एकस्मिन् दिने वाल्मीकिमहर्षिः सन्ध्यावन्दनार्थं स्वशिष्यैः साकं नदीतीरं गतवान् । तत्र कश्चन निषादः वृक्षस्य उपरि विद्यमानयोः क्रौञ्चयोः मध्ये एकं मारितवान् । एतत् हृदयभेदकं दृश्यं कवेः मुखतः छन्दोबद्धरूपेण दुःखप्रवाहम् अकारयत् । तद्यथा-
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ इति ॥
(हे निषाद, त्वं शाश्वतीः समाः प्रतिष्ठां मा अगमः यत् क्रौञ्चमिथुनात् काममोहितम् एकम् अवधीः) तदनन्तरं मम मुखतः शापवाक्यमागतम् इति चिन्तया महर्षिः ततोऽपि अधिकं दुःखम् अनुभूतवान् । किन्तु नारदमहर्षिणा प्रचोदितः सः दुःखम् अपनीय स्वमुखतः आगतस्य श्लोकस्य अपरम् अर्थं ज्ञातवान् । तद्यथा – हे मानिषाद, त्वं शाश्वतीः समाः प्रतिष्ठाम् अगमः, यत् क्रौञ्चमिथुनात् काममोहितम् एकम् अवधीः इति ॥ एषः विष्णुवन्दनपरः श्लोकः इत्यवगत्य तेन प्रेरितः वाल्मीकिः आदिकाव्यस्य रामायणस्य रचनाम् अकरोत् ॥
अतिप्राचीनानां रामायणादिग्रन्थानां रचनाकालः एषः एव इति दृढं वक्तुं न शक्यते । वस्तुतः एतस्मिन् वर्षे एतस्मिन् मासे एतस्मिन् दिने एतस्मिन समये एषः ग्रन्थः रचितः इति कथने प्रयोजनमपि नास्ति । तथापि एतादृशग्रन्थानां रचनाकालविषये पण्डिताः भिन्नं भिन्नं मतं प्रकटयन्ति । तदनुसृत्य रामायणस्यापि कालस्य रामान्यनिर्णयः कृतः अस्ति ।।
रामायणे महाभारतवर्णितस्य कस्यापि कथापात्रस्य नाम न श्रूयते । महाभारते तु रामस्य कथा वर्णिता अस्ति । महाभारतस्य सप्तमपर्वणि लङ्काकाण्डगतं पद्यद्वयं प्राप्तमस्ति । अतः रामायणं महाभारतात् प्राचीनं भवति । रामायणस्य बौद्धसाहित्यस्य च सम्बन्धः दृश्यते । रामायणीया कथा किञ्चित् परिवर्तनेन दशरथजातकनाम्ना पालिभाषया रचिता अस्ति । जातककथासु रामायणस्थलसाम्यम् अस्त्येव । बौद्धसाहित्यपण्डितः सिलवेनलेविमहाशयः स्पष्टयति यत् सद्धर्ममृत्युपस्थानस्य बौद्धग्रन्थस्य मूलम् अवश्यं वाल्मीकिरामायणम् इति तत्र विद्यमानं जम्बूद्वीपवर्णनं रामायणीयदिग्वर्णनस्य सदृशमस्ति इति । याकोबिमहाशयः भाषाविज्ञानदृष्ट्या बौद्धकालात् पूर्वमेव रामायणस्य कालः इति कथयति । एतैः सर्वैः अपि प्रमाणैः रामायणस्य बौद्धकालिकात् पूर्वत्वं सिद्धयति । रामायणे कोसलराजधानी अयोध्या इति प्रतिपादिता अस्ति । बौद्धैः यवनैः पतञ्जलिः कोसलराजधान्याः साकेतः इति नाम उच्यते । अतः साकेतनामकरणात् पूर्वमेव रामायणस्य रचनाकालः इति ज्ञायते ॥
पाटलीपुत्रस्य प्रतिष्ठापनं अजातशत्रुणा ई.पू. ५०० समये कृतम् । रामायणे पाटलीपुत्रस्य नाम नास्ति । पाणिनीयव्याकरणनियमाः सर्वे रामायणे न अनुसृताः दृश्यन्ते । एतादृशैः अनेकैः कारणैः रामायणस्य रचनाकालः ई.पू. ५०० इति सिद्धम् ॥