लकाराः

क्रियापदम्

वाक्ये क्रियाबोधकं पदं क्रियापदम् इति उच्यते । उदा - बालकः पाठं पठति । अत्र पठनक्रियां सूचयति 'पठति' इत्येतद् क्रियापदम् । संस्कृते क्रियापदं मूलरूपेण न भवति । क्रियापदस्य मूलरूपं धातुः इति उच्यते । पठति इत्येतस्य क्रियापदस्य मूलरूपम्/धातुः अस्ति पठ् । यथा प्रातिपदिकानां कृते विभक्तिप्रत्ययान् संयोज्य शब्दरूपाणि प्राप्नुमः तथा धातूनां कृते आख्यातप्रत्ययान् संयोज्य क्रियापदानि प्राप्नुमः । पठति इत्यत्र पठ-धातोः कृते 'ति' इयेषः आख्यातप्रत्ययः योजितः अस्ति ।

धातवः

संस्कृते धातवः द्विविधम्

१ सिद्धधातवः

२ साधितधातवः

मूलधातवः सर्वे सिद्धधातवः । उदा - पठ्, लिख, नी, पा साधितधातवः - मोचय्, जिज्ञास्, जाज्वल्, बाष्पाय् संस्कृते २२०० धातवः सन्ति । एतैः धातुभिः सह ये आख्यातप्रत्ययाः योज्यन्ते ते द्विविधम् - 'परस्मैपद' 'आत्मनेपद' च ।
यैः धातुभिः सह आत्मनेपद-आख्यातप्रत्ययाः मात्रं योज्यन्ते ते आत्मनेपदिनः इति उच्यन्ते ।
यैः धातुभिः सह परस्मैपद-आख्यातप्रत्ययाः मात्रं योज्यन्ते ते परस्मैपदिनः इति उच्यन्ते ।
यैः धातुभिः सह द्विविध-आख्यातप्रत्ययाः अपि योज्यन्ते ते उभयपदिनः इति उच्यन्ते ।

पुरुषाः

धातुभिः सह आख्यातप्रत्ययानां योजनावसरे क्रियापदं कस्य सम्बद्धम् इति ज्ञात्वा योजनीयं भवति । स्वस्य सम्बद्धं चेत् - उत्तमपुरुषः।
पुरतः विद्यमानस्य सम्बद्धः चेत् मध्यमपुरुषः ।
अन्यस्य सम्बद्धः चेत् प्रथमपुरुषः भवति ।

दश लकाराः

संस्कृतभाषायां विभिन्नकालस्य अर्थस्य च सूचनार्थं दश विधाः आख्यातप्रत्ययाः संयोज्य क्रियापदानि रचयन्ति ।
सामान्यतः कालः त्रिधा विभज्यते ।
क्रियमाणं कार्यं सूचयितुं वर्तमानकालस्य क्रियापदानि उपयुज्यन्ते ।
कृतं कार्यं सूचयितुं भूतकालस्य क्रियापदानि उपयुज्यन्ते ।
करिष्यमाणं कार्यं सूचयितुं भविष्यत्कालस्य क्रियापदानि उपयुज्यन्ते ।
किन्तु संस्कृते कालः षोढा (६) विभज्यते ।

  1. लट् - वर्तमाने

  2. लङ् - अनद्यतनभूते

  3. लिट् लकारः - परोक्षभूतकाले

  4. लुङ् - तृतीयभूतकालः / सामान्यभूतकालः

  5. लुट् - प्रथम-भविष्यत्कालः / अनद्यतनभविष्यत्कालः

  6. लृट् - द्वितीय-भविष्यत्कालः / सामान्यभविष्यत्कालः

*** लेट् - वेदप्रयोगे

षट्-लकाराः इव चत्वारः अर्थाः सन्ति -

  1. लोट् - आज्ञार्थः

  2. विधिलिङ् - विध्यर्थः

  3. आशीर्लिङ् - आशीरर्थः

  4. लृङ् - सङ्केतार्थः

एते सर्वे लकारतः आरब्धाः इत्यतः एते दश लकाराः इति उच्यन्ते । तान् सुलभतया स्मर्तुं संस्कृते कश्चन श्लोकः विद्यते -

लट् वर्तमाने लेट् वेदे भूते लङ् लुङ् लिटस्तथा ।

विध्याशिषोश्च लिङ्लोटौ लुट् ऌट् ऌङ् च भविष्यति ॥

लट् लकारः

 

संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा...

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् । ७.लोट् । ८.लुट् । ९.ऌट् । १०.ऌङ् ।

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः

  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र लट् लकारः वर्तमानकालं बोधयति ।

पठ् धातोः लट् लकारे रूपाणि

लट् लकारः(परस्मैपदम्)

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

पठति

पठतः

पठन्ति

मध्यमपुरुषः

पठसि

पठथः

पठथ

उत्तमपुरुषः

पठामि

पठावः

पठामः

लट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)

लट् लकारः(परस्मैपदम्)

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

ति

तः

अन्ति

मध्यमपुरुषः

सि

थः

उत्तमपुरुषः

आमि

आवः

आमः

सेव् धातोः लट् लकारे रूपाणि

लट् लकारः(आत्मनेपदम्)

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

सेवते

सेवेते

सेवन्ते

मध्यमपुरुषः

सेवसे

सेवेसे

सेवध्वे

उत्तमपुरुषः

सेवे

सेवावहे

सेवामहे

लट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)

लट् लकारः(आत्मनेपदम्)

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

ते

इते

अन्ते

मध्यमपुरुषः

से

इथे

ध्वे

उत्तमपुरुषः

वहे

महे

 

इमे अपि पश्यन्तु

Reference

धातूनां तिङन्तरूपाणि प्राप्तुम् अनुबन्धमेतत् उपयुज्यताम् - http://www.sanskrit.jnu.ac.in/tinanta/tinanta.jsp

लङ् लकारः

' लङ् लकारः'परस्मैपदम् तिङ् प्रत्ययाः । भुतकालस्य क्रियापदनिर्माण http://www.spokensanskrit.de

लङ्(परस्मैपदम्)एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरु़षः त् ताम् अन्
म़ध्यमपुरुषः स् तम्
उत्तमपुरु़षः अम्

लङ् (आत्मनेपदम्) तिङ् प्रत्ययाः । भूतकालस्य क्रियापदस्य निर्माणार्थम् ।

 एकवचनम्द्विवचनम्बहु वचनम्
प्रथमपुरु़षः त (अत) एताम् अन्त
म़ध्यमपुरुषः थाः (अथाः) इथाम् ध्वम् (अध्वम्)
उत्तमपुरु़षः आवहि आमहि

Reference

  • संस्कृतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.

लिट्लकारः - लकारेषु लिट् लकारः परोक्षभूतकालं बोधयति ।

पठ् धातोः लिट् लकारे रूपाणि

लट् लकारः(परस्मैपदम्)

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

पपाठ

पेठतुः

पेठुः

मध्यमपुरुषः

पेठिथ

पेठथुः

पेठ

उत्तमपुरुषः

पपाठ

पेठिव

पेठिम

 

लिट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)

लिट् लकारः(परस्मैपदम्)

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

अतुः

उः

मध्यमपुरुषः

इथ

अथुः

उत्तमपुरुषः

इव

इम

 

भाष् धातोः लिट् लकारे रूपाणि

लिट् लकारः(आत्मनेपदम्)

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

बभाषे

बभाषते

बभाषिरे

मध्यमपुरुषः

बभाषषे

बभाषाथे

बभाषिध्वे

उत्तमपुरुषः

बभाषे

बभाषिवहे

बभाषिमहे

 

लट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)

लट् लकारः(आत्मनेपदम्)

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

आते

इरे

मध्यमपुरुषः

इषे

आथे

इध्वे

उत्तमपुरुषः

इवहे

इमहे

लिट् परोक्षभूतकालः

एक वचनम् द्वि वचनम् बहु वचनम्

प्रथम पुरु़षः ए आते इरे

म़ध्यम पुरुषः से आथे ध्वे

उत्तम पुरु़षः ए वहे महे

 

  • संस्क्रतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.

  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.

  1. REDIRECT लिट्

धातूनां तिङन्तरूपाणि प्राप्तुम् अनुबन्धमेतत् उपयुज्यताम् - http://www.sanskrit.jnu.ac.in/tinanta/tinanta.jsp

 

 

ऌट् लकारः - भविष्यत्कालः

 

संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा...

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् । ७.लोट् । ८.लुट् । ९.ऌट् । १०.ऌङ् ।

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः

  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र ऌट् लकारः भविष्यत्कालम् बोधयति । अयम् अर्धधातुकेषु अन्यतमः वर्तते । एषः सामान्यभविष्यत्कालः इत्यपि उच्यते । सामान्यभूतकालः इव अद्य यद् करिष्यते कालनिर्देशं विना भविष्यत्काले यद् करिष्यते तस्य कथनाय लृट्लकारस्य उपयोगः क्रियते ।

उदा - अद्य रामायणं पठिष्यति ।

रात्रिर्गमिष्यति भविष्यति सुप्रभातम् ।

पठ् धातोः ऌट् लकारे रूपाणि

ऌट् लकारः(परस्मैपदम्)

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

पठिष्यति

पठिष्यतः

पठिष्यन्ति

मध्यमपुरुषः

पठिष्यसि

पठिष्यथः

पठिष्यथ

उत्तमपुरुषः

पठिष्यामि

पठिष्यावः

पठिष्यामः

ऌट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)

ऌट् लकारः(परस्मैपदम्)

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

स्यति

स्यतः

स्यन्ति

मध्यमपुरुषः

स्यसि

स्यथः

स्यथ

उत्तमपुरुषः

स्यामि

स्यावः

स्यामः

सेव् धातोः ऌट् लकारे रूपाणि

ऌट् लकारः(आत्मनेपदम्)

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

सेविष्यते

सेविष्येते

सेविष्यन्ते

मध्यमपुरुषः

सेविष्यसे

सेविष्येथे

सेविष्यध्वे

उत्तमपुरुषः

सेविष्ये

सेविष्यावहे

सेविष्यामहे

ऌट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)

ऌट् लकारः(आत्मनेपदम्)

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमपुरुषः

स्यते

स्येते

स्यन्ते

 

मध्यमपुरुषः

स्यसे

स्येथे

स्यध्वे

 

उत्तमपुरुषः

स्ये

स्यावहे

स्यामहे

 
भगवान ब्रम्हा का कुल...
Virendra Tiwari

भगवान ब्रह्मा का कुल!!!!!!

ब्रह्मा हिन्दू धर्म में एक प्रमुख  [ ... ]

अधिकम् पठतु
प्रयागराज कुम्भ 2019
Virendra Tiwari


प्रयागराज में 'कुम्भ' कानों में पड़ते ही गंगा, यमुना एवं सरस [ ... ]

अधिकम् पठतु
मकर संक्रान्ति पर दुर्लभ संयोग...
Virendra Tiwari

🚩🙏 ॐ मकर सक्रान्ति पर दुर्लभ संयोग :--
--------------------------------------------------

प [ ... ]

अधिकम् पठतु
देवनागरी ब्राह्मी लिपि परिवर्तक...
Virendra Tiwari

देवनागरी ब्राह्मी लिपि परिवर्तक function convert_to_Devanagari() { var a [ ... ]

अधिकम् पठतु
तिङन्त निर्माणक
Virendra Tiwari

$(function() { var availableTags = ['aMsa','ahi!','aka!','akzU!','aga!','aNka','aki!','aNga',' [ ... ]

अधिकम् पठतु
प्रत्यय निर्माणक
Virendra Tiwari

सवर्ण निर्माणक देववाणी - याति स्वयं प्रख्यार्पितग [ ... ]

अधिकम् पठतु
अन्य लेख