विग्रहवाक्यावयववदार्थेभ्यः परः=अन्यः योऽयं विशिष्टैकार्थः, तत्प्रतिपादिका वृत्तिः । प्रथमविगृहीतानां पदानां प्रत्येकम् अर्थवत्त्वेन, समुदायशक्त्या विशिष्टैकार्थप्रतिपादिका वृत्तिः इति फलितम् । वृत्तयः पञ्च - कृत्-तद्धित-समास-एकशेष-सनाद्यन्तधातुरूपाः पञ्च वृत्तयः । यथा - • कृद्वृत्तिः – पचति इति – पाचकः । • तद्धितवृत्तिः – दशरथस्य अपत्यम् – दाशरथिः । • समासवृत्तिः – राज्ञः पुरुषः – राजपुरुषः । • एकशेषवृत्तिः – माता च पिता च – पितरौ । • सनाद्यन्तधातुवृत्तिः – १. पठितुम् इच्छति – पिपठिषति । २. पुत्रम् आत्मनः इच्छति – पुत्रीयति । ३. पुनः पुनः अतिशयेन वा नृत्यति – नरीनृत्यते ।

  • कृत्

  • तद्धितः

  • समासः

  • एकशेषः

  • सनाद्यन्तधातुः