!!!---☀: संस्कृतभाषायाः महत्त्वम् :☀---!!!

 

 

विश्वस्य सर्वासु भाषासु संस्कृतभाषा प्राचीनतमा भाषास्ति । भाषेयं बह्वीनां भाषाणां जननी माता । अस्यामेव भाषायां ज्ञानविज्ञानयोः निधिः सुरक्षितोस्ति । यथोक्तम्---"भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा ।" इयमेव भाषा भारतवर्षस्य संस्कारभाषा ।

इयं भाषा न केवलं भारतवर्षस्य अपितु विश्वस्य प्राचीनतमा भाषा, अत एव अस्याः महत्त्वम् अतीव वर्तते । अस्यां भाषायां सर्वाधिकारस्य वाङ्मयस्य संरचना जाता, एषा भाषा अतीव वैज्ञानिकी च विद्यते । अस्याः पाणिनीयं व्याकरणम् अतीव वैज्ञानिकम् अस्ति । संस्कारयुक्ता परिष्कृता चेयं भाषा "संस्कृत" इति कथ्यते ।

 

 अस्याः अन्यत् नाम देवभाषा, देववाणी, सुरवाणी, गीर्वाणवाणी चाप्यस्ति । एभिः अपि अस्याः भाषायाः महत्त्वं परिवर्धते ।

सम् पूर्वकात् कृ धातोः निष्पन्नोयं संस्कृतशब्दोस्य

ा भाषाया प्रकृति प्रत्ययादिभिः संस्कृतत्त्वं परिनिष्ठितत्त्वं च रूपं प्रकटयति ।

 

अस्याः भाषायाः वैज्ञानिकतां विचार्य एव संगणकविशेषज्ञाः कथयन्ति यत् संस्कृतमेव संगणकस्य कृते सर्वोत्तमा भाषा विद्यते । अस्याः वाङ्मयं वेदैः, उपवेदैः, आरण्यकैः, उपनिषद्भिः, ब्राह्मणग्रन्थैः, वेदांगैः, उपांगैः, सूत्रग्रन्थैः, पुराणैः, नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धम् अस्ति । कालिदाससदृशानां विश्वकवीनां काव्यसौन्दर्यम् अनुपमम् । चाणक्यरचितम् अर्थशास्त्रम् जगति प्रसिद्धम् अस्ति । गणितशास्त्रे शून्यस्य प्रतिपादनम् सर्वप्रथमं भास्कराचार्यः सिद्धान्तशिरोमणौ अकरोत् । चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धम् । संस्कृते यानि अन्यानि शास्त्राणि विद्यन्ते, तेषु खगोलविज्ञानं वास्तुशास्त्रं रसायनशासत्रं ज्योतिष्-शास्त्रं विमानशास्त्रम् च उल्लेखनीयम् ।

 

संस्कृतभाषा न केवलं भारतवर्षस्य अपितु विश्वस्य अनेकानां भाषाणां जननी अस्ति । भारतवर्षः अनेकतायाः उदाहरणस्वरूपः देशो विद्यते , यदि वयं अनेकतायाः एकतायाः परिदर्शनं कर्तुम् वाञ्छामः यदि वयं भाषागत-वैमनस्यं दूरीकर्तुम् इच्छामः, तर्हि अस्माभिः भाषा एषा वर्त्तमानसमये राष्ट्रभाषारूपेण प्रतिष्ठिता कर्त्तव्या ।

 

भारते संस्कृतभाषायाः प्रतिदिनं विविधसंस्कारकार्येषु प्रयोगः भवति । एतस्याः अनेकासु विशेषतासु इयम् अन्यतमा विशेषता यत् अस्याः वाङ्मये विद्यमाना सूक्तयः अभ्युदयाय प्रेरयन्ति । एत एव वयं भारतप्रशासनस्यविभिन्नेषु विभागेषु ध्येय-वाक्य-रूपेण एतेषां प्रयोगं पश्यामः ।

 

(1.) भारतसर्वकारस्य राजचिह्नं वर्तते--अशोकचक्रम् । तस्मिन् लिखितम् अस्ति--"सत्यमेव जयति" । 

(2.) जीवनबीमानिगमस्य चित्रे द्वयोः हस्तयोः मध्ये एकः दीपः अस्ति । अधः च "योगक्षेमं वहाम्यहम्" इति लिखितम् अस्ति ।

 

 (3.) भारतीयवायुसेनायाः चिह्ने विमानं वर्तते । तत्र लिखिं वायुसेनायाः ध्येयवाक्यम्--"

नभः-स्पृशं दीप्तम्" संस्कृत-भाषायाः गौरवगाथां प्रकटयति ।

 

(4.) हरयाणा-शासनस्य राज्यचिह्नस्य चित्रे अपि श्रीमद्भागवतगीतायाः--"योगः कर्मसु कौशलम्" इत्ययं श्लोकांशः जनान् प्रेरयन्ति ।

 

 (5.) लोकसभाध्यक्षस्य आसनस्य-उपरि अपि सर्वोच्च-स्थाने उल्लिखिता अस्ति---"धर्मचक्र-प्रवर्तनाय"--इति संस्कृतवाक्यम् । 

 

(6.) लोकसभायाः केन्द्रीयसभातलस्य भित्तिकायां--"अयं निजः परो वेति"--सुप्रसिद्धः संस्कृत-श्लोकः लिखितः अस्ति ।

 

 (7.) डाक-तार-विभागस्य (पत्रालयस्य) ध्येयवाक्यम्---"अहर्निशं सेवामहे"---अतीव उपयुक्तम् अस्ति । यतः अस्य विभागस्य कार्यं दिने रात्रौ च निरन्तरं चलति । 

 

(8.) राष्ट्रीयशैक्षणिकानुसन्धान-प्रशिक्षण-परिषदः ध्येयवाकयम्---"विद्ययामृतमश्नुते" वर्तते ।

 

संस्कृतग्रन्थेषु मानवजीवनाय विविधाः विषयाः समाविष्टाः सन्ति । महापुरुषाणां मतिः उत्तमजनानां धृतिः सामान्यजनानां जीवनपद्धतिः च वर्णिताः सन्ति । अतः अस्माभिः संस्कृतम् अवश्यमेव पठनीयं येन मनुष्यस्य समाजस्य च परिष्कारः भवेत् ।