सिद्धराज जयसिंह ( ( शृणु) /ˈsɪdðərɑːdʒə dʒəjəsɪnhə/) (हिन्दी: सिद्धराज जयसिंह, आङ्ग्ल: Siddharaj Jaisinh) गुजरात-राज्यस्य श्रेष्ठतमेषु राजसु अन्यतमः आसीत् । सः चालुक्यवंशीयः आसीत् । चालुक्य-वंशः सोलङ्की-वंशस्य एव स्वरूपम् आसीत् । जयसिंहः चालुक्यवंशस्य श्रेष्ठतमः सम्राट् आसीत् । सिद्धराजः इति जयसिंहस्य उपाधिः आसीत् । अतः इदानींतने काले सर्वे सिद्धराज जयसिंह इति नाम्ना एव जानन्ति ।

 

सः अत्यन्तं चतुरः, पराक्रमी, मेधावी च आसीत् । गुजरात-राज्यस्य पाटण-प्रदेशः तस्य मुख्यं साम्राज्यम् आसीत् । अस्य शासनकालः लघुवयसि एव प्रारम्भः अभवत् [१]। अतः मातुः परामर्शानुगुणं निर्णयान् करोति स्म ।

जन्म, परिवारश्च

ई. स. १०९४ तमे वर्षे सिद्धराज जयसिंह इत्याख्यस्य जन्म गुजरात-राज्यस्य पाटण-नगरे अभवत्[२] । पुरा पाटण-नगरं अन्हलवाडा अन्हिलवाड वा इति नाम्ना अपि ज्ञायते स्म । तस्य पिता कर्णदेवः, माता च मीनळदेवी आसीत् [३]। जयसिंहस्य जन्म सोलङ्की-वंशे अभवत् । मीनलदेवी इतीयं मयणल्लदेवी इति नाम्ना अपि ख्याता आसीत् । जयसिंहः पुत्रहीनः आसीत् । जयसिंहस्य अल्पवयसि एव तस्य पितुः मृत्युः अभवत् । किन्तु जयसिंहः अवयस्कः आसीत् इत्यतः मीनळदेवी एव साम्राज्यस्य राजमाता अभवत् । यतः सा शासनव्यवस्थां, राजनीतिं च जानाति स्म । तस्य एका पुत्री आसीत् ।

 

सोलङ्की-वंशः

त्रिशताधिकं वर्षं यावत् सोलङ्की-वंशस्य शासकैः गुजरात-राज्यस्य वडनगरप्रदेशे, पाटण-प्रदेशे च शासनं कृतम् आसीत् । ई. स. ९४२ तमे वर्षे मूलराज इत्याख्येन गुजरात-राज्ये सोलङ्की-वंशस्य स्थापना कृता आसीत् [४]।

 

मालवा-प्रान्तस्य ये शासकाः आसन्, ते वडनगर-प्रान्तम् आगत्य शासनं कुर्वन्तः आसन् । किन्तु यदा मूलराजः आगतवान्, तदा तेन वडनगर-प्रान्तात् ते शासकाः निष्कासिताः । तदा गुजराज-राज्यस्य राजधानी पाटण-प्रदेशः आसीत् ।

 

मूलराजः ई. स. ९४२ तः ९९५ पर्यन्तं ५३ वर्षं यावत् शासनं कृतवान् आसीत् । स्वस्य शासनकाले मूलराजेन गुजरात-राज्यस्य सार्वभौतिकः विकासः कृतः । नगरस्य अनेकेषां मन्दिराणां पुनर्निर्माणं कारितम् । वडनगरे ये प्राचीनशिल्पाः प्राप्यन्ते, तेषु अधिकतमाः शिल्पाः सोलङ्की-शासनकालीनाः सन्ति ।

 

त्रयोदश-शताब्दिपर्यन्तं सोलङ्की-शासकानाम् आधिपत्ये गुजरात-राज्यं सुरक्षितं, विकसितं चासीत् । किन्तु १२९७ तमे वर्षे देहली-राज्यस्य शासकेन गुजरात-राज्यं जितम् । तदनन्तरं तेन वडनगरं निर्लुण्ठितं, अग्निसात्कृतं च । वडनगरस्य प्रमुखाणां नागरिकाणाम् अपि हननं कृतम् ।

 

सोलङ्की-वंशे बहवः शासकाः अभवन् । तेषु – मूलराजः, भीमदेवः, कर्णदेवः, जयसिंहः, कुमारपालः इत्यादयः प्रसिद्धाः वीराः राजानः अभवन् । गुजरात-राज्यस्य सर्वे सोलङ्की-शासकाः जैनधर्मस्य पोषकाः, रक्षकाः च आसन्[५] ।

व्यक्तित्वम्

जयसिंहः तस्य कालस्य एकः सर्वश्रेष्ठः राजा आसीत् । सः विद्याप्रेमी, कलाप्रेमी चापि आसीत् । अतः विद्वद्भ्यः सम्माननम् अपि यच्छति स्म । यावत् पर्यन्तं जयसिंहेन शासनं कृतम् आसीत्, तावत्पर्यन्तं तु निर्धनेभ्यः, विद्वद्भ्यश्च भोजनं, निवासस्थानं चापि ददाति स्म । तस्मिन् समये पाटण-प्रदेशं गुजरातराज्यस्य राजनीतेः, धर्मस्य, संस्कृतेः च एकमात्रम् एव बृहत्केन्द्रम् आसीत् । अतः तत्र जैन-धर्मस्य अपि उन्नतिः जाता ।

 

जयसिंहः पाटण-प्रदेशे ४७ वर्षाणि यावत् शासनं कृतवान् । तत्र एकः प्रसिद्धः जैनसाधुः आसीत् । तस्य नाम हेमचन्द्राचार्यः इत्यासीत् । हेमचन्द्राचार्येण सह अपि जयसिंहस्य गाढसम्बन्धः आसीत् ।

 

जयसिंहस्य बाल्यकाले मीनलदेवी साम्राज्यस्य शासिका आसीत् । सा स्वस्याः पुत्राय राजनीतेः शिक्षणं यच्छति स्म । मीनलदेव्याः शासने बहवः मन्त्रिणः आसन् । किन्तु तेषु द्वौ मन्त्रिणौ विश्वस्तौ आस्ताम् । तौ – शान्तु, मुञ्जाल च ।

 

तस्मिन् समये मालवाप्रान्तस्य राजा नरवर्मा आसीत् । नरवर्मणा पाटण-नगरं जेतुम् आक्रमणं कृतम् आसीत् । किन्तु शान्तु नामकेन मन्त्रिणा नरवर्मणे धनं दत्त्वा युद्धं निवारितम् । समयान्तरे ई. स. ११३५ तमे वर्षे जयसिंहेन मालवा-प्रान्तः अपि जितः ।

 

यावत्पर्यन्तं मीनलदेवी जीविता आसीत्, तावत्पर्यन्तं जयसिंहः मीनलदेव्याः सहयोगं प्राप्तवान् आसीत् । किन्तु मालवा-प्रान्तस्य विजयात् प्राग् एव मीनलदेव्याः मृत्युः अभवत् । अनन्तरं जयसिंहः शान्तु, मुञ्जाल इत्याख्ययोः द्वयोः मन्त्रिणोः साहाय्येन परामर्शेन च शासनं कृतवान् ।

 

शासकजीवनम्

नाडोल-प्रदेशस्य चाहमान-वंशीयाः चालुक्यवंशस्य शत्रवः आसन् । अतः जयसिंहः तस्य वंशस्य ‘आशाराज’ नामकस्य शासकोपरि प्रभुत्वं स्थापितवान् । तदनन्तरं जयसिंहेन उत्तरदिशि चाहमान-राज्ये अपि आक्रमणं कृतम् आसीत् । अन्ते तस्योपरि स्वस्य सार्वभौमत्वं स्थापितम् ।

 

जयसिंहेन चाहमान-राज्योपरि अपि आक्रमणं कृत्वा तद् राज्यं जितम् । किन्तु सः कुशलः नीतिज्ञः आसीत् । सः स्वस्य बलं, सेनां च सदृढीकर्तुम् इच्छति स्म । अतः सः चाहमान-राज्यस्य राज्ञा अर्णोराजेन सह तस्य पुत्र्याः विवाहम् अकारयत् । जयसिंहेन अर्णोराजाय शासितुम् एकः प्रदेशः प्रदत्तः आसीत् ।

 

राजसिंहः मालवा-राज्यस्य राज्ञः नरवर्मणः विरोधाय आशाराज, अर्णोराज इत्येताभ्यं साहाय्यं प्रापत् । तद्युद्धं दीर्घकालपर्यन्तम् अभवत् । अन्ते नरवर्मा राजा पराजितः जातः । नरवर्मणा इत्यनेन जयसिंहस्य बन्दीत्वं स्वीकृतम् आसीत् । किन्तु किञ्चित् समयान्तरे जयसिंहेन नरवर्मा मुक्तः कृतः ।

 

यशोवर्मन् इत्ययं नरवर्मणः पुत्रः आसीत् । पुनः यशोवर्मन् इत्ययं प्रतिद्रोहे युद्धम् अकरोत् । तदापि जयसिंहस्य विजयः अभवत् । यशोवर्मन् अपि जयसिंहस्य बन्दी अभवत् । यशोवर्मन् अपि किञ्चित् समयं यावत् कारागारे आसीत् । अस्य युद्धस्य विजयेन जयसिंहः अवन्तिनाथ इति उपाधिं प्राप्तवान् आसीत् । जयसिंहेन अवन्तिमण्डलं शासितुं महादेवः नियुक्तः आसीत् ।

 

जयसिंहेन बहूनि युद्धानि कृतानि । सिन्ध-राज्ये कश्चित् मुस्लिम् शासककल्पः शासकः आसीत् । जयसिंहेन तेन सह अपि युद्धं कृतम् । अनन्तरं जयसिंहेन बर्बरक इत्याख्येन सह अपि युद्धं कृतम् । बर्बरक इत्याख्यः अपि पराजितः जातः । तेन कारणेन जयसिंहः “बर्बरक जिश्नु” इत्युपाधिं प्राप्तवान् । बर्बरक इत्ययं गुजरात-राज्यस्य कस्याश्चित् जातेः व्यक्तिः आसीत् । बर्बरक इत्याख्यः सिद्धपुर-ग्रामस्य साधुभ्यः कष्टकायते स्म ।

 

जयसिंहः पुत्रहीनः आसीत् । अतः तस्य जीवनस्य अन्तिमानि वर्षाणि दुःखपूर्णानि व्यतीतानि । तस्य मृत्योः अनन्तरं तस्य पितृव्यस्य प्रपौत्रः कुमारपालः शासकत्वेन अभवत् ।

रा’खेंगार, सोरठ च

यदा जयसिंहः स्वस्य शासकत्वम् आरब्धवान् आसीत्, तदा सर्वप्रथमं तेन स्वस्य राज्यस्य स्थितिः दृढीकृता आसीत् । तदनन्तरं प्रायः ई. स. ११०९ तमवर्षपर्यन्तं जयसिंहेन गुजरात-राज्यस्य दक्षिणदिशः प्रदेशेषु स्वस्य आधिपत्यं स्थापितम् आसीत् ।

 

सोरठ-प्रदेशस्य राजा ग्रहरिपुः आसीत् । साम्प्रतं सोरठ इत्ययं सौराष्ट्र-प्रदेशः इति नाम्ना प्रसिद्धः अस्ति । यदा जयसिंहस्य पिता कर्णदेवः पाटण-प्रदेशस्य राजा आसीत्, तदा ग्रहरिपुः पाटण-प्रदेशस्य प्रभुत्वं स्वीकरोति स्म । किन्तु ग्रहरिपोः मृत्योरनन्तरं “रा’नवघण” इत्याख्यः सोरठ-प्रदेशस्य राजा अभवत् । सः पराक्रमी राजा आसीत् । अतः सः पाटण-प्रदेशस्य सार्वभौमत्वं स्वीकर्तुं नैच्छत् ।

 

जयसिंहः पुनः सोरठ-प्रदेशे स्वस्य प्रभुत्वं स्थापयितुम् इच्छति स्म । अतः तेन पाटण-प्रदेशतः गिरनार-प्रदेशं यावत् राजनीतेः चक्रव्यूहः रचितः ।

 

रा’नवघण इत्याख्यः प्रतापी राजा आसीत् । “सम्पूर्णगुजरात-राज्ये स्वस्य आधिपत्यं स्यात्” इति रा’नवघण इत्यस्य महेच्छा आसीत् । किन्तु तस्य मृत्योः कारणात् तस्य इच्छा पूर्णा न जाता ।

 

रा’नवघण इत्याख्यस्य मृत्योरनन्तरं तस्य पुत्रः रा’खेंगार इत्याख्यः तत्रत्यः राजा अभवत् । किन्तु मृत्युकाले रा’नवघण इत्याख्येन रा’खेंगार इत्यस्मात् वचनं स्वीकृतं यत् – “पाटण-प्रदेशस्य द्वारं निष्कास्य तद्द्वारं, पाषाणाः च जूनागढ-प्रदेशे नेतव्याः सन्ति” इति ।

 

इदानीमपि जनोक्तिः अस्ति यत् - “यदा जयसिंहः मालवा-प्रदेशाय युद्धं कुर्वन् आसीत्, तदा रा’खेंगार इत्याख्यः स्वस्य वचनपालनार्थं छलेन द्वारं, पाषाणान् च पाटण-प्रदेशतः जूनागढ-प्रदेशे नीतवान् आसीत्” ।

 

साम्प्रते जूनागढ-नगरे काळवा-द्वारं पाटण-प्रदेशस्य पाषाणैः निर्मितम् अस्ति, इति लोकमान्यता अस्ति । अनेन छलेन कारणेन पाटण-सोरठप्रदेशयोः शत्रुता अभवत् ।

 

सोरठ-प्रदेशे आक्रमणम्

समयान्तरे पाटण-सोरठप्रदेशयोः विद्वेषिता वर्धन्ती आसीत् । तेन कारणेन जयसिंहेन जूनागढ-प्रदेशे आक्रमणं कृतम् । जयसिंहस्य सैन्यम् अधिकम् आसीत् । रा’खेंगार इत्ययं सर्वाणि साधनानि नीत्वा उपरकोट-नगरस्य दुर्गं गतवान् आसीत् ।

 

सोरठ-प्रदेशस्य श्रेष्ठतया रक्षणं भवेत् इति विचिन्त्य रा’खेंगार-इत्यनेन उपरकोट-नगरस्य पुरातनदुर्गं विशिष्टतया निर्मापितम् आसीत् ।

 

उपरकोट-नगरस्य दुर्गस्य सैनिकैः अपि युद्धे बहवः प्रयासाः कृताः । किन्तु जयसिंहस्य सैन्यबलम् अधिकम् आसीत् । अतः सैनिकाः पराधीनाः अभवन् । अन्ते रा’खेंगार इत्ययं मृत्युं प्रापत् ।

 

कार्यक्षमता

जयसिंहः श्रेष्ठः राजा आसीत् । अपि तु सः एकः प्रभावशाली, व्यवहारकुशलः च अपि आसीत् । शासने व्यावहारिकदृष्ट्या सः अत्यन्तं चतुरः आसीत् । राज्यस्य व्यवहारे तस्य साहाय्यार्थं चतुर्णां विदुषां समूहः आसीत् ।

 

जयसिंहेन गुजरात-राज्यस्य आर्थिकस्थितौ, सांस्कृतिकस्थितौ च परिवर्तनं कृतम् आसीत् । तेन कारणेन गुजरात-राज्यं सम्पन्नम् अभवत् ।

 

साम्प्रतं गुजरातराज्ये खम्भात-पत्तनम् अस्ति । खम्भात-पत्तनं पुरा महत्त्वपूर्णः पोताश्रयः आसीत् । तत्र अन्ताराष्ट्रियः व्यापारः भवति स्म । तत्र वैदेशिकाः अपि निवसन्ति स्म । जयसिंहेन एव खम्भात-पत्तने व्यापाराय अनुमतिः प्रदत्ता आसीत् । तेन एव तस्य पोताश्रयस्य विकासः कृतः आसीत् ।

 

तस्मिन् काले पाटण-प्रदेशः राष्ट्रियस्तरीयं, अन्ताराष्ट्रियस्तरीयं च व्यापारकेन्द्रम् आसीत् । खम्भात-पत्तनं, भरुच-पत्तनं च मुख्यौ पोताश्रयौ आस्ताम् । अनेन प्रकारेण गुजरात-राज्याय बहूनि कार्याणि कृतानि आसन् ।

 

गुजरात-राज्यस्य विकासे जयसिंहस्य महद्योगदानम् आसीत् । सः गुजरात-राज्यस्य विकासाय निरन्तरं प्रयासरतः आसीत् । अनेन ज्ञायते यत् – तस्य कार्यक्षमतायाः काऽपि सीमा नासीत् ।

 

‘मस्जिद्’ निर्माणार्थं योगदानम्

तस्य शासनकाले तेन इस्लाम-धर्माय अपि योगदानं प्रदत्तमासीत् । तदा ‘मुहमद् आवफी’ इत्याख्यः एकः मुस्लिमलेखकः आसीत् । तेन बहवः लेखाः लिखिताः आसन् । तेन “जवामी उल् हिकयत” इति नामकं पुस्तकं रचितम् आसीत् । तस्मिन् पुस्तके ‘मुहमद् आवफी’ इत्यनेन जयसिंहस्य एकः प्रसङ्गः अपि लिखितः आसीत् । सः प्रसङ्गः अधः दत्तः अस्ति यत् –

 

ई. स. ११२३ तमे वर्षे ‘मुहमद् आवफी’ भारतदेशे आसीत् । तस्मिन् काले खम्भात-पत्तने एकं ‘मस्जिद्’ आसीत् । किन्तु तत्रत्यैः अन्यपूजकैः तत् ‘मस्जिद्’ दाहितम् । अनन्तरं तैः ८० मुस्लिम्-जनानां हत्या अपि कृता आसीत् ।

 

अयं एकः हृदयद्रावकः प्रसङ्गः आसीत् । अतः ‘मस्जिद्’ इत्यस्य केनचित् पूजकेन जयसिंहाय प्रसङ्गाधारितम् एकं काव्यं प्रेषितम् आसीत् । काव्यं पठित्वा जयसिंहः स्वयमेव खम्भात-पत्तनं गत्वा तस्य प्रसङ्गस्य सम्पूर्णविषयम् अवगतवान् । तदनन्तरं जयसिंहेन ‘मस्जिद्’ इत्यस्य पुनर्निर्माणार्थं १ लक्षं चलितमुद्राणि प्रदत्तानि । अनन्तरं ये अभियुक्ताः आसन्, तेभ्यः दण्डः अपि प्रदत्तः ।

साम्राज्यपरिमाणम्

साम्प्रतं भारतस्य अनुगुणं गुजरात-राज्यस्य उत्तरभागः, राजस्थान-राज्यस्य मारवाड-प्रान्तः, अजमेर-नगरं च, दक्षिणदिशि थाणा तः कल्याण पर्यन्तं भागः, मालवा-प्रान्ते बुन्देलखण्डः, उज्जैन-नगरं, कन्नौज, सिन्धः इत्यादयः प्रदेशाः जयसिंहस्य स्रामाज्ये आसन् । तस्य साम्राज्यं महद्विस्तृतम् आसीत् । उत्तरदिशि जोधपुर, जयपुर पर्यन्तं साम्राज्यस्य विस्तारः आसीत् ।

 

पश्चिमदिशि भिलसा-पर्यन्तं साम्राज्यं विस्तृतम् आसीत् । काठियावाडप्रदेशः, कच्छप्रदेशश्च तस्य साम्राज्ये सम्मिलितौ आस्ताम् । मालवा-प्रान्तेन सह पाटण-प्रान्तस्य द्वादशवर्षपर्यन्तं सङ्घर्षः अभवत् । अन्ते जयसिंहेन मालवा-प्रान्तः जितः ।

 

जयसिंहः युद्धेषु बहून् विजयान् प्राप्य चालुक्यसाम्राज्यं सर्वत्र अतनोत् । चालुक्यवंशस्य अन्यैः कैश्चित् अपि शासकैः एतावान् विस्तारः न कृतः आसीत् ।

 

रुचिः

जयसिंहः यावत् शासनं कृतवान्, तावत् तस्य विभिन्नक्षेत्रेषु अभिरुचिः आसीत् । शास्त्रचर्चायां, धर्मविषयिण्यां चर्चायाम् अपि सः संलग्नः भवति स्म ।

 

धार्मिकत्वम्

जयसिंहः शैवमतानुयायी आसीत् । मेरुत्तुङ्गानुसारं सः मातुः वचनेन बाहुलोड-इत्यस्य यात्रिभ्यः करमुक्तिं प्रादात् । यतः धार्मिकविषयेषु सः उदारः आसीत् । तस्य नीतिः श्रेष्ठा आसीत् । तस्य शासनकाले अधिकतमाः विद्वांसः जैनधर्मानुयायिनः आसन् । सः शैवः आसीत्, तथापि जैनानुयायिभ्यः सः पक्षपातं न करोति स्म [६]।

 

एकदा सः ईश्वरस्य, धर्मस्य च विषये सत्यं ज्ञातुम् ऐच्छत् । तेन अस्य विषये बहवः विद्वांसः, आचार्याः च पृष्टाः । किन्तु हेमचन्द्राचार्यस्य उत्तरेण जयसिंहः प्रभावितः अभवत् । जयसिंहः इस्लाम-धर्माय अपि उदारः एव आसीत् ।

 

जयसिंहेन सिद्धपुर-ग्रामे रूद्रमहालय-नामकं मन्दिरं निर्मापितम् आसीत्[७] । इदं मन्दिरं जयसिंहेन निर्मापितेषु मन्दिरेषु मुख्यम् अस्ति । तदनन्तरं सः एकां सरसीम् (Pond) अपि निर्मापितवान् आसीत् । तस्मिन् सरस्यां सहस्रशिवलिङ्गानि सन्ति । तस्याः सरस्याः समीपे जयसिंहेन एकः कीर्तिस्तम्भः अपि निर्मापितः । जयसिंहेन सरस्वतीनद्याः तटे अपि भगवतः नारायणस्य विष्णोः वा दशावतार-मन्दिरम् अपि निर्मापितम् आसीत् ।

 

शास्त्रप्रेमी

जयसिंहः शास्त्रप्रेमी आसीत् । शास्त्रे अपि तस्याभिरुचिः आसीत् । कविभ्यः, विद्वद्भ्यः च जयसिंहेन गुजरात-राज्ये आश्रयः प्रदत्तः आसीत् । तेन कारणेन गुजरात-राज्यं शिक्षणस्य, साहित्यस्य च केन्द्रम् अभवत् ।

 

तस्य शासनकाले नैके कवयः, साहित्यकाराः च अभवन् । तेषु – रामचन्द्रः, आचार्य जयमङ्गलः, यशःचन्द्रः, वर्धमानः इत्यादयः उल्लेखनीयाः सन्ति । श्रीपालः अपि विद्वान् आसीत् । जयसिंहेन श्रीपालाय “कवीन्द्र” इत्युपाधिः प्रदत्तः । जयसिंहः श्रीपालं भ्राता इव मन्यते स्म ।

 

किन्तु एतेभ्यः विद्वद्भ्यः अपि विशिष्टः अपरः विद्वान् आसीत् । हेमचन्द्रः तस्य नाम आसीत् [८]। हेमचन्द्रः जयसिंहस्य प्रियः आसीत् । हेमचन्द्रस्य प्रतिभा बहुमुखी आसीत् । हेमचन्द्रः व्याकरणाचार्यः आसीत् । अतः हेमन्द्रेण स्वस्य प्रसिद्धे “सिद्धहेमचन्द्रशब्दानुशासनम्” इति नामके व्याकरणग्रन्थे अपि जयसिंहस्य “सिद्ध” इति पदं निवेशितम् अस्ति ।

 

मृत्युः

ई. स. ११४३ तमे वर्षे जयसिंहस्य मृत्युः अभवत् [९]। तस्य मृत्योः अनन्तरं १८ दिनानि यावत् पाटण-प्रदेशस्य स्थितिः असमीचीना आसीत् । ततः परं जयसिंहस्य पितृव्यस्य प्रपोत्रः कुमारपालः तत्रत्यः राजा अभवत् । तदाऽरभ्य कुमारपालेन शासनं कृतम् ।