गृहम्
वैदिकशिक्षणं
Back
पौराणिक शिक्षा
Back
योगविद्याध्ययनम्
Back
पतंजली महाभाष्यम्
शिवसंहिता
घेरण्ड संहिता
विज्ञान एवं ज्योतिषविद्याध्ययनम्
Back
ज्योतिषी
दर्शन शास्त्र संग्रह
स्थापत्य शास्त्र-खगोल विज्ञान
आयुध/नीति/समाजशास्त्राध्ययनम्
Back
चाणक्यनीतिशास्त्रम्
रामायण (वाल्मीकी)
महापुरूषेभ्यः जीवनी निबंधः
शस्त्रविद्याध्ययनम्
अर्थशास्त्रम्
अभियांत्रिक/अस्त्रविद्याध्ययनम्
Back
विमानशास्त्र
कर्मयोग/कामसूत्र/व्यवसायध्ययनम्
Back
कामशास्त्रं
कौटलीयम् अर्थशास्त्रम्
स्वास्थयविद्याध्ययनम्
Back
आयुर्वेदम्
Back
चरक संहिता
कायचिकित्सः
शल्यचिकित्सा
आयुर्विज्ञानम्-अष्टांगहृदयम्
गणितशास्त्र
Back
वैदिकगणितम्
रसायन शास्त्र
व्याकरणम्
Back
सन्धिप्रकरणम्
कारकम्
उपसर्गाः
वृत्तिः
Back
कृत्
समासः
एकशेषः
अव्ययम्
लकाराः
शाब्दबोधः
धात्वर्थः
अधुनिक शिक्षा
Back
पृथ्वी-अस्माकम् आवासः
Back
अध्यायः १,२,३
अध्यायः ४-९
अस्माकम् अतीतः
Back
षष्टकक्ष्यायाः कृते पाठ्यपुस्तकम
सप्तम्कक्ष्यायाः कृते पाठ्यपुस्तकम
Back
अध्यायः १,२,३
अध्यायः ४-९
सामाजिकं विज्ञानम् - अस्माकं पर्यावरणम्
गणितम्
Back
षष्टकक्ष्यायाः कृते पाठ्यपुस्तकम
Back
अध्यायः १
अध्यायः २,३
अध्यायः ४,५,६
अध्यायः ७,८,९
अध्यायः १०,११,१२
अध्यायः १३१४ १५ १६ एवं उत्तरमाला
विज्ञानम्
Back
अध्यायः १,२,३
अध्यायः ४,५,६,७,८,९
अध्यायः ११,१२,१३,१४,१५,१६,१७,१८
सामाजिकं एवं राजनीतिकं जीवनम्
Back
१
Back
अध्यायः १,२,३
अध्यायः ४,५,६,७,८,९
२
Back
अध्यायः १,२,३
अध्यायः ४,५,६,७,८,९
लेखाः
Back
महापुुरूषेभ्यः जीवनी
Back
प्रमुखक्रान्तिकारिषु
Back
साधू तुकारामः
भगत सिंह
इन्दुलाल याज्ञिकः
श्री नरेंद्र मोदीः
श्री अब्दुल कलामः
मदनमोहन-मालवीय
महादेवी वर्मा
गुरु गोविन्द सिंह
रवीन्द्रनाथ ठाकुर
पण्डित चन्द्रशेखर तिवारी 'आजाद'
राजगुरुः
जयप्रकाश नारायण
कर्मयोगी डाक्टर हेडगेवार
स्वामी रामतीर्थः
दुर्गावती-देवी
विनायक दामोदर सावरकर
लाल बहादूर शास्त्री
विनोबा भावे
महादेवभाई देसाई
हिन्दुसम्राट्
Back
भारतेश्वरः श्री पृथ्वीराजः
धर्मराजः(महाराज युधिष्ठरः)
भगवान श्री रामः
छत्रपति शिवाजी
भगवान श्री कृष्णः
अर्णोराज चौहान
सिद्धराज जयसिंह
ऋषिः
Back
भगवान श्री परशुरामः
महाकवि श्री कालिदासः
श्री रामानुजाचार्यः
पितामह भीष्मः श्री देवव्रतः
श्री वाराहमिहिरः
श्री भरद्वाजमहर्षिः
महार्षी श्री जमदग्निः
कामसूत्र ऋषी श्री मल्लंग वात्स्यायन
श्री द्रोणाचार्यः
महार्षी श्री वेदव्यासः
वागभटः
श्री आर्यभटः
महाकवि कालिदासः
हेमचन्द्राचार्यः
ब्रह्मगुप्तः
भरतमुनिः
स्वामी रामदेवः
वीरपुरूषः
Back
केळदि चेन्नम्मा
गुरु गोविन्द सिंह
महापराक्रमी भीमपुत्र घटोत्कचः
द्रौण शिष्य अर्जुनः
झांसीराणीलक्ष्मीवर्यायाः
वीर बन्दा वैरागी
समाज प्रणेतः
Back
महापंडित श्री कौटिल्य (चाणक्यः)
स्वामी विवेकानन्द
संस्कृत सुभाषितानि
Back
संस्कृत सुभाषितानि
संस्कृत सुभाषितानि १
संस्कृत सुभाषितानि २
संस्कृत सुभाषितानि ३
संस्कृत सुभाषितानि ४
धर्म:
Back
धर्मग्रंथ
विचार
दर्शन
परम्परा
युग
वर्ण
मापन प्रणाली
Back
वैदिक समय
तीर्थ
Back
सिन्हस्थ उज्जैन
संदस्कग्रंथालयं
Back
पुराण
Back
पद्मपुराण
ब्रम्हा वैवर्त पुराण
भविष्यपुराण
भागवतपुराण
मत्स्यपुराण
मार्काण्डेय पुराण
ळिंगपुराण
वामनपुराण१
वाराहपुराण
वृष्णुपुराण
व्रम्हाण्ड पुराण
व्रम्हापुराण
स्कंदपुराण
अग्निपुराण
वामनपुराण
कुर्मपुराण
गरूणपुराण
नारद पुराण
संम्हितां
Back
चरक संम्हितां
सुश्रुत संम्हितां
भृगु संम्हितां
कश्यप संहिता
मैत्रायनी संम्हिता
घेरण्ड संहिता
शिव संहिता
अगस्त्य संहिता
सुतसंहिता
पराशर संम्हिता
गर्ग संम्हिता
वाराह संहिता
ब्रह्मसंहिता
रावण संहिता
वेदम्
Back
ऋगवेद
अथर्ववेदम्
यजुर्वेदम्
सामवेदम्
रामायण
महाभारतं
वार्ताः
Back
पंचागम्
राशिफल
ज्योतिष
अवतारणं
Back
औजारसाधनानी
पुस्तकानि
दस्तावेज
संजालसाधनं
Back
खोज साधनम्
संस्कृत सीखें
प्रत्यय निर्माणक
धातु रूप निर्माणक
संधि निर्माणक
तिङन्त निर्माणक
देवनागरी ब्राह्मी लिपि परिवर्तक
कुंडली प्रश्नोत्तरी
देवसभा
Back
प्रविश्यताम्
पंजीकरणम्
संपर्कः
Back
प्रस्तावना , गोपनीयता और शर्तें
कार्यकर्ताः
व्हाट्सएप समूह ज्वाइन करें
पितामह भीष्मः श्री देवव्रतः
महाभारते
भीष्म: सर्वेषां कृते अतीव आदरणीय: महान् कौरव: आसीत् । स: शूर: धीर: मानी विवेकी कर्तव्यतत्पर: प्रतिज्ञापरायणश्चासीत् । महात्मा भीष्मः प्रसिद्धस्य कुरुवंशस्य महाराजस्य:
शन्तनोः
पुत्रः। गङ्गादेवी एतस्य माता । भीष्म: तयो: अष्टम: पुत्र: । महर्षेः
वसिष्ठस्य
शापेण भीष्मरूपेण अवतारं गृहीतवान् एषः वसूनां मध्ये नवम
वसुः
आसीत् । बाल्यकाले एव वेदाध्ययनं शास्त्राभ्यासं च कृतवान् आसीत् । तदा एव अभ्याससमये एकवारं शरप्रयोगेण गङ्गाधारां स्थगितवान् आसीत् । बाल्ये एतं
देवव्रतः
इति निर्दिशन्ति स्म ।
पितृभक्तः भीष्मप्रतिज्ञः च
भीष्मस्य प्रतिज्ञावसरः रविवर्मचित्रम्
कदाचित् राजा शन्तनु: मृगयार्थं वनं गतवान् आसीत् । धीवरराजकन्यां सत्यवतीं (योजनगन्धा इति अपरनामिकां ) दृष्टवान् । तया सह विवाहं कर्तुम् इष्टवान् । किन्तु धीवरराजः सत्यवत्य़ा: पुत्र: एव अग्रे राज्याधिकारी भवेत् इति निर्बन्धं करोति । शन्तनु: एतं नियमं न अङ्गीकरोति । किन्तु सत्यवतीं न विस्मरति । स: विरहवेदनया खिन्नः अभवत् । तदा पुत्र: देवव्रत: एव पितु: दु:खस्य कारणं ज्ञात्वा स्वयमेव धीवरराजस्य समीपं गत्वा पितुः निमित्तं कन्यायाचनं करोति । धीवरस्य नियमान् अङ्गीकृत्य ‘सत्यवत्या: पुत्र: एव अग्रे राजा भविष्यति’ तदर्थम् आजीवनं ब्रह्मचर्यस्य व्रतं पालयामि’ इति भीष्मप्रतिज्ञां कृतवान् । एतद् श्रुत्वा देवा: अपि पुष्पवृष्टिं कृतवन्त: । तदारभ्य जना: एतं ‘भीष्मः’ इति आहूतवन्त: । एतां प्रतिज्ञां श्रुत्वा राजा सत्यवतीं भीष्मेण सह प्रेषितवान् । भीष्म: सत्यवतीं स्वीकृत्य पितु: विवाहं कारितवान् । शन्तनु: महता आनन्देन पुत्राय इच्छामरणस्य वरदानं दत्तवान् । एवं भीष्म: जीवनारम्भे एव पितु: इच्छायाः पूर्णतायै स्वजीवनस्य त्यागेन आदर्शम् उपस्थापितवान् ।
कुरुवंशदायित्वम्
सत्यवतीशन्तनो: पुत्रद्वयं जातम् । ज्येष्ठ:
चित्राङ्गद:
कनीय:
विचित्रवीर्य:
च । पुत्रयो: बाल्ये एव पिता दिवङ्गत: । चित्राङ्गद: राजा अभवत् । किन्तु गन्धर्वै: सह युद्धावसरे एष: अपि मृत: जात: । बालक: विचित्रवीर्य: भीष्मस्य नेतृत्वे राज्यभारं कुर्वन् आसीत् । किञ्चित् कालानन्तरं काशीनरेश: स्वस्य तिसॄणां पुत्रीणां स्वयंवरं कारयन् आसीत् । तस्मिन् अवसरे भीष्म: काशीं गत्वा विचित्रवीर्याय तिसॄ: कन्या: बलात् रथे उपवेश्य हस्तिनापुरं प्रति प्रस्थितवान् । स्वयंवरार्थम् आगता: सर्वे राजान: भीष्मेण सह युद्धं कृतवन्त: तथापि एतस्य अस्त्रकौशलस्य पुरत: केऽपि स्थातुं न शक्तवन्त: । भीष्म: तिसॄ: कन्या: अपि आनीय विचित्रवीर्याय दत्तवान् । एतस्मिन् अवसरे प्रथमवारं भीष्मस्य पराक्रमस्य शौर्यस्य च प्रदर्शनम् अभवत् ।
प्रतिज्ञाबद्धः
काशीराजस्य कन्यासु ज्येष्ठा
अम्बा
मनसि एव शाल्वराजं वृतवती आसीत् । यदा विषय: ज्ञात: तदा अनुक्षणं भीष्म: गौरवपूर्वकं तां तत्र प्रेषितवान् । द्वयो: कन्ययो: विवाहं विचित्रवीर्येण सह कारितवान् । किन्तु विचित्रवीर्य: अधिककालं न जीवितवान् । क्षयरोगात् स: मृत: जात: । तस्य अपत्यानि न आसन् । कुरुवंशस्य अन्त्यमेव आगतमिव भासते स्म । यदि इच्छति तर्हि भीष्मः राज्यं सुलभतया प्राप्तुम् अशक्ष्यत् । वंशस्य रक्षणाय विवाहं करोति चेत् कस्यापि आक्षेप: न अभविष्यत् । किन्तु स: स्वस्य प्रतिज्ञात: किञ्चिदपि विचलित: न अभवत् । कदाचित् स: उक्तवान् आसीत् यत् “अहं लोकत्रयस्य राज्य्पदविं, ब्रह्मपदविं, मोक्षपदविं वा त्यक्तुं शक्नुयां किन्तु सत्यं न त्यजामि। पञ्चभूता: स्वस्य गुणान् त्यजन्तु, धर्मराजः यमः स्वस्य धर्मं त्यजतु, चन्द्र: स्वस्य शीतलत्वं त्यजतु नाम किन्तु अहं मम प्रतिज्ञापालनत: विमुख: न भविष्यामि” इति ।
पराक्रमी भीष्मः
तत्र अम्बां शाल्व: न स्वीकृतवान् । लज्जापमानेन सा भीष्मे द्वेषम् आरब्धवती । स्व-अवस्थाया: कारणं भीष्म: इति मत्वा सा प्रतीकारार्थं सज्जा अभवत् । पितामह: राजर्षि:
होत्रवाहनस्य
सूचनाद्वारा सा
जमदग्ने:
पुत्रे
परशुरामे
शरणागता अभवत् । परशुराम: भीष्मस्य अस्त्रगुरु: । अत: स: भीष्मम् आहूय अम्बायाः पाणीग्रहणं भवता करणीयमेव इति आग्रहं कृतवान् । किन्तु प्रतिज्ञाबद्धेन भीष्मेन गुरोः वचनं न श्रुतम् । गुरु-शिष्ययो: भयङ्करं युद्धम् आरब्धम् अभवत् । कस्यापि जयः न अभवत्। त्रयोविंशतिदिनपर्यन्तं युद्धं कृतवन्तौ । अन्ते देवा: मुनय: च आगत्य शान्तरीत्या युद्धस्य समापनं कारितवन्त: । एवं भीष्म: परशुरामसदृशेन अद्वितीयधनुर्धरेण सह अपि युद्धं कृत्वा स्वस्य अद्भुतं पराक्रमं दर्शितवान् ।
महाभारतयुद्धे पात्रम्
महाभारतयुद्धे भीष्म: कौरवपक्षस्य सर्वश्रेष्ठ: योध: आसीत् । अत: एष: प्रथमसेनानायकस्य दायित्वं गौरवं च प्राप्तवान् । पाण्डवानां, कौरवाणां च पितामह: सन् द्वयो: विषयेऽपि एतस्य समानौ प्रीत्यादरौ आस्ताम् । तथापि धर्मिष्ठपाण्डवानां विषये विशेष-आत्मीयता आसीत् । मनसि एव तेषां विजयम् इच्छति स्म । किन्तु युद्धे कुत्रापि पाण्ड्वेभ्य: सहानुभूतिं न दर्शितवान् । लक्ष्यं केवलं कौरवाणां विजये एव आसीत् । अष्टादशदिनात्मके युद्धे दशदिनपर्यन्तमपि एष: एव कौरवसेनानायक: आसीत् । पाण्डवसेनाया: अधिकं संहारमपि कृतवान् । वृद्ध: चेदपि युद्धे एतस्य पराक्रम: तु अत्यद्भुतः आसीत्। द्विवारं स्वयं श्रीकृष्ण: एव अर्जुनस्य रक्षणार्थं साहाय्यं कृतवान् , चक्रमपि गृहीतवान् । युद्धे शस्त्रग्रहणं न करोमि इति श्रीकृष्ण: प्रतिज्ञां कृतवान् आसीत् । भीष्म: यावत् पर्यन्तं भवति तावत् पर्यन्तं कौरवाणां प्रति विजयम् असाध्यम् इति मत्वा पाण्डवा: पितामहम् एव तस्य मृत्यो: उपायं पृष्टवन्त: । भीष्मः स्वयं स्वस्य मृत्यो: उपायं सूचितवान् । ‘द्रुपदस्य पुत्र:
शिखण्डी
स्त्रीरूपेण जन्म प्राप्तवान् आसीत् । इदानीं स: पुरुष: इव परिवर्तितः चेदपि मम दृष्ट्या स: स्त्री एव । यदि स: मया सह युद्धं कर्तुम् आगच्छति तर्हि अहं शस्त्रप्रयोगं न करोमि । तस्मिन् अवसरे माम् अर्जुन्: मारयितुं शक्नोति’ इति । क्षत्रियधर्मपालनस्य पराक्रमस्य विषये इतोऽपि श्रेष्ठम् उदाहरणम् अस्ति किम्?
अन्त्यम्
युद्धे यदा मर्माघातेन भीष्म: पतितवान् तदा तस्य पूर्णशरीरं बाणेन पूरितमासीत् । शरशय्यायामेव स: शयितवान् आसीत् । भूमे: स्पर्शमपि न भवति स्म । तदा सूर्य: दक्षिणायने आसीत् । तस्मिन् अवसरे देहत्याग: सूक्त: न इति चिन्तयित्वा स: उत्तरायणस्य आगमनपर्यन्तमपि शरशय्यायामेव शयितवान् आसीत् । पितु: वरदानेन मृत्यु: तु स्वयं तस्य अधीने आसीत् । युद्धे यदा स: पतितवान् तदा युद्धं समाप्य कौरवा: पाण्डवा: सर्वे तं परित: स्थित्वा दृष्टवन्त: । भीष्मस्य शरीरं तु बाणानाम् आधारेण स्थितम् आसीत् । किन्तु शिर: एवमेव कम्पते स्म । आधाररहितमासीत् । तत्र स: किमपि आधारम् इष्टवान् । सर्वे उत्तमोत्तमानि उपधानानि आनीय दत्तवन्त: । भीष्म: तद् सर्वं न इष्टवान् । अर्जुनम् उद्दिश्य ‘पुत्र ! क्षत्रियोचितम् उपधानमेकम् आनीय मह्यम् ददातु’ इति उक्तवान् । वीराणां संज्ञा: वीरा: एव जानन्ति ।
अर्जुनः
पुन: बाणप्रयोगेन तस्य शिर: उन्नीतवान् । शराधारेण शिरसः शरीरस्य च समतोलनम् अभवत् ।
दुर्योधन:
तस्य शरीरत: बाणनिष्कासनाय वैद्यम् आनीतवान् चेदपि भीष्म: आदरपूर्वकं तं वैद्यं प्रेषितवान् । तस्मिन् समये अपि स: युद्धस्थगनाय शान्तिस्थापनाय च पूर्णं प्रयत्नं कृतवान् । किन्तु सफल: न जात: ।
शरशय्यायाम् असहनीयवेदनया भीष्मपितामहस्य कण्ठ: शुष्कः आसीत् । पूर्णं शरीरं ज्वलति स्म । स: पातुं जलम् इष्टवान् । जना: शीतलं सुगन्धयुक्तं जलम् आनीतवन्त: । एष: तदपि तिरस्कृत्य उक्तवान् ’ पूर्वम् उपयुक्तं मानवीयं फलानुभवम् इदानीं न् स्वीकरोमि । यत: इदानीम् अहं शरशय्यायाम् अस्मि । अनन्तरम् अर्जुनम् उद्दिशय ‘पुत्र ! भवान् एव मह्यं विध्युक्तं जलं ददातु’ इति । ’भवत: आज्ञा शिरोधार्या’ इत्युक्त्वा
अर्जुनः
भीष्मस्य पार्श्वे भूमौ एव स्वस्य पर्जन्यास्त्रं प्रयुक्तवान् । सर्वे पश्यन्त: आसन् । भूमीतः एका दिव्यजलधारा आगत्य साक्षात् भीष्मस्य मुखे एव अपतत् । अमृतसमानं तत् जलं पीत्वा भीष्मः: तृप्त: जात: । अर्जुनस्य प्रशंसां कृतवान् । तदारभ्य भीष्म: अन्नजलं त्यक्तवान् । अन्तिमश्वासपर्यन्तं बाणवेदनां बुभुक्षापिपासां च सोढवान् । एवं स: पराक्रमेण सह धैर्यस्य सहनशीलतायाः अपि उत्कृष्ट-उदाहरणं दर्शितवान् ।
भीष्म: केवलं पितृभक्त:, सत्यवादी, प्रतिज्ञाबद्द:, आदर्शवीर: वा न आसीत् । स: शास्त्राणां महान् ज्ञानी, धर्मज्ञानी, ईश्वरज्ञानी च आसीत् । तस्य ज्ञानस्य विषये स्वयं भगवान् एव प्रशंसां कृत्वा एवम् उक्तवान् अस्ति यत् ’यदा एतस्मात् लोकात् भवान् गच्छति तदा भवता सह सर्वमपि ज्ञानं गच्छति । प्रपञ्चे विद्यमानेभ्य: सन्देहास्पदेभ्य: विषयेभ्य: भवन्तं विहाय अन्ये केऽपि समाधानं परिहारं वा दातुं न शक्नुवन्ति’ इति । श्रीकृष्णपरमात्मनः प्रेरणया, शक्त्या सह एष: युधिष्ठिराय बहुदिनपर्यन्तं वर्णाश्रमधर्म:, राजधर्मं, आपद्धर्मं, मोक्षधर्मं, श्रद्धाधर्मं, स्त्रीधर्मं च उपदिष्टवान् । एते विषया: महाभारतस्य शान्तिपर्वणि, अनुशासनपर्वणि च सङ्गृहितानि सन्ति । साक्षात् धर्मस्य अंशेन उत्पन्नस्य, धर्मस्य प्रत्यक्षमूर्तेः राज्ञ: युधिष्ठिरस्य धार्मिकविषयानां सन्देहनिवारणमेव भीष्मस्य कार्यमासीत् । एतस्य उपदेशं श्रोतुं व्यासादयः मुनय: अपि आगच्छन्ति स्म ।
श्रीकृष्णपरमात्मनः महिमाया:, प्रभावस्य च ज्ञानं यथा भीष्मस्य आसीत् तथा ज्ञानं अन्यस्य नासीत् । अर्थात् श्रीकृष्णं बहुन्यूना: जना: जानन्ति स्म । धृतराष्ट्रदुर्योधनेभ्य: भीष्म: बहुवारं श्रीकृष्णस्य माहात्म्यं सूचितवान् आसीत् । राजसूययज्ञे अग्रपूजायै
श्रीकृष्ण:
एव सर्वोत्तम: इति निर्णीय एष: पूर्णसभायां श्रीकृष्णस्य महिमाया: गुणगानं कृत्वा स: साक्षात् परमेश्वर: एव इति बुद्धिवादम् उक्तवान् आसीत् । यदा श्रीकृष्ण: चक्रं गृहीतवान् तदा भीष्म: परमात्मनः हस्तत: मरणं तु स्वस्य सौभाग्यम् इति मत्वा शस्त्रद्वारा पूजां कर्तुं तस्य आह्वानं कृतवान् । युधिष्ठिराय भीष्म:
विष्णुसहस्रनामस्तोत्रम्
उक्तवान् । तत्र तु एतस्य भगवद्भक्ति: ज्ञानं च प्रवहति । तस्य भक्तिकारणत: एव तस्य अन्त्यकाले श्रीकृष्ण: तस्मै दर्शनं दत्त्वा तं कृतार्थं कृतवान् । एवं भक्तौ, ज्ञाने, सदाचारेषु एषः आदर्शप्राय: । प्रपञ्चस्य इतिहासे एतादृशा: जना: न्यूना: । भीष्मः: पुत्रहीन: चेदपि सर्वे त्रिवर्णीय हिन्दव: अपि पितृतर्पणकरणसमये एतस्मै अपि अर्घ्यम् अर्पयन्ति । एतादृश: गौरव: भारतस्य इतिहासे अन्यस्य कस्यापि नास्ति । पूर्णं जगत् अद्यापि एतं पितामह: इति आह्वयति । भीष्मसदृशस्य पुत्रहीनस्य सौभाग्यं तु पुत्रवताम् अपि असूयां जनयति ।
Previous article: जमदग्निः
पीछे
Next article: भरद्वाजमहर्षिः
अग्रिम