ए पि जे अब्दुल् कलाम् ( Sanskrit Essay on Dr. Abdul Kalam )

अवुल् पकिर् जैनुलाअबदीन अब्दुल् कलामः १५ अक्टोबर् १९३१ – २७ जुलै २०१५ अस्य जन्म क्रि.श. १९३१तमवर्षस्य अक्टोबरमासस्य पञ्चदशे दिने तमिळळ्नाडुराज्यस्य रामेश्वरम् इति मण्डलस्य धनुष्कोटि इति स्थाने अभवत् ।लोकः एतं डा. अब्दुल् कलाम इत्येव सम्बोधयति । भारतीयगणतन्त्रस्य एकादशः निर्वाचितः राष्ट्रपतिः अभवत् । कलामः प्रसिद्धः वैज्ञानिकः अभियन्ता अविवाहितः च आसीत् ।अस्य जन्म मध्यमवर्गस्य मुस्लिम् कुटुम्बे अभवत् । अस्य पिता जैनुलाब्दीन् तु धनवान् विद्यावान् च नासीत् । सः शुद्धहस्तः अनुशासितः नाविकः आसीत् । धीवरेभ्यः नौकाः भाटकरूपेण यच्छाति स्म । डा. अब्दुल् कालामः भारतस्य एकादशः राष्ट्रपतिः इति निर्वाचितः अभवत् । भारतीयजनतापक्षेण समर्थितः एन्.डि.ए. सङ्घटनं स्वस्य प्रतिनिधिम् अकरोत् यस्य समर्थनं विपक्षं विना अन्ये सर्वे अकुर्वन्। क्रि.श. २००२तमवर्षस्य जुलैमासस्य १८तमे दिने डा. कलामः ९०%बहुमतेन भारतस्य राष्ट्रपतिः अभवत् ।क्रि.श. १९६२तमवर्षे भारतीयान्तरिक्षानुसन्धानसङ्घटने सेवायां नियुक्तः । डा. अब्दुल् कलामः प्रकल्पनिदेशकत्वेन भारतस्य स्वदेशीयोपग्रहस्य (एस्.एल्.वी. तृतीयः)प्रक्षेपणस्य क्षिपणिनिर्माणस्य श्रेयः प्राप्तवान् । डा.कलामः स्वव्यक्तिगते जीवने अपि परिपूर्णः अनुशासितः अस्ति । आजीवनं ब्रह्मचर्यव्रतस्य पालनं सङ्कल्पितवान् । एषः कुरान्ग्रन्थं तथा भगवद्गीतां च समानतया अध्ययनं करोति । स्वयं कलामः बहुत्र उक्तवान् यत् सः तिरुक्कुरल् अपि अनुसरति इति । अस्यभाषणे न्यूनातिन्यूनम् एकस्य कुरलस्य उल्लेखः भवत्येव ।