॥प्रक्रियासर्वस्वम्॥ गङ्गाधरन् नायर् भारतराष्ट्रे केरलराज्ये जन्म प्राप्तवत्सु संस्कृतसाहित्यसपर्यां कृतवत्सु महात्मसु सर्वप्रथमं स्थानम् अद्वैताचार्यस्य श्रीशङ्करस्य , तदनन्तरं स्थानं श्रीमतः नारायणभट्टपादस्य इति भूयसाम् आधुनिकगवेषकाणाम् अभिप्रायः । केरलीयभाषाभूते मलयाळे नारायणभट्टतिरि (नारायणभट्टश्रीः इति संस्कृते) इति प्रथितः अयं भट्टापादः श्रीकृष्णभक्तिमयस्य नारायणीयम् इति स्तोत्रकाव्यस्य रचनां कृतवान् , गुरुवायुपुरे श्रीकृष्णमन्दिरे विग्रहस्य पुरतः प्रतिदिनम् एकं दशकम् इति क्रमेण दिनशतेन इदं काव्यं पठित्वा स्वस्य तीव्रवातरोगात् विमुक्तः अभवत् इति ऐतिह्यं प्रसिद्धं भवति । मीमांसा, व्याकरणं , ज्योतिषं, तर्कः इत्यादिषु नानाशास्त्रेषु निष्णातः नारायणभट्टः अम्बरनदीराजस्य देवनारायणस्य आज्ञया प्रक्रियासर्वस्वं नाम व्याकरणग्रन्थस्य रचनां षष्ट्या दिनैः ( by 60 days ) कृतवान् । सः वदति – भूखण्डे केरळाख्ये सरितमिह निळामुत्तरेणैव नावा- क्षेत्राद् गव्यूतिमात्रे पुनरुपरिनवग्रामनाम्नि स्वधाम्नि । धर्मिष्ठाद्भट्टतन्त्राद्यखिलमतपटोर्मातृदत्तद्विजेन्द्रा- ज्जातो नारायणाख्यो निरवहदतुलां देवनारायणाज्ञाम् ॥ इतः ज्ञायते तस्य गृहम् उपरिनवग्रामः ( मेल्पुत्तूर् इति मलयाळभाषायाम् ) , तच्च निळायाः ( इदानीं भारतप्पुषा इति प्रथितायाः नद्याः ) तीरे नावामुकुन्ददेवमन्दिरात् नातिदूरे, पिता मातृदत्तनामकः नम्पूतिरिब्राह्मणः च इति ॥ स्वस्य शिक्षाविषये भट्टापादः वदति – मीमांसादि स्वतातान्निगममविकलंमाधवाचार्यवर्यात्- तर्कं दामोदरार्यादपि पदपदवीमच्युताख्याद् बुधेन्द्रात् । तेषां कारुण्ययोगात् किमपि च कवितामाप्नवं कर्म चैतद् भूयात्कृष्णार्पणं मे भवतु च सततंधीरघारेः कथायाम् ॥ एतदनुसृत्य नारायणस्य मीमांसागुरुः पिता एव , वेदगुरुः माधवाचार्यः , न्यायशास्त्रगुरुः दामोदरः, व्याकरणाचार्यः अच्युतपिषारोटिः च आसन् इति । शास्त्रेषु काव्यभेदेषु च भट्टपादः बहून् ग्रन्थान् विरचितवान् । नारायणीयं काव्यं पूर्वं सूचितम् । गुरुवायुपुरेशम् अभिसम्बोध्य शतसङ्ख्यकेषु दशकेषु सहस्राधिकैः पद्यैः तस्मिन् कृष्णकथा वर्णिता अस्ति । अतिमनोहरं काव्यम् इदम् । श्रीपादसप्ततिः इति देवीस्तुतिपरं स्तोत्रकाव्यं बाणभट्टस्य चण्डीशतकस्य समानं वर्तते । धातुकाव्यं व्याकरणशास्त्रकाव्यं भवति यत्र त्रिषु सर्गेषु कंसवधवर्णनेन साकं माधवीयधातुवृत्तिम् अनुसृत्य क्रमेण धातुनिष्पन्नक्रियारूपाणि उदाहृतानि सन्ति । देवीस्तुतिनामके स्तोत्रे नव पद्यनि सन्ति येषु कटपयादिसंख्यासम्प्रदायेन ऋग्वेदस्य अष्टकानां वर्गाणाम् अध्यायानां सूक्तानां च संख्याः सूचिताः । स्वस्य उपकारं कृतवतां राज्ञां प्रशस्तयः नारायणेन प्रणीताः सन्ति -- शैलाब्धीशमानविक्रमप्रशस्तिः, माटमहीशवीर-केरलप्रशस्तिः, अम्बरनदीशदेवनारायणप्रशस्तिः, बिम्बिलीशगोदवर्मप्रशस्तिः च । राजसूयम्, सुभद्राहरणम्, पाञ्चालीस्वयंवरः, मत्स्यावतारः, गजेन्द्रमोक्षः, कुचेलवृत्तम्, अजामिलोपाख्यानम्, अष्टमीचम्पूः इत्यादयः अनेके चम्पूप्रबन्धाः तेन विरचिताः सन्ति यान् उपयुज्य चाक्यारनामक-जातीयाः इदानीमपि देवमन्दिरेषु अनुष्ठेयं "कूत्तु" नामकं क्लारूपम् अवतारयन्ति । शूर्पणखा-प्रलापप्रबन्धे अनुनासिकाः वर्णाः न सन्ति इति सः निरनुनासिकप्रबन्धः इति प्रसिद्धः । व्याकरणे प्रक्रियासर्वस्वम् , अपाणिनीयप्रमाणता इति ग्रन्थतल्लजद्वयं विशेषतः उल्लेखनीयं वर्तते । व्याकरणप्रस्थानद्वयं प्रक्रियासर्वस्वं च पाणिनेः अष्टाध्याय्यां येन क्रमेण सूत्राणि पठितानि तेन क्रमेण एव पुरातनकाले सूत्राणाम् अर्थप्रतिपादनम् उदाहरणप्रदर्शनं च आसीत् । अत्यन्तं सङ्क्षेपेण , स्मरणसौकर्यापेक्षया च पाणिनिना सूत्राणां क्रमः स्वीकृतः । अतः सूत्रेषु शब्दानाम् आवर्तनं यावच्छक्यं परिहृतम् । एकस्य सूत्रस्य अर्थज्ञानाय तस्मिन् सूत्रे विद्यमानानाम् ऊह्यानां वा शब्दानाम् अपेक्षया अधिकाः शब्दाः आवश्यकाः सन्ति तर्हि पूर्वसूत्रेभ्यः ग्रहीतुं शक्यन्ते इति अस्य क्रमस्य सौष्ठवम् । काशिकायाम् अष्टाध्यायीक्रमेणैव सूत्राणाम् पाठः , अर्थप्रतिपादनम्, उदाहरणं च सन्ति । एवं रीत्या पाणिनीयसूत्रशिक्षणस्य काशिकाप्रस्थानम् इति नाम अधुना व्याकरणशास्त्रिभिः कथ्यते । शब्दानां रूपनिष्पत्तिप्रतिपानाय अष्टाध्याय्याम् एकत्र पठितस्य सूत्रस्य अनन्तरम् अपरत्र पठितस्य सूत्रस्य अपेक्षा स्यात् । अतः प्रक्रियाज्ञाने क्लेशः अस्ति इति अस्य प्रस्थानस्य दोषः । धर्मकीर्तेः रूपावतारे , विमलसरस्वत्याः रूपमालायां , रामचन्द्रदीक्षितस्य प्रक्रियाकौमुद्यां च अष्टाध्यायीक्रमं त्यक्त्वा प्रक्रियानुसारेण सूत्राणि विन्यस्य व्याख्यातानि उदाहृतानि च । इमां रीतिं कौमुदीप्रस्थानमिति कथयन्ति वैयाकरणाः । नारायणभट्टः ( 1560-1666 क्रि.सं.), तस्य समकाले जीवितवान् भट्टोजिदीक्षितः ( 1550-1630 क्रि.सं.) च प्रक्रियानुसारेण सूत्राणि प्रतिपादितवन्तौ । नारायणभट्टस्य प्रक्रियासर्वस्वं भट्टोजिदीक्षितस्य वैयाकरण-सिद्धान्तकौमुदी च कौमुदीप्रस्थाने अन्तर्भवतः । तौ महान्तौ परस्परं न दृष्टवन्तौ, परस्परस्य ग्रन्थान् अपि न दृष्टवन्तौ । कर्णाकर्णिकया दीक्षितः नारायणस्य महत्त्वं श्रुतवान् इति ऐतिह्यं प्रचलति । सिद्धान्तकौमुद्याः महान् प्रचारःअभवत् । इदानीमपि व्याकरणपठने सा एवअधिकतया आश्रीयते॥ प्रक्रियासर्वस्वस्य पृष्ठभूमिका काशिकावृत्तौ शब्दानां रूपसिद्धिप्रकारः सम्यक् न प्रदर्शितः । रूपावतारे, प्रक्रियाकौमुद्याम् , अन्येषु प्रक्रियाग्रन्थेषु च सर्वेषां पाणिनिसूत्राणां वर्णनं नास्ति । अनेन कारणेन अम्बरनदीदेशनरेशः पाणिनीयव्याकरणस्य समग्रं ग्रन्थं रचयितुं भट्टपादम् आदिष्टवान् । तद्विषये भट्टः लिखति-- सो/थ कदाचन राजा स्वगुणैराकृष्य स्वसन्निधिं नीतम् । श्रीमातृदत्तसूनुं नारायणसंज्ञमशिषदवनिसुरम् ॥ वृत्तौ चारु न रूपसिद्धिकथनं रूपावतारे पुनः कौमुद्यादिषु चात्र सूत्रमखिलं नास्त्येव तस्मत् त्वया । रूपानीतिसमस्तसूत्रसहितं स्पष्टं मितं प्रक्रिया- सर्वस्वाभिहितं निबन्धनमिदं कार्यं मदुक्ताध्वना ॥ स्वकीयग्रन्थस्य यावच्छक्यं सर्वशब्दानुशासनत्वम् अभिलषन् नारायणभट्टः स्वपठितानां बहूनां ग्रन्थानाम् उपयोगं करोति । व्याकरणग्रन्थरचनार्थं यावत्सङ्ख्यकानां ग्रन्थानाम् उपयोगं सः कृतवान् तावत्सङ्यकानाम् अन्यः न को/पि अन्यः शास्त्रकारः कृतवान् इति नारायणस्य प्रशंसायां वक्तव्यमस्ति । मुनित्रयात् परमपि भाषायां प्रयोगे आगतानां शब्दानां साधुत्वं साधयितुम् इच्छन् भोजराजविरचितस्य सरस्वतीकण्ठाभरणस्य , दण्डनाथेन विरचितायायाः तद्वाख्यायाः हृदयहारिण्याः च अधिकतया उपयोगं करोति इति सुव्यक्तं दृश्यते ॥ विषयविन्यासः शैली च अम्बरनदीनरेशः विद्वान् आसीत् । तस्य निर्देशम् अनुसृत्य एव प्रक्रियासर्वस्वे प्रकरणानि योजितानि । तत्र विंशतिः खण्डाः सन्ति -- संज्ञाखण्डः , परिभाषाखण्डः , सन्धिखण्डः , कृत्खण्डः , तद्धितखण्डः , समासखण्डः , स्त्रीप्रत्ययखण्डः , सुबर्थखण्डः , सुब्विधिखण्डः , आत्मनेपद-परस्मैपदविभागखण्डः , तिङ्खण्डः, लार्थविशेषखण्डः , सनन्तखण्डः , यङ्खण्डः , यङ्लुक्खण्डः , सुब्धातुखण्डः , न्यायखण्डः , धातुखण्डः, उणादिखण्डः , छान्दसखण्डः । सरलवाक्यैः सूत्राणाम् अर्थः उदाहरणानि च प्रक्रियासर्वस्वे उच्यन्ते । क्वचित् क्वचित् पद्येन प्रतिपादनं भवति । शास्त्रे यस्मिन् कस्मिन् अपि विषये मतभेदः इतरेषां दृश्यते तर्हि तस्य अपि विवरणं तत्र स्वस्य युक्तिसम्मतं मतं च भट्टपादः लिखति । रासविलासविलोलं भजत मुरारेर्मनोरमं रूपम् । प्रकृतिषु यत् प्रत्ययवत् प्रत्येकं गोपिकासु सम्मिलितम् ॥ इति मङ्गलश्लोकेन प्रक्रियासर्वस्वम् आरभमाणः नारायणः सूत्राणां भूयांसि उदाहरणानि श्रीकृष्णसम्बद्धानि एव ददाति । प्रायेण अन्ये ग्रन्थकाराः भाष्यकाशिकादिषु विद्यमानान् उदाहरणविशेषान् एव यदा ददाति तदा नारायणः स्वयमेव अन्यानि उदाहरणानि अधिकतया दर्शयति । प्रायेण तस्य उदाहरणानि तस्य कविथवद्योतकानि अपि भवन्ति ॥ मुनित्रयस्य विधीनाम् अविषयान् शब्दान् अपाणिनीयान् उक्त्वा केचिद् वैयाकरणाः शाठ्येन तान् असाधून् कथयन्ति , तिरस्कुर्वन्ति च । महाकवीनां कृतिषु अपि तादृशाः शब्दाः दृश्यन्ते । केनापि उक्तम् – अपशब्दत्रयं माघे भारवेरेकविंशतिः । असङ्ख्याः कालिदासस्य व्यासस्तन्मयतां गतः ॥ इति । नारायणभट्टः रूढप्रयोगाणां शब्दानाम् असाधुत्वं नाङ्गीकरोति । महाकवीनां प्रयोगाणां साधुत्वम् अपि सः प्रतिपादयति । उदाहरणार्थं भवभूत्यादिभिः प्रयुक्तः विश्रामशब्दः दृश्यताम् । पाणिनीयव्याकरणानुसारेण विश्रमः साधुः , न विश्रामः । वर्धमान-भोजराजादयः विश्रामशब्दमपि साधयन्ति । नारायणः वदति -- वर्धमानाख्य आचार्यो वौ श्रमेर्वेत्यसूत्रयत् ।विश्रमेर्वेति भोजो/पि तेन विश्राम-विश्रमौ ॥ विश्रामस्यापशब्दत्वं वृत्त्युक्तं नाद्रियामहे ।मुरारिभवभूत्यादीनप्रमानणीकरोति कः ॥ विश्रामशाखिनं वाचां विश्रामो हृदयस्य च ।विश्रामहेतोरित्यादि महान्तस्ते प्रयुञ्जते ॥ अपाणिनीयप्रयोगाणां साधुत्वप्रतिपादनम् पाणिनि-कात्यायन-पतञ्जलिभिः त्रिभिः मुनिभिः यथोत्तरम् अधिकप्रामाण्यवद्भिः अनुगृहीताः एव शब्दाः साधवः, अन्ये असाधवः इति वदामः चेत् अस्माभिः अङ्गीकर्तव्यं यत् मुनित्रयात् परंसंस्कृतभाषा वन्ध्या निर्जीवा च आसीद् इति । एतत् सत्यं न । पुराण-काव्य-कथादिसाहित्यं यत् पतञ्जलेः परं जातं तत् अतीव पुष्कलं भवति । मानवस्य कालानुसारिविकासम् अनुसृत्य नूतनवस्तूनि उत्पद्यन्ते, नूतनाः आशयाः जायन्ते । तेषामपि प्रतिपादनार्थं भाषा नूतनशब्दैः विकसिता भवति । को वा इच्छति मुनित्रयस्य काले यानि वस्तूनि , ये आशयाः च आसन् तैः एव अहं जिविष्यामि , ततः परं लोके आविर्भूतं किमपि मम न आवश्यकम् इति ? लोकव्यवहारार्थं नृत्यन्ती ऊर्जस्वला भाषा आवश्यकी । पुराणकाव्यादिषु संस्कृतभाषा तादृशी एव दृश्यते । तस्याः समर्थनार्थम् एव चन्द्रगोमि-भोज-बोपदेवप्रभृतयः नूतनशब्दानां साधुत्वं प्रतिपादितवन्तः । तेषाम् आशयान् यथावत् अवगम्य अपाणिनीयाः इति कैश्चित् निन्दितान् शब्दान् अपि साधयितुम् ऊर्जस्वलः नारायणः युक्तिपूर्णम् अपाणिनीयप्रामाण्यसाधनम् इति ग्रन्थं लिखितवान् ।एषः ग्रन्थः प्रक्रियासर्वस्वस्य आधारशिला इति वक्तुं शक्यते । अपाणिनीयप्रामाण्यसाधनस्य आरम्भे एव नारायणः पद्येन वदति -- पाणिन्युक्तं प्रमाणं न तु पुनरपरं चन्द्रभोजादिसूत्रं के/प्याहुस्तल्लघिष्ठं न खलु बहुविदामस्ति निर्मूलवाक्यम् । बह्वङ्गीकारभेदो भवति गुणवशात् पाणिनेः प्राक् कथं वा पूर्वोक्तं पाणिनिश्चाप्यनुवदति विरोधे/पि कल्प्यो विकल्पः ॥ वार्तिककारः कात्यायनः पाणिनिसूत्रोक्तिषु परिष्कारं विदधाति । तथैव भाष्यकारः पतञ्जलिः सूत्रकार-वार्त्तिककारयोः उभयोः अपि उक्तिषु परिष्कारं निर्दिशति । लोकव्यवहारमेव प्रमाणं स्वीकृत्य वार्त्तिककार-भाष्यकारौ एवं कुरुतः । सूत्रकारः स्वयम् अपि पूर्वेषां मतानि उद्धृत्य अङ्गीकरोति । मुनित्रयस्य रीतिमेव चन्द्र-भोजादयः अनुवर्तयन्ति । अतः तेषाम् उक्तिषु अपाणिनीयत्वम् आरोप्य तिरस्करणं बालिशमेव इत्येव नारायणभट्टस्य सुचिन्तितं युक्तिसहं मतम् । उपसंहारः नारायणभट्टः दीर्घदर्शितया समीक्षात्मकबुद्ध्या विशालचिन्तया च संस्कृतस्य पोषणाय प्रक्रियासर्वस्वम् इति व्याकरणग्रन्थं रचितवान् । अभिनन्दनीयः तस्य प्रयासः । केवलं मासद्वयेन रचिते अस्मिन् व्याकरणग्रन्थे यावन्तः शब्दाः अनुशिष्टाः तावन्तः अन्यस्मिन् कस्मिन् अपि व्याकरणग्रन्थे न सन्ति । दैनन्दिनव्यवहाराय संस्कृतस्य प्रयोगे केन अपि कारणेन त्रुटिः अभूत् । अतः अस्माकं प्राचीनेषु ग्रन्थेषु विद्यमानान् व्याकरणग्रन्थेषु पठितान् बहून् शब्दान् अर्थतः वयं न अवगच्छामः । यदि प्रक्रियासर्वस्वं पठिष्यामः तर्हि बहूनां तादृशानां शाब्दानां ज्ञानं सुलभं भविष्यति ।दैनन्दिनव्यवहारे पुनरुज्जीवितां संस्कृतभाषां प्रचारयतां संस्कृतानुरागिणाम् अयं ग्रन्थः सहायः भविष्यति । प्रक्रियासर्वस्वात् सन्दर्भोचितानि त्रीणि पद्यानि अधः दीयन्ते -- न किञ्चिदत्र स्वकपोलकल्पितंलिखामि शास्त्रे क्वचिदीक्षितं विना । अनेकधा यत्र पुराविदां मतंमनोहरं तत्र परं ग्रहीष्यते ॥ वृत्तौ नानाप्रमादा विवृतिषु कथिता माधवाद्यैश्च सर्व- व्यास्वाख्यायि दोषो बहुलमघटितं प्रक्रियाकाव्यपङ्क्तौ । नाम व्याख्यास्वनन्तं किल तदिह महाकोविदैरप्यवर्ज्या विभ्रान्तिश्चेत् कृशाभ्यासिनि कृशधिषणे मादृशे किन्नु वाच्यम् ॥ स्वनिर्मितत्वप्रणयावकुण्ठितःस्वकाव्यदोषं न बुधो/पि बुध्यते । अतो/त्र सूरीन् । ॥ ॥ शुभम् ॥