रामायण(वाल्मीकी)

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

रामायण-वाल्मीकी 

कूजन्तं रामरामेति मधुरं मधुराक्षरम्।



Loading...

कूजन्तं रामरामेति मधुरं मधुराक्षरम्।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्॥

सञ्चिका:Ramayanam.pdf

सपरिवारः श्रीरामः

रामस्य अयनं (चरितं) रामायणम् । रामायणमादिकाव्यं सर्वेषां काव्यानां जीवातुभूतं च भवति । रामायणं महाभारतवत् कश्चिदितिहासग्रन्थो भवति । संस्कृतसाहित्ये रामायणवत् प्रसिध्दः लोकप्रियश्च अन्यः ग्रन्थः नास्तीति वक्तुं शक्यते । नीतिदृष्ट्या काव्यात्मकदृष्ट्या लोकोपकारकदृष्ट्या च रामायणस्य महत्त्वं वर्धते । पितृपुत्रधर्मस्य पतिपत्नीधर्मस्य भ्रातृधर्मस्य तथा अन्यकौटुम्बिकधर्मस्य च आदर्शभूतो अयं ग्रन्थः ॥ आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः । श्रीवाल्मीकिः पूर्वं कश्चित् तस्करः(निषादः)आसीत् रत्नाकरः इति नाम्ना । सप्तर्षीणां दर्शनानन्तरं राममन्त्रजपपूर्वकतपसा रत्नाकरः वाल्मीकिः संजातः । रामायणे न केवलं युद्धमात्रं प्रत्युत सकलालङ्काराणां प्रकृतिसौन्दर्यस्य धर्मस्य च यत्र तत्र वर्णनं दृश्यते । सरलसंस्कृतभाषापठनार्थम् अत्यन्तोपयोगि साधनं च भवत्येतत् ॥

 

रामायणमादिकाव्यम् इति प्रसिद्धम्। इतिहासग्रन्थः इत्यपि भाव्यते एतत्। एतस्य ग्रन्थस्य रचयिता वाल्मीकिः। किरातकुले उत्पन्नः सः नारदस्य उपदेशात् तपः अकरोत्। तस्य शरीरम् आवृत्य वल्मीकः उत्पन्नः। ततः स बहिः आगतः इत्यतः तस्य नाम 'वाल्मीकिः' इति काचित् कथा श्रूयते।

 

तमसानदीं स्नानार्थं गच्छन् वाल्मीकिः व्याधेन मारितं क्रौञ्चं पश्यति। तदा शोकाकुलः सः - 'मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः' इति व्याघ्रं शपति। ततः नारदमुखात् रामस्य कथां श्रुत्वा सः रामायणं रचयति। सीतारामयोः वियोगः रामायणस्य मुख्यं कथावस्तु।

 

महाभारते रामायणस्य कथा वर्णिता दृश्यते। पाणिनेः अष्टाध्याय्याम् अपि कैकेयीकौसल्यादयः शब्दाः दृश्यन्ते। अतः रामायणं महाभारतात् पाणिनेः च पूर्वम् आसीत् इति स्पष्टम्। रामायणं कदा आसीत् इति विषये मतभेदाः बहवः सन्ति। तथापि एतावत्तु वक्तुं शक्यते यत् वाल्मीकिः रामायणं क्रि·पू·पञ्चसहस्रवर्षेभ्यः पूर्वं रचितवान् स्यात् इति।

 

रामायणे २४००० श्लोकाः सन्ति। रामायणस्य प्रतिसहस्रतमस्य श्लोकस्य आदौ गायत्रीमन्त्रस्य एकैकम् अक्षरं प्राप्यते। पाठभेदादयः न भवेयुः इति उद्देशेन एवं कृतं स्यात् कविना। रामायणं सर्वासु भारतीयभाषासु बह्वीषु विदेशीयभाषासु च उपलभ्यते। एतस्मात् रामायणस्य जनप्रियता ज्ञाता भवति।

 

वाल्मीकेः शैली ललिता सरला सुन्दरी च। श्रीरामस्य धर्मनिष्ठा, सीतायाः सौशील्यं, भरतस्य भ्रातृवात्सल्यं, लक्ष्मणस्य कर्तव्यनिष्ठा, आञ्जनेयस्य कार्यदक्षता, सुग्रीवस्य सौहार्दभावः इत्यादयः अंशाः अतिरमणीयतया चित्रिताः तेन। संस्कृतसाहित्यनिर्माणे वाल्मिकिः शकपुरुषः इत्यत्र न अतिशयोक्तिः।

एकस्मिन् दिने वाल्मीकिमहर्षिः सन्ध्यावन्दनार्थं स्वशिष्यैः साकं नदीतीरं गतवान् । तत्र कश्चन निषादः वृक्षस्य उपरि विद्यमानयोः क्रौञ्चयोः मध्ये एकं मारितवान् । एतत् हृदयभेदकं दृश्यं कवेः मुखतः छन्दोबद्धरूपेण दुःखप्रवाहम् अकारयत् । तद्यथा-

 

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।

यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ इति ॥

(हे निषाद, त्वं शाश्वतीः समाः प्रतिष्ठां मा अगमः यत् क्रौञ्चमिथुनात् काममोहितम् एकम् अवधीः) तदनन्तरं मम मुखतः शापवाक्यमागतम् इति चिन्तया महर्षिः ततोऽपि अधिकं दुःखम् अनुभूतवान् । किन्तु नारदमहर्षिणा प्रचोदितः सः दुःखम् अपनीय स्वमुखतः आगतस्य श्लोकस्य अपरम् अर्थं ज्ञातवान् । तद्यथा – हे मानिषाद, त्वं शाश्वतीः समाः प्रतिष्ठाम् अगमः, यत् क्रौञ्चमिथुनात् काममोहितम् एकम् अवधीः इति ॥ एषः विष्णुवन्दनपरः श्लोकः इत्यवगत्य तेन प्रेरितः वाल्मीकिः आदिकाव्यस्य रामायणस्य रचनाम् अकरोत् ॥

अतिप्राचीनानां रामायणादिग्रन्थानां रचनाकालः एषः एव इति दृढं वक्तुं न शक्यते । वस्तुतः एतस्मिन् वर्षे एतस्मिन् मासे एतस्मिन् दिने एतस्मिन समये एषः ग्रन्थः रचितः इति कथने प्रयोजनमपि नास्ति । तथापि एतादृशग्रन्थानां रचनाकालविषये पण्डिताः भिन्नं भिन्नं मतं प्रकटयन्ति । तदनुसृत्य रामायणस्यापि कालस्य रामान्यनिर्णयः कृतः अस्ति ।।

 

रामायणे महाभारतवर्णितस्य कस्यापि कथापात्रस्य नाम न श्रूयते । महाभारते तु रामस्य कथा वर्णिता अस्ति । महाभारतस्य सप्तमपर्वणि लङ्काकाण्डगतं पद्यद्वयं प्राप्तमस्ति । अतः रामायणं महाभारतात् प्राचीनं भवति । रामायणस्य बौद्धसाहित्यस्य च सम्बन्धः दृश्यते । रामायणीया कथा किञ्चित् परिवर्तनेन दशरथजातकनाम्ना पालिभाषया रचिता अस्ति । जातककथासु रामायणस्थलसाम्यम् अस्त्येव । बौद्धसाहित्यपण्डितः सिलवेनलेविमहाशयः स्पष्टयति यत् सद्धर्ममृत्युपस्थानस्य बौद्धग्रन्थस्य मूलम् अवश्यं वाल्मीकिरामायणम् इति तत्र विद्यमानं जम्बूद्वीपवर्णनं रामायणीयदिग्वर्णनस्य सदृशमस्ति इति । याकोबिमहाशयः भाषाविज्ञानदृष्ट्या बौद्धकालात् पूर्वमेव रामायणस्य कालः इति कथयति । एतैः सर्वैः अपि प्रमाणैः रामायणस्य बौद्धकालिकात् पूर्वत्वं सिद्धयति । रामायणे कोसलराजधानी अयोध्या इति प्रतिपादिता अस्ति । बौद्धैः यवनैः पतञ्जलिः कोसलराजधान्याः साकेतः इति नाम उच्यते । अतः साकेतनामकरणात् पूर्वमेव रामायणस्य रचनाकालः इति ज्ञायते ॥

 

पाटलीपुत्रस्य प्रतिष्ठापनं अजातशत्रुणा ई.पू. ५०० समये कृतम् । रामायणे पाटलीपुत्रस्य नाम नास्ति । पाणिनीयव्याकरणनियमाः सर्वे रामायणे न अनुसृताः दृश्यन्ते । एतादृशैः अनेकैः कारणैः रामायणस्य रचनाकालः ई.पू. ५०० इति सिद्धम् ॥

देववाणी एंड्रायड एप डाउनलोड

वार्ताः


पितृपक्ष की हकीकत

#जो_पितृपक्ष को दिखावा कहते हैं उनके लिए। हमारे #पितर और हम [ ... ]

अधिकम् पठतु
संघ शाखा लगाने की पद्धति...

🙏गुरु पुर्णिमा महोत्सव🙏
२७/०७/२०१८/- शुक्रवार
------------------------------- [ ... ]

अधिकम् पठतु
महाभारत के युद्ध में भोजन प्रबंधन...

*🔥।। महाभारत के युद्ध में भोजन प्रबंधन।।🔥*

*महाभारत को हम  [ ... ]

अधिकम् पठतु
राम रक्षा स्त्रोत को पढकर रह सकते हैं भयमुक्त...

राम रक्षा स्त्रोत को ग्यारह बार एक बार में पढ़ लिया जाए तो  [ ... ]

अधिकम् पठतु
आज से हमारे त्योहार शुरू हो गए एवं शादी ब्याह जैसे...

आज से हमारे पर्व एवं त्योहार शुरु हो गए हैं.. जरा नोट 📝 कर ल [ ... ]

अधिकम् पठतु
चंद्रग्रहण जुलाई २०१८ आषाढ १५...

🌕🌖🌗🌘🌑

*चंद्र ग्रहण*
27-28 जुलाई 2018 आषाढ़ पूर्णिमा ( *गुरु पूर् [ ... ]

अधिकम् पठतु
भारत की दुर्दशा.और आरक्षण का जड ...

भारत की दुर्दशा.और आरक्षण का जड



खुशनुमा आर्यावर्त. ..सोने  [ ... ]

अधिकम् पठतु
राजा जनक के गुरू अष्टावक्र...

महाराजा जनक के गुरु अष्टावक्र जी एक सम्पूर्ण प्रस्तुति,,,,
 [ ... ]

अधिकम् पठतु
श्वेतार्क गणपति पूजन विधान...

श्वेतार्क गणपति पूजन विधान
〰️〰️🔸〰️🔸〰️🔸〰️〰️
गणेश प्रतिम [ ... ]

अधिकम् पठतु
११५ ऋषियों के नाम,जो कि हमारा गोत्र भी है...* ...

*११५ ऋषियों के नाम,जो कि हमारा गोत्र भी है...* =================================== च [ ... ]

अधिकम् पठतु
आपकी राशि के अनुसार शिव अर्चना...

आपकी राशि और शिव पूजा शिव पुराण में उल्लेख हैं की महाशिवर [ ... ]

अधिकम् पठतु
बुद्ध और ब्राम्हण

बुद्ध और ब्राह्मण मूलनिवासी अकसर ब्राह्मणों को कोसते है [ ... ]

अधिकम् पठतु
सोमवार के ही दिन शिव की पूजा क्यों करते हैं जानें ...

🌿🌸🍃🌺🌿🌸🍃🌺🌿🌸🍃 *क्यों सोमवार" को ही *भगवान शिव की पूजा कर [ ... ]

अधिकम् पठतु
जानें महाशिवरात्री का वैज्ञानिक पहलू एवं छ्मा मंत्...

💐✍💐 *जानें महाशिवरात्रि का वैज्ञानिक पहलू और क्षमा मन्त [ ... ]

अधिकम् पठतु
रावण पराजय और सीता हरण क्यों...

*“ रावण - पराजय और सीता - हरण क्यों ?
“* नारायण ! श्रीमद् देवीभ [ ... ]

अधिकम् पठतु
अन्य लेख