अग्निपुराण

अग्निपुराणम् (AgniPurana) अष्टादशपुराणेषु अन्यतमः । संस्कृतविश्वकोशेषु भजते प्रधानं स्थानम् । स्वयं पुराणमिदं स्वस्मिन् अग्निपुराणे सर्वासां विद्यानां स्थानमस्तीति विस्फुटं ब्रूते । इयं हि सर्वेषां पुराणानां प्रस्तुतिभङ्गी यत् सर्वमपि विषयजातं द्वयोः संभाषणैः स्फोर्यते, एकस्यर्षस्य पर्यनुयोगम् अन्य उत्तरयतीति च । पुराणमिदमग्निनामकमपि संभाषणैरेव संघटितम् । तानि च सम्भाषणान्यग्निवसिष्ठयोः ।

पुराणमिति शब्दाकर्णनमनु सृष्टिः प्रतिसृष्टिरित्यादि वस्तुपूगं किलानुसन्दधति विमर्शनविचक्षणाः । अत्रापि सर्गस्य (सृष्टेः)विचारः १७-२० एतेष्वध्यायेषु वर्तते । प्रतिसर्गस्य तु पुनः ३३८ संख्याङ्कितस्याध्यायस्याननन्तरम् । वांशो नाम राजीयानामथवा ऋषियाणां नाम्नां पट्टिका । मन्वन्तरो नाम शासनपरिपाटयां मनूनां कालिकं क्रमिकं च परिवर्त्तनम् । राजर्षिणां चरित्राण्येव वंशानुचरितपदाभिलप्यानि । कल्पमन्वन्तरवर्णनम् अग्निपुराणे बहुषु स्थलेष्वक्षिलक्षीक्रियते । विशेषतः १५० संख्याङ्कितेऽध्याये चतुर्दशमन्वन्तराणां वर्णनं वर्तते । वंशानुचरितं तु भूयोभूयः समायाति ।

यदि केवलमेतावदभविष्यत्, पुराणमिदं भारतीयानां श्रद्धा-विश्वासभावनानां चिन्तनपरंपरायाश्च प्राचीनं लिखितसाक्ष्यं समभविष्यत् । विश्वकोशत्वरुपेणा धर्मेण महत्त्वमेतदीयम् । साहित्यशास्त्रम्, आयुर्वेदः, अश्वायुर्वेदः, गजायुर्वेदः, वृक्षायुर्वेदः, वास्तुविद्या, राजनीतिः, शस्त्रविद्या एतदादीनि वस्तूनि पर्याप्तमात्रयात्र कलृप्तस्थलावकाशानि ।

अध्याय्यानुसारं विचाराः
११-१६ अवतारकथाः
१८-२० वंशानां वर्णनं-सृष्टिः ।
२१-१०३ सांप्रदायिक्यः पूजाः गृहे निर्वर्त्यानि पूजादिकानि, देवस्थाने विधेयानि कैङ्कर्याणि, विविधानां देवतामूर्तीनां परिमाणं,मूर्तिलक्षणानि, देवताप्रतिष्ठा, वस्तुपूजा, जीर्णोद्धारश्च ।
१०४- १४९ भुवनकोशः (संप्रदायमनपहाय भूम्यादिलोकानां वर्णनं)कासांचन पवित्राणां नदीनां माहात्म्यं ज्योतिश्शास्त्रविचारः नक्षत्रनिर्णयः युध्दे जयं प्राप्तुमुच्चारणीया मन्त्राः, चक्राणि, अनेकानि तान्त्रिकाणि विधानानि च ।
१५०. - मन्वन्तराणि ।
१५१-१७४. वर्णाश्रमधर्माः, प्रायश्चित्तानि श्राध्दं च ।
१७५-२०८. व्रतपरिभाषा, पुष्पाध्यायः (विविधानां पुष्पाणां पूजायोग्यत्वायोग्यत्वे) पुष्पेण पूजायाः फलं च ।
२०९-२१७. दानमाहात्म्यं, विविधानि दानानि, मन्त्रमाहात्म्यं, गायत्रीध्यानपध्दतिः, शिवस्त्रोत्रं च (एते विपयाः पुराणमिति शब्दश्रवणमनु सुज्ञेया एव )।
२१८-२४२.राजकीया विचाराः –राज्ञां कर्तव्यानि । अभिषेकविधिः –युध्दक्रमाः रणदीक्षा, स्वप्नशुकनादिविचारः, दुर्गनिर्माणविधिः दुर्गप्रभेदाश्च ।
२४३-२४४. पुरुषाणां स्त्रीणां च दैहिकानि लक्षणानि ।
२८८-२४५. चामरखड्गधनुषां लक्षणम् ।
२४६.- रत्नपरीक्षा ।
२४७.- वास्तुलक्षणम् ।
२४८.- पुष्पादिपूजा-फलम् ।
२४९-२५२. धनुर्वेदः ।
२५३.-२५८ .अधिकरणस्य (न्यायालयस्य) व्यवहाराः ।
२५३-२७८. चतुर्णां वेदानां मन्त्रप्रयोगैर्जायमानानि विविधानि फलानि, वेदशाखानां विचारः, राज्ञां वंशस्य वर्णनम् ।
२७९-२८१. रसायुर्वेदस्य काश्चन प्रक्रियाः ।
२८२-२२९ वृक्षायुर्वेदः, गजचिकित्सा, गजशान्तिः, अश्वशान्तिः (गजाश्वयोः कोऽपि रोगो न भूयादिति हेतोरनुष्ठातव्याः सांप्रदायिका आचाराः)
२९८ -३७२ विविधदेवताकाः मन्त्र-शान्ति-पूजाः, देवालयमाहात्म्यं च ।
२९८-३७२ छन्दश्शास्त्रं वर्णाच्चारणशिक्षा च ।
३३७-३४७ साहित्यरसालङ्कारकाव्यदोषरीरिनृत्यानि
३४८- एकाक्षरी कोशः ।
३४९-३५९ व्याकरणप्रतिपाद्या विविधा विषयाः ।
४६०-३६७ पर्यायशब्दकोशः ।
३६८-३६९ प्रलयनिरुपणम् ।
३७०- शारीरकम् (शरीरस्य तदवयवानां चायुर्वेदसम्मतं निरुपणम् )।
३७१- नरकनिरुपणम् ।
३७२-३७६ योगशास्त्रप्रतिपाद्या विचाराः ।
३७७-३८० वेदान्तज्ञानम् ।
३८१- गीतासारः ।
३८२- यमगीता ।
३८३- अग्निपुराणमाहात्म्यम् ।
पूर्वोक्ते विचारवैविध्ये दृष्टे पुराणस्यास्य पौराणिका एव विषयाः प्रधानप्रतिपाद्या इति सुविस्पष्टं भवति । अत्रत्यस्य साहित्यशास्त्रीय विचारस्येतरेषामपि विषयाणां संशोधनमनेकैः कृतपूर्वम् । परन्तु धनुर्वेदादयोऽत्र ये प्रतिपादितास्तत्रैतन्न सत्यमिति प्रतिभाति । अन्यच्च-अत्रत्यः पर्यायकोशो वस्तुतोऽमरकोशस्यैव संग्रहः । संस्कृतशिक्षणस्य नवीनता सांप्रदायिकीमप्यभिरुचिम् आदध्यादिति प्रतिपादनकुतूहलिभिरमरकोशस्य संक्षिप्तामावृत्तिमेतां कुत्रापि संस्कृतपाठयग्रन्थे समावेशयितुं शक्यते वेति विचारणीयम् । एतेन समाविष्टेन कोषभागेन साकमेव साहित्यात् तत्प्रयोगोदाहरणानि देयानि । एवं विहिते संस्कृतशिक्षणं दृढायते, भाषादृष्टया संस्कृतस्य यो नाडीपरिस्पन्दः स आकर्ण्यते विद्यार्थिभिः ।