ॐ अथवा ॐ-कारः (अपरशैल्या ओङ्कारः)[ अ+ उ+म् ]। प्रणवः त्र्यैक्षरं वा हिन्दुधर्मस्य पवित्रतमं प्रतीकचिह्नम् । इदं हिन्दुदर्शनस्य परब्रह्मणः वाचकम् । स्वामी विवेकानन्दस्य मतानुसारं, ॐ-कारः “समग्रस्य ब्रह्माण्डस्य प्रतीकः, ईश्वरस्याऽपि प्रतीकः ।” श्रीरामकृष्णपरमहंसः अस्मिन् विषये उवाच-, “...ॐ-कारतः ‘ॐ शिवः’, ‘ॐ काली’, ‘ॐ कृष्णः इत्यादयः आगतः” । ॐ-कारः बौद्धधर्मे तथा जैनधर्मेऽपि पवित्रप्रतीकत्वेन मन्यते ।
व्युत्पत्तिः
ॐ अक्षरमिदम् ‘अव्’ धातुनिष्पन्नम् । अयञ्च धातुः एकोनविशंतिः भिन्नभिन्नार्थेषु प्रयुज्यते । अस्याः व्युत्पत्त्यनुसारं ॐ-कारः सर्वज्ञः, ब्रह्माण्डस्य शासनकर्ता, अमङ्गलतः रक्षाकर्ता, अज्ञाननाशकः तथा ज्ञानप्रदाता[४] । त्र्यक्षरमिति ॐ-कारस्य अपरा आख्या । त्रिमात्रासहितं (‘अ-कारः’, ‘उ-कारः’ ও ‘म-कारः’) अत्र्यक्षरमिति । ‘अ-कारः’ ‘आप्तिः’ वा ‘आदिमत्वम्’ अर्थात् प्रारम्भस्य प्रतीकः । ‘उ-कारः’ ‘उत्कर्षः’ वा ‘अभेदता’याः प्रतीकः । ‘म-कारः’ ‘मितिः’ वा ‘अपीतिः’ अर्थात् लयस्य द्योतकः । अन्यव्याख्यानुसारं, ॐ-कारः सृष्टेः, स्थितेः तथा प्रलयस्य संघटनकारिणः ईश्वरस्य द्योतकः[४] ।
‘प्रणवः’ शब्दस्य अस्य आक्षरिकार्थः, ‘यत् उच्चारणं कृत्वा स्तूयते ’ । अस्य अपरार्थः, ‘यः चिरनूतनः’
ॐ इत्येदक्षरम् । इदं सर्वं तस्योपव्याख्यानम्। भूतं वर्तमानं भविष्यद् इति यत् अस्ति तत् सर्वम् ॐकारः एव। यच्चान्यत् त्रिकालातीतं तदपि ॐकारमेव।(माण्डूक्योपनिषत्)
ॐ तद् ब्रह्म । ॐ तत् सत्यम् । ॐ तत् सर्वम् । - तैत्तरीयोपनिषत्
अकार उकार मकार इति । तानेकधा समभरत्तदेतद् ॐ इति । - तैत्तरीयलघुनारायणोपनिषत् ।
ॐकार बिंदु संयुक्तम् नित्यम् ध्यायन्ति योगिनःकामदं मोक्षदं चैव ॐकाराय नमो नमः। एवं अपि कथ्यते।
॥ ॐ - प्रणवाक्षरम् ॥
ॐ इति एतत् प्रणवाक्षरम् जगतः सृष्टेः आदिः इति वेदाः प्रतिपादयन्ति। वेदारम्भे एतस्य अक्षरस्य उच्चारणं भवति । यथाह कालिदासः स्वकीये रघुवंशे-
वैवस्वतो मनुर्नाम माननीयो मनीषिणाम्।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव॥
व्याख्या गुरुत्वञ्च
ॐ-कारः ईश्वरस्य सर्वाविधनाम्नः प्रतिनिधिस्वरूपः तथा तस्य श्रेष्ठनाम । वेदे, उपनिषदि, गीतायां तथा अन्यान्यशास्त्रेष्वपि ॐ-कारस्य सर्वोच्चगुरुत्वारोपणं कृतमस्ति । अथर्ववेदस्य गोपथब्राह्मणस्य एकस्याः कथानुसारं, देवराजः इन्द्रः ॐ-कारस्य साहाय्येन दैत्यगणं पराजितवान् । अस्याः कथायाः अन्तर्निहितार्थः अयमस्ति- ॐ-कारस्य पौनःपुन्येन उच्चारणेन मनुष्याः देवाः वा पाशविकवृत्तिं पराजेतुं समर्थाः भवन्ति ।
टिप्पणी
तैत्तिरीयोपनिषत्, प्रथमोध्यायः, अष्टमः अनुवाकः, प्रथमश्लोकः
↑ स्वामी विवेकानन्दस्य वाणी ओ रचना, चतुर्थखण्डः, उद्बोधन कार्यालय, कोलकाता, १९६४, पृ. ११४
↑ श्रीश्रीरामकृष्णकथामृत, अखण्ड, श्रीम-कथित, उद्बोधन कार्यालय, कोलकाता, १९८६-८७, पृ. ३५९
↑ इस तक ऊपर जायें: ४.० ४.१ ४.२ हिन्दु सीम्बल्स्, स्वामि हर्षानन्द, रामकृष्णमठम्, बेङ्गलूरु, २०००, पृ.८
↑ माण्डूक्योपनिषत्, ८-११ श्लोकः
↑ भाषा अभिधान, ज्ञानेन्द्रमोहन दास, साहित्य संसद्, कोलकाता
↑ हिन्दु सीम्बल्स्, स्वामि हर्षानन्द, रामकृष्णमठम्, बेङ्गलूरु, २०००, पृ.७
↑ Hindu Symbols, Swami Harshananda, Ramakrishna Math, Bangalore, 2000, p.11