आचार्यः विनोबा भावे भारतदेशस्‍य एष सुपुत्र: महान्‌ जनसेवक: आसीत्‌। भूदानान्‍दोलने वैयक्‍तिकसत्‍याग्रहे च तेन प्रभूतं योगदानं कृतम् । एषः मँगसेसे पुरस्‍कारेण सम्‍मानित: प्रथम: भारतीय: पुरुषः च आसीत्। मरणोत्‍तरम्‌ एषः भारतशासनेन भारतरत्‍न इति उच्‍चतमेन पुरस्‍कारेण सम्‍मानित:। अस्य जन्म नाम विनाय्क नरहरी भावे इत्यासीत् । महाराष्ट्रराज्यस्य गागोडे[१] इति ग्रामः अस्य जन्मस्थानम् । जनाः एतं भारतस्य राष्ट्रियाध्यात्मिकः महात्मागान्धेः आध्यात्मिकोत्तराधिकारी इति भावयन्ति स्म[२] । एषः स्वजीवनस्य अन्तिमकालं महाराष्ट्रस्य पुनार् इति आश्रमे व्यतीतवान् । इन्दिता गान्धि इत्यनया उद्घुष्टम् आपत्कालम् एषः अनुशासनपर्व इति उक्तवान् इति तत्काले विवादे आसीत् ।

जीवनगाथा

विनोबा भावे वर्यस्य पिता नरहरि भावे महाराष्ट्रस्य कोङ्कणक्षेत्रस्य गागोडाग्रामस्य चित्तपावनब्राह्मणः । नरहरिः गणितविषये रसायनविज्ञाने च अतीव रुचिमान् आसीत् । तेषु दिनेषु वर्णाः विदेशात् आयाताः भवन्ति स्म । नहररि भावे अहर्निशं वर्णानां संशोधने मग्नः भवति स्म । वर्षविष्ये भारतदेशं स्वावलम्बिनं कर्तुम् इच्छति स्म । अस्य पत्नी रुक्मिणीबायी विदुषी आसीत् । उदारचित्ता अष्टयामेषु अपि भक्तिभावे निमग्ना भवति स्म । अस्य प्रभावः अस्याः दैनिककर्येषु अपि भवति स्म । पाकः विपाकः परिवेषणम् अनियमितं च भवति स्म । मातुः स्वभावः विनायके अपि क्वचित् आगतः[३] । अस्य मनः अपि सर्वदा अध्यत्मचिन्ते रतं भवति स्म । खादने भोजने वा अस्य मनः आनासक्तं भवति स्म । मात्र यत् परिवेशितं तत् तूष्णीं खादित्वा गच्छाति स्म । आहारपदार्थानां रुचिः अनुभवगम्यः न भवति स्म । भक्तिगीतानां श्रवणे गायने च रुचिमती आसीत् । पुत्रस्य विनायकस्य आध्यात्मिकसंस्कारवर्धने बाल्ये एव संसारे विरक्त्युत्पादनार्थं वैराग्यस्य प्रेरणा दातुं वा मातुः रुक्मिण्याः योगदानं महत् अस्ति । मात्रा अध्यत्मसंस्कारान् आत्मसात् कृत्वा बालकः विनायकः गणितस्य सूत्रवार्तिकान्, तर्कसामर्थ्यं, विज्ञाने अनुरागं, परम्परायाः विषये वैज्ञानिकदर्शनम्, सर्वस्मात् पूर्वग्राहात् पृथक् सन् चिन्तनस्य क्रमं च पितुः सकाशात् प्राप्तवान् । आहत्य कुटुम्बसंस्कारात् बालके विनायके स्वदीशीयसंस्कृतिविषये प्रेम, सर्वप्राणिनां कल्याणभावना, जीवनस्य विषये सकारात्मकः दृष्टिः, सर्वमतधर्मेषु समभावः ससम्मनस्य कला, इत्यदयः गुणाः संवृद्धा । अनेन अग्रे एषः गान्धिमहात्मनः उत्ताधिकरी इति सम्बोधितः । किन्तु विनोबा भावे महात्मनः गान्धेः सन्निध्ये आगमनात् पूर्वमेव आध्यात्मिकम् औन्नत्यं प्राप्तवान् आसीत् । आश्रमे आगमस्य पश्चात् अपि विनोबा अध्ययने चिन्तने च निरतः भवति स्म । अस्य अध्यात्मचेतनम् असाधारणम् आसीत् । दर्शनशास्त्रम् अस्य प्रियविषयः आसीत् ।

जीवनगाथा

विनोबा भावे वर्यस्य पिता नरहरि भावे महाराष्ट्रस्य कोङ्कणक्षेत्रस्य गागोडाग्रामस्य चित्तपावनब्राह्मणः । नरहरिः गणितविषये रसायनविज्ञाने च अतीव रुचिमान् आसीत् । तेषु दिनेषु वर्णाः विदेशात् आयाताः भवन्ति स्म । नहररि भावे अहर्निशं वर्णानां संशोधने मग्नः भवति स्म । वर्षविष्ये भारतदेशं स्वावलम्बिनं कर्तुम् इच्छति स्म । अस्य पत्नी रुक्मिणीबायी विदुषी आसीत् । उदारचित्ता अष्टयामेषु अपि भक्तिभावे निमग्ना भवति स्म । अस्य प्रभावः अस्याः दैनिककर्येषु अपि भवति स्म । पाकः विपाकः परिवेषणम् अनियमितं च भवति स्म । मातुः स्वभावः विनायके अपि क्वचित् आगतः[३] । अस्य मनः अपि सर्वदा अध्यत्मचिन्ते रतं भवति स्म । खादने भोजने वा अस्य मनः आनासक्तं भवति स्म । मात्र यत् परिवेशितं तत् तूष्णीं खादित्वा गच्छाति स्म । आहारपदार्थानां रुचिः अनुभवगम्यः न भवति स्म । भक्तिगीतानां श्रवणे गायने च रुचिमती आसीत् । पुत्रस्य विनायकस्य आध्यात्मिकसंस्कारवर्धने बाल्ये एव संसारे विरक्त्युत्पादनार्थं वैराग्यस्य प्रेरणा दातुं वा मातुः रुक्मिण्याः योगदानं महत् अस्ति । मात्रा अध्यत्मसंस्कारान् आत्मसात् कृत्वा बालकः विनायकः गणितस्य सूत्रवार्तिकान्, तर्कसामर्थ्यं, विज्ञाने अनुरागं, परम्परायाः विषये वैज्ञानिकदर्शनम्, सर्वस्मात् पूर्वग्राहात् पृथक् सन् चिन्तनस्य क्रमं च पितुः सकाशात् प्राप्तवान् । आहत्य कुटुम्बसंस्कारात् बालके विनायके स्वदीशीयसंस्कृतिविषये प्रेम, सर्वप्राणिनां कल्याणभावना, जीवनस्य विषये सकारात्मकः दृष्टिः, सर्वमतधर्मेषु समभावः ससम्मनस्य कला, इत्यदयः गुणाः संवृद्धा । अनेन अग्रे एषः गान्धिमहात्मनः उत्ताधिकरी इति सम्बोधितः । किन्तु विनोबा भावे महात्मनः गान्धेः सन्निध्ये आगमनात् पूर्वमेव आध्यात्मिकम् औन्नत्यं प्राप्तवान् आसीत् । आश्रमे आगमस्य पश्चात् अपि विनोबा अध्ययने चिन्तने च निरतः भवति स्म । अस्य अध्यात्मचेतनम् असाधारणम् आसीत् । दर्शनशास्त्रम् अस्य प्रियविषयः आसीत् ।

 

बाल्यं शिक्षा च

विनोबा भावे वर्यस्य दौ अनुजौ किन्तु मातुः सर्वाधिकं वात्सल्यं विनोबा एव प्राप्रवान् । भावनात्मकस्तरे अपि विनोबा पिता अस्य सामीप्यम् अधिकं प्राप्नोति स्म । मातुः अपि एतादृशी एव स्थितिः आसीत् पुत्रत्रयेषु (विन्या) विनायकः तस्य हृदये सर्वाधिकसमीपम् आसीत् । मातुः संस्काराणां प्रभावः भौतिकसुखलोलुपतायाः विषये औदासीन्यं समानयत् । वैराग्यं त्यागः च अस्य किशोरावस्थायाः भगः अभवताम् । गृहस्य निर्जन कोणः एव अस्य प्रियस्थानम् आसीत् । मौनम् अस्य सर्वदाभरणम् आसीत् । गृहे परिवारस्य सर्वसदस्यैः सह निवसन् अपि निःस्पृहः निरपेक्षः निर्लिप्तः च भवति स्म । अस्य माता शयनात् पूर्वं गुरोः रामदासस्य दास बोध इति पुस्तकं पठति स्म । बालकस्य मनसि अस्य प्रभावः अभवत् । सा पुत्राय विनायकाय ज्ञानेश्वरस्य, साधुः तुकारामस्य, नामदेवस्य, शङ्कराचार्यस्य च कथाः श्रावयति स्म । रामायणस्य महाभारतस्य च कथाः उपनिषदां तत्त्वानि च बोधयति स्म । सन्न्यासः अस्य भावयानां सर्वदा सञ्चरति स्म । किन्तु संसाराद् विमुखः न भवितुमिच्छन् जनान् मेलयितुं प्रयत्नमकरोत् । तस्य माता सर्वदा वदति स्म गृहस्थाश्रमस्य सम्यक् परिपालनेन पितॄणां मुक्तिः शक्यते । किन्तु भावता आराधिताः शङ्कराचार्यादयः आध्यात्मिकां तृप्तिं प्राप्तुम् अल्पे एव वयसि परिवारं त्यक्तवन्तौ इति । अतः विनोबा वदति स्म यथा रामदासः गृहपरिवारं त्यक्त्वा गतवान अहमपि तथौव प्रस्थानं करिष्यामि इति मातरम् अवदत् । बाल्ये अस्य बुद्धिः अतीव निशिता आसीत् । गणितम् अस्य प्रियविषयः आसीत् । अध्यात्मचेतनं तु मातुः कृपा । ताया दत्तः गुणः चेतनाचेतनयोः समानतया दर्शनम् । माता अधिकविद्यासम्पन्ना नासीत् । स्वाचारेण माता बहुधा पाठितवती न तु वचसा । संसारे तिष्ठन् अपि निर्लिप्तः निःस्पृहः सन् अवसत् । मातुः प्रभावेण एव पद्यानि रचचयित्वा अग्नये समर्पयति स्म । जगति सर्वं नश्वरं क्षणभङ्गुरं भवति अतः मे कवितासु मे कुतः मोहः रक्षणियः इति अस्य भावः । विनायकस्य गणितज्ञानं तार्किकता वा अस्य आध्यात्मिकविश्वसस्य उपरोधः न भवति स्म । यदि एतयोः मध्ये स्पर्धा भवति स्म तदा आध्यात्मिकतायाः एव विजयः भवति स्म ।

 

यौवनम् अध्यात्म च

यौवनस्य आरम्भिकावस्थायाम् एव आजन्म ब्रह्मचर्यं पालयितुं निश्चितवान् । सः एव अस्य आदर्शः पुरुषः यः बाल्ये एव वैराग्यम् आश्रितवान् । ब्रह्मचर्यस्य प्रथमः नियमः एव मनसः नियन्त्रणम् । विनोदस्य शरीरं दुर्बलम् आसीत् । बाल्यादेव कश्चन रोगः बाधते स्म । किन्तु मस्तिष्कं सर्वदा चैतन्ययुतम् आसीत् । किशोरः विनायकः वेदोपनिषदैः सह साधोः तुकारामस्य, नामदेवस्य शतशः पद्यानि स्मरणे रक्षति स्म । भागवद्गीता बाल्यादेव कण्ठगता आसीत् । अस्य सहोदर्याः विवाहः निश्चितः अभवत् । विवाहस्य दिने किमपि न खादामि इति निश्चितवान् । पश्चात् विवाहस्य अवसरे सन्तोषेषण भगम् अवहत् । मातुः आग्रहेण मात्रा स्वयं निर्मितं दालान्नं केवलं खादितवान् । एवं मातुः प्रेम सर्वदा रक्षन् वैराग्यमपि आचरितवान् । पश्चात् गृहत्यागावसरे मातुः रक्ताञ्चलस्य राङ्खवम् तस्याः पूजागृहस्य कांश्चन मूर्तिं च स्वीकृतवान् । कालान्तरेन मूर्तिम् उपायनरूपेण कस्मैचित् दत्तवान् किन्तुं राङ्खवं सर्वदा धरति स्म । पुस्तकापणेषु लभ्यमानेषु गीतानुवादपुस्तकेषु अनुवादकस्य पाण्डित्यं दृश्यते स्म । अतः स्वयं गीतानुवादकार्यं कर्तुं चिन्तितवान् । क्रि.श. १९३१तमे वर्षे भगवद्गीतायाः अनुवादकार्यं समापितवान् । यस्याः अनुरोदेन एतत् कार्यम् आरब्धवान् सा एव एतत् न अपश्यत् । माता रुक्मिणी क्रि.श. १९१८तमे वर्षे अक्टोबर् २४तमे दिने देहत्यागं कृतवती । इयमेव ईश्वरेच्छा इति भावयन् विनोबा भावे अनुवादकर्ये मग्नः अभवत् ।

 

पित्रोः मरणं मतभेधः च

विनोबा भावे धार्मिकसंस्काराणां नाम्नि क्रियमाणानां डम्भाचरणानां विरोधी आसीत् । मातुः अन्त्येष्ठिसमये पितापुत्रयोः मध्ये मतभेदः अभवत् । विनोबा ब्राह्मणानां हस्तैः परम्परागतां दाहक्रियां विरोधितवान् । किन्तु परिवारजनानाम् आग्रहात् परम्पारानुगुणमेव दहनकार्यं कृतम् । अतः विनोबा या एतम् अधिकम् इच्छति स्म, या अस्य अध्यात्मिकगुरुः आसीत् तस्याः मातुः अन्तिमसंस्कारात् दूरे एव स्थितवान् । अश्रुपूर्णनेत्राभ्यां मौनेन मातुः विदायम् उक्तवान् । कालन्तरेण खी.सा. १९४७तमवर्षस्य अक्टोबर् मासस्य २९तमे दिने अस्य पिता अपि दिवङ्गतः । तदा विनोबा वेदस्य निदेशं सूचयन् मृदः मृदि एव अधिकारः अतः शवस्य दाहः न भवति भूमौ निखननं भवति । इति वदन् तथैव आचरितवान् । तवति काले विनोबा साधुः विनोबा अभवत् । गान्धिमहोदयस्य आशीर्वादः अपि आसीत् । अतः स्वनिर्णयम् अनुष्ठातुं शक्तवान् ।

 

सन्न्यासोपलब्धयः

इण्टर् परिक्षार्थं मुम्बै गन्तव्यम् आसीत् । विनोबा निश्चितकार्यक्रमानुगुणं क्रि.श. १९१६तमवर्षस्य मार्चमासस्य २५तमे दिने मुम्बै गमनस्य रेल्याने समारूढः । तस्य मनः दोलायमानम् आसीत् । एषः चिन्तयति स्म प्रौढशालायाः परीक्षा इव इयं इन्टर् परीक्षा अपि सुकरा एव । किन्तु तत्पश्चात् किं कर्तव्यम् । किमेतदेव मे जीवनलक्ष्यम् ? स्वस्य जीवने किमिच्छति तत् अनेन औपचारिकशिक्षाक्रमेण न प्राप्स्यति इति अयं जानाति स्म । विद्यालस्य प्रमाणपत्राणि महाविद्यालयस्य पदव्यः च तस्य अभीष्टं पूरयितुं नैव शक्नुवन्ति इति अस्य निश्चितः आभिप्रायः आसीत् । एवं चिन्तयतः तस्य मनः रेल्यानस्यापेक्षया वेगेन धावति स्म । यदा यानं सूरत् निस्थनकं प्राप्नोत् तदा यानादवतीर्य अन्यस्मिन् मञ्जके पूर्वाभिमुखं प्रस्थातुं सिद्धं रेलयानम् आसीत् । हिमालयः माम् आह्वयन् अस्तीति भावः अस्य मनसि अगतः । गार्हस्थ्यम् अथवा सन्न्यासः इति अस्य मनसि कञ्चित्कालं सङ्घर्षः उत्पन्नः । किन्तु शीघ्रं चाञ्चल्यं त्यक्त्वा अचलः आभवत् । यां यात्राम् इदानीम् आरब्धवान् सा एव यात्रा वास्तवस्य लक्ष्यगम्या यात्रा । जीवनात् पलायनम् अस्य इच्छा नासीत् । अस्य लक्ष्यं तु लक्षाधिकभारतीयानाम् उद्धारः तेषाम् आशंसा सन् जीवनम् । ब्रह्मणः ज्ञानम्, सत्यस्य शोधः अस्य सन्न्यासस्य परमं चरमं च लक्ष्यम् । तेन व्याजेनैव सः गृहं त्यक्तवान् । हिमालयस्य दिशि यात्रा आरब्धा । मार्गे वाराणसी (काशी) प्राप्ता । साधकानां विश्वासः यत् काशी तु भगवतः शिवस्य निवासः । सहस्राधिकवर्षेभ्यः साधवः यतयः ऋषयः मुनयः च अत्र विहरन्तः आध्यात्मिकविचारधारः प्रस्तुतवन्तः । एतत् स्थानं जिज्ञासूनाम् आकर्षकं केन्द्रम् । यस्मिन् गङ्गातटे शङ्काराचार्यसदृशाः आगत्य चिन्तनधाराः प्रवहितवन्तः अगणिताः डम्भाचारा च प्रचलन्ति । तस्मिन् एव गङ्गातटे स्वलक्ष्यस्थानम् अन्विषन् विनोबा भावे अपि आगतः । तस्य गुरोः अन्वेषणे यः अग्रिमं मार्गम् उपदिशेत् । वाराणस्याम् एवम् अटन् विनोबा तत्र आगतवान् यत्र केचन सत्यसाधकाः शास्त्रार्थचिन्तनं कुर्वन्ति स्म । तेषां विषयः द्वैताद्वैतयोः कः साधुः इति । प्रश्नः तु अतीप्राचीनः एव । सामान्यतः १२००वर्षेभ्यः पूर्वं शङ्कराचार्यमण्डनमिश्रयोः मध्ये निर्णायिका चर्चा अभवत् । स एव विषयः पुनः एतेषु सत्यसाधकेषु विचरति स्म । समयहरणार्थं पक्षद्वयमपि वितण्डतर्कं करोति स्म । अन्ते चर्चां समाप्य अद्वैतवादिनां विजयः इति निर्णयः कृतः । एतत् श्रुत्वा विनोबा भावे प्रहसन् अवदत् न हि अद्वैतवादिनाम् अपजयः अभवत् इति । तदा ते सर्वे तं दृष्ट्वा चकिताः यस्य आयुः केवलम् उपविंशति अस्ति सः दिग्गजविदुषां पुरतः मुखमुद्घाटयति इति । किन्तु अद्वैतवादिनः शङ्कराचार्यस्यापि वयः सन्निकृष्टं विनोबा वर्यस्य इव आसीत् इति स्मृत्वा तेन सह संवादम् अकुर्वन् । कथमत्र अद्वैतवादिनाम् एव अपजयः इति पृष्टे विनोबा अवदत् । कोऽपि आद्वैतवादी द्वैतवादिना सह शास्त्रार्थं कर्तुं सिद्धः भवति तदा एव तस्य पराजितः इति अर्थः । अस्य वचनानि सत्यपूतानि इति निश्चित्य तत्र केचन स्वस्य गणे स्वीकर्तुम् आह्वानम् अकुर्वन् । केचन स्वगुरुं कर्तुं सिद्धा अभवन् । किन्तु एषः स्वयं कञ्चित् गुरुम् अन्विषन् अटन् भवति । नीडस्य अन्वेषणे विद्यमानः अन्यस्मै कथं छायां दातुं शक्नोति । स्वस्य जिज्ञासया असन्तोषेण सहितः विनोबा ततः अग्रे अचलत् ।

 

देवनागरीलेखः

विनोबा भावे देवनागरीलिपिं विश्वलिपिरूपेण दृष्टुम् इच्छति स्म । भारतस्य सम्पर्कलिपिः देवनागरी एव भवेदिति आशयेन बहुधा प्रयत्नं कृतवान् । केवलं देवनागरी एव न चलतु किन्तु देवनागरी अपि सर्वत्र सञ्चलतु इति अस्य विज्ञापनम् । अस्य प्रेरणया एव नागरीलिपिसङ्गमः इति किञ्चन सङ्गटनम् उपक्रान्तम् । इयं संस्था भारतस्य आभ्यन्तरे बाह्ये च देवनागरी लित्याः उपयोगस्य प्रसारं करोति स्म ।