वैदुष्य सर्वत्र आनंदमय
🌹 कोरोनारक्षाकवचम् 🌹
त्वं करुणावतारोऽसि कोरोनाख्यविषाणुधृक् ।
रुद्ररूपश्च संहर्ता भक्तानामभयङ्करः ।। ०१।।
मृत्यञ्जय महादेव कोरोनाख्याद्विषाणुतः ।
मृत्योरपि महामृत्यो पाहि मां शरणागतम् ।।०२।।
मांसाहारात्समुत्पन्नाज्जगत्संहारकारकात् ।
करुणाख्याद्विषाणोर्मां रक्ष रक्ष महेश्वर ।। ०३।।
चीनदेशे जनिं लब्ध्वा भूमौ विष्वक्प्रसर्पतः ।
जनातङ्काद्विषोणोर्मां सर्वतः पाहि शङ्कर ।। ०४।।
बालकृष्णः स्मरंस्त्वां वै कालकूटं न्यपादहो ।
न ममारार्भकः शम्भो ततस्त्वां शरणं गतः ।। ०५।।
समुद्रमथनोद्भूतात् कालकूटाच्च बिभ्यतः ।
त्वयैव रक्षिता देवा देवदेव जगत्पते ।। ०६।।
परक्षेत्रे चिकित्स्योऽयं महामारो भयङ्करः ।
भीषयति जनान्सर्वान् भव त्राता महेश्वर ।।०७।।
वैद्या वैज्ञानिका विश्वे परास्ताश्च चिकित्सकाः ।
आतङ्किता निरीक्षन्ते त्रातारं त्वामुमेश्वर ।।०८।।
रक्ष रक्ष महादेव त्रायस्व जगदीश्वर ।
पाहि पाहि प्रपन्नं मां कोरोनाख्याद् विषाणुतः ।।०९।।
नान्यं त्वदभयं जाने भीतानां भीतिनाशकृत् ।
अतस्त्वां शरणं यातं भीतं पाहि महेश्वर ।।१०।।
महायोगिन् महादेव कोरोनाख्यं विषाणुकम् ।
संविनाश्य जनान् रक्ष तव भक्तान् विशेषतः ।।११।।
मांसाहारान् सुरापानान् कामं संहरतादयम् ।
कोरोनाख्यो विषाणुस्तु मा हिंस्याच्छिवसेवकान् ।।१२।।
भिक्षुयोगेश्वरानन्दकृतं द्वादशपद्यकम् ।
जनः पठन् रक्षणीयस्त्वयैव परमेश्वर ।।१३।।
_________________________