विद्यार्थिषु च प्रियपात्रः अभवत् । महाविद्यालयस्य एकेन शिक्षकेण स्वस्य व्याख्यानानां संङ्गहस्य कार्यं तीर्थरामाय प्रदत्तम् । तद् तीर्थरामः सोत्साहम् अकरोत् । शिक्षकः तीर्थरामस्य कार्यात् प्रसन्नः अभवत् । तस्य शिक्षणस्य अर्धः व्ययः शिक्षकः अददात् । इत्थं कठोरेण परिश्रमेण १८९१ तमे वर्षे पञ्जाबविश्वविद्यालयस्य बी.ए परीक्षायां संम्पूर्णे प्रान्ते तीर्थरामः प्रथमं क्रमं प्रापत् । तदर्थं छात्रवृत्तित्वेन ९० रुप्यकाणि प्रतिमासं तस्मै दीयते स्म । ततः परं सः लाहोर-नगरस्य सर्वकारमान्ये महाविद्यालये एम्.ए अभ्यस्तुं गतः । तत्र गणितविषयं चित्वा तेन सर्वोच्चैः अङ्कैः एम्.ए समापितम्।
शिक्षकः तीर्थरामः
१९०५ तमस्य वर्षस्य मार्च-मासे तीर्थरामः एम्.ए परीक्षां समाप्य गणितविषयस्य वर्गम् अचालयत् । कतिचित् मासान्ते सियालकोट्-ग्रामस्य हाईस्कूल् मध्ये शिक्षकत्वेन कार्यम् आरभत । ततः सप्तमासान् यावत् तत्र अपाठयत् । सप्तमासान्ते लाहोर-नगरस्य मिशन् कॉलेज् इत्यस्मिन् आसिस्टन्-प्रोफेसर् इति पदम् अलमकरोत् । तेन बी.ए अभ्यासः तत्रैव समापितः आसीत् । अतः तत्रत्यैः सर्वैः सह तस्य परिचयः आसीत् । तस्य आगमनेन विद्यार्थिनः अपि बी.ए इत्यस्मिन् गणितम् एव चिन्वन्ति स्म । तीर्थरामः कॉलेज् पक्षतः यद्धनं प्राप्नोति स्म, ततः आवश्यकानि पुस्तकानि क्रीत्वा अवशिष्टं धनं भगत धन्नाराम इत्यस्मै, स्वपित्रे च ददाति स्म ।
विवाहः
तीर्थरामः बालकः आसीत्, तदा अस्माकं देशे बालविवाहस्य प्रथा चलति स्म । अतः तीर्थरामस्य द्वादशवर्षीये सति तस्य विवाहः अभवत् । तस्य परिणामेन सः विद्यार्थी अवस्थायामेव कुटुम्बस्य भारम् ऊढवान् ।
वेदान्तस्य अभ्यासः
सियालकोट-ग्रामस्य शालायां शिक्षकत्वेन नियुक्तः अभवत् । ततः तस्य वेदान्तस्य प्रखर-अभ्यासीत्वेन ख्यातिः अवर्धत । तदा धार्मिकविषयेषु व्याख्यानं प्रदातुं सः निमन्त्रणं प्राप्नोति स्म । तस्य भाषणानि श्रोतुं जनानां सम्मर्दः भवति स्म । जनाः त्रिचतुर्घण्टां यावत् शान्तिपूर्वकं भाषणं च श्रृण्वन्ति स्म । सः दीवाने हाफेझ, मनस्वी ए मौलाना, तुलसीदासस्य विनयपत्रिका, सूरदासस्य भजनानि, जयदेवस्य गीतगोविन्दम्, योगवाशिष्टं रामायणम्, भगवद् गीता, श्रीमतः शङ्कराचार्यस्य भाष्यम् इत्यादीनां स्वप्रियाणां पुस्तकानां गूढम् अध्ययनम् अकरोत् । ततः परं लाहोर-नगरे व्याख्यातृत्वेन अपि तस्य ख्यातिः अभवत् । तत्रापि व्याख्यानार्थं सः बहूनि निमन्त्रणानि प्राप्नोति स्म । तत्र दीनदयाल उपाध्याय, गोविन्दराम शास्त्री, पण्डित ज्वालाप्रसाद इत्यादिभि प्रसिद्धैः भाषणकारैः सह तस्य परिचयः अभवत् । तेषु अपि दीनदयाल इत्यस्य श्रद्धाभक्तिविषयस्य भाषणानां तीर्थरामस्य उपरि बहुप्रभावः अभवत् । इत्थं धर्मभक्तियुतस्य तीर्थरामस्य उपनिषदां, वेदान्तशास्त्रस्य च अध्ययनेन ईश्वरप्राप्तेः इच्छायाम् आधिक्यम् अभवत् । तदानीं द्वारकापीठस्य शङ्कराचार्यः श्रीमद् राजराजेश्वरः काश्मीरं गन्तुं निर्गतः आसीत् । सः कतिचित् दिनानि यावत् लाहोर-नगरे स्थितः । तीर्थरामः लाहोर-नगरस्य सनातनधर्मसभायाः मन्त्री आसीत् । अतः सः शङ्कराचार्यस्य सेवायाः अवसरं प्रापत् । शङ्कराचार्येण तस्य मनसः बह्वीनां शङ्कानां समाधानं कृतम् । ततः परं शालायाम् अवकाशे सः हिमालयस्य शान्तान् प्रदेशान् प्राप्य आराधनां करोति स्म ।
एकदा स्वामी विवेकानन्दः लाहोर-नगरम् आगतः आसीत् । तदा सनातनसभायाः पक्षतः तस्य भाषणस्य सर्वाः व्यवस्थाः तीर्थरामेण कृताः । विवेकानन्दः चारित्र्यवतः धार्मिकस्य तीर्थरामस्य दर्शनेन प्रसन्नः अभवत् । इत्थं सतां सङ्गेन, वेदान्तस्य अभ्यासेन च तस्य त्यागभावनायां वृद्धिः अभवत् ।
सन्यासः
१९०१ तमे वर्षे प्रो.तीर्थरामः लाहोर-नगरात् हिमालयं प्रति गतः । सः अलकनन्दाभागीरथीनद्य़ोः पवित्रं सङ्गमतटं प्राप्य चलितुं योग्यात् मार्गात् गङ्गोत्रीं प्रति गन्तुम् व्यचारयत् । तदर्थं यदा सः टिहरी समीपस्य कोटि-ग्रामे शाल्माली वृक्षस्य अधः अतिष्ठत्, तदा ग्रीष्मकालः प्रचलति स्म । तत्र ग्रीष्मकाले अपि शैत्यं भवति, अतः तत् स्थलं तस्मै अरोचत । तत्र मध्यरात्रौ प्रो.तीर्थरामस्य आत्मसाक्षात्कारः अभवत् । अतः तस्य मनसः संशयानां नाशः अभवत् । तदनन्तरं स्वात्मानं ईश्वरीय कार्याय समर्प्य सः प्रो.तीर्थरामात् संन्यासी रामतीर्थः अभवत् । शङ्कराचार्यस्य कथनानुसारं संन्यासी भूत्वा तेन केशानां त्यागः कृतः । तदनन्तरं स्वपत्नीं, मित्राणि च गृहं गच्छन्तु इति सः आदिशत् । अस्य संन्यासस्य विषये रामप्रसाद बिस्मिल् इत्यनेन 'मनकी लहर' इति पुस्तके "युवासंन्यासी" इति शीर्षकेण एकं काव्यं रचितम् > तस्य केचन अंशाः अत्र प्रकाश्यते-
वृद्धपिता माता की ममता, बनब्याही कन्या का भार । शिक्षाहीन सुतोकी ममता, पतिव्रता पत्नी का प्यार ।।
सन्मित्रो की प्रीती और, कॉलेजवालो का निर्मल प्रेम । त्याग सभी अनुराग कीया, उसने विराग मे योगक्षेम ।।
प्राणनाथ बालक सुत दुहिता, यूँ कहती प्यारी छोड़ी; । हाय! वत्स वृद्धा के धन, यूँ रोती महतारी छोडी ।।
चिर सहचरी रियाजी छोडी ,रम्यतटी रावी छोडी । शिखा-सूत्र के साथ हाय! उन बोली पञ्जाबी छोडी ।।
विदेशयात्रा
स्वामी रामतीर्थः बन्धनैः विमुक्तः अभवत् । अतः संन्यासित्वेन कठोरं तपः अकरोत् । एकदा सः प्रवासम् अकरोत्, प्रवासे टिहरी-मण्डलस्य कीर्तीशाह इति नाम्ना नरेशेण सह तस्य परिचयः अभवत् । सः पुरा नास्तिकः आसीत् । किन्तु स्वामी रामतीर्थस्य सम्पर्केण सः आस्तिकः अभवत् । कीर्तीशाह इति नाम्ना नरेशेण रामतीर्थस्य जापान-देशे विश्वधर्म संम्मेलने गन्तुं व्यवस्था कृता । रामतीर्थः जपान-देशात् अमेरिका-देशे मिस्र-देशे च अगच्छत् । अस्यां विदेशयात्रायां तेन भारतीयसंस्कृतेः प्रचारः कृतः । तेन कृतेषु प्रवचनेषु व्यवहारिकवेदान्त इति विषयोपरि सर्वत्र चर्चा भवति स्म । स्वामि रामतीर्थः विदेशे यत्र कुत्रापि तिष्ठति स्म तत्र जनाः तस्य यतित्वेन स्वागतं कुर्वन्ति स्म । तस्य आकर्षकेण व्यक्तित्वेन जनाः तं दृष्ट्वा आत्मनः चेतनायाः शान्तेः च अनुभवं कुर्वन्ति स्म । उभायोरपि देशयोः “भवन्तः सर्वे स्वदेशाय,ज्ञानाय च प्राणान् त्यक्तुं शक्नुवन्ति । तद् वेदान्तानुकूलम् अपि अस्ति । किन्तु भवन्तः यासां साधनानाम् उपरि विश्वसन्ति ताभिः इच्छायाम् आधिक्यम् एव भवति इच्छायाः पूर्तिः न भवति । यदि भवन्तः शास्वतिकीं शान्तिम् इच्छन्ति, तर्हि आत्मज्ञानम् एव आवश्यकम्” इति रामतीर्थेण उक्तम् । ततः परं तेन स्वात्मानं जानन्तु त्वं स्वयमेव ईश्वरोऽस्ति इति संन्देशः अपि प्रदत्तः ।
प्रत्यागमनम्
१९०४ तमे वर्षे भारतं प्राप्य रामतीर्थेन स्वस्य भिन्नं समाजं स्थापयितुं विचारितम् । मुम्बई-नगरस्य एकस्यां सभायाम् तेन “भारते यावन्तः समाजाः सन्ति ते मम एव सन्ति” इति उक्तम्, अहं मतैक्याय अस्मि मतभेदाय न इति उक्तम्, देशाय एकतायाः, सङ्घटनस्य, राष्ट्रधर्मस्य, विज्ञानसाधनायाः, संयमस्य, ब्रह्मचर्यस्य च आवश्यकता अस्ति इति च उक्तम् । ततः परं सः मुम्बई-नगरात् मथुरा-नगरं गतः।
क्रैस्त जनान् उपदेशः
एकदा रामतीर्थः मथुरा-नगरे स्वस्य अनुयायिभ्यः व्यायामं कारयन् आसीत् । तदा केचन हिन्दूधर्मं परित्यज्य क्रैस्तमतावलम्बिनः जनाः ततः निर्गताः । रामतीर्थः तान् आहूय “हिन्दुभिः भवतां कृते यत् न कृतं तत् क्रैस्त जनैः कृतम् अतः अहं प्रसन्नः अस्मि किन्तु हिन्द भवतां मातृभूमिः अस्ति तस्यै आदरो दीयताम् इति अवदत् ।
रामतीर्थस्य भ्रमणम्
रामतीर्थः एकान्तप्रियः आसीत् अतः अजमेरमथुरा-नगर्योः समीपस्थे स्थले पुष्करक्षेत्रे मासद्वयम् अतिष्ठत् । ग्रीष्मकालस्य आरम्भः अभवत् अतः रामतीर्थः पुष्कर-नगरात् निर्गच्छन् अल्वर्, जयपुर् आदि नगरेषु व्याख्यानानि प्रदाय दार्जिलिङ्ग् गत्वा ग्रीष्मकालपर्यन्तं तत्र स्थितः । ग्रीष्मकाले समाप्ते सति तेन पुनः भ्रमणम् आरब्धम् । भ्रमणे सः गाजीपुर, फैझाबाद, प्रयाग, मुरादाबाद आदि नगरेषु व्याख्यानानि दत्वा १९०५ तमस्य वर्षस्य अक्तूबर-मासे सः हरिद्वारं गतः ।
शेषं जीवनम्
हरद्वारं गत्वा रामतीर्थः रुग्णः अभवत् । तत्र तस्य सेवायां नारायण, योगानन्द, पूरणसिंह इत्याख्याः भक्ताः आसन् । रामतीर्थः मासान्ते निरोगी अभवत्, किन्तु अशक्तिः आसीत् । एकदा तस्य पूर्वाश्रमस्य पत्नी, माता, पुत्रः च तं मेलितुम् आगतौ । पूरणसिंह इत्ययम् एतत् रामतीर्थम् असूचयत् । रामतीर्थः शान्तिपूर्वकं विचारं कृत्वा यदि तव पार्श्वे धनम् अस्ति तर्हि तान् पञ्जाबराज्यस्य रेलयाने उपावेश्य आगच्छतु इति अवदत् । किन्तु पूरणसिंह इत्ययम् ते निर्धनावस्थयां भवन्तं मिलितु आगताः सन्ति अतः तेभ्यः दर्शनं ददातु इति प्रार्थयत् । अतः रामतीर्थः तान् अमिलत् । तत् तस्य कुटुम्बीजनैः सह अन्तिमं मेलनम् आसीत् । रामतीर्थः निरोगी अभवत्, अतः गाज़ीपुर-नगरं, मुज़फ्फर-नगरं च अगच्छत् । अन्ते नवम्बर-मासे हरिद्वारं गत्वा ततः सः ऋषिकेश-नगरस्य मार्गात् हिमालयं प्रति गमनम् अकरोत् । तत्र गत्वा सः वेदानां, उपनिषदां,वेदाङ्गानां, निरुक्तस्य, पाणिनिकृत अष्टाध्याय्याः, पातञ्जलमहाभाष्यस्य च अध्ययनं कर्तुं विचारं कृत्वा लाला बैजनाथ नामकाय भक्ताय पुस्तकानि प्रेषयितुम् असूचयत् । ततः परं रामतीर्थः हिमालयस्य पूर्वभागस्य अरण्ये तपः कर्तुम् ऐच्छत् । तपः कर्तुं सः ऋषिकेश-नगरात् ३० कि.मि दूरे व्यासचट्टी इति नामकं स्थलम् अस्ति । ततः ७ कि.मि दूरे व्यासाश्रमः इति नामकं स्थलम् अस्ति तत् अचिनोत् । तत्र रीमतीर्थेन लाला बैजनाथ नामकभक्तेन प्रेषितानाम् पुस्तकानाम् अध्ययनम् आरब्धम् । अध्ययनरतः सः तत्र एकवर्षम् अतिष्ठत् । १९०६ तमस्य ग्रीष्मान्ते सः टिहरीमण्डलं गतः । टिहरीमण्डलात् ४० कि.मि दूरे अरण्ये वशिष्ठाश्रमे सः ग्रीष्मकालं यापयितुम् व्यचारयत् । तत्र टिहरीमण्डलस्य राजा तस्य साहाय्यम् अकरोत् । तत्र तेन पुनः वेदाभ्यासः आरब्धः । वसिष्ठाश्रमस्य वातावरणं तस्मै अनुकूलं नाभवत् । तस्य शरीरं दूर्बलम् अभवत् सः रोगी च अभवत् । रोगे सति सः अन्नस्य त्यागं कृत्वा दुग्धम् एव पिबति स्म । इत्थं करणेन तस्य रोगः, अपहतः किन्तु शरीरस्य दुर्बलता न । वसिष्ठाश्रमे रामतीर्थस्य सेवायां नारायणाख्यः भक्तः आसीत् । समयान्तरे पूरणसिंहादयः भक्ताः तस्य दर्शनार्थं वसिष्ठाश्रमम् आगताः । तत्रत्यं वातावरणं तेभ्योऽपि अनुकूलं नाभवत् । अतः ते रामतीर्थम् अन्यत् स्थलं गन्तुम् प्रार्थयत् । रामतीर्थेन टिहरीमण्डलस्य निकटवर्तिनं स्थं गन्तुम् उक्तम् ।
जलसमाधिः
टिहरीमण्डलस्य निकटवर्तिने स्थले स्थातुम् इच्छा आसीत् । अतः रामतीर्थः नारायणख्येन भक्तेन सह टिहरी-मण्डले आगतः । ततः गङ्गोत्रीं प्रति ४ कि.मि दूरे मालिदेवल-नामकः ग्रामः अस्ति । रामतीर्थेन तत्र निवासं कर्तुं निश्चितम् । तत्र कुटिरनिर्माणं च कृतम् । कतिचित् दिनानि तत्र यापयित्वा रामतीर्थः नारायणम् अवदत् यत् इतः परम् आवां दूरं निवसावः चेत् वरम् । ततः परं नारायणं गङ्गातटस्य बमरोगी इति गुहायां निवासं कर्तुम् असूचयत् । नारायणः निवासार्थं बमरोगी इति गूहायां गतः तस्य पञ्चदिनान्ते रामतीर्थः रविवासरे तं मिलितुम् इच्छति इति लिखित्वा पत्रम् प्रैषयत् । किन्तु ततः प्राक् शनिवासरे एव रामतीर्थः गङ्गायां स्नानार्थं गतः। तत्र तस्य पादौ च अस्खलतम् । शरीरस्य दुर्बलतावशात् सः स्वात्मानं रक्षितुम् अशक्तः अभवत् । अन्ते ऑम्, ऑम्, ऑम्, इति अवदत् । किञ्चित् समयान्ते तस्य शरीरं गङ्गायां लुप्तम् अभवत् । नारायण इत्यनेन सह अन्य जनैः सप्तदिवसानां कठोरपरिश्रमान्ते रामतीर्थस्य शरीरम् पद्मासने समाधि-अवस्थायां प्राप्तम् । तत् बहिर्निष्कास्य एकस्यां पेटिकायां स्थापयित्वा गङ्गायै अर्पितम् । इत्थं १९०६ मस्य वर्षस्य अक्तूबर-मासस्य १७ तमे दिनाङ्के रामतीर्थः जलसमाधिं गतः ।
आधाराः
Bromley, David G; Larry D. Shinn (1989). Krishna Consciousness in the West. Bucknell University Press. ISBN 083875144X.
Brooks, Douglas Renfrew (2000). Meditation Revolution: A History and Theology of the Siddha Yoga Lineage. India: Motilal Banarsidass Publishing. ISBN 812081648X.
Frawley, David (2000). Vedantic Meditation: Lighting the Flame of Awareness. North Atlantic Books. ISBN 1556433344.
Khular, K. K. (November 1999). "Swami Ram Tirath:The Unfettered Thinker". India Government Ministry of External Affairs. Retrieved 2008-03-05.
Rinehart, Robin (1999). One Lifetime, Many Lives: The Experience of Modern Hindu Hagiography. United States: Oxford University Press. ISBN 0788505556.
Satyananda, Swami (2006). "Yogananda Sanga", from A Collection of Biographies of 4 Kriya Yoga Gurus. iUniverse, Inc.. ISBN 978-0595386758.
Singh, Puran (1924). The Story of Swami Rama: The Poet Monk of the Punjab. Madras: Ganesh & Co..
Sivananda, Swami (2005). "Swami Rama Tirtha (1873-1906)". Life of Saints. Divine Life Society. Retrieved 2008-07-29.
Yogananda, Paramahansa (1974). Cosmic Chants. Self-Realization Fellowship Publishers. ISBN 978-0876121313.