हेमचन्द्रः(गुजराती: હેમચન્દ્ર, आङ्ग्ल: Hemachandra )एकः संस्कृतस्य आलङ्कारिकः वर्तते । एतस्य जन्मनाम चङ्गदेवः इति । ४७ वर्षाणि एषः जीवनं यापितवान् । एतेन काव्यानुशासनम् इति ग्रन्थः लिखितः ।

 

यथा शिवाजी रामदासेन विना, विक्रमः कविकुलगुरुकालिदासेन विना, भोजः धनपालेन विना शून्यः आसीत् तथैव सिद्धराजकुमारपालौ हेमचन्द्राचार्येण विना शून्यौ आस्ताम् । ९०० वर्षेभ्यः प्राक् गुर्जर-प्रान्ते प्रतापिनां सोलङ्कीवंशीयानां राज्ञां शासनम् आसीत् । तेषां शासने पाटण-नगरं गुर्जर-प्रान्तस्य केन्द्रम् आसीत् । कालान्तरे सोलङ्कीराज्ञा कर्णदेवेन नूतनस्य कर्णावती-नगरस्य निर्माणं कृतं, शासनस्य केन्द्रत्वेन तस्य स्थापनं च कृतम् । तस्य शासने सम्पूर्णे राज्ये जनाः सदाचारं, न्यायं, नीतिं च अनुसरन्ति स्म । तस्मिन् वंशे राज्ञः सिद्धराजजयसिंहस्य जन्म अभवत् । तस्य शासने सर्वत्र व्यापारवृत्तिः चलति स्म । सा च वृत्तिः मूलतया वणिक्जातेः हस्तगता आसीत् । ते च जैनधर्मम् अनुसरन्ति स्म ।

जन्म, परिवारश्च

1089 तमस्य वर्षस्य नवम्बर-मासे वा दिसम्बर-मासे (वि.सं ११४५ तमस्य वर्षस्य कार्त्तिक-मासस्य शुक्लपक्षस्य पूर्णिमायां तिथौ) अहमदाबाद-नगरस्य धन्धुका-ग्रामे जैनधर्मपालके कुटुम्बे एकस्य बालकस्य जन्म अभवत् । तस्य नाम चाङ्गदेव इति । कालान्तरे स एव हेमचन्द्र अभवत् । तस्य पितुः नाम चामिग, मातुः नाम पाहिणी च आसीत् ।

 

बाल्यम्

चाङ्गदेवः बाल्याकालादेव जैनमन्दिरं गच्छति स्म । उपाश्रयं गत्वा धर्मकथाञ्च शृणोति स्म । एकदा चाङ्गदेवः मित्रैः सह क्रीडितुम् अगच्छत् । नियमानुसारं सर्वाणि मित्राणि जैनमन्दिरे दर्शनं कृत्वा उपाश्रयं प्रति अगच्छन् । उपाश्रयं गच्छन्तः “प्राक् धर्मकथां शृण्मः अनन्तरं क्रीडामः” इति सर्वे निश्चितवन्तः । उपाश्रयं प्राप्य गुरुं च प्रणम्य बालकाः धर्मकथायाः क्रीडायां क्रीडारताः अभूवन् । तस्यां क्रीडायाम् एकः व्याख्याता, अन्ये च श्रावकाः अभूवन् । तत्र चाङ्गदेवः व्याख्यातृपदम् आलङ्करोत् । तदा देवचन्द्रसूरिनामकः महात्मा तत्र समागतः । चाङ्गदेवं प्रवचनस्य पीठे आरूढं दृष्ट्वा सः अपि आश्चर्यचकितः अभवत् । महात्मा चाङ्देवस्य ललाटं दृष्ट्वा अयं बालकः महापुरुषः भविष्यति इति अकथयत्, श्रावकान् तस्य पित्रोः विषये अपृच्छत् च । ततः परम् “अयं बालकः धर्मकार्याय जातः अस्ति । अतः एनं मह्यं ददातु” इति महात्मा पितृभ्याम् अयाचत । माता पाहिणी स्वस्याः अहोभाग्यं मत्वा सोत्साहं स्वपुत्रं महात्मने अयच्छत् ।

 

प्रथमः विहारः

देवचन्द्रसूरिणा धन्धुका-ग्रामात् चाङ्गदेवेन सह विहारस्य आरम्भः कृतः । ततः तौ स्तम्भनपुरम् अर्थात् अद्यतनं खम्भात-नगरं प्राप्तवन्तौ । तदानीं गुर्जर-प्रान्तस्य केन्द्रं कर्णावती-नगरम् आसीत् । तस्य अमात्यः उदयन आसीत् । सः स्तम्भनपुरस्य कार्यभारं वहति स्म । स्वेन सह चाङ्गदेवः स्तम्भनपुरम् आगच्छति इति देवचन्द्रसूरिः उदयनम् असूचयत् । अतः मन्त्रिणा चाङ्गदेवस्य स्वागतं कृतम् ।

 

दीक्षायै पितुः अनुमतिः

मुनिना सह चाङ्गदेवस्य गमनविषये अज्ञः पिता गृहं प्रतिगत्वा “क्व गतः मे चाङ्गः?” इति स्वपत्नीम् अपृच्छत् । पत्नी घटितं वृत्तं श्रावितवती । वृत्तं श्रुत्वा द्वीतीये दिवसे पिता स्तम्भनपुरं गतः । तत्र गत्वा “मम पुत्रः साधुः भवेत् इति नेच्छामि” इति आचार्यम् असूचयत् । आचार्यः देवचन्द्रसूरिः चामिग इत्येतम् उद्बोधितवान् किन्तु सः न आवगच्छत् । ततः परं मन्त्री उदयन तं नीतिपूर्वकं सत्यम् औपदिशत् । चामिग सर्वम् आवगच्छत् दीक्षायै अनुज्ञां च अयच्छत् ।

 

अध्ययनं दीक्षा च

चाङ्गदेवः स्तम्भनपुरे निवासं कृत्वा, गुरोः देवचन्द्रसूरिणः आज्ञया अनेकानां शास्त्राणाम् अध्ययनम् अकरोत् । अनन्तरं नववर्षस्य वयसि सः सोत्साहं दीक्षाम् अगृण्हत् । दीक्षान्ते देवचन्द्रसूरिः चाङ्गदेवाय सोमचन्द्र इति नाम अयच्छत् ।

 

संन्यासिजीवनम्

मुनिना सोमचन्द्रेण साधुजीवनस्य आरम्भः कृतः । गुरुसेवा, देवेषु श्रद्धा, धर्मस्य पालनम् इत्येते विषयाः तस्य जीवनलक्ष्यम् अभवत् । आद्वादशवर्षं न्यायव्याकरणसाहित्यसदृशां गहनविषयाणां, विश्वस्य पृथक्-पृथक् धर्मशास्त्राणां च अभ्यासं कृत्वा सः विद्वान् अभवत् । अभ्यासान्ते तस्य मनसि नूतनग्रन्थनिर्माणाय विचारः समुद्धृतः । तदर्थं किं करोमि इति सः गुरुम् अपृच्छत् । गुरुः देवचन्द्रसूरिः काश्मीर-नगरं गत्वा सरस्वती-देव्याः साधनां कुरु इति असूचयत् । गुरोः आज्ञां मनसि निधाय सोमचन्द्रः देव्याः साधनां कर्तुम् आवर्षं काश्मीर-नगरे स्थितवान् । भगवती प्रसन्ना भूत्वा वरं प्रदत्तवती । ततः परं मुनिः सोमचन्द्रः विद्याशक्तिभ्याम् अलङ्कृतः अभवत् । सः स्वस्य अपूर्वकान्त्या विद्वत्सभासु शोभमानः अभवत्, सर्वत्र स्वप्रभावं च प्रासारयत् । शिष्यस्य योग्यतां दृष्ट्वा, जैनसमाजस्य अग्रणिजनानां कथनेन च सोमचन्द्र इत्यस्मै आचार्यपदं प्रदातुं गुरणा निर्णयः कृतः । विक्रम सं. ११६६ वैशाखशुक्लतृतीयायाः दिवसे राजस्थानराज्यस्य नागौर-नगरे जैनाः सोमचन्द्र इत्यस्मै समहोत्सवम् आचार्यपदं दत्त्वा हेमचन्द्र इति उपाधिम् अददन् ।

 

हेमचन्द्र इति उपाधिप्रदानस्य कारणम्

हेमचन्द्र इति नाम प्रदाने एका लघुकथा अस्ति । पाटण-नगरे धनदनामकः कश्चन व्यापारी वसति स्म । सः एकवारं सोमचन्द्रं स्वगृहम् आहूतवान् । सोमचन्द्रः एकेन वृद्धेन साधुना सह व्यापारिणः गृहम् अगच्छत् । तत्र सः अङ्गारकसमूहं हेमसमूहम् इव अपश्यत् । तत् वृत्तं धनदम् असूचयत् । व्यापारी धनदः इदं वृत्तं देवचन्द्रसूरिणम् अकथयत् । सोमचन्द्रस्य नाम हेमचन्द्रः भवेदिति प्रार्थयत् च । अतः सोमचन्द्रः हेमचन्द्र इति उपाधिं प्रापत् । आचार्यपदं प्राप्तवान् अतः विश्वस्मिन् हेमचन्द्राचार्य इति नाम्ना विख्यातः अभवत् । इदं प्रसङ्गं श्रुत्वा तस्य माताऽपि संन्यासम् अगृह्णत् । सा साध्वीजीवने गूढम् अध्ययनम् कृत्वा वि.सं १२११ तमे वर्षे कालधर्मं प्रापत् ।

 

सिद्धराजहेमचन्द्रयोः मेलनम्

सिद्धाराजः कुशलः राजा धर्मरसिकः विद्यारसिकश्च आसीत् । अतः धर्माचार्याणां पण्डितानाम् आवाहनं कृत्वा सभाः आयोजयति स्म । सभासु धर्मकथाः, धर्मसम्बन्धिन्यः वार्ताः, शास्त्रार्थं च कारयति स्म । एकदा राजा सभायां देवचन्द्रसूरिणम् आह्वयत् । देवचन्द्रसूरिणा सह हेमचन्द्रः अपि सभां गतवान् । यदा राज्ञा विदुषोः देवचन्द्रसूरिकुमुदचन्द्रयोः शास्त्रार्थः आयोजितः तदा देवचन्द्रसूरिणः विजयः अभवत् । तस्मिन् हेमचन्द्रस्यापि योगदानम् आसीत् । अतः हेमचन्द्रः राज्ञः, सभाजनानां च प्रीतिपात्रः अभवत् । तत्र सिद्धराजहेमचन्द्रयोः मेलनम् अभवत् ।

 

सिद्धराजहेमचन्द्रयोः प्रगाढः सम्पर्कः

कालान्तरे हेमचन्द्राचार्यस्य ख्यातिवशात् सिद्धराजः धर्मविषयकचर्चायै तम् आह्वयत् । चर्चायां हेमचन्द्राचार्यः आत्मा, परमात्मा, पुण्यं, पापं, स्वर्गः, नरकं, जन्म, मरणम् इत्येतेषां सर्वेषां विषयाणां तात्विकचर्चया राजानम् असन्तोषयत् । तस्माद्दिनात् उभयोः प्रगाढः सम्पर्कः अभवत् ।

 

सिद्धहेमव्याकरणस्य रचना

एकदा सिद्धराजेन मालवा-नगरं पराजितं, ततः धनादिकं च लुण्ठितम् । तस्मिन् भोजराजस्य संस्कृतस्य व्याकरणम् अपि आसीत् । राजसभायां विद्वद्भिः तस्य व्याकरणस्य बहुप्रशंसा कृता । सिद्धराजः ताम् प्रशंसाम् सोढुं न अशक्नोत् । सः क्रोधाविष्टः अभवत्, भोजराजस्य व्याकरणात् श्रेष्ठतमं व्याकरणं निर्मातुं समर्थः मम राष्ट्रे कश्चन अस्ति न वा इति अपृच्छत् च । तत् श्रुत्वा विद्वद्भिः हेमचन्द्राचार्यस्य नाम प्रदत्तम् । राजा श्रेष्ठतमं व्याकरणं निर्मातुं हेमचन्द्राचार्यम् प्रार्थयत् । राज्ञः प्रार्थनां श्रुत्वा हेमचन्द्राचार्यः ग्रन्थस्य रचनां कर्तुं सामग्रीः अयाचत, कार्यं च आरभत । एकवर्षस्य कठोरपरिश्रमान्ते आचार्यस्य ग्रन्थरचनायाः कार्यं सम्पन्नम् अभवत् । तस्मिन् ग्रन्थे व्याकरणस्य सर्वे विषयाः आवृत्ताः आसन् । तस्मिन् ग्रन्थे लक्षाधिकपञ्चविंशतिः श्लोकाः सन्ति यत्र अपभ्रंशप्राकृतयोः भाषयोः व्याकरणमपि आवृत्तम् अस्ति ।

 

सिद्धहेम इति नामप्रदानस्य कारणम्

हेमचन्द्राचार्यः व्याकरणस्य ग्रन्थं सिद्धराजस्य आज्ञया लिखितवान्, अतः आत्मना सह राज्ञः नाम अपि अङ्कितं भवेत् इति व्यचारयत् । अतः ग्रन्थाय सिद्धहेम इति नाम अददात् । तस्मिन् ग्रन्थे शब्दानाम् अनुशासनमस्ति, अतः ग्रन्थाय सिद्धहेमशब्दानुशासनम् इति नाम अयच्छत् । सिद्धराजः ग्रन्थं हस्थिनः उपरि स्थापयित्वा पाटण-नगरे शोभायात्राम् अकरोत् । कालान्तरे सुवर्णाक्षरैः तस्य टङ्कणं, मुद्रणम्, अभ्यासक्रमे चयनं च अभवत् । साम्प्रतं सः ग्रन्थः सिद्धहेम इति लघुनाम्ना विख्यातः अस्ति ।

 

सिद्धहेमस्य पत्रनिर्माणं पाठशालोद्घाटनं च

अस्य व्याकरणस्य प्रचारार्थं सिद्धराज्ञा बहूनि पत्राणि निर्मितानि । तानि च पत्राणि भारतस्य प्रत्येके राज्ये, नेपालदेशे, श्रीलङ्कादेशे, इरानदेशे च प्रेषितानि । व्याकरणमिदं पठितुं पाटण-नगरे एका पाठशाला निर्मिता । तत्र क्ककल नामा विद्वान् पण्डितः अध्यापयति स्म । पाठशालायां प्रतिमासस्य पञ्चम्यां छात्राणां परीक्षा भवति स्म, यस्याम् उत्तीर्णे सति राज्यात् छात्राय पुरस्कारः दीयते स्म ।

 

सिद्धराजस्य प्रश्नः हेमचन्द्राचार्यस्य उत्तरम्

एकदा विद्वत्सभायां सिद्धराजः जगति सत्यः धर्मः कः इति प्रश्नम् अपृच्छत् । तदानीं प्रत्येकं धर्मविद्वान् स्वधर्मस्य सत्यतां प्रादर्शयत् । किन्तु हेमचन्द्राचार्यः भिन्नम् उत्तरम् अददात् । सः अवदत् प्रप्रथमम् एकां कथां श्रावयामि इति । शङ्खपुर-नामनि ग्रामे शङ्खनामा व्यापारी वसति स्म । तस्य पत्नी यशोमतिः आसीत् । शङ्खः येन केनापि कारणेन स्वपत्न्या सह अधिकं न वदति स्म । दिनस्य अधिकं समयं सः बहिरेव वसति स्म । सः बहिः वसति अतः यशोमतिः खिन्ना आसीत् । स्वपतिः स्ववशे भवेत् तदर्थं यशोमतिः उपायान् विदधाति स्म किन्तु सफला न भवति स्म । एकदा ग्रामे योगिन्यः आगताः, तासु एकया योगिन्या यशोमत्यै मन्त्रः प्रदत्तः । तेन मन्त्रेण अभिमन्त्रितं जलं यं कम् अपि पाययेत् सः वशे भवेत् इति मन्त्रस्य शक्तिः आसीत् । तत् श्रुत्वा यशोमतिः स्वपतिं जलम् अपास्यत् । जलं पित्वा पतिः वृषभः अभवत्, तदन्ते यशोमतिः तं यत्र नेतुं वाञ्छति स्म सः तत्रैव गच्छति स्म । यत्र चारयति स्म तत्र चरति स्म । यशोमतिः स्वपतिं कार्याय प्रेरयति स्म, सः प्रेरितश्च भवति स्म । किन्तु अनेन जनाः यशोमतिं धिक्कारयन्ति स्म । अतः सा पुनः खिन्ना अभवत्, योगिनीम् अन्वेष्टुं प्रारभत च । किन्तु साऽपि ग्रामात् निर्गता । यशोमतिः प्रतिदिनं क्षेत्रं गत्वा दुःखेन दिवसं यापयति स्म । एकदा सा वृक्षस्य अधः उपविष्टा आसीत् । तदा शिवपार्वत्यौ आकाशमार्गेण निर्गतौ । पार्वती स्वपतिम् अपृच्छत् इयं स्त्री किमर्थं रोदिति ? भगवता शिवेन उक्तम् हस्ताभ्याम् कृतम् कार्यम् हृदये अङ्कितम् अभवत् । पार्वती पुनः अपृच्छत् अस्य उपायः अस्ति खलु । भगवता उक्तम् अस्योपायः तस्याः क्षेत्रे एव अस्ति । तस्याः क्षेत्रे एका औषधिः अस्ति । तस्याः भक्षणेन वृषभः पुनः मनुष्यः भविष्यति इति । यशोमत्या क्षेत्रस्य सर्वाः औषध्यः भक्षणार्थं वृषभत्वेन स्थितस्य स्वपत्युः पुरतः स्थापिताः । अतः वृषभत्वेन स्थितः तस्याः पतिः पुनः मनुष्यत्वं प्रापत् । हेमचन्द्राचार्यः कथान्ते अवदत् - राजन् यथा यशोमतिः क्षेत्रस्य औषधिषु मनुष्यत्वं प्रदातुं गुणयुताम् औषधिम् अन्वेष्टुं यावत् कष्टम् असहत, तावत् सत्यः धर्मः कः इति ज्ञातुम् इच्छुकेन अपि सोढव्यं भवति इति । यदि सर्वासु औषधिषु एकया औषध्या वृषभः मनुष्यः अभवत् तर्हि सर्वेषां धर्माणाम् अध्ययनेन सत्यधर्मस्य ज्ञानं भवितुं शक्यम् इति । आचार्यस्य एतादृशं तटस्थं भावपूर्णम् उत्तरं श्रुत्वा राजा प्रसन्नः अभवत् ।

 

मार्गदर्शकत्वेन हेमचन्द्राचार्यस्य स्वीकारः

हेमचन्द्राचार्यस्य गुणैः प्रभावितः सिद्धराजः आत्मनः परममित्रत्वेन, मार्गदर्शकत्वेन च तस्य स्वीकारम् अकरोत् । हेमचन्द्राचार्यस्य कथनेन सिद्धराजः स्वराज्ये हिंसायाः, विधवास्त्रीणां धनहरणस्य च प्रतिबन्धम् अकरोत् ।

 

सिद्धराजस्य पुत्रकाम्या सोमनाथयात्रा

सिद्धराजस्य वंशजः (पुत्रः) नासीदतः पुत्रकाम्या सः सोमनाथयात्राम् अगच्छत् । सः हेमचन्द्राचार्याय निमन्त्रणम् अददात् । हेमचन्द्राचार्यः तस्य निमन्त्रणं स्वीकृत्य शत्रुञ्जयपर्वतस्य, गिरनारपर्वतस्य च मार्गेण सोमनाथः गन्तव्यः इति आदिशत् । हेमचन्द्राचार्यस्य इच्छायै मानं दत्त्वा राजा पालिताणा-ग्रामस्य विख्यातं जैनतीर्थं शत्रुञ्जयं गत्वा तत्र पूजां भक्तिं च अकरोत् । ततः गिरनारपर्वतम् अगच्छत् । तत्र जैनमन्दिरस्य रमणीयतां दृष्ट्वा राजा मन्दरस्य निर्मापयितुः प्रशंसाम् अकरोत् । निर्माणकारः अकथयत् इदं मन्दिरं भवतः राजकोशस्य धनेन निर्मितम् अस्ति तद् मया भवते दातव्यम् इति । इदानीं भवान् पुण्यम् इच्छति वा धनम् ? राजा पुण्यं स्वीकृतवान् । ततः तौ यात्रायाः मुख्यं स्थानं सोमनाथं प्राप्तवन्तौ । तत्र तौ मन्दिरं गतौ । आचार्येण मन्दिरे अर्थगर्भिता प्रार्थना कृता । इत्थम् उभावपि निकटवर्तिनौ अभवताम् । मन्दिरस्य पुनरुद्धारं कर्तुम् हेमचन्द्रः राजानम् अप्रेरयत् ।

 

कोडिनार-नगरे सिद्धराजस्य आराधना

अन्ते तौ कोडिनार-नगरं गतौ । तत्र अम्बिका देव्याः स्थानम् आसीत् । राजा देव्याः आराधनाम् अकरोत् । भगवती प्रसन्ना भूत्वा राजानम् अकथयत् हे राजन् ! शापवशाद् तव गृहे पुत्रजन्म न भविष्यति, कुमारपालः तव राज्यशासकश्च भविष्यति इति । सिद्धराजः अन्तिमं कालं यावत् सन्ततिं न प्राप्तवान् । राज्यासनं कः स्वीकरिष्यति इति चिन्तायां सः दिनानि यापयति स्म ।

 

कुमारपालं मारयितुं सिद्धराजस्य प्रयत्नाः

अनेकैः कारणैः त्रिभुवनदासस्य पुत्रः कुमारपालः सिद्धराजस्य राज्यासनं स्वीकर्तुं योग्यः आसीत् । किन्तु तद् सिद्धराजः नेच्छति स्म । सः कुमारपालं मारयितुं बहून् प्रयत्नान् अकरोत् । किन्तु चतुरः कुमारपालः वशी न भवति स्म । एकदा राज्यस्य शासनविषये ज्ञातुं कुमारपालः गुप्तवेषेण पाटण-नगरे भ्रमन् आसीत् । तत् ज्ञात्वा सिद्धराजः कुमारपालं वशीकर्तुं सैनिकान् प्रेषितवान् । किन्तु कुमारपालः ततः निर्गतः । कतिचित् मासान्ते कुमारपालः संन्यासी भूत्वा पुनः पाटण-नगरं गतः । तं सन्देशं प्राप्य सिद्धराजः कुमारपालं वशीकर्तुं संन्यासिभ्यः भोजनार्थं निमन्त्रणं प्रैषयत् । भोजनात् प्राक् संन्यासिनां पादप्रक्षालनाय गुप्तचराः योजिताः । गुप्तचराः कुमारपालस्य पदयोः राजचिह्नस्य आधारेण तम् अजानन् । किन्तु चतुरः कुमारपालः ततः निर्गच्छन् हेमचन्द्राचार्यस्य उपाश्रयम् अगच्छत् । हेमचन्द्राचार्यः कुमारपालः अपराधी नास्ति भावी राजा अस्ति इति जानाति, अतः तं ताडपत्राणामधः रक्षितवान् । रात्रौ ततः तस्य पलायनम् अकारयत् ।

 

पुनः हेमचन्द्राचार्यस्य आश्रये कुमारपालः

एकदा हेमचन्द्राचार्यः पाटण-नगरात् विहारं कुर्वन् स्तम्भनपुरं गतः । हेमचन्द्रस्य चातुर्मासव्रतं तत्र एव आसीत् । पलायितः कुमारपालः स्तम्भनपुरं गतः । हेमचन्द्राचार्यः तत्रापि तस्मै आश्रयम् अयच्छत् । आचार्यः तम् उपाश्रयस्य गुहायाम् अरक्षत् । सा गुहा अद्यापि तत्र अस्ति । तदनन्तरम् आचार्यः कष्टस्य शमनं यावत् राज्यात् बहिर्गन्तुं कुमारपालम् आदिशत् । कुमारपालस्य साहाय्यार्थम् उदयनम् असूचयत् । इत्थं कुमारपालः गुर्जरप्रान्ताद् बहिः अगच्छत् ।

 

उदयनसिद्धराजयोः मृत्यृः

एकस्मिन् युद्धे उदयनस्य मृत्युः अभवत् । तदनन्तरं तस्य पुत्रौ वाग्भट्टः आम्रभट्टश्च मन्त्रीत्वेन चितौ । तौ अपि सिद्धराजस्य प्रीतिपात्रौ अभवताम् । तौ अन्येषां मन्त्रिणां, प्रजानां च प्रीतिपात्रौ अभवताम् । उदयनस्य मृत्योः अल्पीयसि काले 1143 तमे वर्षे सिद्धराजस्य मृत्युः अभवत् ।

 

कुमारपालस्य राज्याभिषेकः

सिद्धराजस्य मृत्योः सन्देशं प्राप्य कुमारपालः सज्जः सन् पाटण-नगरं गतः, गत्वा मन्त्रिणः स्ववृत्तम् अश्रावयत् च । तत् वृत्तम् मन्त्रिणः प्रजाः असूचयन्त । अन्ते प्रजानाम् इच्छया कुमारपालः राजा अभवत् । राजा कुमारपालः हेमचन्द्राचार्याय आमन्त्रणम् अददात् ।

 

प्रजाभ्यः, राज्ञे च हेमचन्द्राचार्यस्य उपदेशः

यदा आचार्यः राज्ञः आमन्त्रणम् अङ्गीकृत्य राज्यं गतः तदा राजा स्वयम् आचार्यस्य स्वागतम् अकरोत् । कुमारपालस्य राजकक्षे प्रतिदिनं धर्मसभायाः आयोजनं भवति स्म । सभायां हेमचन्द्रः सर्वान् धर्मस्य सिद्धान्तान् बोधयति स्म । मानवः धर्मस्य आधारेण कथं शान्तिं प्राप्नोति तत् ज्ञापयति स्म । सः राजानं राष्ट्रकल्याणस्य, प्रजाकल्याणस्य च मार्गं दर्शयति स्म । नीतेः, सदाचारस्य, अहिंसायाः च विषये प्रजाः बोधयति स्म ।

 

कुमारपालस्य प्रतिज्ञा

एकदा राजा स्वस्य शाश्वतकीर्त्यै स्वेन किं करणीयम् इति हेमचन्द्राचार्यम् अपृच्छत् । तदा आचार्यः देवपट्ट-नगरस्य ध्वस्तस्य मन्दिरस्य पुनर्निर्माणं कर्तुम् असूचयत् । यदा राजा मन्दिरस्य पुनर्निर्माणं कर्तुम् प्रतिज्ञाम् अकरोत् तदा आचार्यः मन्दिरस्य पुनर्निर्माणपर्यन्तं, शिखरे ध्वजारोपणपर्यन्तं मद्यमांसयोः त्यागं कर्तुं कुमारपालम् आदिशत् । गुरोः आज्ञया कुमारपालः प्रजानामुपस्थितौ प्रतिज्ञाम् अकरोत् । मन्दिरस्य जिर्णोद्धारकार्यं झटिति समाप्तं भवेत् तथा कार्यं कर्तुं सः कर्मकरान् असूचयत् । वर्षद्वयान्ते जीर्णोद्धारकार्यं समाप्तम् । कलशस्थापनं, ध्वजारोपणं च अभवत् । तदा राजा नियमस्य विषये आचार्यम् अपृच्छत् । सोमनाथमन्दिरस्य यात्रान्ते नियमोद्यापनाय हेमचन्द्राचार्येण कुमारपालः सूचितः ।

 

कुमारपालहेमचन्द्रयोः सोमनाथयात्रा

कुमारपालेन हेमचन्द्राचार्याय सोमनाथदर्शनार्थम् आगच्छतु इति निमन्त्रणं प्रदत्तम् । यात्रा तु साधूनां जीवनम् अस्ति इति उक्त्वा आचार्यः निमन्त्रणं स्वीकृतवान् । तदनन्तरं सर्वे शत्रुञ्जयस्य गिरनारपर्वतस्य यात्रां कृत्वा सोमनाथं गताः । तत्र पण्डितैः सह हेमचन्द्राचार्यः अपि पूजायां सम्मिलितः अभवत् । तस्मिन् प्रसङ्गे स्वस्य व्यापकभावनया महत्तायाः प्रमाणभूतं श्लोकद्वयम् उक्त्वा आचार्यः महादेवस्य स्तुतिम् अकरोत् । तौ च श्लोकौ

 

 

भवबीजाङ्कुरजनना, रागाद्याः श्रयमुपागता यस्य ।

ब्रह्मा वा विष्णुर्वा, हरोजिनौ वा नमस्तस्मै ।।

यत्र तत्र समये यथा तथा, योऽसि सोऽस्यभिधया यया तया ।

वीतदोषकलुषः स चेत् भवान्, एक एव भगवान् ! नमोऽस्तु ते ।।

 

सोमनाथस्य साक्षात्कारः

हेमचन्द्राचार्यस्य महत्तायाः अत्यन्तः प्रभावितः कुमारपालः अन्यान् बहिर्गन्तुम् आदिशत् । तदनन्तरं नम्रभावनया सोमनाथस्य साक्षात्कारं कारयतु इति आचार्याय निवेदनम् अकरोत् । आचार्यः अन्तरिक्षे स्थितस्य भगवतः शङ्करस्य ध्यानं करोतु इति उक्तवान्, सोमनाथस्य साक्षात्कारं च कारितवान् । भगवान् शङ्करः कुमारपालम् अवदत् – अयं साधुः सर्वेषां देवानाम् अवतारः, कलिकालसर्वज्ञः च अस्ति । सः यद् सूचयति तद् निश्चयेन मुक्तिमार्गः इति ज्ञात्वा भवता तस्य पालनं विधेयम् इति ।

 

कलिकालसर्वज्ञः हेमचन्द्राचार्यः

कुमारपालः गुरुं प्रणम्य मार्गदर्शनम् अयाचत । आचार्येण आजीवनं मद्यमांसयोः त्यागं कर्तुं कुमारपालः आदिष्टः । हेमचन्द्राचार्यस्य कथनेन राजा मद्यमांसौ त्यक्त्वा स्वराज्ये प्राणिनां वधस्य प्रतिबन्धम् अकरोत् । प्रत्येकस्मिन् ग्रामे तडागं चिकित्सालयं मन्दिरं च अरचयत् । स्वजीवनशैल्यां परिवर्तनानि च अकरोत् । हेमचन्द्राचार्यः सामान्यः नासीत् । स्वस्य प्रतिभया, ज्ञानेन, गरिमया, दीर्घदृष्ट्या, उदारतया, तेजसा, ओजसा, प्रभावेन च कलिकालसर्वज्ञः आसीत् । अत एव राज्ञा कुमारपालेन हेमचन्द्राचार्याय कलिकालसर्वज्ञः इति उपाधिः प्रदत्ता ।

 

हेमचन्द्राचार्यस्य उपदेशः, ग्रन्थवैशिष्ट्यं च

आचार्येण प्रजाभ्यः अपि बोधः प्रदत्तः । सः विदुषां पण्डितानां च मार्गदर्शकः अभवत् । स्वशिष्यान् अपि विद्वांसः अकरोत् । राज्यस्य श्रेष्ठं सञ्चालनं कर्तुं राजानम् असूचयत् । स्वज्ञानम् अन्येभ्यः अपि उपयोगी भवेत् इति ग्रन्थान् अरचयत् । कुमारपालः तेषां ग्रन्थानां प्रचारम् अकरोत् । तेषु केचन ग्रन्थाः लोकोपयोगिनः, केचन पण्डितोपयोगिनः च आसन् । तस्य एतादृशान् शास्त्रीयान् ग्रन्थान् दृष्टवा सम्पूर्णस्य विश्वस्य विद्वांसः अद्यापि तस्य प्रसंशां कुर्वन्ति । स्वस्य ग्रन्थैः सः अन्ताराष्ट्रियां ख्यातिम् अलभत । सः स्वस्य ग्रन्थस्य अन्तःस्थान् विषयान् ग्रन्थस्य नामनि एव प्रकटं करोति स्म । यथा द्वयाश्रयमहाकाव्यम् । तस्मिन् ग्रन्थे सिद्धहेमस्य नियमैः सह सोलङ्की-वंशस्य इतिहासः अपि आवृत्तः अस्ति ।

 

मृत्योः घोषणा

मृत्योः षण्मासात् प्राक् हेमचन्द्राचार्येण स्वस्य मृत्युकालः उद्घोषितः । चारित्र्यवता, योगिना, संयमिना एव एतत् शक्यम् । अन्तिमदिनेषु अन्नजलयोः त्यागं कृत्वा सः सर्वेषां क्षमाम् अयाचत ।

 

मृत्युः

1173 तमे वर्षे (वि.सं. १२२९) आचार्यस्य मृत्युः अभवत् । राजा कुमारपालः अन्तिमं वन्दनं कृत्वा गुरवे श्रद्धाञ्जलिम् अयच्छत् । प्रजाः पण्डिताः च शोकमग्नाः सन्तः तं वन्दनम् अकुर्वन्त । सर्वेषाम् अक्षीणि क्लिन्दाः अभवन्, सर्वे आर्तनादं च कृतवन्तः । किन्तु कलिकालसर्वज्ञः आचार्यहेमचन्द्रः अमरः अभवत् । तस्य ज्ञानं, शक्तिः, गुणाः, उदारता, धर्मभावना च तम् अमरः अकरोत् । अप्रतिमया संस्कारदृष्ट्या सः गुजरातराज्यस्य इतिहासे, परम्परायां च स्वस्य चिह्नानि अस्थापयत् । इत्थं स्वकार्यैः हेमचन्द्राचार्यः इदानीमपि जनमनसि स्थितः अस्ति ।