कामशास्त्रं संस्कृतस्य प्रसिद्धग्रन्थेषु अन्यतमम् । कामशास्त्रं प्रजापतेः एव आगतम् । अत्र प्रमाणमेवमस्ति

प्रजापति र्हि प्रजाः सृष्ट्वा तासां स्थितिनिबन्धनं त्रिवर्गस्य साधन मध्यायानां

शतसहस्रेणाऽग्रे प्रोवाच - वात्स्यायनकामसूत्राणि------१.१.५
अत्र त्रिवर्गो नाम धर्मार्थकामाः । एषु त्रिषु कामस्यैव प्राधान्यम् । कामं विना सृष्टिरेव न भवति । "स एकाकी न रमते । स द्वितीयमैच्छत्,बहु स्यां प्रजायेयेति, इच्छामात्रं प्रभोस्सृष्टिः" इत्याद्युपनिषत्सूक्तयोऽपि कामस्यैव प्राधान्यं सूचयन्ति । धर्माविरुद्धावेव अर्थकामौ सेवेतेति ज्ञापयितुं धर्मस्य प्राधान्यं दत्तम् ।

कर्ता

कामसूत्राणि वात्स्यायननाम्ना प्रसिद्धानि । सः न कर्ता । मल्लनागाचार्य इति कश्चित् विद्वान् वत्सराजस्य पुत्रान् संस्कृतवानिति कारणतः तस्येव वात्स्यायन इति नामागतमिति कथ्यते । मल्लनागः स्वस्मात्प्राक् स्थितान् कामशास्त्रग्रन्थान् उत्सन्नप्रायान् सङ्गृहीतवानिति कथ्यते । दत्तकः बाभ्रव्यः चारायणः सुवर्णनाभः औद्दालकिः घोटकमुखः गोनर्दीयः गोणिकापुत्रः कूचुमारः इत्यादयः कामशास्त्रविस्तारकाः आसन् । एतेषां पुस्तकानि सर्वाण्यपि वात्स्यायनबिरुदभाक् मल्लनागाचार्यः सङ्गृहीतवान् । अतः मल्लनागाचार्योऽपि सङ्ग्रहकर्तेति सन्धातेति ज्ञातव्यं भवति । कामसूत्राणि तु वात्स्यायननाम्ना प्रसिद्धिङ्गतानि ।

कालः

क्रीस्तोः प्राक् १५० वत्सरकालीनस्य पतञ्जलिमहर्षेः महाभाष्यस्थितव्याकरणशास्त्ररचनावश्यकतादिविषयाः वात्स्यायनकामसूत्रग्रन्थे त्रिवर्गप्रतिपत्त्यध्याये दृश्यन्ते । अतः वात्स्यायनोऽयं पतञ्जलिसमीपकालीनत्वेन क्रीस्तोः प्रागेव द्वितीयशताब्दीय इति निश्चीयते प्रसिद्धविद्वद्भिः श्री पञ्चाग्नुल आदिनारायणशास्त्रिमहोदयैः स्वकीये यशोधरीयजयमङ्गळव्याख्यानस्य आन्ध्रविवरणग्रन्थे ।

ग्रन्थस्वरूपम्

वात्स्यायनकामसूत्राणां "जयमङ्गळ"मिति नाम्ना यशोधरपण्डितः व्याख्यामकरोत् । तद्व्याख्यानस्य आन्ध्रविवरणम् पञ्चाग्नुल आदिनारायणशास्त्रिमहोदयाः कृतवन्तः । तद्ग्रन्थादेव उद्धृत्य एष लघुपरिचयः क्रियते । अस्मिन्ग्रन्थे साङ्घिक, राजकीय, आर्थिक, सांस्कृतिक, विविधशास्त्रीयविषयाः बहवः सन्ति । वात्स्यायनकामसूत्रग्रन्थस्य विभागः एवमस्ति

  1. साधारणाधिकरणम्----अस्मिन्नध्यायाः सूत्राणि च एवं सन्ति------- - १.शास्त्रसङ्ग्रहाध्यायः-----सूत्राणि--१ तः ८७ ।

  2. त्रिवर्गप्रतिपत्त्यध्यायः (सूत्राणि---८८ तः १३९),

  3. विद्यासमुद्देशाध्यायः--(सूत्राणि--१४० तः १६४),

  4. नागरकवृत्ताध्यायः-(सूत्राणि--१६५ तः २१६),

  5. नायकसहायदूतीकर्मविमर्शाध्यायः--(सूत्राणि--२१७ तः २५७)

  6. साम्प्रयोगिकाधिकरणम्---अत्र

  7. रतावस्थापनाध्यायः--(सूत्राणि--२५८ तः ३३४),

  8. आलिङ्गनविचाराध्यायः--(सूत्राणि--३३५ तः ३६६),

  9. चुम्बनविकल्पाद्यध्यायः---सूत्राणि---३६७ तः ४००),

  10. नखजात्यध्यायः--(सूत्राणि---४०१ तः ४३२),

  11. दशनच्छेद्याद्यध्यायः(सू ४३३ तः ४७५),

  12. संवेशनचित्ररताध्यायः-(सू--४७६ तः ५२४),

  13. प्रहणनयोगाः--सीत्कृतक्रमाः-(सूत्राणि--५२५ तः ५५६),

  14. पुरुषोपसृप्ताध्यायः-(सू-५५७ तः ५५८),

  15. औपरिष्टकाद्यध्यायः--(सू ५८९ तः ६२९),

  16. रतारम्भावसानिकाध्यायः-(सू ६३२ तः ६८५)

ग्रन्थे ७२८ पृष्ठानि १७०० सूत्राणि, विषयास्तु प्रत्यध्याये बहवस्सन्ति ।