पुरा नवं पुराणमिति(पुरापि नवमिति पुराणञ्चेति) व्युत्पत्तिः ।
-
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
-
वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ॥
इति पुराणं पञ्चलक्षणयुक्तं स्यादिति प्रतिपादितम् । तत्र प्रतिसर्गो नाम ब्रह्मादीनां सृष्टिः । वंशो नाम देवाऽसुरादिविभेदोत्पत्तिः । कालक्रमेण पुराणेष्वपि इतिहासेष्विव बह्व्यः कथाः प्रविष्टाः । ततश्च पुराणेतिहासौ प्रायस्तुल्यलक्षणलक्षितौ दृश्येते । पुराणानां धार्मिकदृष्ट्या महत्वमधिकम् । वेदविहितानां धर्माणां सरलसुबोधभाषायां वर्णनायैव पुराणानि विरचितानि –
-
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
-
बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति(प्रहरेदिति) ॥
यदा वेदार्थ: लोकानां बुद्धौ नारोढुं प्रवृत्तस्तदा वेदार्थस्य विवरणरूपेण दृष्टान्तेतिहासाद्यलङ्कारसहितानि पुराणानि विरचितानीति केचन अभिप्रयन्ति । परन्तु वेदेभ्य: पूर्वमेव ब्रह्ममुखान्निस्सृतानीति साम्प्रदायिकास्तिकानामभिप्राय:। तस्मादेव तन्नाम अन्वर्थकञ्च । समाजस्य तात्कालिकस्वरुपबोधनायापि पुराणानां महानुपयोगः पुराणेषु प्राचीनभारतस्येतिहासो निहितः । पुराणोक्तानामितिवृत्तानां प्रामाणिकत्वं शिलालेखादिभिरपि कर्त्तुमारब्धम्, अतो विदेशीया अपि विद्वांसः पुराणे धृतादराः प्रतिभान्ति । इतिहासा यदि राज्ञां वृत्तं प्राधान्येन बोधयन्ति तदा पुराणानि राज्ञां वृत्तैः सह ऋषीणामपि वृत्तं बोधयन्तीति परमोपयोगित्वं पुराणानाम् ।
पुराणानि भौगोलिकसामग्रीमपि प्रस्तुवन्ति । काशीखण्डे काशीपुर्यास्तादृशं विस्तृतं वर्णनं विद्यते येन तस्या मानचित्रमिव पुरत उपतिष्ठते । अन्येष्वपि पुराणेषु तेषां तेषां तीर्थानां तादृशं स्पष्टं वर्णनमुपलभ्यते, येन तत्परिचये सौकर्यमाधीयते । पुराणेषु अतिशयोक्तिपूर्णा शैली समादृता येन लोकास्तानि अविश्वसनीयानि काल्पनिकानि च प्रतियन्ति स्म । तत्र बोद्धव्यमिदं यत् त्रिधा वर्णनं क्रियते –वस्तुतत्त्वकथारुपेण, रुपकद्वारा, अतिशयोक्तिद्वारा च । वस्तुतत्त्वकथा वैज्ञानिकानाम, ते हि वस्तु यथावद् वर्णयन्ति, न किमपि रञ्जनं तत्राचरन्ति । रुपकद्वारा वस्तुकथनप्रणाली वेदेषु व्यवह्रियते, तत्र हि उषः सुन्दरी कृता, वृत्रश्च राजाकृतः । अतिशयोक्तिप्रणाली पुराणेष्वादृता । अस्यां प्रणाल्यां वर्णिता अर्था यथामति विविच्य ग्रहीतव्या भवन्ति । पुराणानां तुलनात्मकमध्ययनं तदन्तस्तले प्रवेशनं च यदि क्रियेत तदा तत्रत्य इतिहासभागः सामाजिकवर्णनारहस्यं च स्पष्टमवभासेत इति विदुषां विचारः । वेदा:--प्रभुसम्मिता:(राजशासनवत्)।
उदा-सत्यान्न प्रमदितव्यम्। कुशलान्न प्रमदितव्यम्। स्वाध्यायान्न प्रमदितव्यम्।....अन्नं न निन्द्यात्। तद्व्रतम्।
पुराणेतिहासादय:--मित्रसम्मिता:(मित्रसलहारूपेण)। काव्यादय:--कान्तासम्मिता:(भार्येवाभिरमयन्ति बोधयन्त:)
-
पुराणं पुरातनमाख्यानमुच्यते । संस्कृते पुराणशब्दश्चिरन्तनपर्यायः । पुराणेषु भूता वर्त्तमाना भाविनश्चार्या वर्ण्यन्ते । इतिहासे तु भूता एवार्था वर्ण्यन्त इति पुराणेतिहासयोरन्तरम् । प्राचीनास्तु पुराणमपीतिहासशब्देनाभिदधते । पुराणेषु पुराणलक्षणमित्यमुक्तम् –
-
-
-
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
-
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥
पुराणानां रचनाकालः[सम्पादयतु]
पुराणानां रचना कदा जातेति प्रश्ने निम्नलिखितविषयाः पूर्वं ध्यातव्याः –
-
अथर्ववेदे पुराणस्य उल्लेखो दृश्यते –
-
ऋचः सामानिच्छन्दांसि पुराणं यजुषा सह ।
-
उच्छिष्टाञ्जज्ञिरे सर्वे दिवि देवा दिवि श्रिताः ॥ (११/७/२४)
-
गोपथब्राह्मणे पुराणानि स्मर्यन्ते –
एवमिमे सर्वे वेदाः निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्वयाख्याताः सपुराणाः सस्वराः । (गोपथप्रपा.२)
-
शतपथे – ‘सोऽयमिति किञ्चित् पुराणमाचक्षीत ।’ (१३/ ४/३/१३)
-
बृहदारण्यके- ‘इतिहासः पुराणं विद्या उपनिषदः ।’ (२/४/११)
-
छान्दोग्ये –ऋग्वेद भगवोऽध्येमि …. इतिहासपुराणं पञ्चमं वेदानां वेदम् ।’
-
आपस्तम्बधर्मसूत्रे पुराणस्योल्लेख एव न केवलोऽपि तु श्लोक संख्याप्युक्ता – अथ पुराणे श्लोकानुदाहरन्ति, अष्टासीतिसहस्राणीति (२/२२/३५)
-
शङ्कराचार्यः कुमारिभट्टश्च पुराणान्यद्धृतवन्तौ । बाणभट्टः हर्षचरिते ‘पुराणेषु वायुप्रलपितम्’ इत्याह ।
-
पुराणेषु कलियुगवर्त्तिनां राज्ञां वर्णनानि दृश्यन्ते । विष्णुपुराणे मौर्यवंशस्य प्रामाणिकं विवरणं लभ्यते । मत्स्यपुराणे आन्ध्रनृपतयः स्मृताः । वायुपुराणे गुप्तनृपतयो वर्णिताः ।
-
महाभारतकृता पुराणानि स्मृतानि, पदमपुराणे ऋष्यशृङ्गस्य यद् वृत्तं वर्ण्यते तन्महाभारतेऽपि प्राप्यते ।
-
कौटिल्यकृतमर्थशास्त्रं पुराणानि निर्दिशति, तत्र हि विनेयेभ्यो राजपुत्रेभ्यः पुराणानि उपदेष्टव्यानीति निर्दिष्टम् । अर्थशास्त्रं चेदं चन्द्रगुप्तराज्यकालिकमिति ततः पूर्वं पुराणरचनं सिदध्यति ।
-
धर्मसूत्रेषु पुराणानि स्मर्यन्ते ।
तदिमानि सर्वाणि तत्त्वानि पुराणानां वैदिककालेऽप्यस्तित्वं समर्थयन्ते । ईसवीयशतकात् षट शतकपूर्वतनकाले पुराणानामस्तित्वमासीदिति कल्पनाऽपि सत्यानुमोहिता । इदं तु सत्यं यत् पुराणस्यादिमं रुपं सम्प्रति नावाप्यते । पुराणं कदाचिदेकत्र समये नारच्यत, समये समये तत्राध्याया योजिताः गुप्तकालपर्यन्तं तेषां वर्त्तमानरुपमुपन्नमासीत् ।
पुराणानां नामानि तत्प्रमाणं च[सम्पादयतु]
पुराणानां संख्याविषये मतभेदो नास्ति, सर्ववादिसिध्दं तेषामष्टादशत्वम् ।
-
मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् ।
-
अनापलिंगकूस्कानि पुराणानि प्रचक्षते ॥
श्लोकोऽयं पुराणानां नामानि संगृह्णाति ।
-
मद्वयम् –मकारादिपुराणद्वयम् –मत्स्यपुराणम् मार्कण्डेयपुराणञ्च २
-
भद्वयम् –भकारादिपुराणद्वयम् – भविष्यपुराणम् भागवतपुराणञ्च(देवीभागवतम् ,विष्णु(श्रीमद्)भागवतम् इति द्वे) ४
-
ब्रत्रयम् –ब्रादिपुराणत्रयम्- ब्रह्माण्डपुराणम्, ब्रह्मपुराणम्, ब्रह्मवैवर्त्तञ्च ७
-
वचतुष्टयम् –वकारादिपुराणचतुष्टयम् –वामन-वराह- विष्णु –वायुपुराणानि ११
अ – अग्निपुराणम् – १२ ना – नारदपुराणम् – १३ प – पद्मपुराणम् - १४ लि – लिङ्गपुराणम् – १५ ग – गरुडपुराणम् – १६ कू - कूर्मपुराणम् – १७ स्क – स्कन्दपुराणम् -१८
-
एतत्पुराणातिरिक्तानि अष्टादशोपपुराणान्यप्याख्यायन्ते
-
-
-
-
-
-
-
-
-
-
-
-
कपिलपुराणम्
-
नन्दिपुराणम्
-
नीलमातापुराणम्
इत्यादयः सन्ति ।एवं एतदन्ये शताधिकपुराणानि सन्ति।
संस्कृतस्य धार्मिकसाहित्ये प्रमुखपात्रं वहति पुराणसाहित्यम् । पुराणम् इत्यस्य प्रमुखतया अर्थद्वयं दृश्यते ।
-
१. पुरा भवम् – पुरा “ट्युल्” (४.३.२३)
“उद्वेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः” उ.रा. २-२९ । “पुराणमित्येव न साधु सर्वम्” माल. १-२
-
२. पुरापि नवः रा.भा., शां.भा.
-
“इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्” इत्येतस्य वचनस्य अनुसारं वेदेषु उक्तान् कठिनविचारान् सुलभरीत्या जनान् बोधयितुं बहुभिः महर्षिभिः रचिताः ग्रन्थाः एते ।
महापुराणानि अष्टादश । एतानि वेदव्यासमहर्षिणा रचितानि इति प्रतीतिः ।
ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं च गारुडम् ।
नारदीयं भागवतमाग्नेयं स्कन्दमेव च ॥
भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ।
मात्स्यं कौर्मं च वाराहं तथा ब्रह्माण्डसंज्ञितम् ।
अष्टादशपुराणानि व्यासोक्तानि विदुर्बुधाः ॥
-
-
-
-
अष्टादशपुराणानि कृत्वा सत्यवतीसुतः ।
-
भारताख्यानमखिलं चक्रे तदुपबृंहणम् ॥ मत्स्यपुराणम् (५३-७०)
अष्टादशपुराणानां श्लोकसंख्या अत्र निरूप्यते
१ तन्मत्स्यमिति जानीध्वं सहस्राणि चतुर्दश | १४००० श्लोकाः
-
२ पुराणं नवसाहस्रं मार्कण्डेयमिहोच्यते | ९००० श्लोकाः
-
३ तद्भागवतमुच्यते, अष्टादशसहस्राणि | १८००० श्लोकाः
-
४ चतुर्विंशत्सहस्राणि तथा पञ्चशतानि च |
-
भविष्यचरितप्रायं भविष्यं तदिहोच्यते | २४५०० श्लोकाः
-
५ ब्राह्म त्रिदशसाहस्रं पुराणं परिकीर्त्यते | १३००० श्लोकाः
-
६ तदष्टादशसाहस्रं ब्रह्मवैवर्तमुच्यते | १८००० श्लोकाः
-
७ तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम् | १२२०० श्लोकाः
-
८ पुराणं दशसाहस्रं वामनं परिकीर्तितम् | १०००० श्लोकाः
-
९ चतुर्विंशत्सहस्राणि तद् वाराहमिहोच्यते | २४००० श्लोकाः
-
१० आग्नेयं तच्च षोडशसाहस्रम् | १६००० श्लोकाः
-
११ चतुर्विंशत्सहस्राणि वायवीयम् | २४००० श्लोकाः
-
१२ त्रयोविंशतिसाहस्रं वैष्णवं परिकीर्त्यते | २३००० श्लोकाः
-
१३ पञ्चविंशत्सहस्राणि नारदीयं तदुच्यते | २५००० श्लोकाः
-
१४ पाद्मं तु पञ्चपञ्चाशत्सहस्राणीह् कथ्यते | ५५००० श्लोकाः
-
१५ तदेकादशसहस्राणि गारुडं तदिहोच्यते | १८००० श्लोकाः
-
१६ अष्टादशसहस्राणि गारुडं तदिहोच्यते | १८००० श्लोकाः
-
१७ कूर्मरूपी जनार्दनः, अष्टादशसहस्राणि | १८००० श्लोकाः
-
१८ स्कन्दं नाम् पुराणञ्च ह्येकाशीतिर्निगद्यते | ८११०० श्लोकाः
पुराणानां विषयव्याप्तिः
वेदोपनिषत्सु विद्यमानानि गहनतत्त्वानि कथानां द्वारा बोधनम् इतेतत् पुराणानां प्रमुखं प्रयोजनम् । एतत् अतिरिच्य भारतस्य प्राचीनयुगस्य इतिहासस्य पुनर्निर्माणे अपि एतत् साहित्यं महता प्रमाणेन उपकरोति इत्येतत अवश्यं स्मर्तव्यम् । अष्टादशसु महापुरणेषु एकैकस्मिन् अपि भारतस्य विविधस्थलानां परिचयः, विविधकालस्य च निरूपणं दृश्यते । इतिहासे प्रसिद्धानां राजवंशानां विवरणं, राज्ञां विजयपराभवानां विवरणं च उपलभ्यते । तस्मिन् काले प्रसिद्धानां बहु जनानां प्रस्तावः दृश्यते । शुङ्ग-नन्द-मौर्य-इक्ष्वाकु-पुरूरववंशीयानां चरित्रं दृश्यते । भविष्यत्पुराणे चन्द्रगुप्त-विक्रमादित्य-पाणिनि-पतञ्जलि-कबीरदास-कृष्णचैतन्यादीनां विवरणं लभ्यते । ब्रह्माण्डपुराणे शातवाहन-आन्ध्रवंशस्य राज्ञां विवरणेन सह तस्य कालस्य राजनैतिकपरिस्थितेः उल्लेखाः अपि दृश्यन्ते । तेन सह धार्मिकपरिस्थितिः अपि निर्दिष्टा अस्ति । शैव-वैष्णवसम्प्रदाययोः विभिन्नता, देवालयानां माहात्म्यं, व्रतानां विवरणं, पुण्यक्षेत्राणां महिमा च वर्णिता दृश्यते । स्कान्दपुराणे सहस्राधिकानां पुण्यक्षेत्राणां भौगोलिक-ऎतिहासिकविवरणम् उपलभ्यते । चातुर्वर्ण्यव्यवस्था, देशाचार-कुलाचाराः, नित्यनैमित्तिककर्माणि, संस्काराः, पर्वाचरणं, स्वामि-भृत्यसम्बन्धः, राज-प्रजासम्बन्धः, पितृ-पुत्रसम्बन्धः - इत्यादयः विषयाः अत्र निरूपिताः सन्ति । अग्निपुराणे वास्तुशिल्प-वर्णचित्र-नाट्यकलायाः प्रस्तावः अस्ति । अश्वचिकित्सा-हस्तिचिकित्सा-सर्पदष्टमन्त्रचिकित्सा-बालग्रहचिकित्सा च विवृता अस्ति । नारदपुराणे ज्योतिषस्य निरूपणमस्ति ।आयुर्वेदस्य इतिहासनिर्माणे ब्रह्माण्डपुराणं सहकरोति । एवं पुराणानां विषयविस्तारः अस्ति सुमहान् ।
पुराणविभागः
महापुराणानि द्विधा विभज्यते ।
सात्त्विक-राजस-तामसपुराणानि[
वैष्णवं नारदीयं च तथा भागवतं शुभम् ।
-
-
-
गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने ।|
-
सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै ।|
विष्णु-नारद-भागवत-गरुड-पद्म-वराहपुराणानि सात्त्विकानि ।
-
-
-
ब्रह्माण्डं ब्रह्मवैवर्तं मार्कण्डेयं तथैव च ।
-
भविष्यं वामनं ब्राह्मं राजसानि निबोधत ।|
ब्रह्माण्ड-ब्रह्मवैवर्त-मार्कण्डेय-भविष्य-वामन-ब्राह्मपुराणानि राजसानि ।
-
-
-
मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च ।
-
आग्नेय्ञ्च षडेतानि तामसानि निबोधत ।|
मत्स्य-कूर्म-लिङ्ग-शैव-स्कान्दपुराणानि तामसानि ।|
-
-
सात्त्विकेषु पुराणेषु माहात्म्यमधिकं हरेः
-
राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ।
-
तद्वद् अग्नेश्च माहात्म्यं तामसेषु शिवस्य च
-
संकीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥
सात्त्विकपुराणेषु हरेः माहात्म्यं, राजसपुराणेषु ब्रह्मणः माहात्म्यं, तामसपुराणेषु शिवस्य माहात्म्यं च वर्णितं दृश्यते । सरस्वत्याः पितॄणां च स्तुतिः यत्र कृतः अस्ति तानि संकीर्णपुराणानि इति मत्स्यपुराणे उल्लेखः दृश्यते ।
ब्रह्म-विष्णु-शिवपुराणानि[
ब्रह्मपुराणानि
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पुराणस्य नाम
|
श्लोकसंख्या
|
टिप्पणी
|
|
१५,४०० श्लोकाः
|
|
|
१८,००० श्लोकाः
|
सर्वाधिक-श्रव्यपुराणम्। सर्वेषु पुराणेषु श्रेष्ठतमम् इति कथ्यते[१] भगवतः कृष्णस्य महिमावर्णनं तथा भक्तिकथा भक्ति आन्दोलनः[२]
|
|
१४,५०० श्लोकाः
|
|
|
२४,००० श्लोकाः
|
उदाहरणम्
|
|
१२,००० श्लोकाः
|
ललितसहस्रनामग्रन्थे अस्ति।
|
|
१८,००० श्लोकाः
|
|
|
१९,००० श्लोकाः
|
|
|
१७,००० श्लोकाः
|
|
|
११,००० श्लोकाः
|
|
|
९,००० श्लोकाः
|
|
|
१४,००० श्लोकाः
|
उदाहरणम्
|
|
२५,००० श्लोकाः
|
उदाहरणम्
|
|
२४००० श्लोकाः
|
उदाहरणम्
|
|
८१,१०० श्लोकाः
|
दीर्घतमः
|
|
१०,००० श्लोकाः
|
|
|
१०,००० श्लोकाः
|
|
|
२४,००० श्लोकाः
|
|
|
२३,००० श्लोकाः
|
|
- ऊपर जायें↑ Monier-Williams 1899, पृष्ठम् 752, column 3, under the entry Bhagavata.
- ऊपर जायें↑ Hardy 2001