व्रम्हाण्ड पुराण1

व्रम्हाण्ड पुराण2

ब्रह्माण्ड पुराणम् (BrahmandaPurana) अष्टादशमहापुराणेषु अन्यतमः । महापुराणस्य दशलक्षणयुक्तमिदं महापुराणमित्येव प्रसिद्धम्। ब्रह्माण्डस्य वर्णनम् वायुना व्यासम् उद्दिश्य प्रोक्तम् इदं पुराणम् । अस्मिन् पुराणे द्वादश सहस्रं श्लोकाः सन्ति। विश्वस्य पौराणिकभूगोलं, विश्वखगोलं, अध्यात्मरामायणम् इत्यादयः विषयाः अस्मिन् पुराणे सन्ति ।श्राद्धविषयम् परशुरामचरित्रं च अतिविस्तृततया निरूपितमस्ति। एवं प्रक्रियापादः,अनुषङ्गपादः,उपोद्घातपादः,उपसंहारपादः इति चतुर्धा। हिन्दूसंस्कृत्याः स्पष्टरूपरेखा पुराणेभ्यः एव प्राप्यन्ते।