सुभद्रा कुमारी चौहान

सुभद्रा कुमारी चौहान ( ( शृणु) /ˈsʊbhədrɑː kʊmɑːriː xɔːhɑːnə/) (हिन्दी: सुभद्रा कुमारी चौहान, आङ्ग्ल: Subhdra Kumari Chauhan)हिन्दीभाषासाहित्यस्य एका सुप्रसिद्धा कवयित्री, लेखिका च । तया काव्यसङ्ग्रहद्वयं, कथासङ्ग्रहत्रयं च लिखितम् । किन्तु ’झांसी की रानी’ इत्यस्मै काव्याय सा जनेषु प्रसिद्धा जाता । तया भारतदेशस्य स्वतन्त्रतायाः आन्दोलने अपि भागः गृहीतः । आन्दोलनसमये कारावासस्य यातनाः अपि तया असह्यन्त । तदनन्तरं तया तासां यातनानाम् अनुभूतयः अपि स्वेन रचितासु कथासु वर्णिताः । तस्याः भाषाशैली सरला काव्यात्मिका च अस्ति । अतः तस्याः काव्यानि कथाः च हृदयङ्गमाः सन्ति ।

जन्म, परिवारश्च

सुभद्रा कुमारी चौहान इत्यस्याः जन्म १९०४ तमस्य वर्षस्य अगस्त-मासस्य १६ तमे दिनाङ्के (१६/०८/१९०४) उत्तरप्रदेशराज्यस्य इलाहाबादमण्डलस्य निहालपुर-ग्रामे अभवत् । तस्मिन् दिवसे नागपञ्चमी-उत्सवः आसीत् । तस्याः पितुः नाम रामनाथसिंह आसीत् । सः भूमिपतिः (ज़मीनदार) आसीत् । तस्याः तिस्रः भगिन्यः, द्वौ भ्रातरौ च आस्ताम् ।

बाल्यं, शिक्षणं च

शिक्षणप्रेमिणः पितुः मार्गदर्शने सुभद्रायाः प्रारम्भिकं शिक्षणं सम्पन्नम् । तया क्रास्थवेट् गर्ल्स् कॉलेज् इत्यत्र शिक्षणं प्राप्तम् । नवमीं कक्षां यावत् एव तया शिक्षणं प्राप्तम् । काव्यरचनायां तस्याः अभिरुचिः आसीत्,अतः बाल्यकालादेव तया अनेकानि काव्यानि रचितानि । तेषु काव्येषु ’सुभद्राकुंवरी’ नामकं प्रथमं काव्यं सुभद्रया १९१३ तमे वर्षे रचितम् । ’मर्यादा’ नामिकायां साप्ताहिक्यां तस्य काव्यस्य प्रकाशनम् अभवत् । तदा सा नववर्षीया एव आसीत् । सुभद्रा चञ्चला कुशाग्रबुद्धिमती आसीत् । तस्मात् हेतोः कक्षायां छात्रेषु प्रथमं क्रमाङ्कं प्राप्नोति स्म । तीक्ष्णबुद्धिबलेन तया पुरस्काराः अपि प्राप्ताः । तीक्ष्णबुद्धियुता सुभद्रा द्रुततरं न्यूनप्रयासेन एव काव्यानि रचयितुं शक्नोति स्म । विद्यालयस्य गृहकार्ये यदि काव्यलेखनस्य कार्यं भवति तर्हि विद्यालयात् गृहपर्यन्ते मार्गे एव सा काव्यरचनां करोति स्म ।

विवाहः

१९१९ तमे वर्षे खण्डवा-नगरस्य ठाकुर लक्ष्मणसिंह इत्यनेन सह सुभद्रायाः विवाहः अभवत् । जबलपुर-नगरे माखनलाल चतुर्वेदी नामकः सम्पादकः ’कर्मवीर’ नामकस्य पत्रस्य प्रकाशनं करोति स्म । तस्यां संस्थायाम् एव लक्ष्मणसिंहः वृत्तिं (job) प्राप्तवान् । अतः लक्ष्मणसिंहः मध्यप्रदेशराज्यस्य जबलपुर-नगरे निवसाय आगतवन्तौ । श्वश्रोः अनुशासने सुभद्रा केवलं गृहिणी इव निवसितुं नेच्छति स्म । तस्याः हृदये समाजाय देशाय च कार्याणाम् उत्साहः, तेजः च आसीत् । किन्तु श्वसुरालये किमपि सम्भवं नासीत् । सुभद्रायाः लेखनस्य प्रतिभां दृष्ट्वा लक्ष्मणसिंहः अपि अस्मिन् कार्ये साहाय्यं करोति स्म । लक्ष्मणसिंहः सुभद्रायाः सफलतायै बहून् प्रयत्नान् करोति स्म । अतः सा पत्या सह जबलपुर-नगरम् आगतवती । तत्र सा पुत्रीद्वयं, पुत्रत्रयं च अजीजनत् । १ सुधा चौहान, २ अजय चौहान, ३ विजय चौहान, ४ अशोक चौहान, ५ ममता चौहान च । तेषु सुधा, अजयः, विजयः, अशोकः च मृतः । किन्तु ममता चौहान वर्तमाने न्युयॉर्क-नगरे निवसति । अजय-विजय इत्येतयोः पत्न्यौ वर्तमाने मध्यप्रदेशराज्यस्य जबलपुर-नगरे निवसतः ।

स्वतन्त्रतायां योगदानम्

सुभद्रा बाल्याकालादेव निर्भया, साहसी, विद्रोहिणी च आसीत् । सा बाल्यकालादेव अशिक्षा- अन्धविश्वासेत्यादीनां विरोधं कृतवती । विवाहानन्तरम् अपि समाजसेवायै, देशसेवायै च कार्यरता आसीत् । स्वस्याः व्यक्तिगतस्वार्थं विहाय देशसेवायै संलग्ना अभवत् । माखनलालचतुर्वेदिनः मार्गदर्शने सुभद्रा स्वतन्त्रतायाः राष्ट्रिये आन्दोलने कार्यरता आसीत् । विवाहस्य सार्धवर्षानन्तरं सुभद्रा महात्मगान्धीमहोदयस्य असहयोगान्दोलने भागं गृहीतवती । तस्मिन् आन्दोलने तस्याः महद् योगदानम् आसीत् । सा तस्मिन् आन्दोलने प्रथमा महिला क्रान्तिकारिणी आसीत् । द्विवारं सा कारागारम् अपि गतवती । सा स्वकाव्यैः स्वतन्त्रतायाः आन्दोलनस्य नेतृत्वम् उद्दीपितवती ।

१९२०-२१ तमे वर्षे सुभद्रा लक्षमण सिंह इति इमौ अखिल भारतीय कॉङ्ग्रेस कमेटी इत्यस्य पक्षस्य सदस्यौ अभवताम् । नागपुर कॉङ्ग्रेस अधिवेशन इत्यस्मिन् अपि तौ भागं गृहीतवन्तौ । तौ प्रतिगृहे कॉङ्ग्रेस-पक्षस्य प्रचारं कुरुतः स्म । इमां समाजसेवां कर्तुं सामान्यव्यक्तित्वस्य आवश्यकता वर्तते । किन्तु सुभद्रायाः जीवनं सामान्यम् एव आसीत् । अतः सा श्वेतखादी इत्यस्य शाटिका धरति स्म । एकदा साधारणवेशाभूषायां दृष्ट्वा महात्मा गान्धी सुभद्रां पृष्टवान् – भगिनि ! भवत्याः विवाहः अभवत् ? सुभद्रा अकथयत् – आम् । तदा महात्मा खिन्नः जातः । महात्मा उक्तवान् – किमर्थं भवती श्वेतवस्त्रं धरति ? हस्ते कङ्कणानि अपि न सन्ति ? मस्तके सिन्दूरम् अपि नास्ति ? खिन्नः सन् महात्मा अवदत् – श्वः तान् अलङ्कारान्, शाटिकां च धृत्वा एव आगच्छतु इति । सुभद्रायाः मनः स्नेहि, स्वभावेन निश्छलञ्च आसीत् । अतः सर्वे तस्याम् अस्निह्यन् । स्वतन्त्रायाः कार्ये अपि जनाः तस्याः सम्माननं कुर्वन्ति स्म ।

१९२२ तमे वर्षे जबलपुर-नगरे झण्डासत्याग्रहनामकः भारतदेशस्य प्रथमः सत्याग्रहः अभवत् । तस्मिन् सत्याग्रहे सुभद्रा प्रथमा महिला सत्याग्रहिणी आसीत् । सत्याग्रहे प्रतिदिनं गोष्ठ्यः भवन्ति स्म । गोष्ठीसु क्रान्तिकारिणः स्वतन्त्रतायै जनान् बोधयितुं भाषणं कुर्वन्ति स्म । सुभद्रा अपि गोष्ठीसु भाषणं करोति स्म । तेन कारणेन टाईम्स् ऑफ् इण्डिया इत्यस्य समाचारपत्रस्य वृत्तान्तलेखकेन स्वस्य लेखे ’लोकल सरोजिनी’ इति नाम्ना सुभद्रायाः उल्लेखः कृतः ।

१९१७ तमे वर्षे अमृतसर-नगरे जलियावाला नामके उद्याने हत्याकाण्डः अभवत् । अस्य हत्याकाण्डस्य प्रभावः सुभद्रायाः मनसि अभवत् । तेन कारणेन तया त्रीणि आग्नेयकाव्यानि लिखितानि । तेषु काव्येषु ’जलियावाला बाग में वसन्त’ इत्यस्मिन् काव्ये तया लिखितं यत् –


परिमलहीन पराग दाग-सा बना पडा है
हा! यह प्यारा बाग खून से सना पड़ा है।
आओ प्रिय ऋतुराज ! किन्तु धीरे से आना
यह है शोक स्थान यहाँ मत शोर मचाना।
कोमल बालक मरे यहाँ गोली खा-खाकर
कलियाँ उनके लिए गिराना थोड़ी लाकर ।

भारतदेशाय प्रेम सुभद्रायाः मनसि तु अस्ति किन्तु काव्ये अपि प्राप्यते । १९२० तमे वर्षे यदा महात्म गान्धीमहोदयस्य नेतृत्वे आन्दोलनानि चलन्ति आसन्, तदा सुभद्रा लक्ष्मणसिंहः इत्येतौ द्वौ स्वतन्त्रता-आन्दोलने जागरूकौ आस्ताम् । देशसेवायै द्वाभ्यां महान्ति कार्याणि कृतानि ।

कृतयः

सुभद्रा कुमारी चौहान इत्यनया स्वस्य जीवने ८८ काव्यानि, ४६ कथाः च रचिताः सन्ति । ’झांसी की रानी’ नामकं तस्याः एकं सुप्रसिद्धं काव्यम् अस्ति । तेन कारणेन सा प्रख्याता जाता । किन्तु तेन काव्येन तस्याः अन्याः रचनाः गौणाः अभवन् ।यतः कस्यापि लेखकस्य एका रचना यदि बहुचर्चिता भवेत् तर्हि शेषाः रचनाः प्रायः गौणाः भवन्ति इति बहुमतम् । यथा चलचित्रजगति प्रसिद्धेन अभिनेत्रा अमिताभबच्चन इत्यनेन अपि नैकानि काव्यानि रचितानि सन्ति । किन्तु तस्य ’मधुशाला’ नामकं काव्यं जनेषु बहुप्रसिद्धम् अस्ति । अतः तस्य अन्यानि काव्यानि गौणानि अभवन् ।

सुभद्रा हिन्दीसाहित्यजगति लोकप्रिया सुप्रतिष्ठिता व्यापृता च वर्तते । १९३० तमे वर्षे तया ’मुकुल’ नामकः काव्यसङ्ग्रहः रचितः आसीत् । तस्याः लोकप्रियता बहु आसीत् । अतः तस्य काव्यसङ्ग्रहस्य षष्ठसंस्करणं तस्याः जीवनकाले एव प्रकाशितम् । तया विशिष्टानि चयनीयानि काव्यानि ’त्रिधारा’ नामके काव्यसङ्ग्रहे प्रकाशितानि । तेषु ’झांसी की रानी’ वर्तमाने अपि जनेषु बहुप्रसिद्धम् अस्ति । राष्ट्रियान्दोलने संलग्ना सती सा बहुवारं कारागारं गतवती । किन्तु तथापि तया त्रयः कथासङ्ग्रहाः रचिताः ।

१९३२ तमे वर्षे सुभद्रा कुमारी चौहान इत्यनया रचितः ’बिखरे मोती’ नामकः प्रथमः कथासङ्ग्रहः प्रकाशितो जातः । तस्मिन् कथासङ्ग्रहे (१)भग्नावशेष, (२)होली, (३)पापी पेट, (४)मंझली रानी, (५)परिवर्तन, (६)दृष्टिकोण, (७)कदम के फूल, (८)किस्मत, (९)मछुये की बेटी, (१०)एकादशी, (११)आहुति, (१२)थाती, (१३)अमराई, (१४)अनुरोध, (१५)ग्रामीणा च एताः पञ्चदश-कथाः सन्ति । एतासां कथानां भाषा सरला, व्यावहारिकी च वर्तते । एतासु अधिकतमाः कथाः नारीविमर्शे आधारिताः सन्ति ।

१९३४ तमे वर्षे तस्याः ’उन्मादिनी’ नामकः द्वितीयः कथासङ्ग्रहः प्रकाशितो जातः । तस्मिन् (१)उन्मादिनी, (२)असमञ्जस, (३)अभियुक्त, (४)सोने की कण्ठी, (५)नारी हृदय, (६)पवित्र ईर्ष्या, (७)अङ्गुठी की खोज, (८)चढा दिमाग, (९)वेश्या की लडकी इत्येताः नव-कथाः सन्ति । एतासु कथासु पारिवारिकाणि सामजिकानि च परिदृश्यानि वर्तन्ते ।

१९४७ तमे वर्षे ’सीधे-सादे चित्र’ नामकः तृतीयः कथासङ्ग्रहः प्रकाशितो जातः । अयं तस्याः अन्तिमः कथासङ्ग्रहः आसीत् । रूपा, कैलाशी नानी, बिआल्हा, कल्याणी, दो साथी, प्रोफेसर मित्रा, दुराचारी, मङ्गला च इत्येतासु कथासु स्त्रीणां कुटुम्बस्य, समाजस्य च समस्याः सन्ति । हीङ्गवाला, राही, ताङ्गे वाला, गुलाबसिंह इत्येताः कथाः राष्ट्रियविषयेषु आधारिताः सन्ति ।

सुभद्रया स्वस्याः काव्येषु भारतीयसंस्कृतेः प्राणतत्वानां, धर्मनिरपेक्षसमाजस्य निर्माणाय, साम्प्रदायिकस्य सद्भावस्य वातावरणस्य निर्माणाय अपि प्रयत्नाः कृताः सन्ति –


“मेरा मन्दिर, मेरी मस्जिद, काबा काशी यह मेरी ।
पूजा पाठ, ध्यान जप-तप है घट-घट वासी यह मेरी ।
कृष्णचन्द्र की क्रीडाओं को, अपने आँगन में देखो ।
कौशल्या के मातृमोद को, अपने ही मन मे लेखो ।
प्रभु ईसा की क्षमाशीलता, नबी मुहम्मद का विश्वास
जीव दया जिन पर गौतम की, आओ देखो इसके पास” ।

काव्येषु देशप्रेम

सुभद्रया रचितं ’वीरों का कैसा हो वसन्त’ नामकं काव्यं प्रसिद्धम् अस्ति । तस्मिन् काव्ये देशाय जोषः दृश्यते । तस्य काव्यस्य शब्दरचना, भावगाम्भीर्यं च अद्भुतम् अस्ति । स्वदेश के प्रति, विजयादशमी, विदाई, सेनानी का स्वागत, झांसी की रानी की सधि मापर, जलियांवाले बाग में बसन्त इत्यादिषु काव्येषु अपि देशप्रेम दृश्यते ।

बाल्यप्रेम

बाल्यप्रेमाधारितानि तया अनेकानि काव्यानि रचितानि सन्ति । तासु कवितासु बाल्यजीवनस्य स्मृतयः मधुरतापूर्वकं वर्णिताः सन्ति ।


“बार बार आती है मुझको
मधुर याद बचपन तेरी”
“आ जा बचपन, एक बार फिर
दे दो अपनी निर्मल शान्ति
व्याकुल व्यथा मिटाने वाली
वह अपनी प्राकृत विश्रान्ति”

तानि रचितानि काव्यानि शैशवसम्बन्धीनि सन्ति । तेषु काव्येषु पुत्र्याः अपि प्राधान्यं वर्तते । अतः सुभद्रया एतेषां काव्यानां माध्यमेन भ्रूणहत्यायाः विरोधः कृतः । उच्यते यत् – यदा तस्याः पुत्र्याः विवाहः अभवत्, तदा तया स्वस्याः पुत्र्याः कन्यादानं न कृतम् । सा उक्तवती- ’कन्या काऽपि वस्तु नास्ति’ इति । अतः तस्याः दानं कथं कर्तुं शक्नुमः । एतादृशः विचाराः तस्याः काव्येषु अपि उल्लिखिताः सन्ति ।

काव्येषु राष्ट्रभाषाप्रेम

राष्ट्रभाषायै अपि तस्याः मनसि प्रेम आसीत् । अतः तया राष्ट्रभाषायाः महत्त्वम् अपि स्वकाव्येषु प्रदर्शितम् अस्ति । ’मातृ मन्दिर में’ इति नामके काव्ये तस्याः विचाराः दृश्यते –


“उस हिन्दू जन की गरविनी
हिन्दी प्यारी हिन्दी का
प्यारे भारतवर्ष कृष्ण की
उस प्यारी कालिन्दी का
है उसका ही समारोह यह
उसका ही उत्सव प्यारा
मैम् आश्चर्य भरी आंखों से
देख रही हूं यह सारा
जिस प्रकार कंगाल बालिका
अपनी मां धनहीता को
टुकडों की मोहताज आज तक
दुखिनी की उस दीना को”

दाम्पत्यप्रेम

दाम्पत्यप्रेमविषयकानि अनेकानि प्रेम-काव्यानि अपि तया रचितानि सन्ति । तेषु” आहत की अभिलाषा, प्रेम शृङ्खला, अपराधी है कौन, दण्ड का भागी बनता कौन” इत्यादीनि दाम्पत्यप्रेम-काव्यानि सन्ति । तेषु ’प्रियतम से’ नामके काव्ये दाम्पत्यजीवनस्य कश्चित् अंशः दृश्यते –


जरा-जरा सी बातों पर
मत रूको मेरे अभिमानी
लो प्रसन्न हो जाओ
गलती मैंने अपनी सब मानी
मैं भूलों की भरी पिटारी
और दया के तुम आगार
सदा दिखाई दो तुम हंसते
चाहे मुझसे करो न प्यार

मृत्युः

१९४८ तमस्य वर्षस्य फरवरी-मासस्य चतुर्दशे(१४) दिनाङ्के (१४/०२/१९४८) नागपुर-नगरे शिक्षाविभागे एका गोष्ठी आसीत् । सा रेल-यानेन गन्तुम् इच्छति स्म । किन्तु नागपुर-नगरस्थः अधिकारी तां कार-यानेन आगन्तुम् उपदिष्टवान् । गोष्ठ्यानन्तरं १९४८ तमे वर्षे फरवरी-मासस्य पञ्चदशे(१५) दिनाङ्के(१५/०२/१९४८) सा जबलपुर-नगरम् आगन्तुं नागपुरनगरं त्यक्तवती । तस्याः पुत्रः अपि तया सह एव आसीत् । सः कार-यानं चालयति स्म । सहसा कार-यानस्य अग्रे कुक्कुटशावाः आगतवन्तः । सुभद्रा कुक्कुटशावकानां रक्षणार्थं पुत्रम् आदिष्टवती । तेन कारणेन कार-यानस्य एकेन वृक्षेण सह संघट्टः जातः । तस्मिन् दिवसे सुभद्रायाः मृत्युः अभवत् । तदा सा ४४ वर्षीया एव आसीत् ।

सम्माननं, पुरस्कारः च

  • ’मुकुल’, ’बिखरे मोती’ इत्येताभ्यां काव्यसङ्ग्रहाभ्यां सा सेकसरिया-पुरस्कारः प्राप्तवती ।
  • २००६ तमस्य वर्षस्य अप्रैल-मासस्य २८ तमे दिनाङ्के भारतीयतटरक्षकसेनया सुभद्राकुमारीचौहान इत्यस्याः सम्मानने नूतनतटरक्षकस्य जलयानस्य नाम तस्याः नाम्ना दत्तम् ।
  • १९७६ तमस्य वर्षस्य ऑगष्ट-मासस्य ६ दिनाङ्कात् (०६/०८/१९७६) भारतीय डाक तार विभागेन सुभद्रायाः सम्मानने तस्याः चित्रस्य एका पत्रालयचीटिका चालिता ।
  • जबलपुर-नगरवासिभिः धनं सङ्गृह्य नगरपालिकापरिसरे सुभद्रायाः एका प्रतिमा निर्मापिता । १९४९ तमस्य वर्षस्य नवम्बर-मासस्य २७ तमे दिनाङ्के (२७/११/१९४९) सुभद्रायाः सख्या महादेवी वर्मा इत्यनया तस्याः प्रतिमायाः स्थापना कृता । स्थापनायाः दिवसे भदन्त आनन्द कौसल्यायन, हरिवंशराय बच्चन, डॉ. रामकुमार वर्मा, इलाचन्द्र जोशी इति इमे अपि तत्र उपस्थिताः आसन् ।