अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम् ।
अभक्ष्यम् मन्यते भक्ष्यम् स्त्रीवाक्यप्रेरितो नरः ॥१९॥

अकृत्वा परसन्तापं अगत्वा खलमन्दिरम् ।
साधोर्मार्गमनुत्सृज्य यत्स्वल्पमपि तद् बहु ॥२७॥

अग़ाधजलसञ्चारी गर्वम् नायाति रोहितः ।
अङ्गुष्टोदकमात्रेण शफरी फप्र्हरायते ॥१२॥

अग्रतः संस्कृतं मेऽस्तु पुरतो मेऽस्तु संस्कृतम् ।
संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ॥३७॥

अङ्गारा अञ्जलिस्था हि दाहयन्ति करद्वयम् ।
अहो दुर्मनसां वैरं वामदक्षिणयोः समम् ॥४५॥

अजरामरवत् प्राज्ञो विद्यामर्थञ्च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥२२॥

 

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥३२॥

 

अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वय.म् ।
अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥४४॥

अतिकुपिताऽपि सुजना योगेन मृदूभवन्ति न तु नीचाः ।
हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानाम् ॥४७॥

अतितीक्ष्णेन खड्गेन वरं जिंव्हा द्विधा कृता ।
न तु मानं परित्यज्य यच्छ यच्छेति भाषितम् ॥२४॥

अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् ।
शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम् ॥१८॥

अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति ।
मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥२१॥

अतिलोभात्कुबेरोऽपि दरिद्रो निश्चितं भवेत् ।
मितव्ययात् दरिद्रोऽपि निश्चितं धनवान् भवेत् ॥१६॥

अत्तुं वाञ्चति वाहनं गणपतेराखुं क्षुधार्तः फणी तं च क्रौंचपतेः शिखी च गिरिजासिंहोऽपि नागाननम् ।
गौरी जह्नुसुतामसूयति कलानाथं कपालानलः निर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम् ॥४९॥

अधनाद्हि निवर्तन्ते ज्ञातयः सुहृदो जनाः ।
अपुष्पादफलाद्वृक्षात् यथा सर्वे पतत्रिणः ॥४०॥

अधमा धनमिच्छन्ति धनं मानं च मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महताम् धनम् ॥९॥

अधिगत्य गुरोर्ज्ञानं छात्रेभ्यो वितरन्ति ये ।
विद्यावात्सल्यनिधयः शिक्षका मम दैवतम् ॥१॥

अनाचारेण मालिन्यम् अत्याचारेण मूर्खता ।
विचाराचारयोर्योगः स सदाचार उच्यते ॥३४॥

अनुदिनमनुतापेनास्म्यहं राम तप्तः परमकरुणमोहं छिन्धि मायासमेतम् ।
इदमतिचपलं मे मानसं दुर्निवारम् भवति च बहुखेदस्त्वां विना धाव शीघ्रम् ॥४६॥

अन्नदानं परं दानं विद्यादानमतः परम् ।
अन्नेन क्षणिका त्रुप्तिर्यावज्जीवं च विद्यया ॥१३॥

अन्नं वस्त्रं निवासश्च ज्ञानमारोग्यमेव च ।
विज्ञानं राष्ट्रनिष्ठा च सन्मार्गश्चाष्टमो मतः ॥१५॥

अपारे काव्यसंसारे कविरेकः प्रजापतिः ।
यथास्यै रोचते विश्वं तथा वै परिवर्तते ॥३९॥

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥१०॥

अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।
सदा लोकहिते युक्ता रत्नदीपा इवोत्तमाः ॥७॥

अब्धेः क्षारं जलं पीत्वा वर्षन्ति मधुरं भुविम् ।
परोपकारे निरताः कथं मेघा न सज्जनाः ॥६॥

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥५०॥

अभीप्सितार्थसिध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै श्रीगणाधिपतये नमः ॥३३॥

अम्बा यस्य उमादेवी जनको यस्य शङ्करः ।
विद्या ददाति सर्वेभ्यः स नः पातु गजाननः ॥५१॥

अयं निजः परो वेऽति गणना लघुचेतसाम् ॥ उदारचरितानां तु वसुधैव कुटुम्बकम् ॥२३॥

अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकारी च विद्या षड् जीवलोकस्य सुखानि राजन् ॥१७॥

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥३५॥

अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः ।
क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥३६॥

अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।
अधनस्य कुतो मित्रं अमित्रस्य कुतः सुखम् ॥३॥

अल्पकार्यकराः सन्ति ये नरा बहुभाषिणः ।
शरत्कालिनमेघास्ते नूनं गर्जन्ति केवलम् ॥१४॥

अविश्रामं वहेद्भारं शीतोष्णं न च विन्दति ।
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात् ॥२०॥

अव्याकरणमधीतं भिन्नद्रोण्यतरङ्गिणीतरणम् ।
भेशजमपथ्यसहितं त्रयमिदं कृतं न कृतम् ॥३०॥

अशनं मे वसनं मे जाया मे बन्धुवर्गो मे ।
इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजम् ॥२८॥

अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च ।
अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ॥११॥

अश्वस्य भूषणं वेगो मत्तं स्याद् गजभूषणम् ।
चातुर्यम् भूषणं नार्या उद्योगो नरभूषणम् ॥२॥

अष्टादशपुराणानां सारं व्यासेन कीर्तितम् ।
परोपकारः पुण्याय पापाय परपीडनम् ॥८॥

अष्टादशपुराणेषु व्यासस्य वचनद्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् ॥४॥

असितगिरिसमं स्यात् कज्जलं सिन्धु पात्रम् सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालम् तदपि तव गुणानामीश पारं न याति ॥३८॥

अस्थिरं जीवितं लोके अस्थिरे धनयौवने ।
अस्थिराः पुत्रदाराश्च धर्मः कीर्तिद्र्वयं स्थिरं ॥५२॥

अस्माकं बदरीचक्रं युष्माकं बदरीतरुः ।
बादरायणसम्बन्धात् यूयं यूयं वयं वयम् ॥४१॥

अस्यां सखे बधिरलोकनिवासभूमौ किं कूजितेन किल कोकिल कोमलेन ।
एते हि दैवहतकास्तदभिन्नवर्णम् त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥४८॥

अहञ्च त्वञ्च राजेन्द्र लोकनाथावुभावपि ।
बहुव्रीहिरहं राजन् षष्ठी तत्पुरुषो भवान् ॥२९॥

अहं नमामि वरदां ज्ञानदां त्वां सरस्वतीम् ।
प्रयच्छ विमलां बुद्धिं प्रसन्ना भव सर्वदा ॥५॥

अहम्पूरुषो भारतीयोऽस्मि नूनं न धैर्यङ्कदाचित्त्यजेयं विपत्सु ।
स्वकर्तव्यनिष्ठां न वा विस्मरेयं यतिष्ये स्वराष्त्रस्य कल्याणहेतोः ॥४२॥

अहम्भारती स्त्री स्वयं शक्तिरूपा मयि श्रीश्च दुर्गा तथा शारदा च ।
त्यजेयं कदाचिन्न शीलाभिमानम् विरोद्धुं तु सिद्धाहमन्याय्यरूहीः ॥४३॥

अहं स्वर्णं न मे दुःखमग्निदाहे न ताडने ।
एतत्तु मे महादुःखं गुञ्जया तोलयन्ति माम् ॥३१॥

अहो किमपि चित्राणि चरित्राणि महात्मनाम् ।
लक्ष्मीस्तृणाय मन्यन्ते तद्भरेण नमन्त्यपि ॥२६॥

अहो दुर्जनसंसर्गात् मानहानिः पदे पदे ।
पावको लोहसङ्गेन मुद्गरैरभिताड्यते ॥२५॥


आकाशात् पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रतिगच्छति ॥१॥

आचारः परमो धर्मः आचारः परमं तपः ।
आचारः परमं ज्ञानमाचारात् किं न साध्यते ॥३॥

आततायिनमायान्तमपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयात् न तेन ब्रह्महा भवेत् ॥१४॥

आत्मनः परितोषाय कवेः काव्यं तथापि तत् ।
स्वामिनो देहलीदीपसममन्योपकारकम् ॥८॥

आत्मनः मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास्तत्र न बध्यन्ते मौनं सर्वाथसाधनम् ॥९॥

आत्मपक्षं परित्यज्य परपक्षेषु यो रतः ।
स परैर्हन्यते मूढः नीलवर्णशृगालवत् ॥१२॥

आत्मार्थम् जीवलोके च को न जीवति मानवः ।
परं परोपकाराय यो जीवति स जीवति ॥२॥

आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः ।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥१०॥

आदौ देवकिदेवगर्भजननं गोपीगृहे वर्धनम् ।
मायापुतनजीवितापहरणं गोवर्धनोद्धारणम् ॥
कंसच्छेदनकौरवादिहननं कुन्तीतनूजावनम् ।
एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥१६॥

आदौ रामतपोवनाभिगमनं हत्वा मृगं काञ्चनम् ।
वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् ॥
वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनम् ।
पश्चाद्रावण कुम्भकर्णहननं एतद्हि रामायणम् ॥१५॥

आदौ श्रीभरताख्यभूपतिकुले भक्तोत्तमाः पाण्डवाः ।
तेषामन्धसुताः शतः कपटिका दुर्भ्रातरः कौरवाः ॥
बन्धुद्वेशकरं हि कौरवकुलं भेजे रणे दुर्गतिम् ।
गीता तारयति स्म कृष्णभजकान्नेतन्महाभारतम् ॥१७॥

आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति ।
विनये वंशपरीक्षा शीलपरीक्षा धनक्षये भवति ॥११॥

आपद्गतं हससि किं द्रविणान्ध मूढ ।
लक्ष्मीस्थिरा न भवतीति किमत्र चित्रम् ॥
एतान् प्रपश्यसि घटां जलयन्त्रचक्रे ।
रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः ॥६॥

आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते ।
नीयते स वृथा येन प्रमादः सुमहानहो ॥४॥

आशा नाम महुष्याणां काचिदाश्चर्यशृङ्खला ।
यया बद्धा प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥७॥

आशुशब्दस्य अन्तेन कलायाः प्रथमेन च ।
विहगो यो भवेत्तस्य वर्णम् शीघ्रं निवेदय ॥१३॥

आस्ते भग आसीनस्य ऊध्र्वस्तिष्ठति तिष्ठतः ।
शेते निपद्यमानस्य चराति चरतो भगः ॥५॥

इ-ई

इच्छेयेत् विपुलां मैत्रीं त्रीणि तत्र न कारयेत् ।
वाग्वादमर्थसम्बन्धं तस्याः स्त्रीपरिभाषणम् ॥१॥

ईक्षणं द्विगुणं प्रोक्तं भाषणस्येति वेधसा ।
अक्षिणि द्वे मनुष्याणां जिंव्हा त्वेकैव निर्मिता ॥२॥

उ-ऊ

उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥३॥

उत्तमो नातिवक्ता स्यात् अधमो बहु भाषते ।
न काञ्चने ध्वनिस्तादृक् यादृक् कांस्ये प्रजायते ॥४॥

उपकारोऽपि नीचानां अपकारो हि जायते ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥५॥

उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् ।
सोत्साहस्य च लोकेषु न किञ्चिदपि दुर्लभम् ॥६॥

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥७॥

उत्तमा आत्मनः ख्याताः पितुः ख्याताश्च मध्यमाः ।
अधमा मातुलात् ख्याताः श्वशुराच्चाधमाधमाः ॥८॥

उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् ।
विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ॥९॥

ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ।
चत्वारः सन्ति ते वेदाः मान्याः सर्वत्र पूजिताः ॥१९॥

ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च ।
पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न रक्षयेत् ॥२०॥

ए-ऐ

एक एव तपः कुर्यात् द्वौ स्वाध्यायपरौ हितौ ।
त्रयोऽधिका वा क्रीडायां प्रवासेऽपि च ते मताः ॥१०॥

एकः स्वादु न भुञ्जीत नैकः सप्तेषु जागृयात् ।
एको न गच्छेदध्वानं नैकश्चार्थान् विचिन्तयेत् ॥११॥

एकचक्रो रथो यन्ता विकलो विषमा हयाः ।
आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥१२॥

एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
वासितं तद्वनं सर्वम् सुपुत्रेण कुलं यथा ॥१३॥

एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे ।
नूनं न दृष्टं कविनापि तेन दारिद्र्यदोषो गुणराशिनाशी ॥१४॥

एते सत्पुरुषा परार्थघटकाः स्वार्थान् परित्यज्य ये ।
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ॥
तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥१५॥

एको ना विंशतिः स्त्रीणां स्नानार्थम् शरयूं गताः ।
विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः ॥१६॥

ऐक्यं बलं समाजस्य तदभावे स दुर्बलः ।
तस्मादैक्यं प्रशंसन्ति दृढं राष्ट्रहितैषिणः ॥१७॥

कथं गुरूनहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥३६॥

कन्या वरयते रूपं माता वित्तं पिता श्रुतं ।
बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥१५॥

कमलासनकमलेक्षणकमलारिकिरीटकमलभृद्वाहैः ।
नुतपदकमला कमला स्तुतपदकमला करोतु मे कमलम् ॥३९॥

कमले कमला शेते हरः शेते हिमालये ।
क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया ॥९॥

कमले कमलोत्पत्तिः श्रूयते न तु दृष्यते ।
बाले तव मुखाम्भोजे कथमिन्दीवरद्वयम् ॥३५॥

कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥२८॥

करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥१६॥

करोति शोभामलके स्त्रियाः को ।
दृष्या न कान्ता विधिना च कोक्ता । ।
अङ्गे तु कस्मिन् दहनं पुरारेः ।

सिन्दूरबिन्दुः विधवाललाटे ॥४०॥

करोति स्वमुखेनैव बहुधान्यस्य खण्डनम् ।
नमः पतनशीलाय मुसलाय खलाय च ॥३१॥

कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् ।
तिष्ठति प्रकृताचारे स वै आर्य इति स्मृतः ॥४६॥

कल्पद्रुमः कल्पितमेव सूते ।
सा कामधुक् कामितमेव दोग्धि ॥
चिन्तामणिश्चिन्तितमेव दत्ते ।
सतां तु सङ्गः सकलं प्रसूते ॥३०॥

कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः ।
मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥३३॥

कविः करोति काव्यानि रसं जानाति पण्डितः ।
तरुः सृजति पुष्पाणि मरुद्वहति सौरभम् ॥११॥

कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ।
वामदेवो वसिष्ठश्च मुनयः सप्त विश्रुताः ॥५॥

कं सञ्जधान कृष्णः का शीतलवाहिनी गङ्गा ।
के दारपोषणरताः कं बलवन्तं न बाधते शीतम् ॥१९॥

कस्तूरी जायते कस्मात् को हन्ति करिणां शतम् ।
किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायते ॥१४॥

कस्यचित् किमपि नो हरणीयम् ।
मर्मवाक्यमपि नोच्चरणीयम् ।
श्रीपतेः पदयुगं स्मरणीयम् ।
लीलया भवजलं तरणीयम् ॥२३॥

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥३॥

काकः पद्मवने रतिं न कुरुते हंसो न कूपोदके ।
मूर्खः पण्डितसङ्गमे न रमते दासो न सिंहासने ।
दुष्टः सज्जनसङ्गमं न सहते नीचं जनं सेवते ।
या यस्य प्रकृतिः स्वभावनियता केनापि न त्यज्यते ॥७॥

काके शौचं द्यूतकारे च सत्यम् ।
सर्पे शान्तिः स्त्रीषु कामोपशान्तिः ॥
क्लीबे धैर्यम् मद्यपे तत्त्वचिन्ता ।
भूपे सख्यं केन दृष्टं श्रुतं वा ॥३४॥

काचं मणिं काञ्चनमेकसूत्रे ।
मुग्धा निबध्नन्ति किमत्र चित्रम् ।
विचारवान् पाणिनिरेकसूत्रे ।
श्वानं युवानं मघवानमाह ॥२६॥

का पाण्डुपत्नी गृहभूषणं किम् ।
को रामशत्रुः किमगस्तिजन्म ॥
को सूर्यपुत्रो विपरीतपृच्छा ।
कुन्ती सुतो रावणकुम्भकर्णः ॥१३॥

कार्या च महदाकाङ्क्षा क्षुद्राकाङ्क्षा कदापि न ।
यथाकाङ्क्षा तथा सिद्धिर्निरीहो नाश्नुते महत् ॥१२॥

कार्याथीर् भजते लोकः यावत्कार्यम् न सिध्यति ।
उत्तीर्णे च परे पारे नौकाया किं प्रयोजनम् ॥२॥

कालो वा कारणं राज्ञः राजा वा कालकारणं ।
इति ते संशयो मा भूत् राजा कालस्य कारणम् ॥३७॥

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥४५॥

काव्येषु नाटकं रम्यं तत्र रम्यं शकुन्तला ।
तत्रापि च चतूर्थोऽङ्को तत्र श्लोकचतुष्टयम् ॥२१॥

किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥३८॥

किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् ।
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथा स्मृतम् ॥३२॥

किमप्यस्तु स्वभावेन सुन्दरं वाप्यसुन्दरम् ।
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥२२॥

किं वाससेति तत्र विचारणीयम्

वासः प्रधानं खलु योग्यतायै ।
पीताम्बरं वीक्ष्य ददौ स्वकन्यां

दिगम्बरं वीक्ष्य विषं समुद्रः ॥४२॥

किसलयानि कुतः कुसुमानि वा ।
क्व च फलानि तथा नववीरुधाम् ॥
अयमकारणकारुणिको न चेत् ।
वितरतीह पयांसि पयोधरः ॥२९॥

कुलीनता सदाराध्या सुप्रतिष्ठां यदीच्छसि ।
आत्मवैभवलाभार्थम् गुणवान् शीलवान् भव ॥१०॥

कुलीनैः सह सम्पर्कं सज्जनैः सह मित्रतां ।
ज्ञातिभिश्च सह मेलं कुर्वाणो न विनश्यति ॥४४॥

केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः ।
केचित् ज्ञानावलोकेन केचिद्दुष्टैस्तु नाषिताः ॥२५॥

केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः

न स्नानं न विलोपनं न कुसुमं नालङ्कृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या संस्कृतार्धायते

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥४३॥

के शवं पतितं दृष्ट्वा पाण्डवा हर्शनिर्भराः ।
रुदन्ति कौरवाः सर्वे भो भो के शव के शव ॥१७॥

कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुविद्यानां कः परः प्रियवादिनम् ॥२४॥

को न याति वशं लोके मुखे पिण्डेन पूरितः ।
मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥६॥

कौशिकेन स किल क्षितीश्वरः राममध्वरविघातशान्तये ।
काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥२७॥

क्वचित् काणो भवेत्साधुः क्वचित् गानी पतिव्रता ।
विरलदन्तो क्वचिन्मूर्खो खल्वाटो निर्धनः क्वचित् ॥२०॥

क्वचित् दुष्टः क्वचित् तुष्टः ।
दुष्टस्तुष्टः क्वचित् क्वचित् ॥
अव्यवस्थितचित्तानां ।
प्रसादोऽपि भयङ्करः ॥१८॥

क्षमा बलमशक्तानां शाक्तानां भूषणं क्षमा ।
क्षमा वशीकृते लोके क्षमया किं न सिध्यति ॥१॥

क्षमा शस्त्रं करे यस्य दुर्जनः किं करिष्यति ।
अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥८॥

क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशाम् ।
आपन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि ॥
मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः ।
किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥४१॥

क्षुद्रो हि समये प्राप्ते बलिष्ठमपि रक्षति ।
प्राज्ञा यूयं विजानीत मा मा निन्दत कञ्चन ॥४॥

खद्योतो द्योतते तावत् यावत् न उद्यते शशिः ।
उदिते तु सह्स्रांशे न खद्योतो न चन्द्रमाः ॥३॥

खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननोऽहरत् सीतां बन्धनं तु महोदधेः ॥१॥

खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा ।
श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वाञ्छति ॥
अज्ञान् ज्ञानवतोऽप्यनेन हि वशीकर्तुं समर्थो भवेत् ।
कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः सङ्ग्रहः ॥२॥

गच्छन् गगग्नमागेर्ण नित्यं लोकान् प्रकाशयन् ।
वर्धयन् चेतनान् सर्वान् प्रदीपो राजते रविः ॥४॥

गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः ।
यतन्ते धान्यलाभाय तैः साकं हि वसाम्यहम् ॥६॥

गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् ।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥५॥

गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः ।
नीचो वदति न कुरुते वदति न साधुः करोत्येव ॥११॥

गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम् ।
दैवादिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः ॥१०॥

गर्वाय परपीडायै दुर्जनस्य धनं बलम् ।
सज्जनस्य तु दानाय रक्षणाय च ते सदा ॥१८॥

गवीशपत्रो नगजापहारी कुमारतातः शशिखण्डमौलिः ।
लङ्केशसम्पूजितपादपद्मः पायादनादिः परमेश्वरो नः ॥१७॥

गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः ।
राजहंस तव सैव शुक्लता चीयते न च न चापचीयते ॥१३॥

गुणाः कुर्वन्ति दूतत्त्वं दूरेऽपि वसतां सताम् ।
केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥९॥

गुणैरुत्तुङ्गता याति नोत्तुङ्गेनासनेन वै ।
प्रासादशिखरस्थोऽपि काको न गरुडायते ॥८॥

गुणेष्वनादरं भ्रातः पूर्णश्रीरपि मा कृथाः ।
सम्पूर्णोऽपि घटः कूपे गुणछेदात्पतत्यधः ॥१५॥

गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषाम् ।
गुरुः पिता च माता च सर्वेषां न्यायवर्तिनाम् ॥७॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥१४॥

गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।
अथ वा विद्यया विद्या चतूर्थो नोपलभ्यते ॥१२॥

गौरवं प्राप्यते दानान्नतु वित्तस्य सञ्चयात् ।
स्थितिरुच्चैः पयोदानां पयोधीनामधस्थितिः ॥१६॥

घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् ।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥१९॥

घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम् ।
छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् ॥
दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णम्
प्राणान्तेऽपि हि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥२०॥

चतुरः सखि मे भर्ता यल्लिखति तद परो न वाचयति ।
तस्मादप्यधिकं मे स्वयमपि लिखितं स्वयं न वाचयति ॥३॥

चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः ।
चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ॥१॥

चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः ।
नासमीक्ष्यापरं स्थानं पूर्वमायातनं त्यजेत् ॥५॥

चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या ।
इह हि भविष्यति भवतो नयनयुगादेव वारिणं पूरः ॥९॥

चिता चिन्ता समाप्रोक्ता बिन्दुमात्रं विशेषता ।
सजीवं दहते चिन्ता निर्जीवं दहते चिता ॥८॥

चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः ।
नाहं गतो न मे भ्राता कस्येतद् हस्तलाघवम् ॥२॥

चित्ते प्रसन्ने भुवनं प्रसन्नं चित्ते विषण्णे भुवनं विषण्णम् ।
अतोऽभिलाषो यदि ते सुखे स्याच्चित्तप्रसादे प्रथमं यतस्व ॥४॥

चित्ते भ्रान्तिर्जायते मद्यपानात् भ्रान्ते चित्ते पापचर्यामुपैति ।
पापं कृत्वा दुर्गतिं याति मूढास्तस्मान्मद्यं नैव पेयं न पेयम् ॥७॥

चिन्तनीया हि विपदामादावेव प्रतिक्रिया ।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ॥६॥

छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥१०॥

जन्मदाता अन्नदाता विद्यादाता तथैव च ।
कन्यादाता भयत्राता पञ्चैते पितरः स्मृताः ॥१५॥

जनैर्जनहितार्थाय जनानामेव निर्मितं ।
लोकतन्त्रं भारतस्य वसुधायां विराजते ॥१२॥

जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः ।
इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः ॥११॥

जीविते यस्य जीवन्ति लोके मित्राणि बान्धवाः ।
सफलं जीवितं तस्य को न स्वार्थाय जीवति ॥१३॥

ज्येष्ठत्वं जन्मना नैव गुणैर्ज्येष्ठत्वमुच्यते ।
गुणात् गुरुत्वमायाति दुग्धं दधि घृतं क्रमात् ॥१४॥

तदेवास्यं परं मित्रं यत्र सङ्क्रमति द्वयं ।
दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥२॥

ताडिताः पीडिता ये स्युस्तान्ममेत्यभ्युदीरयेत् ।
स साधुरवगन्तव्यस्तत्र द्रष्टव्य ईश्वरः ॥७॥

तातेन कथितं पुत्र पत्रं लिख ममाज्ञया ।
नतेन लिखितं पत्रं पितुराज्ञा म लङ्घिता ॥४॥

तिलवत्स्निग्धं मनोऽस्तु वाण्यां गुडवन्माधुर्यम्

तिलगुडलड्डुकवत् सम्बन्धे अस्तु सुवृत्तत्वम् ।
अस्तु विचारे शुभसङ्क्रमणं मङ्गलाय यशसे

कल्याणी सङ्क्रान्तिरस्तु वः सदाहमाशंसे ॥१०॥

तुष्टोऽपि राजा यदि सेवकेभ्यः भाग्यात्परं नैव ददाति किञ्चित् ।
अहर्निशं वर्षति वारिवाहास्तथापि पत्रत्रितयः पलाशः ॥९॥

तृणं खादिति केदारे जलं पिबति पल्वले ।
दुग्धं यच्छति लोकेभ्यो धेनुर्नो जननी प्रिया ॥१॥

तृणादपि लघुस्तूलं तूलादपि च याचकः ।
वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥८॥

ते यान्ति तीर्थेषु बुधाः ये शम्भोदूर्रवर्तिनः ।
यस्य गौरीश्वरश्चित्ते तीर्थं भोज परं हि सः ॥५॥

त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च ।
तमर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके मनुषस्य बन्धुः ॥६॥

त्याग एक गुणः श्लाघ्यः किमन्यैर्गुणराषिभिः ।
त्यागाज्जगति पूज्यन्ते पशुपाषाणपादपाः ॥३॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥३॥

ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥२२॥

दधि मधुरं मधु मधुरं द्राक्षा मधुरा सुधापि मधुरैव ।
तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् ॥१॥

दरिद्रता धीरतया विराजते कुरूपता शीलगुणेन राजते ।
कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते ॥५॥

दर्शने स्पर्शणे वापि श्रवणे भाषणेऽपि वा ।
यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते ॥२१॥

दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्तव्यः ।
पश्येह मधुकरीणां सञ्चितार्थम् हरन्त्यन्ये ॥८॥

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥२०॥

दाता क्षमी गुणग्राही स्वामी दुःखेन लभ्यते ।
शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः ॥९॥

दातुर्याचकयोर्भेदः कराभ्यामेव दर्शितः ।
एकस्य गच्छतोऽधस्तादुपर्यन्यस्य तिष्ठताम् ॥२४॥

दानेन तुल्यं सुहृदास्ति नान्यो लोभाच्च नान्योऽस्ति रिपुः पृथिव्याम् ।
विभूषणं शीलसमं न चान्यत् सन्तोषतुल्यं धनमस्ति नान्यत् ॥४॥

दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भ्वति ॥१६॥

दारिद्र्यान्मरणाद्वा मरणं मे रोचते न दारिद्र्यं ।
अल्पक्लेशं मरणं दारिद्र्यं त्वनन्तकं दुःखम् ॥२३॥

दिवसेनैव तत्कुर्याद् येन रात्रौ सुखं वसेत् ।
पूर्वे वयसि तत्कुर्याद् येन वृद्धः सुखी भवेत् ॥१८॥

दुन्दुभिस्तु नितरामचेतनस्तन्मुखादपि धनं धनं धनम् ।
इत्थमेव निनादः प्रवर्तते किं पुनर्यदि भवेत्सचेतनः ॥१२॥

दुर्जनदूषितमनसां पुंसाम् सुजनेऽपि नास्ति विश्वासः ।
दुग्धेन दग्धवदनस्तक्रं फूत्कृत्य पामरः पिबति ॥१०॥

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥१७॥

दुर्जनः प्रियवादीति नैतद्विश्वासकारणम् ।
मधु तिष्ठति जिव्हाग्रे हृदये तु हलाहलम् ॥६॥

दुर्जनेन समं वैरं प्रीतिं चापि न कारयेत् ।
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥७॥

दुर्जनैः सह वासो हि ध्रुवं नाशाय कल्पते ।
काकस्य सहवासेन हंसो नष्टो वृथा पुरा ॥१३॥

देशाटनं राजसभाप्रवेशो व्यापारिविद्वज्जनसङ्गतिश्च ।
सर्वेषु शास्त्रेष्ववलोकनं च चातुर्यमूलानि भवन्ति पञ्च ॥१९॥

दैवमवेति संचिन्त्य स्वोद्योगं न नरस्त्यजेत् ।
अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥११॥

द्राक्षा म्लानमुखी जाता शर्करा चाश्मताङ्गता ।
सुभाशितरसस्याग्रे सुधा भीता दिवङ्गता ॥२॥

द्वन्द्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययी भावः ।
तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥१५॥

द्वाविमौ पुरुषौ लोके सुर्यमण्दलभेदिनौ ।
परिव्राट् योगयुक्तश्च रणस्याभिमुखे हतः ॥१४॥

धनमलब्धं काङ्क्षेत लब्धं रक्षेदवेक्षणात् ।
रक्षितं वर्धयेत् सम्यक् वृद्धं तीर्थेषु निक्षिपेत् ॥२५॥

धवलयति समग्रं चन्द्रमा जीवलोकं किमिति निजकलङ्कं नात्मसंस्थं प्रमार्ष्टि ।
भवति विदितमेतद् प्रायशः सज्जनानां परहितनिरतानामादरो नात्मकार्ये ॥२६॥

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥२७॥

न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचित् रिपुः ।
कारणेनैव जायन्ते मित्राणि रिपवोऽपि वा ॥६॥

नक्रः स्वस्थानमासाद्य राजेन्द्रमपि कर्षति ।
स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥१६॥

नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः ।
पृथिवीभूषणं राजा विद्या सर्वस्य भूषणं ॥४२॥

न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।
गृहं तु गृहिणीहीनं कान्तारादतिरिच्यति ॥२१॥

न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि ।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥१३॥

न तेन स्थविरो भवति येनास्य पलितं शिरः ।
स वै युवाप्यधीयानो देवास्तं स्थविरं विदुः ॥३८॥

न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः ।
भूयोपि सिक्तः पयसा घृतेन न निम्बवृक्षः मधुरत्वमेति ॥१४॥

न देवो विद्यते काष्ठे न पाषाणे न मृन्मये ।
भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥२२॥

न धैर्येण विना लक्ष्मीर्न शौर्येण विना जयः ।
न ज्ञानेन विना मोक्षो न दानेन विना यशः ॥१॥

न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते सन्तुलयन्ति तत्त्वम् ।
तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम्॥३०॥

न भीतो मरणादस्मि केवलं दूषितं यशः ।
विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमं किल ॥२५॥

न भूतपूर्वम् न कदापि वार्ता हेम्नः कुरङ्गो न कदापि दृष्टः ।
तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥८॥

न भूप्रदानं न सुवर्णदानं न गोप्रदानं न तथान्नदानम् ।
यथा वदन्तीह महाप्रदानं सर्वेषु दानेष्वभयप्रदानम् ॥२९॥

नमन्ति फलिता वृक्षा नमन्ति च बुधा जनाः ।
शुष्ककाष्ठानि मूर्खाश्च भिद्यन्ते न नमन्ति च ॥१५॥

नमस्ते शारदे देवी काश्मीरपुरवासिनि ।
त्वामहं प्रार्थये देवि विद्यादानं च देहि मे ॥ १७॥

नमस्ते शारदे देवी वीणा पुस्तकधारिणि ।
विद्यारम्भं करिष्यामि प्रसन्ना भव सर्वदा ॥१२॥

नमस्ते सर्वदेवानां वरदासि हरेः प्रिया ।
या गतिस्त्वत्प्रसन्नानां सा मे स्यात्तव दर्शनात् ॥१०॥

नमो दीपशिखे तुभ्यमन्धकारं निरस्यसि ।
प्रयच्छसि धनं स्वास्थ्यं कल्याणाय च जायसे ॥२६॥

नरनारीसमुत्पन्ना सा स्त्री देहविवर्जिता ।
अमुखी कुरुते शब्दं जातमात्रा विनश्यति ॥२०॥

नरपतिहितकर्ता द्वेष्यतां याति लोके

जनपदहितकर्ता त्यज्यते पार्थिवेन ।
इति महति विरोधे विद्यमाने समाने

नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥३३॥

नरस्याभरणं रूपं रूपस्याभरणं गुणः ।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥५॥

नरो हि मलिनैर्वस्त्रैः यत्र क्वापि निषीदति ।
तथा चलितशीलस्तु शेषं शीलं न रक्षति ॥४॥

नवं पुरातनं वापि लेखं पश्यन्ति पण्डिताः ।
सारमासाद्य तुष्यन्ति निःसारं च त्यजन्ति ते ॥११॥

न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो ।
मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥२८॥

न विद्यया नैव कुलेन गौरवं जनानुरागो धनिकेषु सर्वदा ।
कपालिना मौलिधृतापि जाह्नवी प्रयाति रत्नाकरमेव सर्वदा ॥२३॥

न व्याधिर्न विषं नापत्तथा नाधिश्च भूतले ।
खेदाय स्वशरीरस्थं मौख्र्यमेकं यथा नृणाम् ॥३७॥

न हि कश्चित् विजानाति किं कस्य श्वो भविश्यति ।
अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥३॥

न हि ज्ञानसमं लोके पवित्रं चान्यसाधनं ।
विज्ञानं सर्वलोकानामुत्कर्षाय स्मृतं खलु ॥१९॥

न हि प्राणात् प्रियतरं लोके किञ्चन विद्यते ।
तस्मात् दयां नरः कुर्यात् यथात्मनि तथा परे ॥९॥

नागो भाति मदेन कं जलरुहैर्नित्योत्सवैर्मन्दिरं

शीलेनैव नरो जवेन तुरगः पूर्णेन्दुना शर्वरी ।
वाणी व्याकरणेन हंसमिथुनैर्वापी सभा पण्दितैः

सत्पुत्रेण कुलो बुधेन वसुधा कीत्र्या च लोकत्रयम् ॥७॥

नानाधर्मनिगूढतत्त्वनिचिता यत्संस्कृती राजते

सेयं भारतभूर्नितान्तरुचिरा मातैव नः सर्वदा ।
तस्या उन्नतिहेतवे हि भवतां ज्ञानं तथा मे बलम्

सम्पन्ना बलशालिनी विजयताम् मे मातृभूः सर्वदा ॥३२॥

नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥२७॥

नमः सर्वविदे तस्मै व्यासाय कविवेधसे ।
चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥४४॥

नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥४३॥

नायं प्रयाति विकृतिं विरसो न यः स्यात्

न क्षीयते बहुजनैर्नितरां निपीतः ।
जाड्यं निहन्ति रुचिमेति करोति तृप्तिं

नूनं सुभाशितरसोऽन्यरसातिशायी ॥३४॥

नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः ।
अन्ये बदरिकाकारा बहिरेव मनोहराः ॥२॥

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु

लक्ष्मीः स्थिरा भवतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा

न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥२४॥

निर्गुणेश्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥३९॥

नृपस्य वर्णाश्रमपालनं यत्स एव धर्मो मनुना प्रणीतः

निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया ।
तथेति तस्या प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते

सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः ॥४१॥

निवृत्तो यस्तु मद्येभ्यः जितात्मा बुद्धिपूर्वकः ।
विकारैः स्पृश्यते जातु न स शारीरमानसैः ॥३५॥

निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपः

लक्षेशः क्षितिपालतां क्षितिपतिः चक्रेशतां वाञ्छति ।
चक्रेषः पुनरिन्द्रतां सुरपतिः ब्राह्मं पदं वाञ्छति

ब्रह्मा शैवपदं शिवो हरिपदं चाशावधिं को गतः ॥३६॥

नृत्यं मयूराः कुसुमानि वृक्षाः दर्भानुपात्तान्विजहुर्हरिण्यः ।
तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ॥४०॥

निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषमस्तु न चाप्यस्तु फटाटोपो भयङ्करः ॥१८॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
नचैनं क्लेदयत्यापो न शोषयति मारुतः ॥३१॥

पक्षिणां बलमाकाशो मत्स्यानामुदकं बलम् ।
दुर्बलस्य बलं राजा बालानां रोदनं बलम् ॥८॥

पङ्गो धन्यस्त्वमसि न गृहं यासि योऽर्थी परेषाम्

धन्योऽन्ध त्वं धनमवदतां नेक्षसे यन्मुखानि ।
श्लाघ्यो मूक त्वमसि कृपणं स्तौषि नार्थाशया यः

स्तोतव्यस्त्वं बधिर गिरं यः खलानां न शृणोसि ॥२१॥

पञ्चैते देवतरवः मन्दारः पारिजातकः ।
सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥२४॥

पराधिकारचर्चाम् यः कुर्यात् स्वामिहितेच्छया ।
स निषीदति चीत्कारात् गर्दभस्ताडितो यथा ॥२०॥

परान्नं प्राप्य दुर्बुद्धे मा प्राणेषु दयां कुरु ।
दुर्लभानि परान्नानि प्राणा जन्मनि जन्मनि ॥१२॥

परित्राणाय साधूनां विनाशाय च दुश्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥१॥

परिश्रमो मिताहारः भेषजे सुलभे मम

नित्यं ते सेवमानस्य व्याधिर्भ्यो नास्ति मे भयम् ।
धनिकस्तु तदाकण्र्य स्वायत्तं भेषजद्वयं

सेवनीयं तदेवेति निश्चित्य गृहमागतः ॥१८॥

परोपकारकरणं नूनं हस्तस्य भूषणम् ।
पूज्येषु च नमस्कारः उत्तराङ्गस्य भूषणम् ॥२॥

परोपकारशून्यस्य धिङ् मनुष्यस्य जीवनम् ।
यावन्तः पशवस्तेशां चर्माप्युपकरोति हि ॥७॥

परोपदेशे पाण्दित्यं सर्वेषां सुकरं नृणाम् ।
विस्मरन्तीह शिष्टत्त्वं स्वकार्ये समुपस्थिते ॥१०॥

पलाशमुकुलभ्रान्त्या शुकतुण्डे पतत्यलिः ।
सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥२९॥

पश्चाद्बर्हं वहति विपुलं चित्रितं दीप्तिमन्तम्

काले काले व्यजनमिव तं विस्तृतं यः करोति ।
शीर्षे कान्तं वहति तरलं पिच्छकानां कलापं

कोऽयं पक्षी रुचिरवदनो नर्तने च प्रवीणः ॥२८॥

पादपानां भयं वातात् पद्मानां शिशिराद्भयम् ।
पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम् ॥४॥

पानीयं पातुमिच्छामि त्वत्तः कमललोचने ।
यदि दास्यसि नेच्छामि न दास्यसि पिबाम्यहम् ॥१3॥

पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम्

नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् ।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा

भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥३१॥

पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्

व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् ।
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं

अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ॥३२॥

पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः ।
जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे ॥३७॥

पिनाकफणिबालेन्दुभस्ममन्दाकिनीयुता ।
पवर्गरचिता मूर्तिरपवर्गप्रदास्तु नः ॥३६॥

पिपीलिकार्जितं धान्यं मक्षिकासञ्चितं मधु ।
लुब्धेन सञ्चितं द्रव्यं समूलं हि विनश्यति ॥९॥

पिबन्ति नद्यः स्वयमेव नाम्भः

स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति स्वस्यं खलु वारिवाहाः

परोपकाराय सतां विभूतयः ॥६॥

पुनर्वित्तं पुनर्मित्रं पुनर्भाया पुनर्मही ।
एतत् सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥३४॥

पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः ।
अद्यापि तत्तुल्य कवेरभावात् अनामिका सार्थवती बभूव ॥३०॥

पुस्तकस्था तु या विद्या परहस्तगतं धनं ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥१७॥

पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ ।
न शोभते सभामध्ये हंसमध्ये बको यथा ॥१६॥

पुष्पेऽस्ति गन्धो मधुरो नारिकेले जलं तथा ।
परमेशस्य सा लीला यतः स सर्वशक्तिमान् ॥२२॥

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितं ।
मूढैः पाषाणखण्डेषु रत्नं संज्ञा विधीयते ॥११॥

पोषयन्ति पयो दत्त्वा यथा वत्सान् तथा जनान् ।
नित्यं समानया प्रीत्या धेनवो मातरो नृणाम् ॥३॥

प्रथमवयसि पीतं तोयमल्पं स्मरन्तः

शिरसि निहितभारा नारिकेला नराणाम् ।
ददति जलमनल्पास्वादमाजीवितान्तं

न हि कृतमुपकारं साधवो विस्मरन्ति ॥२७॥

प्रथमे नार्जिता विद्या द्वीतीये नार्जितं धनं ।
तृतीये नार्जितं पुण्यं चतूर्थे किं करिष्यति ॥५॥

प्रमदा मदिरा लक्ष्मीः विज्ञेया त्रिविधा सुरा ।
दृष्ट्वैवोन्मादयत्येका पीता चान्यातिसञ्चयात् ॥३३॥

प्रलये पवनाघातैः प्रचलन्ति नगा अपि ।
कृच्छेऽपि न चलत्येव धीराणां निश्चला मतिः ॥१५॥

प्राणनाशेऽपि कुर्वीत परेषां मानवो हितम् ।
दिशः सुगन्धयत्येव वह्नौ क्षिप्तोऽपि चन्दनः ॥१९॥

प्राणभूतञ्च यत्तत्त्वं सारभूतं तथैव च ।
संस्कृतौ भारतस्यास्य तन्मे यच्छतु संस्कृतम् ॥२५॥

प्राणां त्यजति देशार्थम् पण्दितानां सहायकः ।
य आचरति कल्याणं लोके मानं स विन्दति ॥२६॥

प्रारभ्यते न खलु विघ्नभयेन नीचैः

प्राभ्य विघ्नविहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः

प्रारब्धमुत्तमजना न परित्यजन्ति ॥१४॥

प्रारम्भगुर्वी क्षयिणी क्रमेन

गुर्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना

छायेव मैत्रिः खलसज्जनानाम् ॥२३॥

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात् तदेव वक्तव्यं वचने किं दरिद्रता ॥३५॥

फणिनो बहवः सन्ति भेकभक्षणतत्पराः ।
एक एव हि शेषोऽयं धरणीधरणक्षमः ॥१॥

फलं स्वेच्छालभ्यं प्रतिदिनमखेदं क्षितिरुहां

पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरितां ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी

सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥२॥

बहुभिर्न विरोद्धव्यं दुर्जनैः सज्जनैरपि ।
स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥४॥

बालस्यापि रवेः पादाः पतन्त्युपरि भूभृतां ।
तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥५॥

बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥३॥

बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ।
आख्याहि भद्रे प्रियदर्शनस्य न गंगदत्तः पुनरेति कूपं ॥६॥

ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां

स्वल्पं जल्प बृहस्पते जडमते, नैषा सभा वज्रिणः ।
वीणां संहर नारद स्तुतिकथालापैरलं तुम्बुरो

सीतारल्लकभल्लभग्नहृदयः स्वस्थो न लंकेश्वरः ॥७॥

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती ।
तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम् ॥८॥

भासस्य कालिदासस्य भवभूतेश्च विश्रुता ।
बाणशूद्रकहर्षाणां काव्यभाषास्ति संस्कृतम् ॥१३॥

भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् ।
देया विद्यार्थिने विद्या देयमन्नं क्षुधातुरे ॥९॥

भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला

शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी

सोत्तीर्णा खलु पाण्डवैर्रणनदी कैवर्तकः केशवः ॥१४॥

भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः ।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम् ॥१०॥

भोजनान्ते पिबेत् तक्रं दिनान्ते च पिबेत् पयः ।
निशान्ते च पिबेत् वारि किं वैद्येन प्रयोजनं ॥१५॥

भो दारिद्र्य नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः ।
पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन ॥१२॥

भ्रमन् वनान्ते नवमंजरीषु न षट्पदो गन्धफलीमजिघ्रत् ।
सा किं न रम्या स च किं न रन्ता बलीयसी केवलमीश्वरेच्छा ॥११॥

मणिना वलयं वलयेन मणिः मणिना वलयेन विभाति करः ।
पयसा कमलं कमलेन पयः पयसा कमलेन विभाति सरः ॥८॥

मनो मधुकरो मेघो मद्यपो मत्कुणो मरुत् ।
मा मदो मर्कटो मत्स्यो मकारा दश चंचलाः ॥२॥

मयूरो विहगो रम्यः आनन्दयति मानवान् ।
पृष्ठे सरस्वती तस्य उपविष्टेति मन्यते ॥५॥

मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम् ।
तन्मध्ये भूतसंचारो यद्वा तद्वा भविष्यति ॥१०॥

मलिनैरलकैरेतैः शुक्लत्वं प्रकटीकृतम् ।
तद्रोषादिव निर्याता वदनाद्रदनावलिः ॥१५॥

महाजनस्य संसर्गः कस्य नोन्नतिकारकः ।
पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ॥१२॥

महानुभावसंसर्गः कस्य नोन्नतिकारकः ।
रत्याम्बु जाह्नवीसंगात त्रिदशैरपि वन्द्यते ॥१३॥

माता मित्रं पिता चेति स्वभावात् त्रितयं हितं ।
कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥१॥

मात्रा समं नास्ति शरीरपोषणं

चिन्तासमं नास्ति शरीरशोषणं ।
मित्रं विना नास्ति शरीर तोषणं

विद्यां विना नास्ति शरीरभूषणं ॥३॥

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्क्रौंचमिथुनादेकमवधीः काममोहितम् ॥१४॥

मारात्परः शूरतरो न कश्चित् पराभवः स्त्रीहरणान्न चान्यः ।
तथापि नाब्धिं प्रविवेश रामो बबन्ध सेतुं विजयी सहिष्णुः ॥१७॥

मुखं पद्मदलाकारं वाणी चन्दनशीतला ।
हृदयं क्रोधसंरक्तं त्रिविधं धूर्तलक्षणम् ॥४॥

मूकं करोति वाचालं पंगुं लंघयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥७॥

मूर्खस्य पंच चिह्नानि गर्वो दुर्वचनं तथा ।
क्रोधश्च दृढवादश्च परवाक्येष्वनादरः ॥६॥

मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् ।
लुब्धकधीवरपिशुनः निष्कारणवैरणो जगति ॥९॥

मृगा मृगैः संगमुपव्रजन्ति गावश्च गोभिस्तुरगास्तुरंगैः ।
मूर्खाश्च मूर्खैः सुधयः सुधीभिः समानशीलव्यसनेषु सख्यं ॥११॥

मृदुरित्यवजानन्ति तीक्ष्ण इत्युद्विजन्ति च ।
तीक्ष्णकाले भवेत्तीक्ष्णो मृदुकाले मृदुर्भवेत् ॥१६॥

मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा

क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः ।
धृष्टः पाश्र्वे वसति नियतं दूरतश्चाप्रगल्भः

सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥१८॥

यत्र रामकथागानं तत्रास्ते हनुमान् यथा ।
संस्कृतध्ययनं यत्र तत्र संस्कृतिदर्शनम् ॥२१॥

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्र तास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥३०॥

यत्र नास्ति दधिमन्थनघोषः तत्र नो लघुलघुनि शिशुनि ।
यत्र नास्ति गुरुगौरवपूजा तानि किं बत गृहाणि वनानि ॥३१॥

यथा देशस्तथा भाषा यथा राजा तथा प्रजा ।
यथा भूमिस्तथा तोयं यथा बीजस्तथांकुरः ॥१॥

यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वत्भूतसमागमः ॥१३॥

यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिध्यति ॥१७॥

यथैकेन न हस्तेन तालिका सम्प्रपद्यते ।
तथोद्यमपरित्यक्तं कर्म नोत्पादयेत् फलम् ॥१५॥

यद् यद् विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोऽंशसम्भवम् ॥२७॥

यदि वा याति गोविन्दो मथुरातः पुनः सखी ।
राधाया नयनद्वन्द्वे राधानामविपर्ययः ॥२९॥

यदेवोपनतं दुःखात् सुखं तद्रसवत्तरम् ।
निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः ॥२२॥

यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति ।
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकासते बुद्धिः ॥३॥

यः पूतनामारणलब्धकीर्तिः काकोदरो येन विनीतदर्पः ।
यशोदयालंकृतमूर्तिरव्यात् पतिर्यदूनामथवा रघूणाम् ॥२८॥

ययोरैव समं वित्तं ययोरैव समं कुलम् ।
तयोमैर्त्रिर्विवाहश्च न तु पुष्टविपुष्टयोः ॥२६॥

यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥२३॥

यस्यास्ति वित्तं स वरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते ॥१४॥

यस्मिन् देशे न संमानो न प्रीतिर्न च बान्धवाः ।
न च विद्यागमः कश्चित् न तत्र दिवसं वसेत् ॥८॥

यस्तु संचरते देशान् सेवते यस्तु पण्डितान् ।
तस्य विस्तारिता बुधिस्तैलबिन्दुरिवाम्भसि ॥५॥

यस्य कस्य तरोर्मूलं येन केनापि मिश्रितम् ।
यस्मै कस्मै प्रदातव्यं यद्वा तद्वा भविष्यति ॥११॥

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥२॥

यस्य षष्ठी चतुर्थी च विहस्य च विहाय च ।
अहं कथं द्वितीया स्यात् द्वितीया स्यामहं कथम् ॥२०॥

या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रावृता

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता

सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥४॥

याचते कार्यकाले यः स किं भृत्यो स किं सुहृद् ।
भृत्यात्सम्भावयेत् यस्तु कार्यकाले स किं प्रभुः ॥१८॥

यां चिन्तयामि सततं मयि सा विरक्ता

साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः ।
अस्मत्कृते च परितुष्यति काचिदन्या

धिक् तां च तं च मदनं च इमां च मां च ॥२५॥

युधिष्ठिरो कस्य पुत्रो गंगा वहति कीदृशी ।
हंसस्य शोभा का वास्ति धर्मस्य त्वरिता गतिः ॥१२॥

येन केन प्रकारेण यस्य कस्यापि देहिनः ।
संतोषं जनयेत् प्राज्ञस्तदेवेश्वरपूजनम् ॥९॥

ये नाम केचिदिह प्रथयन्यवज्ञाम्

जानन्तु ते किमपि तान्प्रति नैष यत्नः ।
उत्पस्यते सति मम कोऽपि समानधर्मा

कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥१९॥

येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ।
ते मर्त्यलोके भुविभारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥१०॥

योगक्षेमाय राष्ट्रस्य सभ्यतायाश्च संस्कृतेः ।
नैवान्यो विद्यते पन्था लोकसंघटनं विना ॥२४॥

यो धृवाणि परित्यज्य अधृवाणि निषेवते ।
धृवाणि तस्य नश्यन्ति अधृवं नष्टमेव च ॥१६॥

यो न संचरते देशान् सेवते यो न पण्डीतान् ।
तस्य संकुचिता बुधिर्धृतबिन्दुरिवाम्भसि ॥६॥

यौवनं धनसंपत्तिः प्रभुत्त्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥७॥

रजकश्चर्मकारश्च नटो वरुड एव च ।
कैवर्तभेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ॥९॥

रत्नैर्महाहैर्स्तुतुषुर्न देवाः न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं न निश्चिदार्थाद्विरमन्ति धीराः ॥३॥

रथस्यैकं चक्रं भुजगयामिता सप्ततुरगाः

निरालम्बो मार्गश्चरणविकलः सारथिरपि ।
रविर्यात्यन्तं प्रतिदिनमपारस्य नभसः

क्रियासिधिः सत्त्वे भवति महतां नोपकरणे ॥८॥

रात्रिर्गमिष्यति भविष्यति सुप्रभातं

भास्वानुदेष्यति हसिष्यति पंकजश्रीः ।
इत्थं विचिन्तयति कोषगते द्विरेफे

हा हन्त हन्त नलिनीं गज उज्जहार ॥४॥

रात्रौ जानु दिवा भानु कृशानुः सन्ध्ययोद्र्वयोः ।
पश्य शीतं मया नीतं जानुभानुकृशानुभिः ॥६॥

रामाद्याचय मेदिनीं धनपतेर्बीजं बलाल्लांगलम्

प्रेतेशान्महिषं तवास्ति वृषभः फालं त्रिशूलादपि ।
शक्ताहं तव चान्नदानकरणे स्कन्दोऽपि गोरक्षणे

खिन्नाहं तव याचनात् कुरु कृषिं भिक्षाटनं मा कृथाः ॥११॥

रामाभिषेके मदविह्वलायाः हस्ताच्च्युतो हेमघटस्तरुण्याः ।
सोपानमासाद्य करोति शब्दं ठा ठं ठ ठं ठं ठ ठ ठं ठ ठं ठः ॥१२॥

रामायणम् महाकाव्यम् महाभारतमेव च ।
उभे च विश्वविख्याते संस्कृतस्य महानिधी ॥७॥

राष्ट्रध्वजो राष्ट्रभाषा राष्ट्रगीतं तथैव च ।
एतानि मानचिह्नानि सर्वदा हृदि धार्यताम् ॥२॥

रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा ॥१॥

रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम्

अम्भोदा बहवो वसन्ति गगने सर्वेपि नैकादृशाः ।
केचिद्वृष्टीभिरार्दयन्ति धरणीं गर्जन्ति केचिद्वृथा

यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥५॥

रे रे रासभ वस्त्रभारवहनात्कुग्रासमश्नासि किं

राजाश्वावसथं प्रयाहि चणकाभ्यूषान् सुखं भक्षय ।
सर्वान् पृच्छवतो हयानिति वदन्त्यत्राधिकारे स्थिता

राजा तैरुप्दिष्टमेव मनुते सत्यं तटस्थाः परे ॥१०॥

लक्ष्मीः कौस्तुभपारिजातकसुराधन्वन्तरीचन्द्रमाः

गावः कामदुहः सुरेश्वरगजो रम्भादि देवांगनाः ।
अश्वः सप्तमुखः विषं हरिधनु शंखोऽमृतं चाम्बुधेः

रत्नानीह चतुर्दशं प्रतिदिनं कुर्वन्तु वो मंगलम् ॥१६॥

लब्ध्वा तीक्ष्णं रवेस्तेजः शान्तं शीतकरो वहन् ।
सर्वान् सन्तोषयन् सोमः ओषधीशो विराजते ॥१३॥

लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाः ।
शेषे धराभराक्रान्ते शेते नारायणः सुखम् ॥२०॥

लाघवं कर्मसामथ्र्यं स्थैर्यम् क्लेशसहिष्णुता ।
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ॥१९॥

लालने बहवो दोषास्ताडने बहवो गुणाः ।
अतश्छात्रश्च पुत्रश्च ताडयेन्न तु लालयेत् ॥१७॥

लालयेत् पंचवर्षाणि दशवर्षाणि ताडयेत् ।
प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् ॥१४॥

लोभमूलानि पापानि संकटानि तथैव च ।
लोभात्प्रवर्तते वैरं अतिलोभात्विनश्यति ॥१५॥

लोभाविष्टो नरो वित्तम् वीक्ष्यते न तु संकटम् ।
दुग्धं पश्यति मार्जारी न तथा लगुडाहतिम् ॥१८॥

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव शुभकार्येषु सर्वदा ॥१६॥

वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥२०॥

वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः ।
करणं परोपकरणं येषं केषां न ते वन्द्याः ॥१५॥

वनानि दहतो वह्नेः सखा भवति मारुतः ।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥२४॥

वन्दे सरस्वतीं देवीं उत्तमाङ्गेन सर्वदा ।
मुखेन तां प्रशंसामि हस्ताभ्यां पूजयामि च ॥५॥

वरं दरिद्रः श्रुतिशास्त्रपारगो न चापि मूर्खो बहुरत्नसंयुतः ।
सुलोचना जीर्णपटापि शोभते न नेत्रहीना कनकैरलङ्कृता ॥११॥

वरं पर्वतदुगेर्षु भ्रान्तं वनचरैः सह ।
न मूर्खजनसंसर्गः सुरेन्द्रभुवनेष्वपि ॥२६॥

वरं बालो वरं वृद्धो न तु मूर्खोत्तमः खलु ।
मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥१३॥

वरं बुद्धिर्न सा विद्या विद्यया बुद्धिरुत्तमा ।
बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥२९॥

वरं भृत्यविहीनस्य जीवनं श्रमपूरितं ।
मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥१२॥

वरमेको गुणी पुत्रो न तु मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न तु तारागणोऽपि च ॥२५॥

वरं वनं वरं भैक्ष्यं वरं भारोपजीवनं ।
पुंसां विवेकहीनानां सेवया न धनार्जनम् ॥१९॥

वसन्ति कानने वृक्षाः फलपुष्पैश्च भूषिताः ।
आम्रं विना परं चित्तं कोकिलस्य न तुष्यति ॥२८॥

वसन्त्यरण्येषु चरन्ति दुर्वां पिबन्ति तोयानि वने स्थितानि ।
तथापि निघ्नन्ति मृगान् नरा वृथा को लोकमाराधयितुं समर्थः ॥८॥

वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥१७॥

वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात्

मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।
व्यालो माल्यगुणायते विषारसः पीयूशवस्र्हायते

यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥४०॥

वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥३६॥

वातोल्लासितकल्लोल धिक् ते सागरगर्जनम् ।
यस्य तीरे तृषाक्रान्तः पान्थः पृच्छति वापिकम् ॥३३॥

वाल्मीकिगिरिसम्भूता रामसागरगामिनी ।
पुनातु भुवनं पुण्या रामायणमहानदी ॥१८॥

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥३२॥

विराटनगरे राजन् कीचकादुपकीचकम् ।
अत्र क्रियापदं गुप्तं मर्यादा दशवार्शिकि ॥३९॥

विलक्षणः शब्दकोषः विद्यते तव भारति ।
व्ययेन वर्धते नित्यं क्षयं गच्छति सञ्चयात् ॥३०॥

विश्वाभिरामगुणगौरवगुम्फितानाम्

रोषोऽपि निर्मलधियां रमणीय एव ।
लोकप्रियैः परिमलैः परिपूरितस्य

काश्मीरजस्य कटुतापि नितान्तरम्या ॥३८॥

वृक्षाग्रवासी न च पक्षिराजः

त्रिनेत्रधारी न च शूलपाणिः ।
त्वग्वस्त्रधारी न च सिद्धयोगी

जलं च बिभ्रन्न घटो न मेघः ॥३५॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥३४॥

व्रजत्यधोऽधो यात्युचैर्नरः स्वैरेव कर्मभिः ।
खनितेव हि कूपस्य प्रासादस्येव कारकः ॥३७॥

श-स-ष

संस्कृतं देवभाषास्ति वेदभाषास्ति संस्कृतम् ।
प्राचीनज्ञानभाषा च संस्कृतं भद्रमण्डनम् ॥३५॥

सच्छिद्रनिकटे वासो न कर्तव्यः कदाचन ।
घटी पिबति पानीयं ताड्यते झल्लरी यथा ॥४६॥

स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥१३॥

सज्जनस्य हृदयं नवनीतं यद्वदन्ति कवयस्तदलीकं ।
अन्यदेहविलसत्परितापात् सज्जनो द्रवति नो नवनीतम् ॥२३॥

सत्यं ब्रूयात् प्रियं ब्रूयत् न ब्रूयात् सत्यमप्रियं ।
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ॥४०॥

सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी ।
अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी ॥१७॥

सदयं हृदयं यस्य भाषितं सत्यभूषितम् ।
देहः परहिते यस्य कलिस्तस्य करोति किम् ॥३॥

सदाचारेण सर्वेषां शुद्धं भवति मानसम् ।
निर्मलं च विशुद्धं च मानसं देवमन्दिरम् ॥१॥

सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते

मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं ज्ञायते

प्रायेणोत्तममध्यमाधमदशा संसर्गतो जायते ॥२२॥

सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानां एतश्चेतश्च धावताम् ॥४३॥

सप्तैतानि न पूर्यन्ते पूर्यमाणान्यनेकशः ।
स्वामी पयोधिरुदरं कृपणोऽग्निर्यमो गृहम् ॥२८॥

समुद्रवसने देवि पर्वतावलिभूषिते ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥१०॥

सम्पदो महतामेव महतामेव चापदः ।
वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित् ॥१६॥

सम्पूर्णकुम्भो न करोति शब्दम् अर्धो घटो घोषमुपैति नूनम् ।
विद्वान् कुलीनो न करोति गर्वम् मूढास्तु जल्पन्ति गुणैर्विहीनाः ॥१४॥

सरस्वति नमस्तुभ्यं वरदे कामरूपिणी ।
विश्वरूपे विशालाक्षी विद्यां देहि शुभङ्करी ॥४८॥

सरस्वतीं नमस्यामि चेतनानां हृदि स्थिताम् ।
मतिदां वरदां शुद्धां वीणाहस्तवरप्रदाम् ॥३३॥

सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः ।
सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥४४॥

सर्पराज नमामि त्वां क्रूरमप्युपकारकम् ।
क्षेत्रं रक्षसि चास्माकं शुद्धस्त्वं सुन्दरस्तथा ॥४९॥

सर्पा: पिबन्ति पवनं न च दुर्बलास्ते

शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दैः फलैर्मुनिवराः क्षपयन्ति कालाम्

सन्तोष एव पुरुषस्य परं निधानम् ॥३४॥

सर्वत्र देशे गुणवान् शोभते प्रेरितो नरः ।
मणिः शीर्शे गले बाहौ यत्र कुत्रापि शोभते ॥१९॥

सर्वथा सन्त्यजेद्वादं न कञ्चिन्मर्मणि स्पृशेत् ।
सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः ॥११॥

सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः ।
सर्वे महत्त्वमिच्छन्ति राष्ट्रं तदवसीदति ॥८॥

सहसा विदधीत न क्रियां अविवेकः परमापदां पदम् ।
वृणुते हि विमृश्यकारिणं गुणलुब्धा स्वयमेव सम्पदा ॥४७॥

संहितैकपदे नित्या नित्या धातूपसर्गयोः ।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥४५॥

साक्षराः विपरीताश्चेद्राक्षसा एव केवलम् ।
सरसो विपरीतश्चेत्सरसत्त्वं न मुञ्चति ॥३८॥

सारङ्गाः सुहृदो गृहं गिरिगुहा शान्तिः प्रिया गेहिनी

वृत्तिर्वन्यफलैर्निवसनं श्रेष्ठं तरूणां त्वचः ।
तद्ध्यानामृतपूरमग्नमनसां येषामियं निवृतिः

तेषामिन्दुकलावतंसयमिनां मोक्षेऽपि नो न स्पृहा ॥२५॥

साहित्य सङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः ।
तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पषूणाम् ॥३२॥

सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां तेजसां हि न वयः समीक्ष्यते ॥३१॥

सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्यपरम्पराः ।
बुधजने गुरुता विमलं यशः भवति पुण्यतरोः फलमीदृशम् ॥६॥

सुन्दरोऽपि सुशीलोऽपि कुलीनोऽपि महाधनः ।
न शोभते विना विद्यां विद्या सर्वस्य भूषणम् ॥७॥

सुभाषितरसास्वादः सज्जनैः सह सङ्गतिः ।
सेवा विवेकिभूपस्य दुःखनिर्मूलनं त्रयम् ॥२॥

सुभाषितेन गीतेन युवतीनां च लीलया ।
यस्य न द्रवते चित्तं स वै मुक्तोऽथवा पशुः ॥३०॥

सुलभाः पुरुषा लोके सततं प्रियवादिनः ।
अप्रियस्य च शब्दस्य वक्ता श्रोता च दुर्लभः ॥२७॥

सुखं हि दुःखान्यनुभूय शोभते

घनान्धकारेश्विव दीपदर्शनम् ।
सुखात्तु यो याति नरो दरिद्रतां

धृतः शरीरेण मृतः स जीवति ॥२४॥

सुखस्यानन्तरं दुःखम् दुःखस्यानन्तरं सुखम् ।
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥४॥

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु पण्डिताः समदर्शनाः ॥३६॥

सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् ।
दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥२९॥

सूर्यं भर्तारमुत्सृज्य पर्वतं मारुतं गिरिम् ।
स्वजातिं मूषिका प्राप्ता स्वभावो दुरतिक्रमः ॥१२॥

सेवितव्यो महावृक्षः फलच्छायासमान्वितः ।
यदि दैवात् फलं नास्ति छाया केन निवार्यते ॥१८॥

सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः ।
तत्र सौरभनिर्माणे चतुरश्चतुराननः ॥१५॥

स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।
इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥५॥

स्नेहं दयां च सौख्यं च यदि वा जानकीमपि ।
आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥४१॥

स्नेहं दयां च सौख्यं च यदि वा जीवनमपि ।
उद्धारणाय नारीणां मुञ्चतो नास्ति मे व्यथा ॥४२॥

स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥९॥

स्वयं पञ्चमुखः पुत्रौ गजाननषडाननौ ।
दिगम्बरः कथं जीवेत् अन्नपूर्णा न चेद्गृहे ॥२०॥

स्वयं महेषः श्वशुरः नगेशः सखः धनेशः तनयो गणेशः ।
तथापि भीक्षाटनमेव शम्भोः बलीयसी केवलमीश्वरेच्छा ॥२१॥

स्वस्ति श्रीभोजराजन् त्वमखिलभुवने धार्मिकः सत्यवक्ता

पित्रा ते सङ्गृहीता नवनवतिमिता रत्नकोट्यो मदीयाः ।
तास्त्वं देहीति राजन् सकलबुधजनैर्ज्ञायते सत्यमेतद्

नो वा जानन्ति यत्तन्मम कृतिमपि नो देहि लक्षं ततो मे ॥२६॥

स्वातन्त्र्यो हि मनुष्याणामधिकारो स्वभावजः ।
तमहं प्रार्थये नित्यं लोकमान्यवचस्त्विदम् ॥३९॥

स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः ।
विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥३७॥

वाह्य सूत्राणि