संस्कृतभाषायाम् अव्ययानि नितरां प्राधान्यं भजन्ते। यथा प्रायः सर्वेपि शब्दाःतत्तद्विभक्त्यनुगुणं,तत्तत्पुरुषानुगुणं,तत्तद्वचनानुगुणं वा परिवर्तन्ते तथा एतानि अव्ययानि न परिवर्तन्ते। तन्नाम सर्वेषु वचनेषु,सर्वेषु पुरुषेषु,सर्वासु विभक्तिषु च एतेषाम् अव्ययानां रूपं समानं भवति। तदेव उच्यते-

सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।

वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥ इति

यत् सर्वेषु लिङ्गेषु सर्वसु विभक्तिषु सर्वेषु वचनेषु न परिवर्तते तत् अव्ययम् ।

कानिचन अव्ययानि

संस्कृतभाषायाम् अव्ययानि बहूनि सन्ति। अत्र कतिपयाव्ययानि एव दर्शितानि।

अथ,अपि,अलम्, इति,इव, उच्चैः, एव, कदा, कुतः, क्व, खलु, चित्, चेत्, तूष्णीम्, नूनम्, पुरा, मा, मिथ्या, इतस्ततः, अत्र तत्र, यथा तथा, यदा तदा, यद्यपि, यदि तर्हि, यावत्, वरम् वा विना सहसा हि ह्यः

अपि

अर्थविवरणम्

अपि इत्यव्ययं विविधेषु अर्थेषु प्रयुज्यते । ते च अर्थाः -

गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि ।[१]

अर्थात् - गर्हा = निन्दा, समुच्चयः, प्रश्नः, शङ्का, सम्भावना (शक्त्युत्कर्षमाविष्कर्तुम् अत्युक्तिः)[२] इत्येतेषु अर्थेषु अपि इत्यव्ययं प्रयुज्यते |

पुनश्च -
अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये ।
तथा युक्तपदार्थे च कामचारक्रियासु च ॥[३]

उदाहरणानि

  • गर्हा(निन्दा) = १) धिग्देवदत्तम् अपि स्तुयाद् वृषलम् ।

  • समुच्चयः = अपि स्तुहि अपि सिञ्च ।

  • प्रश्नः = १)अपि क्रियार्थं सुलभं समित्कुशम् । २) अपि गच्छसि गृहम् ?

  • शङ्का = १) अपि प्रसीदेद् रुष्टो नृपतिः ! २) अपि चोरो भवेत् ! ३) अपि देवदत्तो गच्छेत् !

  • सम्भावना = १) अपि स्तुयाद् विष्णुम् ।

सन्दर्भः

  1. ऊपर जायें↑ अमरकोशः ३/३/२४९

  2. ऊपर जायें↑ सिद्धान्तकौमुदी