1. वैयाकरणसिद्धान्तकौमुद्या: रचयिता क:? - भट्टोजिदीक्षित:। 2. बालमनोरमाटकाया: कर्ता क:? - वासुदेवदीक्षित:। 3. तत्त्वबोधिनीव्याख्याया: कर्ता क: ? - श्रीज्ञानेन्द्रसरस्वती । 4. माहेश्वरसूत्राणि कति ? - चतुर्दश। 5. माहेश्वरसूत्रेषु को‌ऽयं वर्ण: द्विरनुबध्यते ? णकार:। 5. माहेश्वरसूत्रेषु को‌ऽयं वर्ण: द्विरुपदिष्ट: ? हकार:। 6. किमर्थमुपदिष्टानि माहेश्वरसूत्राणि ?- अणादिप्रत्याहारसंज्ञार्थानि। 7. हकारादिषु अकार: किमर्थम् ?- उच्चारणार्थ:। 8 सूत्राणि कति ? कानि तानि ? - षट्। संज्ञा,परिभाषा, विधि:, नियम:,अतिदेश:,अधिकार:। 9. किं नाम संज्ञासूत्रम् ? - संज्ञासंज्ञिसम्बन्धबोधकं सूत्रम् । 11. किं नाम परिभाषात्वम् ? - अनियमेनियमकारिणीत्वम् । 12. किं नाम विधिसूत्रम् ? - आगमादेशादिविधायकं सूत्रम् । 13. को नाम नियम: ? - सिद्धे सति आरभ्यमाण: विधि: नियम: । 14. को नाम अतिदेश: ? - अविद्यमानस्य धर्मस्य विद्यमानत्वकल्पनम् । 15. किं नाम अधिकारत्वम् ? - स्वदेशेफलशून्यत्वे सति उत्तरत्र फलजनकत्वम् । 16. अन्त्यहलाम् इत्संज्ञाविधायकं सूत्रं किम् ?- हलन्त्यम् (1-3-3) 17. अनुनासिकाचाम् इत्संज्ञाविधायकं सूत्रं किम् ?- उपदेशेऽजनुनासिक इत् (1-3-2) 18. आदिरन्त्येन सहेता (1-1-71) इति सूत्रेण किं विधीयते ?- प्रत्याहारसंज्ञा। 19. प्रत्याहारेषु इतामग्रहणे किं प्रमानम् ? - अनुनासिक इत्यादिनिर्देश:। 20. कस्य ह्रस्व: , दीर्घ:, प्लुत: इति संज्ञा ?- एकमात्राकालिकस्य अच: ह्रस्व: इति, द्विमात्राकालिकस्याच: दीर्घ: इति, त्रिमात्राकालिकस्य अच: प्लुत: इति संज्ञा। 21. अनुनासिकसंज्ञासूत्रम् किम् ?- मुखनासिकावचनोऽनुनासिक:(1-1-8)। 22. अकारस्य कति भेदा: ?- अष्टादश । 23. लृवर्णस्य क: भेद: नास्ति ? - दीर्घ: । 24. एचां क: भेद: नास्ति ? - ह्रस्व: । 25. सवर्णसंज्ञासूत्रं किम् ? - तुल्यास्यप्रयत्नं सवर्णम् (1-1-9) । 26. कण्ठस्थानं केषां वर्णानाम् ? - अकुहविसर्जनीयानाम् । 27. तालुस्थाने के के वर्णा: निष्पद्यन्ते ? - इचुयशा:। 28. केषां वर्णानाम् उत्पत्तिस्थानं मूर्धा ? - ऋटुरषाणाम् । 29. लृतुलसा: कुत्र निष्पद्यन्ते ? - दन्तेषु । 30. उपूपधमानीयानाम् उत्पत्तिस्थानं किम् ? - ओष्ठौ। 31. ञमङणनानां क: अधिक: गुण: ? - नासिका । 32. वकारस्य निस्पत्तिस्थानं किम् ? - दन्तोष्ठम् । 33. अनुस्वार: क्व निष्पद्यते ? - नासिकायाम् । 34. प्रयत्न: कतिविध: ? - द्विविध: । 35. तौ प्रयत्नौ कौ ? - आभ्यन्तर:, बाह्य: । 36. आभ्यन्तर: कतिविध: ? - चतुर्विध:। 37. ते आभ्यन्तरा: के ? - स्पृष्टम् ,ईषत्स्पृष्टम् ,विवृतम् ,संवृतम् । 38. स्पृष्टप्रयत्न: केषां वर्णानाम् ? - स्पर्शानाम्। 39. ईषत्स्पृष्टं केषां वर्णानाम् ? - अन्त:स्थानाम्। 40. केषां वर्णानां विवृतप्रयत्न: ? - ऊष्माणां स्वराणाञ्च । 41. कस्य संवृतम् ? - ह्रस्वस्य अकारस्य प्रयोगे संवृतम्। 42. विवृतस्य अकारस्य संवृतत्वं केन सूत्रेण विधीयते ? - अ अ (8-4-68) 43. पूर्वत्रासिद्धं (8-2-1) कीदृशं सूत्रम् ? - अधिकारसूत्रम् । 44. यमो नाम क: ? - वर्गेषु आद्यानां चतुर्णां पञ्चमे वर्णे परे पूर्व सदृश: कश्चिद् वर्ण: " यम:" भवति। 45. स्पर्शवर्णा: के ? - ककारादारभ्य मकारपर्यन्तम्। 46. अन्त:स्था: के ? - यरलवा: । 47. ऊष्माण: के ? - शषसहा: । 48. स्वरा: के ? - अच: । 49. को नाम जिह्वामूलीय: ? - ॅ क ॅ ख इति कखाभ्यां प्राग् अर्धविसर्गसदृश: । 50. उपध्मानीयो नाम क: ? - ॅ प ॅ फ इति पफाभ्यां प्राग् अर्धविसर्गसदृश: । 51. सवर्णग्राहकं सूत्रं किम् ? -अणुदित्सवर्णस्य चाप्रत्यय:(1-1-69) 52. बाह्यप्रयत्ना: कति ? - एकादश। 53. ते च के ? - विवार:, संवार:, श्वास:, नाद: घोष:, अघोष:, अल्पप्राण:, महाप्राण:, उदात्त: अनुदात्त:, स्वरित: । 54. तपर: इत्यत्र कथं विग्रह: ? क: समास: ? - त: पर: यस्मात् स: तपर इति बहुव्रीहि:, तात् पर: तपर: इति तत्पुरुषो वा । 55. वृद्धिरादैच् इति कीदृशं सूत्रम् ? - संज्ञासूत्रम् । 56. गुणसंज्ञासूत्रं किम् ? - अदेङ् गुण: । 57. धातुसंज्ञासूत्रं किम् ? - भूवादयो धातव: ।(1-3-1) 58. प्रादय: कति ? - द्वाविंशति: (22) 59. के च ते ? - प्र ,परा ,अप ,सम,अनु, अव, निस् , निर् दुस् , दुर् ,वि , आङ् , नि , अधि, अपि ,अति , सु , उत् , अभि , प्रति ,परि , उप । 60. उपसर्गसंज्ञासूत्रं किम् ? - उपसर्गा: क्रियायोगे (1-4-59)1. वैयाकरणसिद्धान्तकौमुद्या: रचयिता क:? - भट्टोजिदीक्षित:।
2. बालमनोरमाटकाया: कर्ता क:? - वासुदेवदीक्षित:।
3. तत्त्वबोधिनीव्याख्याया: कर्ता क: ? - श्रीज्ञानेन्द्रसरस्वती ।
4. माहेश्वरसूत्राणि कति ? - चतुर्दश।
5. माहेश्वरसूत्रेषु को‌ऽयं वर्ण: द्विरनुबध्यते ? णकार:।
5. माहेश्वरसूत्रेषु को‌ऽयं वर्ण: द्विरुपदिष्ट: ? हकार:।
6. किमर्थमुपदिष्टानि माहेश्वरसूत्राणि ?- अणादिप्रत्याहारसंज्ञार्थानि।
7. हकारादिषु अकार: किमर्थम् ?- उच्चारणार्थ:।
8 सूत्राणि कति ? कानि तानि ? - षट्। संज्ञा,परिभाषा, विधि:, नियम:,अतिदेश:,अधिकार:।
9. किं नाम संज्ञासूत्रम् ? - संज्ञासंज्ञिसम्बन्धबोधकं सूत्रम् ।
11. किं नाम परिभाषात्वम् ? - अनियमेनियमकारिणीत्वम् ।
12. किं नाम विधिसूत्रम् ? - आगमादेशादिविधायकं सूत्रम् ।
13. को नाम नियम: ? - सिद्धे सति आरभ्यमाण: विधि: नियम: ।
14. को नाम अतिदेश: ? - अविद्यमानस्य धर्मस्य विद्यमानत्वकल्पनम् ।
15. किं नाम अधिकारत्वम् ? - स्वदेशेफलशून्यत्वे सति उत्तरत्र फलजनकत्वम् ।
16. अन्त्यहलाम् इत्संज्ञाविधायकं सूत्रं किम् ?- हलन्त्यम् (1-3-3)
17. अनुनासिकाचाम् इत्संज्ञाविधायकं सूत्रं किम् ?- उपदेशेऽजनुनासिक इत् (1-3-2)
18. आदिरन्त्येन सहेता (1-1-71) इति सूत्रेण किं विधीयते ?- प्रत्याहारसंज्ञा।
19. प्रत्याहारेषु इतामग्रहणे किं प्रमानम् ? - अनुनासिक इत्यादिनिर्देश:।
20. कस्य ह्रस्व: , दीर्घ:, प्लुत: इति संज्ञा ?- एकमात्राकालिकस्य अच: ह्रस्व: इति, द्विमात्राकालिकस्याच: दीर्घ: इति, त्रिमात्राकालिकस्य अच: प्लुत: इति संज्ञा।
21. अनुनासिकसंज्ञासूत्रम् किम् ?- मुखनासिकावचनोऽनुनासिक:(1-1-8)।
22. अकारस्य कति भेदा: ?- अष्टादश ।
23. लृवर्णस्य क: भेद: नास्ति ? - दीर्घ: ।
24. एचां क: भेद: नास्ति ? - ह्रस्व: ।
25. सवर्णसंज्ञासूत्रं किम् ? - तुल्यास्यप्रयत्नं सवर्णम् (1-1-9) ।
26. कण्ठस्थानं केषां वर्णानाम् ? - अकुहविसर्जनीयानाम् ।
27. तालुस्थाने के के वर्णा: निष्पद्यन्ते ? - इचुयशा:।
28. केषां वर्णानाम् उत्पत्तिस्थानं मूर्धा ? - ऋटुरषाणाम् ।
29. लृतुलसा: कुत्र निष्पद्यन्ते ? - दन्तेषु ।
30. उपूपधमानीयानाम् उत्पत्तिस्थानं किम् ? - ओष्ठौ।
31. ञमङणनानां क: अधिक: गुण: ? - नासिका ।
32. वकारस्य निस्पत्तिस्थानं किम् ? - दन्तोष्ठम् ।
33. अनुस्वार: क्व निष्पद्यते ? - नासिकायाम् ।
34. प्रयत्न: कतिविध: ? - द्विविध: ।
35. तौ प्रयत्नौ कौ ? - आभ्यन्तर:, बाह्य: ।
36. आभ्यन्तर: कतिविध: ? - चतुर्विध:।
37. ते आभ्यन्तरा: के ? - स्पृष्टम् ,ईषत्स्पृष्टम् ,विवृतम् ,संवृतम् ।
38. स्पृष्टप्रयत्न: केषां वर्णानाम् ? - स्पर्शानाम्।
39. ईषत्स्पृष्टं केषां वर्णानाम् ? - अन्त:स्थानाम्।
40. केषां वर्णानां विवृतप्रयत्न: ? - ऊष्माणां स्वराणाञ्च ।
41. कस्य संवृतम् ? - ह्रस्वस्य अकारस्य प्रयोगे संवृतम्।
42. विवृतस्य अकारस्य संवृतत्वं केन सूत्रेण विधीयते ? - अ अ (8-4-68)
43. पूर्वत्रासिद्धं (8-2-1) कीदृशं सूत्रम् ? - अधिकारसूत्रम् ।
44. यमो नाम क: ? - वर्गेषु आद्यानां चतुर्णां पञ्चमे वर्णे परे पूर्व सदृश: कश्चिद् वर्ण: " यम:" भवति।
45. स्पर्शवर्णा: के ? - ककारादारभ्य मकारपर्यन्तम्।
46. अन्त:स्था: के ? - यरलवा: ।
47. ऊष्माण: के ? - शषसहा: ।
48. स्वरा: के ? - अच: ।
49. को नाम जिह्वामूलीय: ? - ॅ क ॅ ख इति कखाभ्यां प्राग् अर्धविसर्गसदृश: ।
50. उपध्मानीयो नाम क: ? - ॅ प ॅ फ इति पफाभ्यां प्राग् अर्धविसर्गसदृश: ।
51. सवर्णग्राहकं सूत्रं किम् ? -अणुदित्सवर्णस्य चाप्रत्यय:(1-1-69)
52. बाह्यप्रयत्ना: कति ? - एकादश।
53. ते च के ? - विवार:, संवार:, श्वास:, नाद: घोष:, अघोष:, अल्पप्राण:, महाप्राण:, उदात्त: अनुदात्त:, स्वरित: ।
54. तपर: इत्यत्र कथं विग्रह: ? क: समास: ? - त: पर: यस्मात् स: तपर इति बहुव्रीहि:, तात् पर: तपर: इति तत्पुरुषो वा ।
55. वृद्धिरादैच् इति कीदृशं सूत्रम् ? - संज्ञासूत्रम् ।
56. गुणसंज्ञासूत्रं किम् ? - अदेङ् गुण: ।
57. धातुसंज्ञासूत्रं किम् ? - भूवादयो धातव: ।(1-3-1)
58. प्रादय: कति ? - द्वाविंशति: (22)
59. के च ते ? - प्र ,परा ,अप ,सम,अनु, अव, निस् , निर् दुस् , दुर् ,वि , आङ् , नि , अधि, अपि ,अति , सु , उत् , अभि , प्रति ,परि , उप ।
60. उपसर्गसंज्ञासूत्रं किम् ? - उपसर्गा: क्रियायोगे (1-4-59)