नारद पुराण

 
नारदपुराणं (NaradaPuranam) अष्टादशसु पुराणेषु अन्यतमं वर्तते । इदं किञ्चन प्राचीनं पुराणम् । पुराणस्य पञ्च अपि लक्षणानि अत्र दृश्यन्ते। नारदीयपुराणे ९७ अध्याये नारदपुराणस्य लक्षणम् उक्तमस्ति। तद्यथा,

शृणु विप्र ! प्रवक्ष्यामि पुराणं नारदीयकम्।
पञ्चविंशतिसाहस्रं बृहत्कल्पकथाश्रयम्॥ इति।

“नारदोक्तं पुराणन्तु नारदीयं प्रचक्षते।“
अनेन श्लोकार्धेन ज्ञायते यत् नारदेन उक्तं पुराणं नारदपुराणं भवति। नारदपुरणं विभागद्वये विभक्तम् अस्ति। उत्तरखण्डः तथा पूर्वखण्डश्च इति। पूर्वभागे चत्वारः पादाः सन्ति। १२५ अध्यायाः सन्ति। एवं उत्तरभागे ८२ अध्यायाः सन्ति। २२,००० सहस्र श्लोकाः अस्मिन् पुराणे सन्ति। नारदपुराणं वैष्णवपुराणं भवति। अस्मिन् पुराणे वैष्णवसम्प्रदायस्य अनुष्ठानपद्धतिः वर्णितः अस्ति। पूर्वभागे वर्णाश्रमदर्माणां निरूपणं कृतं दृश्यते। आश्रमाणां आचारविचाराश्च निरुपितम् अस्ति। श्राद्धकर्म, एवं प्रायश्चित्तादीनां विशेषनिरूपितम् अस्ति। एवम् अतिरिक्ततया व्याकरणम्, निरुक्तम् तथा छन्दःशास्त्रादीनां विवरणम् अस्मिन् पुराणे लभ्यते। अस्मिन् पुराणे रामस्यकृष्णस्यविष्णोः,काल्याःहनूमतस्य शिवस्यचविवरणानि समन्त्रपूर्वकं लभ्यन्ते। अस्य पुराणस्य वैशिष्ठ्यं किम् इति चेत्, १८ पुराणानां विषयानुक्रमणिका विस्तृतरूपेण विद्यते अस्मिन् पुराणे। अनेन संक्षेपेण १८ पुराणानां ज्ञानं प्राप्तुं शक्यते। कार्तिकमाहात्म्यम्, पार्थिवलिङ्गमाहात्म्यम्, दत्तात्रेयस्तोत्रम्, सङ्कटगणपतिस्तोत्रम्, श्रीकृष्णमाहात्म्यम्, यादवगिरिमाहात्म्यम्, मृगव्याधकाथाः इत्यादि अनेन पुराणेन उत्पनाः ग्रन्थाः भवन्ति।