???Speaking in Sanskrit????? सरल संस्कृतम् मित्रों यह लेख बहुत बडा है परन्तु इसमें बहुत संस्कृत ज्ञान है समय हो तो अवश्य पढें। शिष्टाचारः ( Common formulas or Good practices)[सम्पाद्यताम्] • हरिः ॐ ! = Hello ! • सुप्रभातम् |* = Good morning. • नमस्कारः/नमस्ते । = Good afternoon/Good evening. • शुभरात्रिः । = Good night. • धन्यवादः । = Thank You. • स्वागतम् । = Welcome. • क्षम्यताम् । = Excuse/Pardon me. • चिन्ता मास्तु । = Dont worry. • कृपया । = Please. • पुनः मिलामः । = Let us meet again. • अस्तु । = All right./O.K. • श्रीमन् । = Sir. • मान्ये/आर्ये । = Lady. • साधु साधु/समीचीनम् । = Very good. मेलनम् ( Meeting )[सम्पाद्यताम्] • भवतः नाम किम् ? = What is your name? (masc.) • भवत्याः नाम किम् ? = What is your name? (fem.) • मम नाम ‌.....। = My name is ..... • एषः मम मित्रं .....। = This is my friend ..... • एतेषां विषये श्रुतवान् = I have heard of them • एषा मम सखी .....। = This is my friend ..... (fem.). • भवान् किं (उद्योगं) करोति ? = What do you do? (masc.) • भवती किं (उद्योगं) करोति? = What do you do? (fem.) • अहं अध्यापकः अस्मि । = I am a teacher (masc.) • अहम अध्यापिका अस्मि । = I am a teacher.(fem.) • अधिकारी/अधिकारिणी = Officer; • टङ्कलेखकः/टङ्कलेखिका = Typist • तंत्रज्ञः/तन्त्रज्ञा = Engineer; • प्राध्यापकः/प्राध्यापिका = Professor • लिपिकः/लिपिका = Clerk • न्यायवादी/न्यायवादिनी = lawyer • विक्रयिकः/विक्रयिका = Salesman; • व्याख्याता/व्याख्यात्री = Lecturer • अहं यन्त्रागारे कार्यं करोमि । = I work in a factory. • कार्यालये = in an office; • महाविद्यालये = in a college • वित्तकोषे = in a bank; • चिकित्सालये = in a hospital • माध्यमिकशालायां = in a high school; • यन्त्रागारे = in a factory • भवान्/भवती कस्यां कक्ष्यायां पठति ? = Which class are you in? • अहं नवमकक्ष्यायां पठामि । = I am in Std.IX. • अहं .कक्ष्यायां पठामि । = I am in I/II/III/B.Sc. class. • भवतः ग्रामः ? = Where are you from? • मम ग्रामः .....। = I am from ..... • कुशलं वा ? = How are you ? • कथमस्ति भवान् ? = How are you ? • गृहे सर्वे कुशलिनः वा ? = Are all well at home? • सर्वं कुशलम् । = All is well. • कः विशेषः ? ( का वार्ता ?) = What news? • भवता एव वक्तव्यम् । = You have to say. • कोऽपि विशेषः ? = Anything special? • भवान् (भवती) कुतः आगच्छति ? = Where are you coming from? • अहं शालातः, गृहतः, ...तः = I am coming from school/house/.... • भवान्/भवती कुत्र गच्छति ? = Where are you going? • भवति वा इति पश्यामः । = Let us see if it can be done. • ज्ञातं वा ? = Understand ? • कथं आसीत् ? = How was it? • अङ्गीकृतं किल ? = Agreed? • कति अपेक्षितानि ? = How many do you want? • अद्य एव वा ? = Is it today? • इदानीं एव वा ? = Is it going to be now? • आगन्तव्यं भोः । = Please do come. • तदर्थं वा ? = Is it for that ? • तत् किमपि मास्तु । = Don't want that. • न दृश्यते ? = Can't you see? • समाप्तं वा ? = Is it over? • कस्मिन् समये ? = At what time? • तथापि = even then • आवश्यकं न आसीत् । = It was not necessary. • तिष्ठतु भोः । = Be here for some more time. • स्मरति किल ? = Remember, don't you? • तथा किमपि नास्ति । = No, it is not so. • कथं अस्ति भवान् ? = How are you? • न विस्मरतु । = Don't forget. • अन्यच्च = besides • तदनन्तरम् = then • तावदेव किल ? = Is it only so much? • महान् सन्तोषः । = Very happy about it. • तत् तथा न ? = Is it not so? • तस्य कः अर्थः ? = What does it mean? • आं भोः । = Yes, Dear, Sir. • एवमेव = just • अहं देवालयं/कार्यालयं/विपणिं गच्छामि । = I am going to temple/office/market. • किं चिराद् दर्शनं ? = What is the matter ? You are not seen these days. • भवन्तं कुत्रापि दृष्टवान्। = I remember to have seen you somewhere. • भवान् सम्भाषणशिबिरं आगतवान् वा ? = Have you come to the conversation camp ? ध्यातव्यं: Note: • शब्दाः 'भवान्/भवती' is used for the convenience of Samskrita conversation learning. • The verb used for 'भवान्/भवती' is III Person Singular instead of II Person singular. • तर्हि कुत्र दृष्टवान् ? = In that case where have I seen you? • तर्हि तत्रैव दृष्टवान् |= I must have seen you there in that case. सरल वाक्यानि (Simple sentenes)[सम्पाद्यताम्] • तथैव अस्तु । = Let it be so/so be it. • जानामि भोः । = I know it. • आम्, तत् सत्यम् । = Yes,that is right. • समीचीना सूचना । = A good suggestion indeed. • किञ्चित् एव । = A little. • किमर्थं तद् न भवति ? = Why can't that be done ? • भवतु नाम । = Leave it at that. • ओहो ! तथा वा ? = Oh! Is that so ? • एवमपि अस्ति वा ? = Is it like this ? • अथ किम् ? = Then ? • नैव किल ! = No • भवतु ! = Yes • आगच्छन्तु । = Come in. • उपविशन्तु । = Please sit down. • सर्वथा मास्तु । = Definitely no. • अस्तु वा ? = Can that be so ? • किमर्थं भोः ? = Why ? • प्राप्तं किल ? = You have got it, haven't you ? सामान्य वाक्यानि (Ordinary sentences)[सम्पाद्यताम्] • प्रयत्नं करोमि । = I will try. • न शक्यते भोः । = No, I can't. • तथा न वदतु । = Don't say that. • तत्र कोऽपि सन्देहः नास्ति । = There is no doubt about it. • तद् अहं न ज्ञातवान् । = I didn't know that. • कदा ददाति ? = When are you going to give me ? • अहं कथं वदामि 'कदा इति' ? = How can I say when ? • तथा भवति वा ? = Can that be so ? • भवतः समयावकाशः अस्ति वा ? = Are you free ? • अद्य भवतः कार्यक्रमः कः ? = What are your programmes for today ? • अरे ! पादस्य / हस्तस्य किं अभवत् ? = Oh! What happened to your legs/arms? • बहुदिनेभ्यः ते परिचिताः। = I have known him for long ( shouldn't be'them' for 'him'? May be plural'te' is used for a VVIP)) • तस्य कियद् धैर्यं/धार्ष्ट्यम् ? = How dare he is ? • भवान् न उक्तवान् एव । = You have not told me.. • अहं किं करोमि ? = What can I do ? • अहं न जानामि । = I don't know. • यथा भवान् इच्छति तथा । = As you wish/say. • भवतु, चिन्तां न करोतु = Yes, don't bother. • तेन किमपि न सिध्यति । = There is no use/nothing hppenns on account of that. • सः सर्वथा अप्रयोजकः । = He is good for nothing. • पुनरपि एकवारं प्रयत्नं कुर्मः । = Let us try once more. • मौनमेव उचितम् । = Better be quiet. • तत्र अहं किमपि न वदामि । = I do not want to say anything in this regard/No comments, please/I must think before I say anything. • तर्हि समीचीनम् । = O.K. if that is so. • एवं चेत् कथम् ? = How then, if it is so ? • मां किञ्चित् स्मारयतु । = Please remind me. • तं अहं सम्यक् जानामि । = I know him well. • तदानीमेव उक्तवान् किल ? = Haven't I told you already ? • कदा उक्तवान् भोः ? = When did you say so ? • यत्किमपि भवतु । = Happen what may. • सः बहु समीचीनः = He is a good fellow. • सः बहु रूक्षः । = He is very rough. • तद्विषये चिन्ता मास्तु । = Don't worry about that. • तथैव इति न नियमः । = It is not like that. • कर्तुं शक्यं, किञ्चित् समयः अपेक्षते । = I/We can do it, but require time. • न्यूनातिन्यूनं एतावत् तु कृतवान् ! = At least he has done this much ! • द्रष्टुं एव न शक्यते । = Can't see it. • तत्रैव कुत्रापि स्यात् । = It may be somewhere there. • यथार्थं वदामि । = I am telling the truth. • एवं भवितुं अर्हति । = This is O.K./all right. • कदाचित् एवमपि स्यात् । = It may be like this sometimes. • अहं तावदपि न जानामि वा ? = Don't I know that much ? • तत्र गत्वा किं करोति ? = What are you going to do there ? • पुनः आगच्छन्तु । = Come again. • मम किमपि क्लेशः नास्ति । = It is no trouble (to me). • एतद् कष्टं न । = This is not difficult. • भोः, आनीतवान् वा ? = Have you brought it ? • भवतः कृते कः उक्तवान् ? = Who told you this ? • किञ्चिदनन्तरं आगच्छेत् । = He/It may come sometime later. • प्रायः तथा न स्यात् । = By and large, it may not be so. • चिन्ता मास्तु, श्वः ददातु । = It is no bother, return it tomorrow. • अहं पुनः सूचयामि । = I will let you know. • अद्य आसीत् वा ? = Was it today ? • अवश्यं आगच्छामि । = Certainly, I will come. • नागराजः अस्ति वा ? = Is Nagaraj in ? • किमर्थं तत् एवं अभवत् ? = Why did it happen so ? • तत्र आसीत् वा ? = Was it there ? • किमपि उक्तवान् वा ? = Did you say anything ? • कुतः आनीतवान् ? = Where did you bring it from ? • अन्यत् कार्यं किमपि नास्ति । = Don't have any other work. • मम वचनं शृणोतु । = Please listen to me. • एतत् सत्यं किल ? = It is true, isn't it ? • तद् अहं अपि जानामि । = I know it myself. • तावद् आवश्यकं न । = It is not needed so badly. • भवतः का हानिः ? = What loss is it to you ? • किमर्थं एतावान् विलम्बः ? = Why are you late ? • यथेष्टं अस्ति । = Available in plenty. • भवतः अभिप्रायः कः ? = What do you say about it ?/What is your opinion ? • अस्य किं कारणम् ? = What is the reason for this ? • स्वयमेव करोति वा ? = Do you do it yourself ? • तत् न रोचते ? = I don't like it. • उक्तं एव वदति सः । = He has been repeating the same thing. • अन्यथा बहु कष्टम् । = It will be a big botheration if it is not so. • किमर्थं पूर्वं न उक्तवान् ? = Why didn't you say it earlier ? • स्पष्टं न जानामि । = Don't know exactly. • निश्चयः नास्ति । = Not sure. • कुत्र आसीत् भवान् ? = Where were you ? • भीतिः मास्तु । = Don't get frightened. • भयस्य कारणं नास्ति । = Not to fear. • तदहं बहु इच्छामि = I like that very much. • कियत् लज्जास्पदम् ? = What a shame ? • सः मम दोषः न । = It is not my fault. • मम तु आक्षेपः नास्ति । = I have no objection. • सः शीघ्रकोपी । = He is short-tempered. • तीव्रं मा परिगणयतु । = Don't take it seriously. • आगतः एषऽवराकः । = Camped here.(?) • युक्ते समये आगतवान् । = you have come at the right time. • बहु जल्पति भोः । = He talks too much. • एषा केवलं किंवदन्ती । = It is just gossip. • किमपि न भवति । = Nothing happens. • एवमेव आगतवान् । = Just came to call on you. • विना कारणं किमर्थं गन्तव्यम् ? = Why go there unnecessarily ? • भवतः वचनं सत्यम् । = You are right. • मम वचनं कः शृणोति ? = Who listens to me ? • तदा तद् न स्फुरितम् । = It did not flash me then. • किमर्थं तावती चिन्ता ? = Why so much botheration ? • भवतः किं कष्टं अस्ति ? = Tell me, what your trouble is ? • छे, एवं न भवितव्यं आसीत् । = Tsh, it should not have happened. • अन्यथा न चिन्तयतु । = Don't mistake me. मित्र मिलनम् ( Meeting the friends )[सम्पाद्यताम्] • नमोनमः । = Good morning/afternoon/evening • किं भोः, दर्शनमेव नास्ति ! = Hello, didn't see you for long ! • नैव, अत्रैव सञ्चरामि किल ! = No, I have been moving about right here ! • किं भोः, वार्ता एव नास्ति ? = Hello, not to be seen for a long time ! • किं भोः, एकं पत्रं अपि नास्ति ? = Hey, You haven't even written a letter ! • वयं सर्वे विस्मृताः वा ? = You have forgotten us all, Haven't you ? • कथं विस्मरणं भवति भोः ? = How can I forget you ? • भवतः सङ्केतं एव न जानामि स्म। = I didn't know your address. • महाजनः संवृत्तः भवान् ! = you have become a big man ! • भवान् एव वा ! दूरतः न ज्ञातम् । = Is it you ? I couldn't recognise you from a distance. • ह्यः भवन्तं स्मृतवान् । = I remembered you yesterday. • किं अत्र आगमनम् ? = What made you come here ? • अत्रैव किञ्चित् कार्यं अस्ति । = I have some work here. • त्वरितं कार्यं आसीत् | अतः आगतवान् । = I am here as I have some urgent work. • बहुकालतः प्रतीक्षां करोमि । = I have been waiting for you for a long time. • यानं न प्राप्तं, अत एव विलम्बः । = Could not get the bus,hence late. • आगच्छतु भोः, गृहं गच्छामः । = Come, let us go home. • इदानीं वा, समयः नास्ति भोः । = Now? No time, you know. • श्वः सायं मिलामः वा ? = Shall we meet tomorrow evening ? • अवश्यं तत्रैव आगच्छामि । = I'll come there without fail. • इदानीं कुत्र उद्योगः ? = Where do you work now ? • यन्त्राकारे उद्योगः । = I work in a factory. • ग्रामे अध्यापकः अस्मि । = I am a teacher in a village. • इदानीं कुत्र वासः ? = Where are you put up ? • एषः मम गृहसङ्केतः । = This is my address. • यानं आगतं, आगच्छामि । = Bus has come, bye, bye. • अस्तु, पुनः पश्यामः । = OK. Let us meet again. • पुनः अस्माकं मिलनं कदा ? = When shall we meet again ? • पुनः कदा मिलति भवान् ? = When are you going to meet me ? (again) • तद्दिने किमर्थं भवान् न आगतवान् ? = Why didn't you come that day ? • वयं आगतवन्तः एव । = We have already arrived. • भवतः समीपे संभाषणीयं अस्ति । = I have something to talk to you about. • भवान् अन्यथा गृहीतवान् । = You have mistaken me. • भवन्तं बहु प्रतीक्षितवान् । = I very much expected you. • बहुकालतः तस्य वार्ता एव नास्ति । = No news from him for days. • भवतः पत्रं इदानीं एव लब्धम् । = I have just received your letter. • किञ्चिद्दूरं अहमपि आगच्छामि । = I will walk with you for some distance. • मिलित्वा गच्छामः । = Let us go together. • तिष्ठतु भोः, अर्धार्धं काफी पिबामः । = Wait, let's have a by-two coffee (It appears to mean sharing one cup of coffee between two persons) • अस्तु, पिबामः । = Fine, let us have it. • स्थातुं समयः नास्ति । = No time to stay. • गमनात् अनुक्षणमेव पत्रं लिखतु । = Write as soon as you reach there. • पुनः कदाचित् पश्यामि । = Meet you again. • यदा कदा वा भवतु, अहं सिद्धः । = I am ready any day. • तेषां कृते मम शुभाशयान् निवेदयतु । = Convey my good wishes to them/*him(Only if that person is a VIP). • किं भोः, एवं वदति ? = Hey, why do you say so ? • किञ्चित् कालं तिष्ठतु । = Please wait for some time. • भवान् एव परिशीलयतु । = Think about it, yourself. • अत्र पत्रालयः कुत्र अस्ति ? = Where is the post office, here ? • कियद्दूरे अस्ति ? = How far is it ? • वित्तकोषः कियद्दूरे अस्ति ? = How far is the bank ? • किमर्थं एवं त्वरा (संभ्रमः) ? = Why so much of confusion ? • इतोऽपि समयः अस्ति किल ? = There is still time, isn't it ? • सर्वस्य अपि मितिः भवेत् । = There should be some limit for everything. • कियद् इति दातुं शक्यम् ? = How much can I give him ? • कस्मिन् समये प्रतीक्षणीयम् ? = When shall I expect ? • गृहे उपविश्य किं करोति ? = What are you going to do by sitting at home ? • भवतः परिचयः एव न लब्धः । = Could not recognize you. • किं भोः, बहु कृशः जातः ? = Hey, You have become very weak. • अवश्यं मम गृहं आगन्तव्यम् । = Please do call on us. • सः सर्वत्र दर्वीं चालयति । = He pokes his nose everywhere. • यथा भवान् इच्छति । = I am game for whatever you say. • परिहासाय उक्तवान् भोः । = I said it in fun, You know. • एषः भवतः अपराधः न । = It is not your fault. • नैव, चिन्ता नास्ति । = No, no trouble/botheration. • वयं इदानीं अन्यद्गृहे स्मः । = We live in a different home now/Changed our residence. • भवान् मम अपेक्षया ज्येष्ठः वा ? = Are you elder to me ? • ओहो, मम अपेक्षया कनिष्ठः वा ? = Younger to me, is it ? • भवान् विवाहितः वा ? = Are you married ? • नैव, इदानीमपि एकाकी । = No, still a bachelor. • भवतः पिता कुत्र कार्यं करोति ? = Where does your father work ? • सः वर्षद्वयात् पूर्वमेव निवृत्तः । = He retired two years ago. • सः वृद्धः इव भाति । = He looks aged. • भवन्तः सर्वे सहैव वसन्ति वा ? = Do all of you live together ? • नैव, सर्वे विभक्ताः = No, we live separately. • भवतः वयः कियत् ? = How old are you ? • भवन्तः कति सहोदराः ? = How many brothers are you ? • वयं आहत्य अष्टजनाः । = We are eight. • भवान् एव ज्येष्ठः वा ? = Are you the eldest ? • मम एकः अग्रजः अस्ति । = I have an elder brother. • सः इदानीमपि बालः । = He is still a boy. • भवतः अनुजायाः कति वर्षाणि ? = How old is your younger sister ? • भवान् मा ददातु, मा स्वीकरोतु । = Neither give, nor take anything. • अन्यं कमपि न पृच्छतु । = Don't ask anyone except me. • तर्हि सर्वं दायित्वं भवतः एव । = In that case the entire responsibility is yours. • सर्वत्र अग्रे सरति । = He takes the initiative in everything. • भवन्तं गृहे एव पश्यामि । = I will see you in your house. • सः निष्ठावान् । = He is very orthodox. • यावदहं प्रत्यागच्छामि, तावद् प्रतीक्षां करोतु । = Wait till I come. • द्वयोः एकः आगच्छतु । = Either of the two come. • तस्य कृते विषयः निवेदितः वा ? = Have you informed him about the news? • तस्य कृते सः अत्यन्तं प्रीतिपात्रम् । = He is closely related to him. • भवता एतद् न कर्तव्यम् । = You should not do this. • यदि सः स्यात्\.\.\. । = Had he been here... • अवश्यं आगन्तव्यं, न विस्मर्तव्यम् । = Don't forget, please do come. • कियत् कालं तिष्ठति ? = How long will you be here? • एषा वार्ता मम कर्णमपि आगता । = I have heard of this news. • सः स्तोकात् मुक्तः । = He escaped narrowly. • भवन्तं द्रष्टुं सः पुनः आगच्छति किल ? = He is going to come back to see you. Isn't he ? • अहं किमर्थं असत्यं वदामि ? = Why should I tell a lie ? • भवान् अपि एवं वदति वा ? = Of all the people are you going to say this ? • भवान् एवं कर्तुं अर्हति वा ? = Can you do this ? • भवान् गच्छतु, मम किञ्चित् कार्यं अस्ति । = You proceed, I have some work. • वृथा भवान् चिन्तां करोति । = You just worry unnecessarily. • दैवेच्छा तदा आसीत्, किं कुर्मः ? = It was God's will. What shall we do ? • अहं अन्यद् उक्तवान्, भवान् अन्यद् गृहीतवान् । = I told you one thing. You understood it differently. • एतावद् अनृतं वदति इति न ज्ञातवान् । = I never expected that he would tell a lie. • प्रमादतः संवृत्तम्, न तु बुद्ध्या । = I did not do it purposely. It was just accidental. • एषः एकः शनिः । = This fellow is a bugbear. • भवदुक्तं सर्वमपि अङ्गीकर्तुं न शक्यम् । = I cannot agree with all you say. • अहं गन्तुं न शक्नोमि । = I cannot go. • विषयस्य वर्धनं मास्तु । = Don't escalate the matter. • सर्वेऽपि पलायनशीलाः । = All these fellows take to their heels in the face of danger. • असम्बद्धं मा प्रलपतु । = Don't talk foolishly. • सर्वस्य अपि भवान् एव मूलम् । = You are the root cause of all these. • सुलभेन तस्य जाले पतितवान् । = He fell into his trap easily. • अस्माकं मिलनानन्तरं बहु कालः अतीतः । = It is a long time since we met. • इदानीं आगन्तुं न शक्यते । = I cannot come now. • भवान् अपि अङ्गीकरोति वा ? = Do you agree ? • भवान् अपि विश्वासं कृतवान् ? = Did you believe that ? • सः विश्वासयोग्यो वा ? = Is he trustworthy ? • किञ्चित् साहाय्यं करोति वा ? = Would you mind helping me a bit ? • समयः कथं अतिशीघ्रं अतीतः ! = How quickly the time passed ! • युक्ते समये आगतवान् । = You have come at the right time. • एक निमेषं विलम्बः चेत् अहं गच्छामि स्म । = I would have left if you were late by a minute. • अहमपि भवता सह आगच्छामि वा ? = Shall I come with you ? • किञ्चित् कालं द्विचक्रिकां ददाति वा ? = Would you mind lending me your bicycle for a few minutes ? • इदानीं मया अपि अन्यत्र गन्तव्यम् । = I have to go somewhere now. • भवान् स्वकार्यं पश्यतु । = You mind your business. • शीघ्रं प्रत्यागच्छामि । = I'll be back in a short while. • आवश्यकं चेत् श्वः आनयामि । = If you want it, I shall bring it tomorow. • {\rm `}मास्तु{\rm '} इत्युक्तेऽपि सः न शृणोति । = I said no,but he doesn't listen to me.