वैदुष्य सर्वत्र आनंदमय

🌹 कोरोनारक्षाकवचम्  🌹

त्वं करुणावतारोऽसि कोरोनाख्यविषाणुधृक् ।

रुद्ररूपश्च     संहर्ता     भक्तानामभयङ्करः ।। ०१।।

मृत्यञ्जय   महादेव   कोरोनाख्याद्विषाणुतः ।

मृत्योरपि  महामृत्यो  पाहि  मां   शरणागतम् ।।०२।।

मांसाहारात्समुत्पन्नाज्जगत्संहारकारकात्     ।

करुणाख्याद्विषाणोर्मां    रक्ष   रक्ष   महेश्वर ।। ०३।।

चीनदेशे जनिं लब्ध्वा भूमौ  विष्वक्प्रसर्पतः ।

जनातङ्काद्विषोणोर्मां सर्वतः पाहि शङ्कर ।। ०४।।

बालकृष्णः स्मरंस्त्वां वै कालकूटं न्यपादहो ।

न ममारार्भकः शम्भो ततस्त्वां  शरणं  गतः ।। ०५।।

समुद्रमथनोद्भूतात् कालकूटाच्च बिभ्यतः । 

त्वयैव   रक्षिता   देवा   देवदेव   जगत्पते ।। ०६।। 

परक्षेत्रे चिकित्स्योऽयं महामारो भयङ्करः ।

भीषयति जनान्सर्वान्  भव  त्राता  महेश्वर ।।०७।।

वैद्या वैज्ञानिका विश्वे परास्ताश्च चिकित्सकाः ।

आतङ्किता   निरीक्षन्ते  त्रातारं  त्वामुमेश्वर ।।०८।। 

रक्ष     रक्ष    महादेव    त्रायस्व    जगदीश्वर ।

पाहि पाहि प्रपन्नं मां कोरोनाख्याद् विषाणुतः ।।०९।।

नान्यं त्वदभयं जाने भीतानां भीतिनाशकृत् ।

अतस्त्वां   शरणं  यातं  भीतं  पाहि  महेश्वर ।।१०।। 

महायोगिन् महादेव कोरोनाख्यं विषाणुकम् । 

संविनाश्य जनान् रक्ष तव भक्तान् विशेषतः ।।११।।

मांसाहारान् सुरापानान्  कामं  संहरतादयम् ।

कोरोनाख्यो विषाणुस्तु मा हिंस्याच्छिवसेवकान् ।।१२।। 

भिक्षुयोगेश्वरानन्दकृतं          द्वादशपद्यकम् ।

जनः    पठन्     रक्षणीयस्त्वयैव     परमेश्वर ।।१३।।

_________________________