महादेवभाई देसाई

महादेवभाई हरिभाई देसाई ( ( शृणु) /ˈməhɑːdɛvəbhɑːiː dɛsɑːiː/) (गुजराती: મહાદેવભાઈ દેસાઈ, हिन्दी: महादेवभाई देसाई, आङ्ग्ल: Mahadevbhai Desai) महात्मनः मानसपुत्रः । महात्मनः हनुमान् इत्यपि प्रसिद्धः सः । महात्मनः चर्चा यदा भवति, तदा महादेव देसाई, सरदार वल्लभभाई पटेल इत्यनयोः उल्लेखः निश्चयेन भवति । महात्मनः जीवनीलेखनं, तन्तुकरणयन्त्रस्य प्रचारः, ‘भारत छोडो’-आन्दोलने योगदानम् इत्यादिनि अविस्मरणियानि कार्याणि महादेव देसाई इत्यस्य ।

महात्मना सह महादेवभाई देसाई

जन्म

१८९२ तमस्य वर्षस्य 'जनवरी'-मासस्य प्रथमे (१) दिनाङ्के गुजरातराज्यस्य सुरतमण्डलस्य दिहण-नामके ग्रामेऽअभूत् तस्य जन्म । हरिभाई, जमनाबाई क्रमेण तस्य पिता, माता च । भारतीयमासानुगुणं पौष-मासस्य शुक्लपक्षस्य द्वितीयायां प्रातः नव(९)वादने अभूत् तस्य जन्म । तस्य पिता शिक्षकः, माता गृहिणी च आसीत् । सुसंस्कार-दृढमनोबल-नियमपालनादीनि महादेवः पितृभ्यां प्राप्तवान् । सः सप्तवर्षीयः यदा आसीत्, तदैव तस्य माता दिवङ्गता ।

बाल्यं शिक्षणञ्च

पिता सर्वकारीयपाठशालायां शिक्षकः आसीत् । अतः पौनःपुन्येन तस्य स्थानान्तरणं (Transfer) भवति स्म । तेन महादेवस्य पठने विघ्नाः उद्भूताः । तथापि सः एकाग्रचित्तेन अध्ययनरतः अभूत् । चतुरः, कुशलः, निष्कपटः च विद्यार्थी इति शिक्षक-विद्यार्थिषु तस्य प्रसिद्धिः आसीत् । सुन्दराक्षरैः, नियततया गृहकार्यं कृत्वैव सः पाठशालां गच्छति स्म । सुरत-महानगरं सुवर्णनगरम् इति प्रख्यातम् आसीत् । उद्योग-भवननिर्माण-यन्त्रागाराः बाहुल्येन विकसिताः तत्र । तथापि महादेवस्य गृहं तु लघु एवासीत् । तस्य गृहे विद्युत् अपि नासीत् । अतः एरण्डतैलस्य (castor) दीपकप्रकाशे पठितवान् सः ।

 

बाल्यकालादेव तस्य मनसि देशभक्तिविचाराः प्रबलाः आसन् । १९०५ तमे वर्षे बङ्गाल-राज्ये आन्दोलनं चलदासीत् । तस्यान्दोलनस्य विषये जनजागृत्यर्थं नित्यं समाचारपत्रात् समाचारान् पठित्वा सः सहाध्यायिनः बोधयति स्म । बालकालस्य वर्णनं कुर्वन् महादेवः स्वजीवन्याम् अलिखत्, "'मेट्रिक'-इत्यस्य परीक्षार्थं मुम्बई-महानगरम् अगच्छम् । मुम्बई-महानगरे पितृव्यस्य गृहे अतिष्ठम् । परीक्षास्थलात् पितृव्यस्य गृहं प्राप्तुं यदा अहं निर्गतवान्, तदा मार्गं विस्मृतवान् आसम् । मार्गविस्मृतः अहं बहु रोदनं कुर्वन् इतस्ततः भ्रमन् आसम् । मार्गे कश्चित् आरक्षकः भ्रमन्तं, रुदन्तं माम् अपश्यत् । सः आरक्षकः मां गृहस्य सङ्केतं (Address) अपृच्छत् । अहं झटिति गृहसङ्केतम् उक्तवान् । ततः आरक्षकः मां गृहं अप्रापयत्" ।

 

प्राथमिकविद्यालये अभ्यासं समाप्य महादेवः 'एलफिन्स्टन्'-महाविद्यालये प्रवेशं प्राप्तवान् । महाविद्यालयस्य समीपस्थे 'जी.टी.' छात्रालये न्यवसत् सः । तस्मात् छात्रालयात् नित्यं सः महाविद्यालयं पठितुं गच्छति स्म । विद्यालये गृहकार्यादिकं यथा सः समयेन कृतवान्, तथैव महाविद्यालयेऽपि कृतवान् । स्वल्पे काले सः शिक्षक-विद्यार्थिषु योग्यविद्यार्थित्वेन प्रसिद्धः अभूत् । महाविद्यालये तत्त्वज्ञान-विषयम् अधिकृत्य अध्ययनमकरोत् सः । अष्टादशे वयसि सः तत्त्वज्ञानस्य स्नातककक्षाम् उत्तीर्णाम् अकरोत् । स्नातकस्य अध्ययनं यदा महादेवः कुर्वन् आसीत्, तदा तस्य सहपाठी आसीत् वैकुण्ठ महेता । तस्य वैकुण्ठस्य पिता अध्ययने महादेवस्य बहु साहाय्यम् अकरोत् । विद्यार्थिकालात् एव महादेवः कुशलः अनुवादकः आसीत् । १९१३ तमे वर्षे यदा सः न्यायशास्त्राध्यननं कुर्वन् आसीत्, तदा सः मुम्बई-महानगरस्य पुस्तकप्रकाशनसंस्थायां कार्यम् (Job) अपि कुर्वन् आसीत् । तस्य वेतनं षष्ठिः रूप्यकाणि आसन् । १९१३ तमे वर्षे एव 'ज्होन मार्ली' इत्यनेन लिखितस्य 'ओन कोम्प्रोमाईज' इत्यस्य पुस्तकस्य अनुवादं सः अकरोत् । वेतनोपरान्तम् एकसहस्रं (१०००) रूप्यकाणि पारितोषिकमपि प्राप्तवान् सः । सः बङ्गाली-भाषामपि अपठत् । ततः महाकवेः रवीन्द्रनाथ ठाकुर इत्यस्य 'चित्राङ्गदा'-पुस्तकस्य अनुवादमपि अकरोत् सः ।

 

महात्मना सह मेलनम्

१९१५ तमस्य वर्षस्य 'जुलाई'-मासस्य चतुर्थे (४) दिनाङ्के प्रेमाभाई सभागृहे गान्धि-महादेवयोः प्रप्रथमः परिचयः अभूत् । ततः महात्मनः सान्निध्यं सम्प्राप्य महादेवः देशसेवायै सम्पूर्णं जीवनम् अयच्छत् । सः बहुषु आन्दोलनेषु प्रतिनिधित्वेन कार्यमकरोत् । परन्तु महात्मनः सचिवत्वेन सः स्मर्यते । सः महात्मना स्थापिते आश्रमे एव निवसति स्म । महात्मना निर्धारितान् आश्रमसम्बद्धनियमान् सर्वे आश्रमवासिनः पालयेयुः तत् दायित्वं महादेवस्यैव आसीत् । महात्मनः सूचनानां पालनं महादेवः निष्ठया करोति इति आश्रमवासिभिः बहुवारम् अनुभूतम् ।

 

एतादृशी एका घटना श्रूयते । एकवारं महात्मा आदिशत, “देशभक्ताः आश्रमाय यावतां फलानां दानं कुर्वन्ति, तावत्सु अवशिष्टानां फलानां वितरणं बालेषु, रुग्णेषु च भवतु” इति । महात्मना उक्तम् आसीदतः एका सेविका महादेवं पृष्टवती यत्, “भ्रातः ! देशभक्ताः फलानि प्रेषयिष्यन्ति इति सूचना अस्ति । देशभक्तैः यानि फलानि प्रेषितानि आसन्, तेषु बहूनि फलानि अवशिष्टानि सन्ति । तेषु कानिचन फलानि विगलितानि अपि सन्ति । किम् अहं तानि सर्वाणि अवशिष्टानि फलानि गुजरातविद्यापीठस्य विद्यार्थिभ्यः प्रेषयामि” ? । महादेवः उग्रस्वरेण पृष्टवान्, “तानि फलानि समीचीनानि तु सन्ति न वा ? वयं भोक्तुं शक्नुमः खलु ?” सेविकायाः मुखे भयं दृष्ट्वा महादेवः शान्त्या, स्पष्टतया च महात्मनः आदेशस्य हार्दं सेविकाम् अबोधयत् । सः उक्तवान्, “यानि फलानि विगलितानि सन्ति, तानि अस्मभ्यं स्थापयतु । देशभक्ताः यानि फलानि प्रेषयिष्यन्ति, तानि विद्यार्थिभ्यः प्रेषयिष्यामः । महात्मा बालेषु, रुग्णेषु च फलवितरणं कुर्वन्तु इति आदिशत । किन्तु सः विगलितानि फलानि ददतु इति नोक्तवान् खलु ? सः तु इष्टतमानि फलानि अन्यस्मै दत्त्वा आनन्दम् अनुभवति । अत्रापि तस्य तदेव कथनमासीत्” । एवं महात्मनः आदर्शविचारान् श्रद्धया अनुसरन् जीवनं व्यापयत् सः ।

 

महादेवस्य मृत्युः

 

दक्षिणहस्ते, वामहस्ते च क्रमेण कस्तूरबा-महादेवयोः स्मारकम्

मनुष्यजीवनसम्बद्धाः महादेवस्य विचाराः अतिगहनाः आसन् । सः अवगतवान् आसीत् यत्, क्षणानन्तरं जीवने किं भविष्यति इति न कोऽपि जानाति । अतः सः जीवनं नश्वरम् इति बोधयितुम् आश्रमवासिभ्यः लोहपुरुषस्य जीवने घटितां घटनां श्रावयति स्म । लोहपुरुषः 'ब्रीज' इति क्रीडायाः महान् रसिकः आसीत् । एकस्मिन् दिने सः नूतनानि वस्त्राणि धृत्वा मित्रैः सह 'ब्रीज'-क्रीडायां रतः आसीत् । कश्चित् मित्रं तस्य समीपस्थे आसन्दे एव स्थित्वा क्रीडन् आसीत् । अकस्मात् सः मित्रं लोहपुरुषस्य उपरि एव पतितः । लोहपुरुषः किमपि वदेत् तस्मात् पूर्वमेव लोहपुरुषस्य ज्ञानमभूत् यत्, एषः तु मृतः इति । तस्य मित्रस्य हस्ते 'ब्रीज'-क्रीडापत्राणि तथैवासन् । परन्तु सः मृतः । ततः लोहपुरुषः कदापि 'ब्रीज'-क्रीडां न क्रीडितवान् । एतस्याः घटनायाः उल्लेखं कुर्वन् महादेवः जीवनस्य नश्वरतां बोधयति स्म । जीवनं नश्वरम् इति विचारः ईश्वराय कार्यं करणीयम् इति महादेवं बोधयति स्म । महादेवस्य मृत्युरपि अकस्मादेव अभूत् ।

 

पुणे-महानगरस्य कारागारे महात्मा, महादेवः, सरोजिनी नायडु-आदयः सर्वे बन्दिनः आसन् । १९४२ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चादशदिनाङ्कस्य प्रातःकाले सरोजिनी नायडु महादेवं दर्पणं पुरः दृष्टवती । महादेवः क्षौरकर्मणि व्यस्तः आसीत् । ततः सः प्रार्थनायां भागमवहत् । प्रार्थनानन्तरं सर्वे स्वकार्ये रताः अभवन् । सहसा सरोजिनी नायडु सर्वान् आहूतवती । सा उक्तवती "महादेवे किमपि जायमानमस्ति" इति । महादेवस्तु भूमौ पतितः आसीत् । सर्वेषां मनसि आगतं सः वायुप्रकोपेन किञ्चित् रुग्णः जातः स्यात् । परन्तु तस्य श्वासः एव न चलन् आसीत् । एतत् दृष्ट्वा कस्तूरबा रोदनं प्रारब्धवती । सर्वेषाम् आश्चर्यमभूत् यत्, सद्यः वयं तस्य मुखात् मधुरां प्रर्थानां श्रुतवन्तः । अकस्मात् एतत् किमभूत् ?

 

किञ्चित् समयानन्तरं स्पष्टम् अभूत् यत् हृदयाघातेन सः मृतः इति । महात्मा उक्तवान्, "तस्य कोषान् रिक्तान् कुर्वन्तु" इति । कश्चित् सेवकः कोषयोः हस्तं स्थापयति । एकस्मात् कोषात् लेखनी, अपरस्मात् कोषात् श्रीमद्भगवद्गीता प्राप्ता तेन । रुद्धस्वरेण महात्मा उक्वान्, “'वैष्णव जन तो..' गीतं गायन्तु सर्वे । ततः रामनाम्नः गानं, श्रीमद्भगवद्गीतायाः पठनञ्च करिष्यामः” इति । महादेवस्य पार्थिवशरीरं स्नपयित्वा महात्मनः प्रकोष्ठे स्थापितवन्तः । ततः महादेवस्य पार्थिवशरीरस्य समीपम् उपविश्य सर्वे श्रीमद्भगवद्गीतायाः पारायाणम् अपि कृतवन्तः । तत्र महात्मा उक्तवान्, “महादेवः सर्वदा कारागारस्य बन्दिवत् जीवनं यापितवान् । अतः तस्य अन्तिमविधिः अपि बन्दिवत् एव भवेत्” इति । कारागारस्य अधिकारी चन्दनं, पुष्पाणि च आनीतवान् । चन्दनं महादेवस्य ललाटे प्रस्थाप्य सर्वे क्रमशः तं पुष्पैः अवन्दन् । वन्दनप्रक्रिया चलन्ती एव आसीत्, कारागाराधिकारिणः शवं नेतुम् आगताः । तत् दृष्ट्वा महात्मा अवदत्, “महादेवः मम पुत्रः आसीत् । कोऽपि पिता कदापि तस्य पुत्रस्य शवम् अन्यस्मै अन्तिमसंस्काराय न यच्छति । अहमेव तस्य अन्तिसंस्कारं करिष्यामि” इति । ततः महात्मा एकस्मिन् हस्ते दण्डं, अपरे हस्ते घटं नीत्वा अग्रे चलनम् आरब्धवान् । सर्वे रामनाम जपन्तः तम् अनुसृतवन्तः । एवं भारतस्य सुपुत्रः परमयात्रां प्रारभत ।

पुणे-महानगरस्य 'आगा खान पेलेस्' इत्यत्र महादेवस्य 'ॐ स्मारकम्' अस्ति ।

आगा खान-प्रासादस्य विहङ्गं दृश्यम्

आगा खान-प्रासादस्य विहङ्गं दृश्यम्