गरूणपुराण

गरुडपुराणम्(GarudaPuranam) अष्टादशपुराणेषु तृतीयप्रमुखं विष्णोः कीर्तनविषयकं च वर्तते । अत्र अचारकाण्डं (कर्मकाण्डं ) , धर्मकाण्डं ( प्रेतकाण्डं ), ब्रह्मकाण्डं (मोक्षकाण्डं) इति काण्डत्रयं, तेषु च ८८०० श्लोकाः सन्ति । अस्य पुराणस्य प्रथमः भागः विष्णुगरुडयोः संवादरूपेण अस्ति। द्वितीये भागे मरणोत्तरजीवनस्य विवरणम्, अपरक्रियाः, पुनर्जन्मनः व्यवस्था च उपवर्णिता अस्ति। अतः एव अस्य पठनं हिन्दुनाम् अन्त्येष्ट्यां क्रियते।

अष्टादशपुराणेषु अन्यतमं भवति गरुडपुराणम्। विष्णुः गरुडं प्रति उक्तमिदं तावत् १९००० श्लोकात्मकं इति नारदपुराण-भागवतपुराणादिषु गीयते। किन्तु इदानीं तावत् प्रायः ९०००श्लोकाः एव लभ्यन्ते। तच्च विषयभेदेन ब्रह्मखाण्ड-प्रेतखाण्डभेदेन द्वेधा। तथा धर्मखाण्ड-ब्रह्मखाण्ड-आचारखाण्डभेदेन त्रिधा इति च विभागः। तत्र

धर्मखाण्डः-४९अध्यायः,
ब्रह्मखाण्डः-२९अध्यायः,
आचार्यखाण्डः-२४० अध्यायः।
गरुडपुराणे तावत् देवतासृष्टिः,देवतातारतम्यं,देवतावतारः,कृष्णचरित्रं,प्रह्लादचरित्रं,लोकवर्णनंइत्यादि नैके विचाराः निरूपितः।