अथ कृत्
कृत्-वृत्तिः संस्कृतभाषायां विद्यमानासु पञ्चसु वृत्तिषु मुख्यतमा अस्ति । इयमेव भाषायाः प्रधानपदनिर्माणसामग्र्यपि (primary word generator) । कृत् प्रत्ययाः येषाम् अन्ते ते कृदन्ताः । सर्वैः धातुभिः सह प्रत्ययद्वयं युज्यते धातोः परे । तौ द्वौ तिङ् कृत् च । "कृदतिङ्" (३.१.९३) इति सूत्रानुगुण्यॆन 'कृत्' प्रत्ययाः 'तिङ्' प्रत्ययेभ्यः भिन्नाः । "कृत्तद्धितसमासाश्च" (१.२.४६) इत्यनेन सूत्रेण ज्ञायते कृदन्ताः प्रातिपदिकसंज्ञं स्वीकुर्वन्ति अपिच ततः नामपदानि भवन्ति इति ।
(इदम् अवधेयम् - अत्र कोष्टकस्थिताः सङ्ख्यास्सर्वाः अष्टाध्यायी सूत्रपाठसङ्ख्याक्रमयुक्ताः)
१०० अधिकाः कृत् प्रत्ययाः सन्ति । तेषु कृत्य, निष्टा, इत्यादिसंज्ञकाः कृदन्ताः प्रसिद्धाः । केचन कृत् प्रत्ययाः सूत्रोदाहरणसहिताः अधो दत्ता वर्तन्ते ।
कृत्य-प्रत्ययाः (future passive participles /gerundives) तव्यत्, तव्य, अनीयर्, यत्, क्यप्, ण्यत् इत्यादयः । तव्यत्तव्यानीयरः (३.१.९६), एवमेव यत् (३.१.९७), क्यप् (३.१.१०६, ३.१.१०९), ण्यत् (३.१.१२४) इत्यादीनि व्याकरणसूत्राणि ६ कृत्यप्रत्ययानां विधायकानि ।
कृत्यप्रत्ययानां विषये किन्चित् - कृत्याः वाक्येषु कर्म सूचकाः । कर्मणि कर्तृ-कर्म सम्बन्धद्योतकाः । अन्यत्र विशेषण-विशेष्य भावेsपि । रूपसिद्धौ 'य'कारयुक्ताः । त्रिषु लिङ्गेष्वपि इमे भवन्ति । भगवता वार्तिककारेण अस्मिन् कृत्य-प्रत्ययगणे 'एलिमर्' प्रत्ययः अपि योजितः ।
ण्वुल्तृचौ (३.१.१३३) ण्वुल्, तृच् । क्तक्तवतू निष्टा (१.१.२५) क्त, क्तवतु । शतृ, शानच् (३.२.१२४) । घञ् (३.३.१६) । एरच् (३.३.५६) । क्तिन् (३.३.९४) । युच् (३.३.१०७) । ल्युट् (३.३.११५) । तुमुन् (३.३.१५८) । क्त्वा (३.४.१८) / ल्यप् (२.४.३६) । कृत्यप्रत्ययैः सह् एतेsपि प्रसिद्धाः अन्ये कृत्प्रत्ययाः ॥ ।
इमानि एतेषाम् उदाहरणानि (कृ-धातोः कृदन्तप्रातिपदिकरूपाणि यत्र युज्यन्ते अन्यधातूनां रूपाणि वा) ।
तव्यत् - कर्तव्य ।
तव्य - कर्तव्य ।
अनीयर् - करणीय ।
यत् - (दा धातोः) - देय । ऋकारान्तं वर्जयित्वा अन्येषाम् अजन्तानां धातूनां अन्ते भावार्थे अयं कृत्प्रत्ययः भवति ।
ण्यत् - कार्य । ऋकारान्तानां हलन्तानाञ्च अन्ते भावार्थे अयं कृत्प्रत्ययः भवति ।
क्यप् - अयं 'क्यप्' प्रत्ययः केषाञ्चित् धातूनाम् 'ण्यत्' प्रत्ययं बाधित्वा भवति । एति (इण् गतौ) - इत्य, स्तु - स्तुत्य, शास् - शिष्य, वृ - वृत्य, दृ - आदृत्य, जुषि - जुष्य । एवम् क्वचित् रूपद्वयम् - शंसि - शस्य शंस्य, दुहि - दुह्य, दोह्य, गुहि - गुह्य, गोह्य ।
ण्वुल् - कारक ।
तृच् - कर्तृ ।
क्त - कृत ।
क्तवतु - कृतवत् ।
शतृ - कुर्वत् ।
शानच् - कुर्वाण ।
घञ् - कार ।
एरच् - (जी धातोः एरजन्ते) - जय । इकारान्तानाम् ईकारान्तानाञ्च धातूनां 'घञ्' प्रत्ययस्य स्थाने 'एरच्' प्रत्ययः भवति ।
क्तिन् - कृति ।
युच् - (गण् धातोः युजन्ते) - गणना । चुरादिगणीयानां धातूनां 'युच्' प्रत्ययः (अना अदेशः) क्तिन् स्थाने भवति ।
ल्युट् - करण । अयं प्रत्ययः प्रायः सर्वेषां धातूनां अन्ते भवति । अतः 'गणनम्' इति गण् धातोः ल्युडन्तरूपमपि साधु ।
तुमुन् - कर्तुम् ।
क्त्वा - कृत्वा ।
ल्यप् - अधिकृत्य (उपसर्गयोगे अयं 'ल्यप्' प्रत्ययः 'क्त्वा' प्रत्ययस्य स्थाने भवति) ।
इत्येवं सर्वधातुतः कृत्प्रत्यययोजनेन बहूनि कृदन्तपदानि निर्मातुं शक्यन्ते ॥