बाणभट्टः
महाकविः बाणभट्टः गद्यकाव्यजगतः चक्रवर्ती । पद्यं वद्यं गद्यं हृद्यम् इति उक्तिः बाणस्य गद्यप्रबन्धारचनादनन्तरमेव लोकोक्तितामशिश्रियत् इति भाति । कविराजः इति नामा गद्यकविरेकः वदति यत्-सुबन्धुर्बाणभट्टश्चकविराज इति त्रयः इति श्लेषार्थचमत्कारे वयं त्रय एव गद्यकवयः इति साधयति । बाणभट्टस्य कवितासामर्थ्यविचारे गोवर्धनाचार्यस्य प्रशंसावचनम् एवमस्ति
"जाता शिखण्डिनी प्राक् यथा शिखण्डी तथाऽवगच्छामि । प्रागल्भ्यमधिकमाप्तुं वाणी बाणे बभूवेति ॥
धर्मदासः नामकः कविः प्रश्नोत्तररूपेण-
"रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति । तत्किं तरुणी नहि नहि वाणी बाणस्य मधुरशीलस्य"॥
इति विदग्धमण्डनम् नामके ग्रन्थे बाणवाणीं प्राशंसत् । महाकविः जयदेवः ब्रूते, यथा -
हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः इति । अपि च -
बाणोच्छिष्टम् जगत्सर्वम्, तथा कादम्बरीरसज्ञानाम् आहारोऽपि न रोचते इत्यादय उक्तिनट्यः सहृदयानां वदनरङ्गे नरीनृत्यन्ति ।
बाणस्य देशकालौ
शोणानद्याः पश्चिमे तीरे स्थितः प्रीतिकूटम् नाम अग्रहारः (ब्राह्मणानां निवासस्थानम्) बाणस्य जन्मभूमिः आसीत् । वात्स्यायनवंशजः "चिन्तामणिः" बाणस्य पिता । राजदेवी बाणस्य माता । बाणस्य भट्ट इति उपनाम आसीत् । अपि च उक्तिरेवमस्ति यथा-
अलभत च चित्रभानुस्तेषां मध्ये राजदेव्यभिधानायां ब्राह्मण्यां बाणमात्मजम् । इति ।
अतोऽयं ब्राह्मण आसीदिति व्यज्यते । बाणस्य जन्मस्थानस्य समीप एव यष्टिगृहम् नाम ग्रामः, ततोऽपि अनतिदूरे श्रीहर्षवर्धनस्य द्वितीयशिलादित्यस्य राज्यम् "श्रीकण्ठदेशः" अविद्यत । हर्षवर्धनशिलादित्यः क्रि.श.६०६-६४७ काले आस । इति हर्षचरिते उल्लिखितम् । अतः बाणभट्टोऽपि सप्तमे शतमाने आसीत् इति स्पष्टतया अवगम्यते ।
जीवनचरितम्
शैशवे एव बाणस्य मातृवियोगः अभवत् । ततः पिता एव बालस्य रक्षणपोषणभारम् ऊढवान् । समुचिते वयसि विधिवत् उपनयनादिसंस्कारान् विधाय शिक्षणं च प्रादात् । बाणस्य चतुर्दशे वयसि पितापि दिवंगतः । शिक्षको रक्षकश्च पिता यदा मृतः तदा खिन्नः बाणः स्वस्य यौवनारम्भे किंकर्तव्यतामूढः स्वगामं गृहं प्रियान् मित्राणि च त्यक्त्वा एकाकी सन् नाना देशान् बभ्राम । एवं भ्रमता बाणेन शूद्रस्त्रीसञ्जातौ चन्द्रसेनमातृषेणौ, भाषाकविः ईशानः, वारबाणवीसबाणनामानौ विद्वांसौ, वर्णकविः वेणीभारतः जाङ्गलिकः(विषवैद्यः) मयूरः, भिषक्पुत्रः मन्दारकः इत्यादयः बाणस्य नूतनाः सुहृदः समभवन् । एवं च बहुकालं यावत् देशाटनं कृत्वा पुनः स्वग्रामं प्रीतिकूटम् प्रत्याजगाम । इष्टगोष्ठीषु कालयापनं कुर्वन् आसीत् । बाणस्य स्वग्रामागमनं पाण्डित्यं च कर्णाकर्णिकया श्रुत्वा श्रीहर्षसार्वभौमस्य मातुलः चित्रभानोः मित्रं च कृष्णः श्रीहर्षं सम्प्रार्थ्य बाणम् हर्षस्य आस्थानपण्डितमण्डल्यां प्रवेशयामास । ततः किञ्चित्कालानन्तरं बाणः हर्षस्य आप्तमित्रम् अभवत् । बाणः स्वस्य आश्रयदातुः हर्षस्य जीवनचरितम् हर्षचरितम् नामकं ग्रन्थं गद्यरूपेण न्यबध्नात् । भूषणभट्टः बाणभट्टस्य पुत्रः । कादम्बरीतिगद्यकाव्यस्य उत्तरार्धं भूषणभट्टः अलिखदिति जनश्रुतिः अस्ति ।
तत्रभवता महाकविना गद्यचक्रवर्तिना कादंबरी इति अभूतपूर्वम् गद्यकाव्यम् विरचितम् । संस्कृतकाव्यरसिकः को वा नजानाति बाणभट्टस्य शुभनाम? । ’बाणोच्छिष्टम् जगत् सर्वम्’ इति प्रशस्तिपरा उक्तिरेव सूचयति बाणकवेः प्रतिभासामग्र्यम् । य: प्रतिभया प्रसिद्ध्या सहृदयप्रियतया च सर्वान् संस्कृतकावीन् अतिशेते, काव्यतत्वस्य विमर्शकैः पण्डितैः औचित्यविचारचर्चासंसदि लब्धयशाः स बाण एव नान्यः । बाणभट्टस्य जन्मभूमिः शोणानद्याः पश्चिमे दिशि विद्यमानः प्रीतिकूटम् नाम अग्रहारः, यस्य पार्श्वे यष्टिगृहं नाम ग्रामः, ततः किञ्चिद्दूरे राज्ञः श्रीहर्षवर्धन(द्वितीयशिलादित्य)स्य राज्यम् ’श्रीकण्ठदेश’ आसीत् । वात्स्यायनवंशचिन्तामणिः चित्रभानुः एतस्य पिता । अस्य मातुः नाम राजदेवी इति । बाणस्य बाल्य् एव मातृवियोगः अजायत । पिता चित्रभानुरेव कुशलमतेः पुत्रस्य रक्षण-पोषणभारम् अवहत् । सत्काले विध्युक्तरीत्या उपनयनादिसंस्कारान्, समुचितां शिक्षां च ददौ । किन्तु अस्य चतुर्दशे वर्षे पिता दिवंगतः ।
बाणभट्टस्य कृतयः
- हर्षचरितम्
- कादम्बरी
- चण्डीशतकम्
- पार्वतीपरिणयनाटकम्