सुभाषित-रत्न-भाण्डागारम्

सप्तमं सङ्कीर्णक-प्रकरणम्

Here are some of the abbreviations used here:

का.नी. = कामन्दकी-नीतिः. (Triv. Skt. Ser. no. xiv.)

कथा. = कथा-सरित्-सागर (समदेव.)

कु.सं. = कुमार-सम्भव.

चा.नी.सा. = चाणक्य-नीति-सार.

नी.श. = नीति-शतक.

पञ्च. = पञ्चतन्त्र.

प.पु. = पद्म-पुराण.

प्र. = प्रसङ्गाभरणम्. (Grantha-ratna-mala IV, 10-11).

बृ.चा. = बृहत् चाणकय-नीति.

भर्तृ. = भर्तृहरि-शतक-त्रयम्

भर्तृ.सं. = भर्तृहरि-सुभाषित-सङ्ग्रह

भा.पु. = भागवत-पुराण.

भोज. = भोज-प्रबन्ध.

म.भा. = महाभारत.

मनु = मनु-स्मृति.

रा. = वाल्मीकि ऋआमायण.

रा.त. = राज-तरङ्गिणी.

विक्रम. = विक्रम-चरितम्

वे. = वेताल-पञ्चविंशति.

वै.श. = वैराग्य-शतक.

शा. = आभिज्ञान-शकुन्तला (कालिदास)

शा.प. = शार्ङ्गधार-पद्धति.

शृ.ति. = शृङ्गार-तिलक.

शृ.श. = शृङ्गार-शतक.

सं.पा. = संस्कृत-पाठोपकारक-तत्त्व-बोधिनी.

सु. = सुभाषितावलि (वल्लभदेव)

हि. = हितोपदेश.


श्लोकक्रमाङ्का: श्री-सुभाषित-रत्न-भाण्डागार-सप्तम-सङ्कीर्ण-प्रकरणं अनुसृत्य |


अकस्मात् प्रक्रिया नॄणाम् अकस्माच् चापकर्षणम् ।अकर्म-शीलं च महाशनं च लोक-द्विष्टं बहुमायं नृशंसम् ।
अदेश-कालज्ञम् अनिष्ट-वेषम् एतान् गृहे न प्रतिवासयीत ।।१४१।।

शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धि-लाघवात् ।।१४०।।

अकामस्य क्रिया काचिद् दृश्यते नेह कऋहिचित् ।
यद् यद् धि कुरुते किञ्चित् तत् तत् कामस्य चेष्टितम् ।।१३८।।

अकामान् कामयति यः कामयानान् परित्यजेतस्मै ।
बलवन्तं च यो द्वेष्टि तम् आहुर् मूढ-चेतसम् ।।१३५।।

अकामान् कामयानस्य शरीरम् उपतप्यते ।
इच्छन्तीं कामयानस्य प्रीतिर् भवति शोभना ।।१३७।।

अकार्य-करणाद् भीतः कार्याणां च विवर्जनात् ।
अकाले मन्त्र-भेदाच् च येन माद्येन् न तत् पिबेत् ।।१३४।।

अकार्याण्य् अपि पर्याप्य कृत्वापि वृजिनार्जनम् ।
विधीयते हितं यस्य स देहः कस्य सुस्थिरः ।।१३२।। [रा.त. ४.३८३]

अकाल-सहमत्य्-अल्पं मूर्ख-व्यसनि-नायकम् ।
अगुप्तं भीरु-योधं च दुर्ग-व्यसनम् उच्यते ।।१३१।। [हि. ३.१३५]

अकाले कृत्यम् आरब्धं कऋतुं नार्थाय कल्पते ।
तद् एव काल आरब्धं महतेऽर्थाय कल्पते ।।१२९।। [म.भा. १२.५००६]

अकिञ्चनः परिपतन् सुखम् आस्वादयिष्यसि ।
अकिञ्चनः सुखं शेते समुत्तिष्ठति चैव ह ।।१२८।। [म.भा. १२.६५६८]

अकिञ्चनस्य शुद्धस्य उपपन्नस्य सर्वशः ।
अवेक्षमाणस् त्रींल् लोकान् न तुल्यम् उपलक्षये ।।१२६।। [म.भा. १२.६५७०]

अकीर्तिं विनयो हन्ति हन्त्य् अनर्थं पराक्रमः ।
हन्ति नित्यं क्षमा क्रोधम् आचारो हन्त्य् अलक्षणम् ।।१२५।। [म.भा. ५.१४८८]

अकृतेष्व् एव कार्येषु मृत्युर् वै सम्प्रकर्षति ।
युवैव धर्म-शीलः स्याद् अनिमित्तं हि जीवितम् ।।१२३।। [म.भा. १२.९९४२]

अक्रोधनः क्रोधनेभ्यो विशिष्टस् तथा तितिक्षुर् अतितिक्षोर् विशिष्टः ।
अमानुषेभ्यो मानुषाश् च प्रधाना विद्वांस् रथैवाविदुषः प्रधानः ।।१२२।। [म.भा. १.३५५६]

अक्रोधेन जयेत् क्रुद्धम् असाधुं साधुना जयेत् ।
जयेत् कदर्थं दानेन जयेत् सत्येन चानृतम् ।।१२०।। [म.भा. ५.१५१८]

अक्षमः क्षमता-मानी क्रियायां यः प्रवर्तते ।
स हि हास्यास्पदत्वं च लभते प्राण-संशयम् ।।११९।। [सं. ३९]

अक्षेत्रे बीजम् उत्सृष्टम् अन्तरैव विनश्यति ।
अबीजकम् अपि क्षेत्रं केवलं स्थण्डिलं भवेत् ।।११६।। [मनु. १०.७१]

अक्षमा ह्री-परित्यागः श्री-नाशो धर्म-सङ्क्षयः ।
अभिध्या-प्रख्यता चैव सर्वं लोभात् प्रवर्तते ।।११७।। [म.भा. १२.५८८१]

अग्निं प्राप्य यथा सद्यस् तूल-राशिर् विनश्यति ।
तथा गङ्गा-प्रवाहेण सर्वं पापं विनश्यति ।।११४।। [विक्रम. १८३]

अग्निस् तेजो महल् लोके गूढस् तिष्ठति दारुषु ।
न चोपयुङ्क्ते तद् दारु यावन् नो दीप्यते परैः ।।११३।। [म.भा. ५.१३९४]

अग्निहोत्रं त्रयो वेदास् त्रिदण्डं भस्म-गुण्ठनम् ।
प्रज्ञा-पौरुष-हीनानां जीविकेति बृहस्पतिः ।।१०८।। [प्र. ३०]

अग्न्य्-आधानेन यज्ञेन काषायेण जटाजिनैः ।
लोकान् विश्वासयित्वैव ततो लुम्पेद् यथा वृकः ।।१०५।। [म.भा. १.५५६०]

अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम् ।
तस्मात् तु पुरुषो यत्नाद् धर्मं संचिनुयाच् छनैः ।।१०७।। [म.भा. ५.१५५०]

अघं स केवलं भुङ्क्ते यः पचत्य् आत्म-कारणात् ।
यज्ञ-शिष्टाशनं ह्य् एतत् सताम् अन्नं विधीयते ।।१०४।। [मनु. ३.११८]

अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
स्व-कालं नातिवर्तन्ते तथा कर्म पुरा-कृतम् ।।१०२।। [म.भा. १२.६७५६]

अजा-खर-खुरोत्सर्ग-मार्जनी-रेणुवज् जनैः ।
दीप-खट्वोत्थ-च्छायेव त्यज्यते निर्धनो जनः ।।१०१।। [पञ्च. २.१०८]

अज्ञानाद् यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् ।
तस्माद् विमुक्तिम् अन्विच्छन् द्वितीयं न समाचरेत् ।।९९।। [मनु ११.२३२]

अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ।।९८।। [मनु १२.१०३]

अतिक्लेशेन यद् द्रव्यम् अतिलोभेन यत् सुखम् ।
पर-पीडा च या वृत्तिर् नैव साधुषु विद्यते ।।९६।। [म.भा. ५.१५२१]

अतिवादांस् तितिक्षेत नाभिमन्येत् कथंचन ।
क्रोध्यमानः प्रियं ब्रूयाद् आक्रुष्टः कुशलं वदेत् ।।९५।। [मनु. ६.४७]

अतीतान् आगता भावा ये च वर्तन्ति सांप्रतम् ।
तान् काल-निर्मितान् बुद्ध्वा न संज्ञां हातुम् अर्हसि ।।९३।। [म.भा. १.२४४]

अतीव गुण-सम्पन्नो न जातु विनयान्वितः ।
सुसूक्ष्मम् अपि भूतानाम् उपमर्दम् उपेक्षते ।।९२।। [म.भा. ५.१४५५]

अतुष्टि-दानं कृत-पूर्व-नाशनम् अमाननं दुश्चरितानुकीर्तनम् ।
कथा-प्रसङ्गेन च नाम-विस्मृतिर् विरक्त-भावस्य जनस्य लक्षणम् ।।९०।। [हि. १.११४]

अत्यन्त-चञ्चलस्येह पारदस्य निबन्धने ।
कामं विज्ञायते युक्तिर् न स्त्री-चित्तस्य काचन ।।८९।। [कथा. ३७.२३२]

अत्यम्बु-पानं कठिनासनं च धातु-क्षयो वेग-विधारणं च ।
दिवा-शयो जागरणं च रात्रौ षड्भिर् नराणां निवसन्ति रोगाः ।।८७।। [विक्रम. २३७]

अत्युत्सेकेन महसा साहसाध्यवसायिनाम् ।
श्रीर् आरोहति सन्देहं महताम् अपि भू-भृताम् ।।८४।। [रा.त. ४.५१७]

अत्युदात्त-गणेष्व् एषा कृत-पुण्यैः प्ररोपिता ।
शत-शाखी भवत्य् एव यावन्-मात्रापि सत्-क्रिया ।।८३।। [रा.त. ३.३०४]

अत्युन्नतिं प्राप्य नरः प्रावारः कीटको यथा ।
स विनश्यत्य् असन्देहम् आहैवम् उशना नृपः ।।८१।। [सं.पा. ५७]

अथ नित्यम् अनित्यं वा नेह शोचन्ति तद्-विदः ।
नान्यथा शक्यते कर्तुं स्वभावः शोचताम् इति ।।८०।। [भा.पु. ७.२.४९]

अदेश-कालार्थम् अनायति-क्षमं यद् अप्रियं लाघव-कारि चात्मनः ।
विचिन्त्य बुद्ध्या मुहुर् अप्य् अवैम्य् अहं न तद्-वचो हालाहलं हि तद् विषम्� ।।७७।। [पञ्च. ३.११२]

अदृष्ट-पूर्वान् आदाय भावान् अपरिशङ्कितान् ।
इष्टानिष्टान् मनुष्याणाम् अस्तं गच्छन्ति रात्रयः ।।७८।। [म.भा. १२.१२५१९]

अद्यैव कुरु यच् छ्रेयो वृद्धः सन् किं करिष्यसि ।
स्वगात्राण्य् अपि भाराय भवन्ति हि विपर्यये ।।१४३।।

अधरः किसलय-रागः कोमल-विटपानुकारिणौ बाहू ।
कुसुमम् इव लोभनीयं यौवनम् अङ्गेषु संनद्धम् ।।१४४।।

अधर्मेण च यः प्राह यश् चाधर्मेण पृच्छति ।
तयोर् अन्यतरः प्रैति विद्वेषं वाधिगच्छति ।।१४६।।

अध्रुवेण शरीरेण प्रतिक्षण-विनाशिना ।
ध्रुवं यो नार्जयेद् धर्मं स शोच्यो मूढ-चेतनः ।।१४७।।

अध्वा जरा देहवतां पर्वतानां जलं जरा ।
असम्भोगो जरा स्त्रीणां वाक्-शल्यं मनसो जरा ।।१४९।।

अनधिगत-मनोरथस्य पूर्वं६ शत-गुणितेव गता मम त्रियामा ।
यदि तु तव समागमे तथैव प्रसरति सुभ्रु ततः कृती भवेयम् ।।१५०।।

अनध्वन्याः काव्येष्व् अलस-गतयः शास्त्र-गहनेष्व् अदुःखज्ञा वाचां परिणतिषु मूकाः पर-गुणे ।

अनभ्यासेन विद्यानाम् असंसर्गेण धीमताम् ।
अनिग्रहेण चाक्षाणां जायते व्यसनं नृणाम् ।।१५३।।

अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिं पर-दाराभिमर्शनम् ।
दैन्यं स्तैन्य्ं पैशुनं मद्य-पानं न सेवते यश् च सुखी सदैव ।।१५५।।

अनर्थम् अर्थतः पश्यन्न् अर्थं चैवाप्य् अनर्थतः ।
इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ।।१५६।।

अनवाप्यं च शोकेन शरीरं चोपतप्यते ।
अमित्राश् च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ।।१५८।।

अनातुरोत्कण्ठितयोः प्रसिध्यता समागमेनापि रतिर् न मां प्रति ।
परस्पर-प्राप्ति-निराशयोर् वरं शरीर-नाशोऽपि समानुरागयोः ।।१५९।।

अनात्मवान् नय-द्वेषी वर्धयन्न् अरि-सम्पदः ।
प्राप्यापि महद् ऐश्वर्यं सह तेन विनश्यति ।।१६१।।

अनादर�-परो विद्वान् ईहमानः स्थिरां श्रियम् ।
अग्नेः शेषम् ऋणाच् छेषं शत्रोः शेषं न शेषयेत् ।।८६।। [?]

अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः ।
न चादेयं समृद्धोऽपि सूक्ष्मम् अप्य् अर्थम् उत्सृजेत् ।।१६२।।

अनादेयस्य चादानाद् आदेयस्य च वर्जनात् ।
दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ।।१६४।।

अनाद्य्-अन्ता तु सा तृष्णा अन्तर्-देह-गता नृणाम् ।
विनाशयति सम्भूता अयोनिज इवानलः ।।१६५।।

अनाम्नाय-मला वेदा ब्राह्मणस्याव्रतं मलम् ।
मलं पृथिव्या वाहीकाः पुरुषस्यानृतं मलम् ।।१६७।।

अनारभ्या भवन्त्य् अर्थाः केचिन् नित्यं तथागताः ।
कृतः पुरुषकारोऽपि भवेद् येषु निरर्थकः ।।१६८।।

अनार्य-वृत्तम् अप्राज्ञम् असूयकम् अधार्मिकम् ।
अनर्थाः क्षिप्रम् आयान्ति वाग्-दुष्टं क्रोधनं तथा ।।१७०।।

अनावृत-नव-द्वार-पञ्जरे विहगानिलः ।
यत् तिष्ठति तद् आश्चर्यं वियोगे तस्य का कथा ।।१७१।।

अनित्ये प्रिय-संवासे संसारे चक्रवद् गतौ ।
पथि संगतम् एवैतद् भ्राता माता पिता सखा ।।१७३।।

अनिर्वाच्यम् अनिर्भिन्नम् अपरिच्छिन्नम् अव्ययम् ।
ब्रह्मेव सुजन-प्रेम दुःख-मूल-निकृन्तनम् ।।१७४।।

अनिर्वेदः श्रियो मूलं चञ्चुर् मे लोह-संनिभा ।
अहो-रात्राणि दीर्घाणि समुद्रः किं न शुष्यति ।।१७६।।

अनिश्चितैर् अध्यवसाय-भीरुभिर् पदे पदे दोष-शतानुदर्शिभिः ।
फलैर् विसंवादम् उपागता गिरः प्रयान्ति लोके परिहास-वस्तुताम् ।।१७७।।

अनिष्ट-सम्प्रयोगाच् च विप्रयोगात् प्रियस्य च ।
मानुष्या मानसैर् दुःखैर् युज्यन्ते अल्प-बुद्धयः ।।१७९।।

अनीर्ष्युर् गुप्त-दारश् च सम्विभागी प्रियंवदः ।
श्लक्ष्णो मधुर-वाक् स्त्रीणां न चासां वशगो भवेत् ।।१८०।।

अनुबन्धं च सम्प्रेक्ष्य विपाकांश् चैव कर्मणाम् ।
उत्थानम् आत्मनश् चैव धीरः कुर्वीत वा न वा ।।१८२।।

अनुबन्धान् अवेक्षेत८ सानुबन्धेषु कर्मसु ।
सम्प्रधार्य च कुर्वीत न वेगेन समाचरेत् ।।१८३।।

अनुयाति न भर्तारं यदि दैवात् कथंचन ।
तथापि शीलं संरक्ष्यं शील-भङ्गात् पतत्य् अधः ।।१८५।।

अनेक-चित्त-मन्त्रस् तु द्वेष्यो भवति मन्त्रिणाम् ।
अनवस्थित-चित्तत्वात् कर्ये तैः स उपेक्ष्यते ।।१८६।।

अन्तर्-दुष्टः क्षमा-युक्तः सर्वानर्थ-करः किल ।
शकुनिः शकटारश् च दृष्टान्ताव् अत्र भूपते ।।१८८।।

अन्तर् ये सततं लुथन्त्य् अगणितास् तान् एव पाथोधरैर् आत्तान् आपततस् तरङ्ग-वलयैर् आलिङ्ग्य गृह्णन्न् असौ ।
व्यक्तं मौक्तिक-रत्नतां जल-कणान् सम्प्रापयत्य् अम्बुधिः प्रायोऽन्येन कृतादरो लघुर् अपि प्राप्तोऽर्च्यते स्वामिभिः ।।१८९।।

अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे ।
अन्त्य-प्राप्तिं सुखं प्राहुर् दुःखम् अन्तरम् अन्त्ययोः ।।१९१।।

अन्यो हि नाश्नाति कृतं हि कर्म स एव कर्ता सुख-दुःख-भागी ।
यत् तेन किञ्चिद् धि कृतं हि कर्म तद् अश्नुते नास्ति कृतस्य नाशः ।।२०१।। [म.भा. ३.?]

अन्योन्य-समुपष्टम्भाद् अन्योन्यापाश्रयेण च ।
ज्ञातयः सम्प्रवर्धन्ते सरसीवोत्पलान्य् उत ।।१९६।।

अन्यो हि नाश्नाति कृतं हि कर्म स एव कर्ता सुख-दुःख-भागी ।
यत् तेन किञ्चिद् धि कृतं हि कर्म तद् अश्नुते नास्ति कृतस्य नाशः ।।१९७।। [म.भा. ३.१३८६८]

अन्योच्छिष्टेषु पात्रेषु भुक्त्वैतेषु महीभुजः ।
कस्मान् न लज्जाम् अवहञ् शौच-चिन्तां न वा दधुः ।।१९३।।

अन्यो धनं प्रेत-गतस्य भुङ्क्ते वयांसि चाग्निश् च शरीर-धातून् ।
द्वाभ्याम् अयं सह गच्छत्य् अमुत्र पुण्येन पापेन च वेष्ट्यमानः ।।१९४।।

अपकारिणि विस्रम्भं यः करोति नराधमः ।
अनाथो दुर्बलो यद्वन् न चिरं स तु जीवति ।।१९९।। [ह.वं. ११६३]

अपहत्य तमस् तीव्रं यथा भात्य् उदरे रविः ।
तथापहत्य पाप्मानं भाति गङ्गा-जलोक्षितः ।।२०२।। [विक्रम. १८१]

अपां प्रवाहो गाङ्गोऽपि समुद्रं प्राप्य तद्-रसः ।
भवत्य् अवश्यं तद् विद्वान् नाश्रयेद् अशुभात्मकम् ।।२०३।। [का.नी. ५.८]

अपकृत्य बल-स्थस्य दूरस्थोऽस्मीति नाश्वसेत् ।
श्येनानुचरितैर् ह्य् एते निपतन्ति प्रमाद्यतः ।।१७५।।

अपि मन्दत्वम् आपन्नो नष्टो वापीष्ट-दर्शनात् ।
प्रायेण प्राणिनां भूयो दुःख-वेगोऽधिको भवेत् ।।२०५।। [पञ्च. २.१७४]

अपि मार्दव-भावेन गात्रं संलीय बुद्धिमान् ।
अरिं नाशयते नित्यं यथा वल्ली महा-द्रुमम् ।।२०६।। [हरि. ११६७]

अपुत्रस्य गतिर् नास्ति स्वर्गो नैव च नैव च ।
तस्मात् पुत्र-मुखं दृष्ट्वा भवेत् पश्चाद् धि तापसः ।।२०८।। [विक्रम. ८५]

अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम् ।
कृत-पूर्विणस् तु त्यजतो महान् धर्म इति श्रुतिः ।।२०९।। [म.भा.१२.२८३.५]

अप्य् उन्मत्तात् प्रलपतो बालाच् च परिसर्पतः ।
सर्वतः सारम् आदद्याद् अश्मभ्य इव काञ्चनम् ।।२११।। [म.भा. ५]

अप्रसादोऽनधिष्ठानं देयांश-हरणं च यत् ।
काल-यापोऽप्रतीकारस् तद् वैराग्यस्य कारणम् ।।२१२।। [हि. ३.९०]

अप्रियैर् अपि निष्पिष्टैः किं स्यात् क्लेशासहिष्णुभिः ।
ये तद्-उन्मूलने शक्ता जिगीषा तेषु शोभते ।।२१४।। [रा.त. ३.२८३]

अभयस्य हि यो दाता स पूज्यः सततं नृपः ।
सत्रं हि वर्धते तस्य सदैवाभय-दक्षिणम् ।।२१५।। [म.भा. १२]

अभिन्न-वेलौ गम्भीराव् अम्बुराशिर् भवान् अपि ।
असाव् अञ्जन-संकाशस् त्वं तु चामीकर-द्युतिः ।।२१७।। [काव्या. २.१८३]

अभिमानवतां पुंसाम् आत्म-सारम् अजानताम् ।
अन्धानाम् इव दृश्यन्ते पतनान्ताः प्रवृत्तयः ।।२२१।। अभिमानं श्रियं हन्ति पुरुषस्याल्प-मेधसः ।
गर्भेण दुष्यते कन्या गृह-वासेन च द्विजः ।।२२३।।

अभियुक्तं बलवता दुर्लभं हीन-साधनम् ।
हृत-स्वं कामिनं चोरम् आविशन्ति प्रजागराः ।।२२४।।

अभियोक्ता बली यस्माद् अलब्ध्वा न निवर्तते ।
उपहाराद् ऋते तस्मात् सन्धिर् अन्यो न विद्यते ।।२२६।।

अभिलक्ष्यं स्थिरं पुण्यं ख्यातं सद्भिर् निषेवितम् ।
सेवेत सिद्धिम् अन्विच्छञ् श्लाघ्यं विन्ध्यम् इवेश्वरम् ।।२२७।।

अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्य् अपि ।
दुःखं तत्र न कुर्वीत हन्यात् पूर्वापकारिणम् ।।२३०।।

अमित्राद् उन्नतिं प्राप्य नोन्नतोऽस्मीति विश्वसेत् ।
तस्मात् प्राप्योन्नतिं नश्येत् प्रावार इव कीटकः ।।२३१।।

अमित्रो न विमोक्तव्यः कृपणं बह्व् अपि ब्रुवन् ।
कृपा तस्मिन् न कर्तव्या हन्याद् एवापकारिणम् ।।२३३।।

अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति ।
सामर्थ्य-योगात् कार्याणां तद्-गत्या हि सदा गतिः ।।२३४।।

अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्य् अतन्द्रीः ।
वक्ता हितानाम् अनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ।।२१८।। [म.भा. ५.१३५८]

अभिन्न-वेलौ गम्भीराव् अम्बुराशिर् भवान् अपि ।
असाव् अञ्जन-संकाशस् त्वं तु चामीकर-द्युतिः ।।२१७।। [काव्या. २.१८३]

अभिप्रायं यो विदित्वा तु भर्तुः सर्वाणि कार्याणि करोत्य् अतन्द्रीः ।
वक्ता हितानाम् अनुरक्त आर्यः शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ।।२१८।। [म.भा. ५.१३५८]

अमृतं चैव मृत्युश् च द्वयं देहे प्रतिष्ठितम् ।
मृत्युम् आपद्यते मोहात् सत्येनापद्यतेऽमृतम् ।।२३६।।

आश्रिताश् चैव लोकेन समृद्धिं यान्ति विद्विषः ।
समृद्धाश् च विनाशाय तस्मान् नोद्वेजयेत् प्रजाः ।।८८।। [?]

उद्योगेन विना नैव कार्यं किम् अपि सिध्यति ।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।१९८।।

एवम् एव कुले जाताः पावकोपम-तेजसः ।
क्षमावन्तो निराकाराः काष्ठेऽग्निर् इव शेरते ।।११०।। [?]

कुरु तनु-बुद्धि-मनःसु वितृष्णाम् ।
यल् लभसे निज-कर्मोपात्तं वित्तं तेन विनोदय चित्तम् ।।१८७।। [मोह-मुद्गर]

क्षेत्र-ग्राम-वनाद्रि-पत्तन-पुरी-द्वीप-क्षमा-मण्डल- प्रत्याशा-धन-सूत्र-बद्ध-मनसां लब्धादिकं ध्यायताम् ।
तृष्णे देवि यदि प्रसीदसि तनोष्य् अङ्गानि तुङ्गानि चेत् तद् भोः प्राण-भृतां कुतः शम-कथा ब्रह्माण्ड-लक्षैर् अपि ।।८२।। [प्र. ३५]

चत्वार्य् आहुर् नर-श्रेष्ठा व्यसनानि महीक्षिताम् ।
मृगया पानम् अक्षाश् च ग्राम्ये चैवातिरक्तता ।।१४५।।

चल-स्वभावा दुःसेव्या दुर्ग्राह्या भावतस् तथा ।
प्राज्ञस्य पुरुषस्येह यथा वाचस् तथा श्रियः ।।१९५।।

ज, ज्ञ

ज्ञातुं वपुः-परिमितः क्षमते त्रिलो़कीम्‌ ।
जीवः कथं कथय सङ्गतिम् अन्तरेण ।।

दातुस् तत् तद् अभीप्सितं किल फलन् कालेऽतिचालोऽप्य् असौ राजन् दान-महीरुहो विजयते कल्प-द्रुमादीन् अपि ।।७९।। [सु. ३०२८]

दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः ।
सर्पो दशति कालेन दुरजनस् तु पदे पदे ।।९१।। [बृ.चा. ३.४]

द्वेषादि वै कृतवतः प्रतिभासतेऽन्यो मिथ्यैव चित्रम् अधिको विशदात्मनोऽपि ।
चन्द्रादि पश्यति पुरो द्वि-गुणं प्रकृत्या तेजो-मयं तिमिर-दोष-हतं हि चक्षुः ।।१६९।।

द्वेषादि वै कृतवतः प्रतिभासतेऽन्यो मिथ्यैव चित्रम् अधिको विशदात्मनोऽपि ।
चन्द्रादि पश्यति पुरो द्वि-गुणं प्रकृत्या तेजो-मयं तिमिर-दोष-हतं हि चक्षुः ।।१६९।।

धनवान् क्रोध-लोभाभ्याम् आविष्टो नष्ट-चेतनः ।
तिर्यग्-ईक्षा शुष्क-मुखः पापको भ्रुकुटी-मुखः ।।९४।। [हि. १.१२३]

न च रात्रौ सुखं शेते ससर्प इव वेश्मनि ।
यः कोपयति निर्दोषं स-दोषोऽभ्यन्तरं जनम् ।।१६३।। [म.भा. ५.३८.३७]

न च शत्रुर् अवज्ञेयो दुर्बलोऽपि बलीयसा ।
अल्पोऽपि हि दहत्य् अग्निर् विषम् अल्पं हिनस्ति च ।।१६६।। [म.भा. १२.५८.१७]

न पिता नात्मजो नात्मा न माता न सखी-जनः ।
इह प्रेत्य च नारीणां पतिर् एको गतिः सदा ।।१८१।।

निबन्धनी रज्जुर् एषा या ग्रामे वसतो रतिः ।
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ।।१४८।। [म.भा. १२.१६९.२४]

नाकालतो भानुर् उपैति योगं नाकालतोऽस्तं गिरिम् अभ्युपैति ।
नाकालतो हीयते वर्धते च चन्द्रः समुद्रोऽपि महोर्मि-माली ।।१०३।। [म.भा. १२.२६.१२]

नाकालतो म्रियते जायते वा नाकालतो व्याहरते च बालः ।
नाकालतो यौवनम् अभ्युपैति नाकालतो रोहति बीजम् उप्तम् ।।१०६।। [म.भा. १२.२६.११]

नाकाल-मत्ताः खग-पन्नगाश् च मृग-द्विपाः शैल-मृगाश् च लोके ।
नाकालतः स्त्रीषु भवन्ति गर्भा नायान्त्य् अकाले शिशिरोष्ण-वर्षाः ।।१०९।। [म.भा. १२.२६.१०]

नाक्रोशी स्यान् नावमानी परस्य मित्र-द्रोही नोत नीचोपसेवी ।
न चाभिमानी न च हीन-वृत्तो रूक्षां वाचम् उषतीं वर्जयति ।।११२।। [म.भा. ५.३६.६]

निर्दशन्न् अधरोष्ठं च क्रुद्धो दारुण-भाषिता ।
कस् तम् इच्छेत् परिद्रष्टुं दातुम् इच्छति चेन् महीम् ।।९७।। [?]

पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि ।
मित्राण्य् अमित्रा मध्यस्था उपजीव्योपजीविनः ।।२०।। [म.भा. ५.१०४६]

परेषाम् आत्मनश् चैव योऽविचार्य बलाबलम् ।
कार्यायोत्तिष्ठते मोहाद् आपदः स समीहते ।।२१।। [पञ्च. ३.८७]

पञ्चास्यस्य पराभवाय भषको मांसेन गोर्-भूयसा ।
दध्य्-अन्नैर् अपि पायसैः प्रतिदिनं संवर्धितो यो मया ।।४।। [?]

पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेद् एकम् इन्द्रियम् ।
ततोऽस्य स्रवति प्रज्ञा दृतेः पात्राद् इवोदकम् ।।५।। [म.भा. ५.२०४७]

पञ्चैव पूजयन् लोके यशः प्राप्नोति केवलम् ।
देवान् पितॄन् मनुष्यांश् च भिक्षून् अतिथि-पञ्चमान् ।।६।। [म.भा. ५.२०४५]

पति-व्रता पति-प्राणा पत्युः प्रिय-हिते रता ।
यस्य स्याद् ईदृशी भार्या धन्यः स पुरुषो भुवि ।।१२।। [पञ्च. ३.१४४]

परां विनीतः समुपैति सेव्यतां मही-पतीनां विनयो विभूषणम् ।
प्रवृत्त-दानो मृदु-सञ्चरत्-करः करीव भद्रो विनयेन शोभते ।।४६।। [का.नी. १.६५]

प्रथमा गतिर् आत्मैव द्वितीया गतिर् आत्मजः ।
सन्तो गतिस् तृतीयोक्ता चतुर्थी धर्म-सञ्चयः ।।१३९।। [रा. २.६२]

प्रज्ञया मानसं दुःखं हन्याच् छारीरम् औषधैः ।
एतद् धि ज्ञान-सामर्थ्यं न बालैः समताम् इयात् ।।१६०।। [म.भा. ३.१४०७९]

परोक्त-मात्रं यस् तथ्यं मन्यते बुद्धि-वर्जितः ।
हसनीयः परेषां स शाखारूढो जटी यथा ।।१७२।। [वृ.चा. ४.४९]

प्रेयांस् तेऽहं त्वम् अपि च मे प्रेयसीति प्रवादस् त्वं मे प्राणा अहम् अपि तवास्मीति हन्त प्रलापः ।
त्वं मे ते स्याम् अहम् अपि च यत् तच् च नो साधु राधे व्याहारे नौ नहि समुचितो युष्मद् अस्मत्-प्रयोगः ।।२४५।।

प्रियम् एवाभिधातव्यं नित्यं सत्सु द्विषत्सु च ।
शिखीव केका-मधुरः प्रिय-वाक् कस्य न प्रियः ।।३३३।।

प्रयोजनेषु ये सक्ता न विशेषेषु भारत ।
तान् अहं पण्डितान् मन्ये विशेषा हि प्रसङ्गिनः ।।१४२।। [म.भा. ५.२४४१]

प्रीणाति यः सुचरितैः पितरं स पुत्रो यद् भर्तुर् एव हितम् इच्छति तत् कलत्रम् ।
तन् मित्रम् आपदि सुखे च सम-क्रियं यद् एतत् त्रयं जगति पुण्य-कृतो लभन्ते ।।४७।। [भर्तृ.सं. २७९]

पुरा विद्वत्तासीद् अमलिन-धियां क्लेश-हतये गता कालेनासौ विषय-सुख-सिद्धौ विषयिणाम् ।
इदानीं सम्प्रेक्ष्य क्षिति-लव-भुजः शास्त्र-विमुखान् अहो कष्टं सापि प्रतिदिनम् अधोऽधः प्रविशति ।।४२।। [भर्तृ. ३.१००]

पूज्यो बन्धुर् अपि प्रियोऽपि तनयो भ्राता वयस्योऽपि वा मोहाद् अनवद्य-कार्य-विमुखो हेयः स कार्यार्थिना ।
लोके हि प्रथिता ननु श्रुतिर् इयं नार्योऽपि गायन्ति यां किं कार्यं कनकेन तेन भवति च्छेदाय कर्णस्य यत् ।।५१।। [पञ्च. १.२४०]

प्रत्यासत्तिं मद-करटिनो दान-गन्धेन वायुर् गर्जोद्भूतिं प्रकटित-रुचिश् चञ्चलेवाम्बुदस्य ।
चेष्टा स्पष्टं वदति मतिमन्-नैपुणोन्नेय-तत्त्वा जन्तोर् जन्मान्तर-परिचितां निश्चलां चित्त-वृत्तिम् ।।२७।। [रा.त. ४.३५४]

प्रसादः कुरुते पत्युः सम्पत्तिं नाभिजानताम् ।
कालिमा काल-कूटस्य नापैति हर-सङ्गमात् ।।२८।। [हि. ३.१९]

प्रसादो निष्फलो यस्य क्रोधश् चापि निरर्थकः ।
न तं भर्तारम् इच्छन्ति षण्ढं पतिम् इव स्त्रियः ।।२९।। [भो.प्र. ५७।

प्रजा-वृद्धं धर्म-वृद्धं स्व-बन्धुं विद्या-वृद्धं वयसा चापि वृद्धम् ।
कार्याकार्ये पूजयित्वा प्रसाद्य यः सम्पृच्छेन् न स मुह्येत् कदाचित् ।।३०।। [म.भा. ५.१५५]

प्रिय-वचन-कृतोऽपि योषितां दयित-जनानुनयो रसाद् ऋते ।
प्रविशति हृदयं न तद्-विदां मणिर् इव कृत्रिम-राग-योजितः ।।४४।। [?]

प्रत्युपस्थित-कालस्य सुखस्य परिवर्जनम् ।
अनागत-सुखाशा च नैव बुद्धिमता नयः ।।५९।। [म.भा. १२.५२८०]

पुरो रेवा-पारे गिरि-रति-रादु-रोह-शिखरो धनुर् बाणैः पश्चाच् छबर-कवरो धावति भृशम् ।
सरः सव्येऽसव्ये दव-दहन-दाह-व्यतिकरो न गन्तुं न स्थातुं हरिण-शिशुर् एवं विलपति ।।६८।। [नीति-रत्न ५]

पुण्ये ग्रामे वने वा महति सित-पटच्-छन्न-पाली-कपालीम् आदाय न्याय-गर्भं द्विज-हुत-हुतभुग्-धूम-धूम्रोपकण्ठम् ।
द्वारं द्वारं प्रविष्टो दरम् उदर-दरी-पूरणाय क्षुधार्तो मानी प्राणी सनाथो न पुनर् अनुदिनं तुल्य-कुल्येषु दीनः ।।७६।। [भर्तृ. ३.२४]

प्रथमं संस्थिता भार्या पतिं प्रेत्य प्रतीक्षते ।
पूर्वं मृतं च भर्तारं पश्चात् साद्यनुगच्छति ।।६०।। [म.भा. १.३०३३]

प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम् ।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यते ।।६१।। [चा.नी.सा. ९३]

प्रिया हिताश् च ये राज्ञो ग्राह्य-वाक्या विशेषतः ।
आश्रयेत् पार्थिवं विद्वांस् तद्-द्वारेण नान्यथा ।।५७।। [पञ्च. १.३२?]

बन्धु-त्यागस् तनु-त्यागो देश-त्याग इति त्रिषु ।
आद्य्-अन्ताव् आयत-क्लेशौ मध्यमः क्षणिक-ज्वरः ।।१५७।।

बलीयसा हीन-बलो विरोधं न भूति-कामो मनसापि वाञ्छेत् ।
न वध्यतेऽत्यन्त-बलो हि यस्माद् व्यक्तं प्रणाशोऽस्ति पतङ्ग-वृत्तेः ।।२२।। [पञ्च. ३.१२६]

बलोपपन्नोऽपि हि बुद्धिमान् नरः परं नयेन् न स्वयम् एव वैरिताम् ।
भिषङ् ममास्तीति विचिन्त्य भक्षयेद् अकारणात् को हि विचक्सणो विषम् ।।२३।। [पञ्च. ३.१११]

बाहू द्वौ च मृणालम् आस्य-कमलं लावण्य-लीला-जलं श्रोणी तीर्थ-शिला च नेत्र-शफरं धम्मिल्ल-शैवालकम् ।
कान्तायाः स्तन-चक्रवाक-युगलं कन्दर्प-बाणानलैर् दग्धानाम् अवगाहनाय विधिना रम्यं सरो निर्मितम् ।।५५।। [शृ.ति. १]

बुद्धिश् च हीयते पुंसां नीचैः सह समागमात् ।
मध्यमैर् मध्यतां याति श्रेष्ठतां याति चोत्तमैः ।।७०।। [म.भा. ३.३०]

ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु ।
दाम्भिको दुष्कृत-प्राज्ञः शूद्रेण सदृशो भवेत् ।।१२१।। [म.भा. ३.२०६.११]

भार्या पुत्रश् च दासश् च त्रय एवाधनाः स्मृताः ।
यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् ।।५६।। [मनु. ८.४१६]

भवारण्यं भीमं तनु-गृहम् इदं छिद्र-बहुलं बली कालश् चौरो नियतम् असिता मोह-रजनी ।
गृहीत्वा ज्ञानासि विरति-फलकं शील-कवचं समाधानं कृत्वा स्थिरतर-दृशो जाग्रत जनाः ।।५८।। [?]

भार्यायां जनितं पुत्रम् आदर्शेष्व् इव चाननम् ।
ह्लादते जनिता प्रेक्ष्य स्वर्गं प्राप्येव पुण्य-कृत् ।।४८।। [?]

भार्यावन्तः क्रियावन्तः स-भार्या गृह-मेधिनः ।
भार्यावन्तः प्रमोदन्ते भार्यावन्तः श्रियान्विताः ।।५३।। [म.भा. १.३०२९]

भीतवत् संविधातव्यं यावद् भयम् अनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यम् अभीतवत् ।।१०।। [म.भा. १.५६२२]

भुञ्जानाः पवनं सरीसृप-गणाः प्रख्यापिता भोगिनो गायद्-भृङ्ग-निवारका निगदिता विस्तीर्ण-कर्णा गजाः ।
यश् चाभ्यन्तर-सम्भृतोष्म-विकृतिः प्रोक्तः शमी स द्रुमो लोकेनेति निरर्गलं प्रलपता सर्वं विपर्यासितम् ।।११।। [रा.त. ३.१९४]

मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।
यादृशी भावना यस्य सिद्धिर् भवति तादृशी ।।५४।। [विक्रम. ६४]

मा कुरु धन-जन-यौवन-गर्वं हरति निमेषात् कालः सर्वम् ।
माया-मयम् इदम् अखिलं हित्वा ब्रह्म-पदं प्रविशाशु विदित्वा ।।१००।। [मोह-मुद्गर]

मानो वा दर्पो वा विज्ञानं विभ्रमः सुबुद्धिर् वा ।
सर्वं प्रणश्यति समं वित्त-विहीनो यदा पुरुषः ।।४५।।

मित्रं परित्यजति मुञ्चति बन्धु-वर्गं शीघ्रं विहाय जननीम् अपि जन्म-भूमिम् ।
संसज्य गच्छति विदेशम् अनिष्ट-लोकं वित्ताकुली-कृत-मतिः पुरुषोऽविलम्ब्य ।।१७८।।७ [पञ्च. ५.२६]

मित्र-स्वजन-बन्धूनां बुद्धेर् धैर्यस्य चात्मनः ।
आपन्-निकष-पाषाणे नरो जानाति सारताम् ।।२४।। [भो.प्र. १५६]

मित्राण्य् एव हि रक्षन्ति मित्रवान् नावसीदति ।
मित्राद् उत्पादितं वैरम् अपि मूलं निकृन्तति ।।२५।। [रा. ४.२०.१८]

मित्रार्थे बान्धवार्थे च बुद्धिमान् यतते सदा ।
जातास्व् आपत्सु यत्नेन जगादेदं वचो मनुः ।।२६।। [पञ्च. १.३४६]

मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी ।
स्नेहोऽधिकः सम्भ्रम-दर्शनं च सदानुरक्तस्य जनस्य चिह्नम् ।।१९।। [हि. २.५९]

मूर्खा यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम् ।
दम्पत्योः कलहो नास्ति तत्रश्रीः स्वयम् आगता ।।१९०।। [बृ.चा. ३.२१]

मूलम् एवादितश् छिन्द्यात् पर-पक्षस्य नित्यशः ।
ततः सहायांस् तत्-पक्षान् सर्वांश् च तद्-अनन्तरम् ।।१९२।। [म.भा. १.५५५७?]

मृदुर् आर्द्रः कृशो भूत्वा शनैः संलीयते रिपुः ।
वल्मीक इव वृक्षस्य पश्चान् मूलानि कृन्तति ।।१५१।। [ह.वं. ११६८]

महतो हि क्षयं लब्ध्वा श्लाघां नीचोऽपि गच्छति ।
दानार्थी मधुपो यद्वद् गज-कर्ण-समाहतः ।।२।। [भाव. ३१]

महद्भिः स्पर्धमानस्य विपद् एव गरीयसी ।
दन्त-भङ्गो हि नागानां श्लाघ्यो गिरि-विदारणे ।।३।। [पञ्च. १.४०४]

मौढ्येन विपद्-आपन्नं मध्य-स्थं सुहृदं तथा ।
शक्त्या ततः समुद्धृत्य हितार्थं भर्त्सयेत् सुधीः ।।१५४।। [कविता ७६]

यन्-निमित्तं भवेच् छोकस् त्रासो वा दुःखम् एव वा ।
आयासो वा यतो मूलस् तद्-एकाङ्गम् अपि त्यजेत् ।।७।। [शा.प. १४६१]

यन् निःशब्द-जला घनाश्म-परुषे देशेऽतिघोरारवा यच् चाच्छाः समये पयोद-मलिने कालुष्य-सन्दूषिताः ।
दृश्यन्ते कुल-निम्नगा अपि परं दिग्-देश-कालाव् इमौ तत् सत्यं महताम् अपि स्व-सदृशाचार-प्रवृत्ति-प्रदौ ।।८।। [रा.त. ४.३०८]

यन् नम्रं सरलं चापि यच् चापत्सु न सीदति ।
धनुर् मित्रं कलत्रं च दुर्लभं शुद्ध-वंशजम् ।।१५।। [पञ्च. २.१८८]

यन् नवे भाजने लग्नः संस्कारो नान्यथा भवेत् ।
कथा-च्छलेन बालानां नीतिस् तद् इह कथ्यते ।।१६।। [हि. ०.८]

यद् अप्य् उच्चैर् विजानीयान् नीचैस् तद् अपि कीर्तयेत् ।
कर्मणा तस्य वैशिष्ट्यं कथयेद् विनयान्वितः ।।१७।। [?]

यमो वैवस्वतस् तस्य निर्यातयति दुष्कृतम् ।
हृदि स्थितः कर्म-साक्षी क्षेत्रज्ञो यस्य तुष्यति ।।९।। [म.भा. १.३०१८]

यथा ग्रामान्तरं गच्छन् नरः कश्चित् क्वचिद् वसेत् ।
उत्सृज्य च तम् आवासं प्रतिष्ठेतापरेऽहनि ।।३१।। एवम् एव मनुष्याणां पिता माता गृहं वसु ।
आवास-मात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः ।।३२।। [रा. २.१०८.५-६]

यथा छायातपौ नित्यं सुसम्बद्धौ परस्परम् ।
एवं कर्म च कर्ता च संश्लिष्टाव् इतरेतरम् ।।३३।। [पञ्च. २.१३६]

यथा फलानां पक्वानां नान्यस्य पतनाद् भयम् ।
एवं नरस्य जातस्य नान्यत्र मरणाद् भयम् ।।३४।। [?]

यथा बीजं विना क्षेत्रम् उप्तं भवति निष्फलम् ।
तथा पुरुष-कारेण विना दैवं न सिध्यति ।।३५।। [म.भा. १३.३०१]

यस् तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः ।
तं ब्राह्मणम् अहं मन्ये वृत्तेन हि भवेद् द्विजः ।।१२४।। [म.भा. ३.२०६.१२]

यो नाना-द्युति-मत्-पदार्थ-रसिकोऽसारेऽपि शक्रायुधे स-प्रेमा स विलोक्य बर्हम् इह मे किं किं न कुर्यात् प्रियम् ।
इत्य् आविष्कृत-बर्ह-राजि नटते यो बर्हिणोऽम्भोलवान् नान्यन् मुञ्चति तं विहाय जलदं कोऽन्योऽस्ति शून्याशयः ।।६३।। [रा.त. ३.२१८]

योऽन्यथा सन्तम् आत्मानम् अन्यथा सत्सु भाषते ।
स पाप-कृत्तमो लोके तेनात्मापहारकः ।।३६।। [मनु. ४.२५५]

रामो हेम-मृगं न वेत्ति नहुषो नो यान् युनक्ति द्विजान् विप्राद् एव स-वत्स-धेनु-हरणे जाता मतिश् चार्जुने ।
द्यूते भ्रातृ-चतुष्टय-स्व-महिषीं धर्मात्मजो दत्तवान् प्रायः सत्-पुरुषो विनाश-समये बुद्ध्या परित्यज्यते ।।४१।। [वे. १५]

राजा धर्मविना द्विजः शुचिविना ज्ञानं विना योगिनः कान्ता सत्यविना हयो गतिविना ज्योतिर् विना भूषणम् ।
योद्धा शूरविना तपो व्रतविना छन्दो विना गायनं भ्राता स्नेहविना नरो हरिविना मुञ्चन्ति शीघ्रं बुधाः ।।४३।। [सप्त-रत्न २]

रागी बिम्बाधरोऽसौ स्तन-कलश-युगं यौवनारूढ-गर्वं नीचा नाभिः प्रकृत्या कुटिल-कमलकं स्वल्पकं चापि मध्यम् ।
कुर्वन्त्व् एतानि नाम प्रसभम् इह मनश् चिन्तितान्य् आशु स्वेदं यन् मां तस्या कपोलौ दहत इति मुहुः स्वच्छकौ तन् न युक्तम् ।।६२।। [पञ्च. १.२२१]

लीलायन्त्यः कुलं घ्नन्ति कुलानीव सरिद्-वराः दोषान् सर्वांश् च मत्याशु प्रजापतिर् अभाषत ।।४०।। [म.भा. १३.१४७५]

लीलावतीनां सहजा विलासास् त एव मूढस्य हृदि स्फुरन्ति ।
रागो नलिन्या हि निसर्ग-सिद्धस् तत्र भ्रमत्य् एव सुधा षडङ्घ्रिः ।।६९।। [?]

लोको वहति किं राजन् न मूर्ध्ना दग्धुम् इन्धनम् ।
क्षालयन्न् अपि वृक्षाङ्घ्रीन् नदी-वेगो निकृन्तति ।।७२।। [हि. ४.६०]

लाक्षा-लक्ष्म ललाटाट्टम् अभितः केयूर-मुद्रा गले वक्रे कज्जल-कालिमा नयनयोस् ताम्बूल-रागोदयः ।
दृष्ट्वा कोप-विधायि मण्डनम् इदं प्रातश् चिरं प्रेयसो लीला-तामरसोदरे मृददृशः श्वासाः समाप्तिं गताः ।।७४।। [अमरु. ६०]

लज्जा स्नेहः स्वर-मधुरता बुद्धयो यौवन-श्रीः कान्तासङ्गो यजन-समता� दुःख-हानिर् विलासः ।
धर्मः शास्त्रं सुर-गुरु-मतिः शौचम् आचार-चिन्ता पूर्णे सर्वे जठर-पिठरे प्राणिनां सम्भवन्ति ।।७५।। [पञ्च. ५.९१]

लोभाद् एव नरा मूढा धन-विद्यान्विता अपि ।
अकृत्येषु वियोज्यन्ते भ्राम्यन्ते दुर्गमेष्व् अपि ।।२००।। [हि. १.३४]

वरं प्राण-त्यागो न च पिशुन-वाक्येष्व् अभिरुचिर्
वरं भिक्षाशित्वं न च पर-धनास्वादन-सुखम्

वरं मौनं कार्यं न च वचनम् उक्तं यद् अनृतं
वरं क्लैब्यं पुंसां न च पर-कलत्राभिगमनम् । ।।६७।। [हि. १.१३७]

वरुणेन यथा पाशैर् बद्ध एवाभिदृश्यते ।
तथा पापान् निगृह्णीयाद् व्रतम् एतद् धि वारुणम् ।।७३।। [रा. २.१२२.१२]

वशं प्राप्ते मृत्योः पितरि तनये वा सुहृदि वा
शुचालं तप्यन्ते भृशम् उदर-ताडं जड-धियः ।
असारे संसारे विरस-परिणामे तु विदुषां
वियोगो वैराग्यं द्रढयति वितन्वन् शम-सुखम् ।।३८।। [प्र. ९५]

विदग्धानां गोष्ठीष्व् अकृत-परिचर्याश् च खलु ये
भवेयुस् ते किं वा पर-भणिति-कण्डूति-निकषाः ।।१५२।।

विधिर् एव हि जागर्ति भव्यानाम् अर्थ-सिद्धये ।
असंचेतयमानानां सद्-भृत्याः स्वामिनाम् इव ।।३९।। [?]

विनयेन विना का श्रीः का निशा शशिना विना ।
रहिता सत्-कवित्वेन कीदृशी वाग्-विदग्धता ।।६५।। [?]

विस्तीर्ण-व्यवसाय-साध्य-महतां स्निग्ध-प्रयुक्ताशिषां�
कार्याणां नय-साहसोन्नति-मताम् इच्छा-पदारोहिणाम् ।

मानोत्सेक-पराक्रम-व्यसनिनः पारं न यावद्-गताः
सामर्षे हृदयेऽवकाश-विषया तावत् कथं निर्वृतिः ।।७१।। [पञ्च. ३.२५३]

व्याधिभिर् मथ्यमानानां३ त्यजतां विपुलं धनम् ।
वेदनां नापकर्षन्ति यतमानाश् चिकित्सकाः ।।११५।। [म.भा. १२.३१८.३०]

शक्नोति कुम्भ-निहितः सुशिखोऽपि दीपो
भावान् प्रकाशयितुम् अप्य् उदरे गृहस्य ।।८५।। [?]

शमयति गजान् अन्यान् गन्ध-द्विपः कलभोऽपि सन्
प्रभूतितरां वेगोदग्रं भुजङ्ग-शिशोर् विषम् ।
भुवम् अधिपतिर् बालावस्थोऽप्य् अलं परिरक्षितुं
न खलु वयसा जात्यैवायं स्व-कार्य-सहो गणः ।।११८।। [विक्रमोर्वशीय ५.१८]

शरीरम् एवायतनं सुखस्य दुःखस्य चाप्य् आयतनं शरीरम् ।
यद् यच् छरीरेण करोति कर्म तेनैव देही समुपाश्नुते तत् ।।६४।। [म.भा. १२.५४७८]

शशिना सह याति कौमुदी सह मेघेन तडित् प्रलीयते ।
प्रमदाः पति-वर्त्मगा इति प्रतिपन्नं हि विचेतनैर् अपि ।।६६।। [कु.सं. ४.३३]

शीलं प्रधानं पुरुषे तद् यस्येह प्रणश्यति ।
न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ।।१।। [म.भा. ५.३४.४६]

शान्तेऽनन्त-महिम्नि निर्मल-चिद्-आनन्दे तरङ्गावली-
निर्मुक्तेऽमृत-सागराम्भसि मनाङ् मग्नोऽपि नाचामति ।
निःसारे मृगतृष्णिकार्णव-जले श्रान्तो विमूढः पिबत्य्
आचामत्य् अवागहतेऽभिरमते मज्जत्य् अथोन्मज्जति ।।३७।। [?]

शुभ्रं सद्य सविभ्रमा युवतयः श्वेतातपत्रोज्ज्वला
लक्ष्मीर् इत्य् अनुभूयते स्थिरम् इव स्फीते शुभे कर्मणि ।
विच्छिन्ने नितराम् अनङ्ग-कलह-क्रीडा-त्रुटत्-तन्तुकं
मुक्ता-जालम् इव प्रयाति झटिति भ्रश्यद्-दिशो दृश्यताम् ।।१४।। [भर्तृ. १.९५]

स एव खलु दारुभ्य यदा निर्मथ्य दीप्यते ।
तद् दारु च वनं चान्यन् निर्दहत्य् आशु तेजसा ।।१११।। [म.भा. ५.३७.५७]

सकृज् जल्पन्ति राजानः सकृज् जल्पन्ति साधवः ।
सकृत् कन्याः प्रदीयन्ते त्रीण्य् एतानि सकृत् सकृत् ।।१८।। [वे. ३४]

संक्षेपात् कथ्यते धर्मो जनाः किं विस्तरेण तु ।
परोपकारः पुण्याय पापाय पर-पीडनम् ।।१३।। [?]

सत्-क्षेत्र-प्रतिपादितः प्रिय-वचो-बद्धालवालावलिर् |
निर्दोषेण मनः-प्रसाद-पयसा निष्पन्न-सेक-क्रियः||
दातुस् तत् तद् अभीप्सितं किल फलन् कालेऽतिचालोऽप्य् असौ
राजन् दान-महीरुहो विजयते कल्प-द्रुमादीन् अपि ।।७९।। [सु. ३०२८]

सत्यश् चात्र प्रवादोऽयं लौकिकः प्रतिभाति माम् ।
पितॄन् समनुजायन्ते नरा मातरम् अङ्गनाः ।।१८४।। [रा. २.३५.२८]

सन्तः सच्-चरितोदय-व्यसनिनः प्रादुर्भवद् यन्त्रणाः सर्वत्रैव जनापवाद-चकिता जीवन्ति दुःखं सदा ।
अव्युत्पन्न-मतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्त-विवेक-शून्य-हृदयो धन्यो जनः प्राकृतः ।।१२७।। [दशरूपक ३.१८]

सुखम् एव हि दुःखान्तं कदाचिद् दुःखतः सुखम् ।
तस्माद् एतद् द्वयं जह्याद् य इच्छेच् छाश्वतं सुखम् ।।२०४।। [म.भा. १२.७५५?]

सुखार्थी नागारि-प्रतिभय-शमात् प्रत्युत सुखं जहौ शेषस् तल्पीकृत-तनु निषेव्यासुर-रिपुम् ।
यतस् तेनामुष्मिन्न् अधिगतवता क्लेश-सहतां श्रमा-धायि न्यस्तं निरवधि धरा-भार-वहनम् ।।२०७।। [रा.त. ३.२१५]

सुखास्वाद-परो यस् तु संसारे सत्-समागमः ।
स वियोगावसानत्वाद् दुःखानां धुरि युज्यते ।।५०।। [हि. ४.७७]

सुख-दुःखानि भूतानाम् अजरो जरयत्य् असौ ।
आदित्यो ह्य् अस्तम् अभ्येति पुनः पुनर् उदेति च ।।२१०।। [म.भा. १२.३१८.७]

सुख-दुःखे समे स्यातां जन्तूनां क्लेश-हेतुके ।
मूर्ध्नि तापिन् केशानां भवेतां स्नेह-च्छेदने ।।२१३।। [दृ.श. ४७]

सुख-दुःखे हि पुरुषः पर्यायेणोपसेवते ।
न ह्य् अनन्तं सुखं कश्चित् प्राप्नोति पुरुषर्षभ ।।२१६।। [बृ.चा. ४.१३]

सुखं दुःखान्तम् आलस्यं दाक्ष्यं दुःखं सुखोदयम् ।
भूतिः श्रीर् ह्रीर् धृतिः सिद्धिर् नादक्षे निवसन्त्य् उत ।।२१९।। [म.भा. १२.२७.३०]

सुधा-शुभ्रं धाम स्फुरद्-अमल-रश्मिः शशधरः प्रिया-वक्त्राम्भोजं मलयज-रजश् चातिसुरभि ।
स्रजो हृद्यामोदास् तद् इदम् अखिलं रागिणि जने करोत्य् अन्तः-क्षोभं न तु विषय-संसर्ग-विमुखे ।।५२।।

स्तन-तटम् इदम् उत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् ।
विषमे मृग-शावाक्ष्या वपुषि नवे क इव न स्खलति ।।१३३।।

स्तनयोर् जघनस्यापि मध्ये मध्यं प्रिये तव ।
अस्ति नास्तीति सन्देहो न मेऽद्यापि निवर्तते ।।१३६।। [काव्या. २.२१७] अनित्ये प्रिय-संवासे संसारे चक्रवद् गतौ ।
पथि संगतम् एवैतद् भ्राता माता पिता सखा ।।१७३।।

हिंसकान्य् अपि भूतानि यो हिनस्ति स निर्घृणः ।
स याति नरकं घोरं किं पुनर् यः शुभानि च ।।४९।। [पञ्च. ३.१६]

ह्यः पश्यद्भिर् अकारण-स्मित-सितं पाथोज-कोशाकृति श्मश्रूद्बोध-कठोरम् अद्य रभसाद् उत्तप्त-ताम्र-प्रभम् ।
प्रातर् जीर्ण-बलक्ष-केश-विकृतं वृद्धाज-शीर्षोपमं वक्त्रं नः परिहस्यते ध्रुवम् इदं भूतैश् चिर-स्थायिभिः ।।१३०।। [?]


वाक्यं तु यो नाद्रियतेऽनुशिष्टः प्रत्याह यश् चापि नियुज्यमानः ।
प्रज्ञाभिमानी प्रतिकूल-वादी त्याज्यः स तादृक् त्वरयैव भृत्यः ।।२२०।। [?]

सुखम् आपतितं सेवेद् दुःखम् आपतितं सहेत् ।
कालप्राप्तम् उपासीत सस्यानाम् इव कर्षकः ।।२२२।। [म.भा. ३.२४५.१५]

सुकरं सर्वथा मैत्रं दुष्करं प्रतिपालनम् ।
अनित्यत्वाद् हि चित्तानां प्रीतिर् अल्पेन भिद्यते ।।२२५।।

यथा शरीरम् एवेदं जल-बुद्बुद-संनिभम् ।
प्रवात-दीप-चपलास् तथा कस्य कृते श्रियः ।।२२८।। [कथा.स. २२.४०]

यथा हि पुरुषः कुर्याच् छरीरे यत्नम् उत्तमम् ।
वसनाद्यैर् उपायैस् तु तथा राज्ये नराधिपः ।।२२९।। [सं.पाठोप. ५६]

यथा हि भरतो वर्णैर् वर्णयत्य् आत्मनस् तनुम् ।
नाना-रूपाणि कुर्वाणस् तथात्मा कर्मजास् तनूः ।।२३२।। [याज्ञ. ३.१६२]

बुद्धिः प्रभावस् तेजश् च सत्त्वम् उत्थानम् एव च ।
व्यवसायश् च यस्य स्यात् तस्यावृत्ति भयं कुतः ।।२३५।। [म.भा. ५.३७.३७]

बुद्धिमन्तं कृत-प्रज्ञं शुश्रूसुम् अनसूयकम् ।
दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् ।।२३७।। [म.भा. १२.१६८.३२]

बुद्धिमन्तं च मूढं च शूरं भीरुं जदं कविम् ।
दुर्बलं बलवन्तं च भागिनं भजते सुखम् ।।२३८।। [म.भा. १२.१६८.२२]

बुद्धि-रूप-गुणायुष्मत्-पुत्रान् विद्या-विशारदान् ।
प्राप्नुवन्ति नराः सर्वे सुकृतैः पूर्व-जन्मनि ।।२३९।। [प्रसङ्गा.

बुद्धि-श्रेष्ठानि कर्माणि बाहु-मध्यानि भारत ।
तानि जङ्घा जघन्यानि भार-प्रत्यवराणि च ।।२४०।। [म.भा. ५.३५.६५]

दिशो वासः पात्रं कर-कुहरम् एणाः प्रणयिनः समाधानं निद्रा शयनम् अवनी मूलम् अशनम् ।
कदैतत् सम्पूर्णं मम हृदय-वृत्तेर् अभिमतं भविष्यत्य् उग्रं परम-परितोषोपचितये ।।२४१।।

तपः-सीमा मुक्तिः सकल-गुण-सीमा वितरणं कला-सीमा काव्यं जनन-सुख-सीमा सुवदना ।
भियः सीमा मृत्युः सुकृत-कुल-सीमाश्रित-भृतिः क्षुधा-सीमान् नान्तः श्रुति-मुख-सीमा हरि-कथा ।।२४२।। [प्रसङ्गा. १०]

यदा विनाश-कालो वै लक्ष्यते दैव-निर्मितः ।
तदा वै विपरीतेषु मनः प्रकुरुते नरः ।।२४३।। [रा. ३.६२.२०]

व्यालाश्रयापि विकलापि सकण्टकापि वक्रापि पङ्किल-भवापि दुरासदापि ।
गन्धेन बन्धुर् असि केतकि सर्वजन्तोर् एको गुणः खलु निहन्ति समस्त-दोषान् ।।२४४।। [बृ.चा. १७.२१]

उत्थिता एव पूज्यन्ते जनाः कार्यार्थिभिर् नरैः ।
शत्रुवत् पतितं को नु वन्दते मानवं पुनः ।।२४६।।

उत्पततोऽप्य् अन्तरिक्षं गच्छतोऽपि महीतलम् ।
धावतः पृथिवीं सर्वां नादत्तम् उपतिष्ठति ।।२४७।।

उत्पन्नम् आपदं यस् तु समाधत्ते स बुद्धिमान् ।
वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ।।२४८।।

उपशम-फलाद् विद्या-बीजात् फलं धनम् इच्छतां भवति विफलः प्रारम्भो यत् तद् अत्र किम् अद्भुतम् ।
नियत-विषयाः सर्वे भावा न यान्ति हि विक्रियां जनयितुम् अलं शालेर् बीजं न जातु यवाङ्कुरम् ।।२४९।।

एकः स्वादु न भुञ्जीत एकश् चार्थान् न चिन्तयेत् ।
एको न गच्छेद् अध्वानं नैकः सुप्तेषु जागृयात् ।।२५०।।

एकाकी गृह-सन्त्यक्तः पाणि-पात्रो दिगम्बरः ।
सोऽपि सम्बाध्यते लोके तृष्णया पश्य कौतुकम् ।।२५१।।

एकाकी निःस्पृहः शान्तः पाणि-पात्रो दिगम्बरः ।
कदा शम्भो भविष्यामि कर्म-निर्मूलन-क्षमः ।।२५२।।

द्वाव् इमौ न विराजेते विपरीतेन कर्मणा ।
गृहस्थश् च न्रारम्भः कार्यवांश् चैव भिक्षुकः ।।२५३।।

आहरयति न स्वस्थो विनिद्रो न प्रबुध्यते ।
वक्ति न स्वेच्छया किञ्चित् सेवकोऽपीह जीवति ।।२५४।।

आयस्य तुर्य-भागेन व्यय-कर्म प्रवर्तयन् ।
अन्यून-तैल-दीपोऽपि चिरं भद्राणि पश्यति ।।२५५।।

आयत्यां गुण-दोषज्ञस् तदात्वे क्षिप्र-निश्चयः ।
अतीते कार्य-शेषज्ञः शत्रुभिर् नाभिभूयते ।।२५६।।

आयत्यां च तदात्वे च यत् स्याद् आस्वाद-पेशलम् ।
तद् एव तस्य कुर्वीत न लोक-द्विष्टम् आचरेत् ।।२५७।।

एतत् काम-फलं लोके यद् द्वयोर् एक-चित्तता ।
अन्य-चित्त-कृते कामे शवयोर् इव सङ्गमः ।।२५८।।

एतस्माद् अमृतं सुरैः शत-मखेनोच्चैःश्रवाः सद्-गुणः कृष्णेनाद्भुत-विक्रमैक-वसतिर् लक्ष्मीः समासादिता ।
इत्य् आदि प्रचुराः पुरातन-कथाः सर्वेभ्य एव श्रुता अस्माभिस् तु न दृष्टम् अत्र जलधौ मिष्टं पयोऽपि क्वचित् ।।२५९।।

धैर्यं हि कार्यं सततं महद्भिः कृच्छ्रेऽपि कष्टेऽप्य् अतिसङ्कटेऽपि ।
कृच्छ्राण्य् अकृच्छ्रेण समुत्तरन्ति धैर्योच्छ्रिता ये प्रतिपत्ति-दक्षाः ।।२६०।।

देहि देहीति जल्पन्ति त्यागिनोऽर्थार्थिनोऽपि च ।
आलोकयन्ति यावत् स्याद् अस्ति नास्तीति न क्वचित् ।।२६१।।

एके सत्-पुरुषाः परार्थ-घटकाः स्वार्थं परित्यज्य ये सामान्यास् तु परार्थम् उद्यम-भृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुष-राक्षसाः पर-हितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं पर-हितं ते के न जामीमहे ।।२६२।।

देवस्याम्बु-मुचश् च नास्ति नियमः कोऽप्य् आनुकूल्यं प्रति व्यञ्जन् यः प्रियम् उत्कटं घटयते जन्तोः क्षणाद् अप्रियम् ।
क्षिप्रं दीर्घ-निदाघ-वासर-वियत्-सन्ताप-निर्वापणां प्रादुष्कृत्य वनस्पतेः प्रकुरुते विद्युद्-विसर्गं च सः ।।२६३।। [सूक्ति. १०५.२]

देवी श्रीर् जनकात्मजा दश-मुखस्यासीद् गृहे रक्षसो नीता चैव रसातलं भगवती वेद-त्रयी दानवैः ।
गन्धर्वस्य मदालसां च तनयां पाताल-केतु-च्छलाद् दैत्येन्द्रोऽपजहार हन्त विषमा वामा विधेर् वृत्तयः ।।२६४।।

किम् अशक्यं बुद्धिमतां किम् असाध्यं निश्चयं दृढं दधताम् ।
किम् अशक्यं प्रिय-वचसां किम् अलभ्यंम् इहोद्यम-स्थानाम् ।।२६५।।

गन्धाप्य् असौ भुवन-विदिता केतकी स्वर्ण-वर्णा पद्म-भ्रान्त्या चपल-मधुपः पुष्प-मध्ये पपात ।
अन्धीभूत्ः कुसुम-रजसा कण्टकैर् लून-पक्षः स्थातुं गन्तुं द्वयम् अपि सखे नैव शक्तो द्विरेफः ।।२६६।। [पद्म.सृ. १९]

गवार्थे ब्राह्मणार्थे च स्वाम्य्-अर्थे स्त्री-कृतेऽथवा ।
स्थानार्थे यस् त्यजेत् प्राणांस् तस्य लोकाः सनातनाः ।।२६७।।

गावो गन्धेन पश्यन्ति वेदेनैव द्विजातयः ।
चारैः पश्यन्ति राजानश् चक्षुर्भ्याम् इतरे जनाः ।।२६८।। [विक्र्. ११७]

त्यागो गुणो गुण-शताभ्यधिको मतो मे विद्यापि भूषयति तं यदि किं ब्रवीमि ।
शौर्यं च नाम यदि तत्र नमोऽस्तु तस्मै तच् च त्रयं न च यदीर्ष्यति चित्रम् एतत् ।।२६९।।

त्याज्यं सुखं विषय-सङ्गम-जन्म पुंसां दुःखोपसृष्टम् इति मूर्ख विचारणैषा ।
व्रीहीं जिहासति सिस्थित-तुण्डलाढ्यान् को नाम भोस् तुष-कणोपहितान् हितार्थी ।।२७०।।

दुर्गं त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच् च वित्तम् ।
शास्त्रं च यस्योशनसा प्रणीतं स रावणो दैव-वशाद् विपन्नः ।।२७१।। [गरुड.अ. ११३]

कर्मानुमेयाः सर्वत्र परोक्ष-गुण-वृत्तयः ।
तस्मात् परोक्ष-वृत्तीनां फलैः कर्म विभावयेत् ।।२७२।। [हि. ४.१०६]

किं गजेन प्रभिन्नेन राज-कर्माण्य् अकुर्वता ।
स्थूलोऽपि यदि वास्थूलः श्रेयान् कृत्य-करः पुमान् ।।२७३।।

किं चन्दनैः स-कर्पूरैस् तुहिनैः शीतैश् च किम् ।
सर्वे ते मित्र-गात्रस्य कलां नार्हन्ति षोडशीम् ।।२७४।। [शृ.ति. २.२]

नोपभोक्तुं न च त्यक्तुं शक्नोति विषयान् जरी ।
अस्थि निर्दशनः श्वेव जिह्वया लेढि केवलम् ।।२७५।। [हि. १.११३]

नो सत्येन मृगाङ्क एष वदनी-भूतो न चेन्दीवर- द्वन्द्वं लोचनतां गत न कनकैर् अप्य् अङ्ग-यष्टिः कृता ।
किन्त्व् एवं कविभिः प्रतारित-मनास् तत्त्वं विजानन्न् अपि त्वङ्-मांसास्थि-मयं वपुर् मृग-दृशां मन्दो जनः सेवते ।।२७६।। [शृ.श. ४६]

दायादा व्यय-भीरुता-परिहृतारब्धेर् भवन्त्य् उन्नता भृत्याः प्रत्युपकार-कातर-मतेः कुर्युर् न कोऽपि प्रियम् ।
राशी-भूत-धनस्य जीवित-हृतौ शश्वद् यतेरन् निजा भू-भर्तुः क्रियते द्विषेव रभसाल् लोभेन किं नाप्रियम् ।।२७७।। [रा.त. ५.१९०]

कोकिलोऽहं भवान् काकः समानः कालिमावयोः ।
अन्तरं कथयिष्यन्ति काकली-कोविदाः पुनः ।।२७८।। [सा.द. १०.५९]

क्व स दशरथः स्वर्गे भूत्वा महेन्द्र-सुहृद्-गतः क्व स जलनिधेर् वेलां बद्ध्वा नृपः सगरस् तथा ।
क्व स करतलाज् जातो वैण्यः क्व सूर्य-तनुर् मनुर् ननु बलवता कालेनैते प्रबध्य निमीलिताः ।।२७९।। [पञ्च. ३.२५३]

आदीर्घेण चलेन वक्र-गतिना तेजस्विना योगिना नीलाब्ज-द्युतिनाहिना वरम् अहं दृश्यो९ न तच् चक्षुषा ।
दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो मुग्धाक्षीक्षण-वीक्षितस्य नहि मे वैद्यो न चाप्य् औषधम् ।।२८०।। [शृ.श. ५५]

आदौ चित्ते ततः काये सतां संजायते जरा ।
असतां च पुनः काये नैव चित्ते कदाचन ।।२८१।। [पञ्च. १.१७७]

अत्युक्तिं रहसि गतं विचित्र-मत्येन भाषमाणं च ।
उचित-प्रणयम् अपि नृपं सहसार्या नोपसर्पन्ति ।।२८२।।

दुर्जन-सङ्गतिर् अनर्थ-परम्पराया हेतुः सताम् अधिगतं वचनीयम् अत्र ।
लङ्केश्वरे हरति दाशरथेः कलत्रं प्राप्नोति बन्धम् अघ दक्षिण-सिन्धु-राजः ।।२८३।। [विक्रम १९७]

जलौकयोपनीयन्ते प्रमदा मन्द-बुद्धिभिः ।
मृगीदृशां जलाकानां विचारान् महद् अन्तरम् ।।२८४।। [काशीखण्ड ६.८५]

जलौका केवलं रक्तम् आददाना तपस्विनाम् ।
प्रमदा सर्वम् आदत्ते चित्तं वित्तं बलं सुखम् ।।२८५।। [काशीखण्ड ६.८६]

कुलं वृत्तं च शौर्यं च सम् एतन् न गण्यते ।
दुर्वृत्तेऽप्य् अकुलीनेऽपि जनो दातरि रज्यते ।।२८६।। [कामं. नी. ५.६०]

दाता लघुर् अपि सेव्यो भवति न कृपणो महान् अपि समृद्ध्या ।
कूपोऽन्तः-स्वादु-जलः प्रीत्यै लोकस्य न समुद्रः ।।२८७।। [पञ्च ६.८५]

निःश्वासोद्गीर्ण-हुतभुग्-धूम-धूम्रीकृताननैः ।
वरम् आशी-विषैः सङ्गं कुर्यान् न त्व् एव दुर्जनैः ।।२८८।। [का.नी. ३.१८]

किं रुद्धः प्रियया कयाचिद् अथवा सख्या तयोद्वेजितः किं वा कारण-गौरवं किम् अपि यन् नाद्यागतो वल्लभः ।
इत्य् आलोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजं दीर्घे निःश्वसितं चिरं च रुदितं क्षिप्ताश् च पुष्प-स्रजः ।।२८९।। [शृङ्गार-तिलकः १.७५]

कालिदास-कविता नवं वयो माहिषं दधि स-शर्करं पयः ।
एण-मांसम् अबला च कोमला सम्भवन्तु मम जन्म-जन्मनि ।।२९०।। [पद्य.सं. १५]

उपायो न जयो यादृग् रिपोस् तादृङ् न हेतिभिः ।
उपाय-ज्ञोऽल्प-कायोऽपि न शूरैः परिभूयते ।।२९१।। [?]

आगतं विग्रहं विद्वान् उपायैः प्रशमं नयेत् ।
विजयस्य ह्य् अनित्यत्वाद् रभसेन न सम्पतेत् ।।२९२।। [का.नी. १०.३१]

नैतद् विचित्रं मनुजार्भ-मायिनः परावराणां परमस्य वेधसः ।
अघोऽपि यत्-स्पर्शन-धौत-पातकः प्रापात्म-साम्यं त्व् असतां सुदुर्लभम् ।।२९३।। [भा.पु. १०.१२.३८]

ये बाल-भावान् न पठन्ति विद्यां ये यौवनस्ह्ता ह्य् अधनात्म-दाराः ।
ते शोचनीया इह जीव-लोके मनुष्य-रूपेण मृगाश् चरन्ति ।।२९४।। [विक्रम १२३]

दमेन हीनं न पुनन्ति वेदा यद्यप्य् अधीताः सह षड्भिर् अङ्गैः ।
साङ्ख्यं च योगश् च कुलं च जन्म तीर्थाभिषेकश् च निरर्थकानि ।।२९५।। [पद्म.सृष्टि. १९]

कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।
तत्-संघातो बीज-रोह-प्रवाहस् त्वन्-मायैषा तन्-निषेधं प्रपद्ये ।।२९६।।

शत्रोर् अपत्यानि प्रियंवदानि नोपेक्षितव्यानि बुधैर् मनुष्यैः ।
तान्य् एव कालेषु विपत्-कराणि विषस्य पात्राण्य् अपि दारुणानि ।।२९७।। [बृ.नीति. ११०]

ऋतेन जीवेद् अनृतेन जीवेन् मितेन जीवेत् प्रमितेन जीवेत् ।
सत्यानृताभ्याम् अथवापि जीवेत् श्व-वृत्तिम् एकां परिवर्जयेत् तु ।।२९८।। [?]

अक्रोधनः क्रोधनेभ्यो विशिष्टस् तथा तितिक्षुर् अतितिक्षोर् विशिष्टः ।
अमानुषेभ्यो मानुषाश् च प्रधाना विद्वांस् तथैवाविदुषः प्रधानः ।।२९९।। [म.भा. १.८२.६]

नास्तीदृशं संवननं त्रिषु लोकेषु किञ्चन ।
यथा मैत्री च लोकेषु दानं च मधुरा च वाक् ।।३००।। [मत्स्य.अ. ३६]

न तथा तप्यते विद्धः पुमान् बाणैस् तु मर्म-गैः ।
यथा तुदन्ति मर्म-स्था ह्य् असतां परुषेषवः ।।३०१।। [भा.पु. ११.२३.३]

शूरत्व-युक्ता मृदु-मन्द-वाक्या जितेन्द्रियाः सत्य-पराक्रमाश् च ।
प्राग् एव पश्चाद् विपरीत-रूपा ये ते तु भृत्या न हिता भवन्ति ।।३०२।। [?]

यस्यात्म-बुद्धिः कुणपे त्रि-धातुके स्व-धीः कलत्रादिषु भौम इज्य-धीः ।
यत्-तीर्थ-बुद्धिः सलिले न कर्हिचिज् जनेष्व् अभिज्ञेषु स एव गो-खरः ।।३०३।। [भा.पु. १०.८४.१३]

कं योजयेन् मनुजोऽर्थं लभेत निपातयन् नष्ट-दशं हि गर्ते ।
एवं नराणां विषय-स्पृहा च निपातयन् निरये त्व् अन्ध-कूपे ।।३०४।। [?]

तान् वीक्ष्य कृष्णः सकलाभय-प्रदो ह्य् अनन्य-नाथान् स्व-कराद् अवच्युतान् ।
दीनांश् च मृत्योर् जठराग्नि-घासान् घृणार्दितो दिष्ट-कृतेन विस्मितः ।।३०५।। [भा.पु. १०.१२.२७]

लोकः स्वयं श्रेयसि नष्ट-दृष्टिर् योऽर्थान् समीहेत निकाम-कामः ।
अन्योन्य-वैरः सुख-लेश-हेतोर् अनन्त-दुःखं च न वेद मूढः ।।३०६।। [भा.पु. ५.५.१६]

सत्यां क्षितौ किं कशिपोः प्रयासैर् बाहौ स्वसिद्धे ह्य् उपबर्हणैः किम् ।
सत्य् अञ्जलौ किं पुरुधान्न-पात्र्या दिग्-वल्कलादौ सति किं दुकूलैः ।।३०७।। [भा.पु. २.२.४]

भूतैर् आक्र्मयमाणोऽपि धीरो दैव-वशानुगैः ।
तद्-विद्वान् न चलेन् मार्गाद् अन्वशिक्षं क्षितेर् व्रतम् ।।३०८।। [भा.पु. ११.७.३७]

प्राण-वृत्त्यैव सन्तुष्येन् मुनिर् नैवेन्द्रिय-प्रियैः ।
ज्ञानं यथा न नश्येत नावकीर्येत वाङ्-मनः ।।३०९।। [भा.पु. ११.७.३९]

गुणैर् गुणान् उपादत्ते यथा-कालं विमुञ्चति ।
न तेषु युज्यते योगी गोभिर् गा इव गो-पतिःच् ।।३१०।। [भा.पु. ११.७.५०]

नैषां मतिस् तावद् उरुक्रमाङ्घ्रिं स्पृशत्य् अनर्थापगमो यद्-अर्थः ।
महीयसां पाद-रजो-ऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ।।३११।। [भा.पु. ७.५.३२]

नवनीतोपमा वाणी करुणा-कोमलं मनः ।
धर्म-बीज-प्रसूतानाम् एतत् प्रत्यक्ष-लक्षणम् ।।३१२।। [सूक्ति १३०.२]

कोकिलानां स्वरो रूपं नारी-रूपं पतिव्रता ।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ।।३१३।।

किं जीवितेन धन-मान-विवर्जितेन मित्रेण किं भवति भीति-सशङ्कितेन ।
सिंह-व्रतं चरत गच्छत मा विषादं काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ।।३१४।।

तन् मङ्गलं यत्र मनः प्रसन्नं तज् जीवनं यन् न परस्य सेवा ।
तद् गर्जितं यत् स्वजनेन भुक्तं तद् वर्जितं यत् समरे रिपूणाम् ।।३१५।। [?]

वेदादि-शास्त्रम् अखिलं प्रपठन्तु लोकाः कुर्वन्तु नाम क्षिति-पाल-सेवाम् ।
उग्रं तपः प्रतिदिवं प्रतिसाधयन्तु न श्रीस् तथापि च भजत्य् अतिभाग्य-हीनम् ।।३१६।। [प.पु. ७.५.१५६]

त्यक्त्वालसान् दैव-परान् मनुष्यान् उत्थान-युक्तान् पुरुषाद् धि लक्ष्मीः ।
अन्विष्य यत्नाद् वृणुयान् नृपेन्द्र त्स्मात् सदोत्थानवता हि भाव्यम् ।।३१७।। [?]

नित्यं छेदस् तृणानां धरणि-विलिल्खनं पादयोश् चाप-मार्ष्टिर् दन्तानाम् अल्प-शौचं मलिन-वसनता रूक्षता मूर्धजानाम् ।
द्वैसन्ध्ये चापि निद्रा विवसन-शयनं ग्रास-हासातिरेकः स्वाङ्गे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्ष्मीम् ।।३१८।। [अष्टरत्न ३]

कुचैलिनं दन्तम् अलोप-धारिणं बह्व्-आशिनं निष्ठुर-भाषिणं च ।
सूर्योदये चास्तम् इते शयानं विमुञ्चति श्रीर् यदि चक्रपाणिः ।।३१९।। [बृ.चा. १५.४]

तद्-वीर्याद् अधिकं यस् तु पुनर् अन्यत् स्व-शक्तितः ।
निष्पादयति तं प्राज्ञाः प्रवदन्ति नरोत्तमम् ।।३२०।। [?]

भिक्षाशी जन-मध्य-सङ्ग-रहितः स्वायत्त-चेष्टः सदा दानादान-विरक्त-मार्ग-निरतः कश्चित् तपस्वी स्थितः ।
रथ्याकीर्ण-विशीर्ण-जीर्ण-वसनैर् आस्यूत-कन्थाधरो निर्मानो निरहङ्कृतिः शम-सुधा-भोगैक-बद्ध-स्पृहः ।।३२१।। [?]

रोहते सायकैर् विद्धं छिन्नं रोहति चासिना ।
वचो दुरुक्तं बीभत्सं न प्ररोहति वाक्-क्षतम् ।।३२२।। [पञ्च. ३.१११]

शय्या शैल-शिला-गृहं गिरि-गुहा वस्त्रं तरुणां त्वचः सारङ्गाः सुहृदो ननु क्षिति-रुहां वृत्तिः फलैः कोमलैः ।
येसां निर्झरम् अम्बु-पानम् उचितं रत्यै तु विद्याङ्गना मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवाञ्जलिः ।।३२३।। [वै.श. ८७]

स्वामिनि गुणान्तरज्ञे गुणवति भृत्येऽनुवर्तिनि कलये ।
सुहृदि निरन्तर-चित्ते निवेद्य दुःखं सुखी भवति ।।३२४।। [पञ्च. १.२२०]

ताम्बूलं कटु-तिक्त-मिश्र-मधुरं क्षारं कषायान्वितं वात-घ्नं कफ-नाशनं कृमि-हरं दौर्गन्ध्य-दोषापहम् ।
वक्त्रस्याभरणं मलापहरणं कामाग्नि-सन्दीपनं ताम्बूलस्य सखे त्रयोदश गुणाः स्वर्गेऽप्य् अमी दुर्लभाः ।।३२५।। [शा.प. १४१६]

यः पित्रा समुपात्तानि धन-वीर्य-यशांसि वै ।
न्यूनतां नयति प्राज्ञस् तम् आहुः पुरुषाधमम् ।।३२६।। [मार्क.पु. २१.९५]

भोगा भङ्गुर-वृत्तयो बहुविधास् तैर् एव चायं भवस् तत् कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः ।
आशा-पाश-शतापशान्ति-विशदं चेतः-समाधीयतां कामोत्पत्ति-वशात् स्वधामनि यदि श्रद्धेयम् अस्मद्-वचः ।।३२७।। [वै.श. ३९]

लज्जां गुणौघ-जननीं जननीम् इव स्वाम् अत्यन्त-शुद्ध-हृदयाम् अनुवर्तमानाः ।
तेजस्विनः सुखम् असून् अपि सन्त्यजन्ति सत्य-व्रत-व्यसनिनो न पुनः प्रतिज्ञाम् ।।३२८।। [भर्तृ.सं ३१८]

शीघ्र-कृत्येषु कार्येषु विलम्बयति यो नरः ।
तत् कृत्यं देवतास् तस्य कोपाद् विघ्नन्त्य् असंशयम् ।।३२९।। [पञ्च. ३.२१८]

आत्म-भाग्य-क्षत-द्रव्यः स्त्री-द्रव्येणानुकम्पितः ।
अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ।।३३०।। [?]

दक्षता भद्रता दार्ढ्यं क्षान्तिः क्लेश-सहिष्णुता ।
सन्तोषः शीलम् उत्साहो मण्डयन्त्य् अनुजीविनम् ।।३३१।।

यद् उपात्तं यशः पित्रा धनं वीर्यम् अथापि वा ।
तन् न हापयते यस् तु स नरो मध्यमः स्मृतः ।।३३२।।

राज्ञो विपद् बन्धु-वियोग-दुःखं देश-च्युतिर् दुर्गम-मार्ग-खेदः ।
आस्वाद्यतेऽस्याः कटु निष्फलायाः फलं मयैतच् चिर-जीवितायाः ।।३३४।। [दश-रूपक]

वीत-व्यसनम् अश्रान्तं महोत्साहं महा-मतिम् ।
प्रविशन्ति सदा लक्ष्म्यः सरित्पतिम् इवापगाः ।।३३५।।

स्थानम् उत्सृज्य गच्छन्ति सिंहाः सत्-पुरुषा गजाः ।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ।।३३६।।

के वा न सन्ति तामरसावतंसा हंसावली-वलयिनो जल-संनिवेशाः ।
किं चातकः फलम् अपेक्ष्य सवज्र-पातां पौरन्दरीम् उपगतो नव-वारिधाराम् ।।३३७।।

मानम् उद्वहतः पुंसो वरम् आपत्-पदे पदे ।
मान-हीनं सुरैह् सार्धं विमानम् अपि सन्त्यजेत् ।।३३८।। [भर्तृ.सं. ६४८]

पुनर् दाराः पुनर् वित्तं पुनर् क्षेत्रं पुनः पुनः ।
पुनः शुभाशुभं कर्म शरीरं न पुनः पुनः ।।३३९।। [बृ.चा. १४.३]

१०

रथः शरीरं पुरुषस्य राजन्न् आत्मा नियन्तेन्द्रियान्य् अस्य चाश्वाः ।
तैर् अप्रमत्तः कुशली सद्-अश्वैर् दान्तैः सुखं याति रथीव धीरः ।।३४०।। [म.भा. ५.३४.५७]

विधात्रा रचिता रेखा ललाटेऽक्षर-मालिका ।
न तां मार्जयितुं शक्तः स्व-बुद्ध्याप्य् अतिपण्डितः ।।३४१।। [पञ्च. २.१८०]

सत्यं जना वच्मि न पक्षपाताल् लोकेषु सर्वेषु च११ तथ्यम् एतत् ।
नान्यन् मनो-हारि नितम्बिनीभ्यो दुःखस्य हेतुर् न च कश्चिद् अन्यः ।।३४२।। [शृ.श. ४०]

एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच् छ्रयते मदः स च मदाद् दास्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र-स्पृहा- स्वातन्त्र्य-स्पृहया ततः स नृपतेः प्राणान् अभिद्रुह्यति ।।३४३।।

सत्यम् एव व्रतं यस्य दया दीनेषु सर्वथा ।
काम-क्रोधौ वशे यस्य तेन लोक-त्रयं जितम् ।।३४४।। [महानिर्वाणतन्त्र २१]

परं क्षिपति दोषेण वर्तमानः स्वयं तथा ।
यश् च क्रुध्यत्य् अनीशः सन् स च मूढतमो नरः ।।३४५।। [म.भा. ५.३३.३६]

धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्तं वरं त्यागो विनाशे नियते सति ।।३४६।।

संनियच्छति यो वेगम् उत्थितं क्रोधहर्षयोः ।
स श्रियो भाजनं राजन्यश् चापत्सु न मुह्यति ।।३४७।। [म.भा. ५.३७.४७]

परिचरितव्याः सन्तो यद्यपि कथयन्ति नो सद्-उपदेशम् ।
यास् तेषां स्वैर-कथास् ता एव भवन्ति शास्त्राणि ।।३४८।।

श्रीर् मङ्गलात् प्रभवति प्रागल्भ्यात् संप्रवर्धते ।
दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति ।।३४९।। [म.भा. ५.३५.४४]

पञ्चभिः सम्भृतः कायो यदि पञ्चत्वम् आगतः ।
कर्मभिः स्व-शरीरोत्थैस् तत्र का परिदेवना ।।३५०।। [हि. ४.७७]

१२

धन-हेतोर् य ईहते तस्यानीहा गरीयसी ।
भूयान् दोषो हि वित्तस्य यश् च धर्मस् तद्-आश्रयः ।।३५१।।

वाचां शौचं च मनसः शौचम् इन्द्रिय-निग्रहः ।
सर्व-भूत-दया-शौचम् एतच् छौचं परार्थिनाम् ।।३५२।। [बृ.चा. ७.२०]

हृष्यन्ति देवताः सर्वा गयन्ति ऋषयस् तथा ।
नृत्यन्ति पितरः सर्वे ह्य् अतिथौ गृहम् आगते ।।३५३।। [चा.नी.सा. ५१]

दुर्वृत्तं वा सुवृत्तं वा सर्व-पाप-रतं तथा ।
भर्तारं तारयत्य् एव भार्या धर्मेषु निष्ठिता ।।३५४।।

न भिक्षा दुष्प्रापा पथि मम महाराम-चरिते फलैः सम्पूर्णा भूर् अपि मृग-सुचर्मापि वसनम् ।
सुखैर् वा दुःखैर् वा सदृश-परिपाकः खलु सदा त्रिनेत्रं कस् त्यक्त्वा धन-लव-मदान्धं प्रणमति ।।३५५।। [भर्तृ.सं.]

यद्य् अपि भ्रातरः क्रुद्धा मार्या वा कारणान्तरे ।
स्वभावतस् ते प्रीयन्ते नेतरः प्रीयते जनः ।।३५६।। [म.भा. १२.१३६.१४७]

ललाट-देशे रुधिरं स्रवत् तु शूरस्य यस्य प्रविशेच् च वक्त्रे ।
तत् सोम-पानेन समं भवेच् च सङ्ग्राम-यज्ञे विधिवत् प्रदिष्टम् ।।३५७]

।। [पञ्च. १.३३४]

मीनः स्नान-परः फणी पवन-भुङ् मेषश् च पर्णाशनो गर्ते तिष्ठति मूषिकोऽपि विनिप्ने सिंहो बको ध्यानवान् ।
शश्वद् भ्राम्यति चक्रिगौः परिचरन् दैवः सदा देवलः किं तेषां फलं स्ति तेन तपसा तद् भाव-शुद्धिं कुरु ।।३५८।। [कविता. ६०]

बाहु-वीर्यं बलं राज्ञां ब्रह्मणो ब्राह्म-विद् बली ।
रूप-यौवन-माधुर्यं स्त्रीणां बलम् अनुत्तमम् ।।३५९।। [बृ.चा. ६.११]

नश्यतो युध्यतो वापि तावद् भवति जीवितम् ।
यावद् धातासृजत् पूर्वं न यावन् मनसेप्सितम् ।।३६०।। [मार्कण्डेय-पु. २.४९]

पतिर् भार्यां संप्रविश्य गर्भो भूत्वेह जायते ।
जायायास् तद् धि जायात्वं यद् अस्यां जायते पुनः ।।३६१।। [मनु. ९.८]

दग्धं दग्धं त्यजति न पुनः काञ्चनं कान्ति-वर्णं छिन्नं छिन्नं त्यजति न पुनः स्वादुता-भिक्षु-दण्डम् ।
घृष्टं घृष्टं त्यजति न पुनश् चन्दनं चारु-गन्धं प्राणान्तेऽपि प्रकृति-विकृतिर् जायते नोत्तमानाम् ।।३६२।। [म.ना. २६२]

नाल्पीयसि निबध्नन्ति पदम् उन्नत-चेतसः ।
येषां भुवन-लाभेऽपि निःसीमानो मनोरथाः ।।३६३।।

छादयित्वात्म-भावं हि चला हि शठ-बुद्धयः ।
प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान् भवेत् ।।३६४।। [प्र.भ. २३]

नात्यक्त्वा सुखम् आप्नोति नात्यक्त्वा विन्दते परम् ।
नात्यक्त्वा चाभयः शेते त्यक्त्वा सर्वं सुखी भव ।।३६५।। [म.भा. १२.१७०.२२]

तर्षच्-छेदो न भवति पुरुषस्येह कल्मषात् ।
निवर्तते तदा तर्षः पापम् अन्त-गतं यदा ।।३६६।। [?]

दिवसे सन्निधानेन पिशुन-प्रेरणा प्रभो ।
ईर्ष्यालुना स्वैरिणीव रक्षितुं यदि पार्यते ।।३६७।। [?]

कर्मणः फल-निर्वृत्तिं स्वयम् अश्नाति कारकः ।
प्रत्यक्षं दृश्यते लोके कृतस्याप्य् अकृतस्य च ।।३६८।। [?]

कं पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि ।
किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ।।३६९।। [?]

उर्वीपतेश् च स्फटिकाश्मनश् च शीलोज्झित-स्त्री-हृदस्य चान्तः ।
असंनिधानात् सतत-स्थितीनाम् अन्योपरागः कुरुते प्रवेशम् ।।३७०।।

आत्मोत्कर्षं न मार्गेत परेषां परिनिन्दया ।
स्व-गुणैर् एव मार्गेत विप्रकर्षं पृथग् जनात् ।।३७१।।

कृतिनोऽपि प्रतीक्ष्यन्ते सहायं कार्य-सिद्धये ।
चक्षुष्मान् अपि नालोकाद् विना वस्तु न पश्यति ।।३७२।।

किं देव-कार्याणि नराधिपस्य कृत्वा विरोधं विषय-स्थितानाम् ।
तद् देव-कार्यं जप-यज्ञ-होमा यस्याश्रु-पाता न पतन्ति राष्ट्रे ।।३७३।।

देयम् आर्तस्य शयनं स्थित-श्रान्तस्य चासनम् ।
तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ।।३७४।।

राजन् रजन्य् उपाध्यायो देवी यच् छिक्षयेद् रुहः ।
तत्र प्रजागरः कर्तुम् असर्वज्ञैर् न शक्यते ।।३७५।। [रा.त. ५.३१७]

किं ते धनैर् बान्धवैर् वापि किं ते किं ते दारैर् ब्राह्मण यो मरिष्यति ।
आत्मानम् अन्विच्छ गुहां प्रविष्टं पितामहस् ते क्व गतः पिता च ।।३७६।। [म.भा.१२.१६९.३६]

न व्याधयो नापि यमः श्रेयः प्राप्तिं प्रतीक्षते ।
यावद् एव भवेत् कल्पस् तावच् छ्रेयो समाचरेत् ।।३७७।। [म.भा. २.५१.९३]

न व्याधिर् न विषं तापस् तथान्यद् वापि भूतले ।
दुःखाय स्व-शरीरोत्थं मौर्ख्यम् एतद् यथा नृणाम् ।।३७८।। [यो.वा.सा. २.२७]

सुखाद् बहुतरं दुःखं जीविते नात्र संशयः ।
स्निग्धत्वं चेन्द्रियार्थेषु मोहान् मरणम् अप्रियम् ।।३७९।। [म.भा. १२.३१७.१६]

सामुद्रास् तिमयो नृपाश् च सदृशा एके हृतान् अम्भसः स्वस्माद् एव कणान्धनस्य जहतो जानन्ति ये दातृताम् ।
सर्वस्मात् स्फुट-लुण्ठिताद् वितरतो लेशान् किलान्येऽपि ये दुष्कायस्थ-कुलस्य हन्त कलयन्त्य् अन्तर्हिताधायिताम् ।।३८०।। [रा.त. ४.६२९]

सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च ।
पर्यायशः सर्वम् इह स्पृशन्ति तस्माद् धीरो नैव हृष्येन् न शोचेत् ।।३८१।। [म.भा. ५.३६.४५]

कृषिका रूप-नाशाय अर्थ-नाशाय वाजिनः ।
शालको गृह-नाशाय सर्व-नाशाय पावकः ।।३८२।। [?]

एको बहूनां मूर्खाणां मध्ये निपतितो बुधः ।
पद्मः पाथस् तरङ्गाणाम् इव विप्लवते ध्रुवम् ।।३८३।।

निजान् उत्पततः शत्रून् पञ्च पञ्च प्रयोजनान् ।
यो मोहान् न निघृह्णाति तम् आपद् ग्रसते नरम् ।।३८४।। [म.भा. ५.३४.६८]

ज्ञानं सतां मान-मदादि-नाशनं केषाञ्चिद् एतन् मद-मान-कारणम् ।
स्थानं विविक्तं यमिनां विमुक्तये कामातुराणाम् अतिकाम-कारणम् ।।३८५।।

तद् भोजनं यद् द्विज-भुक्त-शेषं तत् सौहृदं यत् क्रियते परस्मिन् ।
सा प्राज्ञता या न करोति पापं दम्भं विना यः क्रियते स धर्मः ।।३८६।। [बृ.चा. १५.८]

धर्मात् पैजवनो राजा चिराय बुभुजे भुवम् ।
अधर्माच् चैव नहुषः प्रतिपेदे रसातलम् ।।३८७।। [का.नी. १.१४]

दाता लघुर् अपि सेव्यो भवति न कृपणो महान् अपि समृद्ध्या ।
कूपोऽन्तः-स्वादु-जलः प्रीत्यै लोकस्य न समुद्रः ।।३८७*।। [पञ्च. २.७१]

कः स्वभाव-गभीराणां लक्षयेद् बहिर् आपदम् ।
बालापत्येन भृत्येन यदि सा न प्रकाश्यते ।।३८८।। [रा.त. १.२३०]

नास्ति धर्म-समो बन्धुर् नास्ति धर्म-समा क्रिया ।
नास्ति धर्म-समो देवः सत्यं सत्यं वदाम्य् अहम् ।।३८९।। [प्रसङ्गा. १२]

नास्ति सत्यात् परो धर्मो न सत्याद् विद्यते परम् ।
न हि तीव्रतरं किञ्चिद् अनृताद् इह विद्यते ।।३९०।। [म.भा. १.६९.२४]

एष ते विद्रुम-च्छायो मरु-मार्ग इवाधरः ।
कस्य नो तनुते तन्वि पिपासाकुलितं मनः ।।३९१।। [कुव. १६७]

नावज्ञया१३ न दातव्यं कस्यचिल् लीलयापि वा ।
अवज्ञया कृतं हन्याद् दातारं नात्र संशयः ।।३९२।। [रा. १.१२.३१]

एकीभूय स्फुटम् इव किम् अप्य् आचरद्भिः प्रलीनैर् एभिर् भूतैः स्मर कति कृताः स्वान्त ते विप्रलम्भाः ।
तस्माद् एषां त्यज परिचयं चिन्तय स्व-व्यवस्थाम् आभाषस् ते किम् उ न विदितः खण्डितः पण्डितः स्यात् ।।३९३।। [शान्ति. ३.८१]

नाश्रमः कारणं धर्मे क्रियमाणो भवेद् धि सः ।
अतो यद् आत्मनोऽपथ्यं परेषां न तद् आचरेत् ।।३९४।। [?]

जलाहतौ विशेषेण वैद्युताग्नेर् इव द्युतिः ।
आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ।।३९५।। [कथा.स. १२.४१]

नाभूति काले च फलं ददाति शिल्पं न मन्त्राश् च तथौषधानि ।
तान्य् एव कालेन समाहितानि सिध्यन्ति चेध्यन्ति च भूत-काले ।।३९६।। [म.भा. १२.२६०.७]

देशकालविहीनानि कर्माणि विपरीतवत् ।
क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ।।३९७।। [रा. ६.६३.६]

ऐश्वर्य-मद-पापिष्ठा मदाः पान-मदादयः ।
ऐश्वर्य-मद-मत्तो हि नापतित्वा विबुध्यते ।।३९८।। [म.भा. ५.३४.५१]

कुलोद्गतं सत्यम् उदार-विक्रमं स्थिरं कृतज्ञं धृतिमन्तम् ऊर्जितम् ।
अतीव दातारम् उपेत-वत्सलं सुदुष्प्रसाध्यं प्रवदन्ति विद्विषाम् ।।३९९।। [का.नी. १०.३८]

ऐश्वर्यात् सह सम्बन्धं न कुर्याच् च कदाचन ।
गते च गौरवं नास्ति आगते च धन-क्षयः ।।४००।।

कन्या वरयते रूपं माता वित्तं पिता श्रुतम् ।
बान्धवाः कुलम् इच्छन्ति मिष्टान्नम् इतरे जनाः ।।४०१।। [नैषधीय १०.१?]

नारभेत् पर-सामर्थ्यात् पुरुषः कार्यम् आत्मनः ।
मति-साम्यं द्वयोर् नास्ति कार्येषु कुरु-नन्दन ।।४०२।। [म.भा. २.५१.७]

एष स्वभावो नारीणाम् अनुभूय पुरा सुखम् ।
अल्पाम् अप्य् आपदं प्राप्य दुष्यन्ति प्रजहत्य् अपि ।।४०३।।

धनेन वाससा प्रेम्णा श्रद्धयामृत-भाषणैः ।
सततं तोषयेद् दारान् नाप्रियं क्वचिद् आचरेत् ।।४०४।। [दं.श. ४४]

का ते कान्ता कस् ते पुत्रः सम्सारोऽयम् अतीव-विचित्रः ।
कस्य त्वं कः कुत आयातः तत्त्वं चिन्तय तद् इह भारत ।।४०५।। [मोह-मुद्गर ८]

ते चापि निपुना वैद्याः कुशलाः संभृतौषधाः ।
व्याधिभिः परिकृष्यन्ते मृगा व्याधैर् इवार्दिताः ।।४०६।। [म.भा. १२.३१८.३१]

काले सहिष्णुर् गिरिवद् असहिष्णुश् च वह्निवत् ।
स्कन्धेनापि वहेच् छत्रून् प्रियाणि समुदाहरन् ।।४०७।। [का.नी. १०.३६]

ऐन्दवाद् अर्चिषः कामी शिशिरं हव्य-वाहनम् ।
अबला-विरह-क्लेश-विह्वलो गणयत्य्-अयम् ।।४०८।।

पुनर् वित्तं पुनर् मित्रं पुनर् भार्या पुनर् मही ।
एतत् सर्वं पुनर् लभ्यं न शरीरं पुनः पुनः ।।४०९।। [बृ.चा. १४.३]

कश्चिद् आम्र-वणं छित्त्वा पलाशांश् च निपिञ्चति ।
पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ।।४१०।। [रा. २.५७.६]

देवो राजा गुरुर् भार्या वैद्य-नक्षत्र-पाठकाः ।
रिक्त-हस्ता न गच्छन्ति गते कार्यं न सिध्यति ।।४११।। [?]

त्वन्-मुखं कमलं चेति द्वयोर् अप्य् अनयोर् भिदा ।
कमलं जल-संरोहि त्वन्-मुखं त्वद्-उपाश्रयम् ।।४१२।। [काव्या. २.१९०]

परोऽप्य् अपत्यं हित-कृद् यथौषधं स्व-देहजोऽप्य् आमयवत् सुतोऽहितः ।
छिन्द्यात् तद् अङ्गं यद् उतात्मनोऽहितं शेषं सुखं जीवति यद्-विवर्जनात् ।।४१३।। [भा.पु. ७.५.३७]

कः श्रद्धास्यति भूतार्थं सर्वो मां तुलयिष्यति ।
शङ्कनीया हि लोकेऽस्मिन् निष्प्रतापा दरिद्रता ।।४१४।। [मृच्छकटिका ५.३४]

पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः ।
पश्चाद् गङ्गां निषेवन्ते तेऽपि यान्त्य् उत्तमां गतिम् ।।४१५।। [म.भा. १३.२७.२९]

तरुणिम-समारम्भे तस्याः शरीर-सरोवरं सरभस-मनो-हंस श्रीमन् प्रयासि कथं पुनः ।
श्रवण-लतिका-पाशौ पार्श्वे प्रसारित-पातितौ हत-विधि-वशाद् बन्धायान्धो न पश्यति किं भवान् ।।४१६।। [नीति.सं. ७७]

पीतः क्रुद्धेन तातश् चरण-तल-हतो वल्लभो येन रोषाद् आबाल्याद् विप्र-वर्यैः स्व-वदन-विवरे धार्यते वैरिणी मे ।
गेहं मे छेदयन्ति पर्तिदिवसम् उमाकान्त-पूजा-निमित्तं तस्मात् खिन्ना सदाहं द्विज-कुल-निलयं नाथ युक्तं त्यजामि ।।४१७।। [बृ.चा. १५.१६]

दूर्वाया भूषणं पत्रं वृक्षाणां भूषणं सुमम् ।
स्व-वृत्तिर् भूषणं पुंसां नारीणां भूषणं पतिः ।।४१८।। [चा. २४]

कृत-वैरे न विश्वासः कार्यस् त्व् इह सुहृद्य् अपि ।
छन्नं सन्तिष्ठते वैरं गूढोऽग्निर् इव दारुषु ।।४१९।। [?]

द्विजाति-पूजाभिरतो दाता ज्ञातिषु चार्जवी ।
क्षत्रियः स्वर्ग-भाग् राजंश् चिरं पालयते महीम् ।।४२०।। [म.भा. ५.३५.६३]

धन-हीनो न हीनश् च धनिकः स सुनिश्चयः ।
विद्या-रत्नेन हीनो यः स हीनः सर्व-वस्तुषु ।।४२१।। [बृ.चा. १०.१]

पर-काव्येन कवयः पर-द्रव्येण चेश्वराः ।
निर्लोठितेन स्व-कृतिं पुष्णन्त्य् अद्यतने क्षणे ।।४२२।। [रा.त. ५.१५९]

धन-नाशेऽधिकं दुःखं मन्ये सर्व-महत्तरम् ।
ज्ञातयो ह्य् अवमन्यन्ते मित्राणि च धन-च्युतम् ।।४२३।। [म.भा. १२.१७१.३४]

तीर्थ-सेवन-मौन-भाग् अपि तिमिः सक्तः स्व-कुल्याशने वाताशान् ग्रसते शिखी धन-पयो-मात्राशनोऽप्य् अन्वहम् ।
विश्वस्ताञ्जल-चारिणः प्रकटित-ध्यानोऽपि भुङ्क्ते बकः सत्-कर्माचरणेऽपि दोष-विकृतौ न प्रत्ययः पापिनाम् ।।४२४।। [रा.त. ६.३०९]

कृत-विद्योऽपि बलिना व्यक्तं रागेण रज्यते ।
रागानुरक्त-चित्तस् तु किं न कुर्याद् असाम्प्रतम् ।।४२५।। [का.नी. ४.४६]

त्वया नीलोत्पलं कर्णेत् स्मरेणास्त्रं शरासवे ।
मयापि मरणे चेतस् त्रयम् एतत् समं कृतम् ।।४२६।। [काव्या. २.१०६]

धन-क्षयः शिष्ट-गर्हा ।।४२७।। [प्र.भ. १७]

त्रास-हेतोर् विनीतिस् तु क्रियते जीविताशया ।
पञ्चत्वं चेद् गमिष्यामि किं सिंहानुनयेन मे ।।४२८।। [हि. २.१२३]

निर्दहति कुल-शेषं ।।४२९।। [प्रसङ्गा. ८२]

पयोमुचः परीतापं ।।४३०।। [काव्या. २.१७३]

त्यजेद् धर्मं दया-हीनं विद्या-हीनं गुरुं त्यजेत् ।
त्यजेत् क्रोध-मुखीं भार्यां निःस्नेहान् बान्धवांस् त्यजेत् ।।४३१।। [बृ.चा. ४.१६]

त्यजेत संचयांस् तस्मात् तज्जं क्लेशं सहेत कः ।
न हि संचयवान् कश्चिद् दृश्यते निरुपद्रवः ।।४३२।। [म.भा. ३.२.४६]

नौका च खल-जिह्वा ।।४३३।। [शा.प. दुर्जन. १८]

तलवद् दृश्यते व्योम खद्योतो हव्यवाड् इव ।
न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः ।।४३४।। [म.भा. १२.११२.६२]

नोपभोगो न वा दानं ।।४३५।। [काव्या. २.३२६]

द्वाव् एव कथितौ सद्भिः पन्थानौ वदतां वर ।
अहिंसा चैव सत्यं च यत्र धर्मः प्रतिष्ठितः ।।४३६।। [रा. २.६१.१७]

त्यजेद् धर्मं दया-हीनं विद्या-हीनं गुरुं त्यजेत् ।
त्यजेत् क्रोध-मुखीं भार्यां निःस्नेहान् बान्धवांस् त्यजेत् ।।४३७।। [बृ.चा. ४.१६]

निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम् ।
असिद्धस्य हता विद्या ह्य् अभोगेन हतं धनम् ।।४३८।। [बृ.चा. ८.१६]

दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता ।
नित्यं स्वेभ्यः परेभ्यश् च तृप्ता माता यथा पयः ।।४३९।। [म.भा. १२.७२.१९]

मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्य् अमितं कर्म कृत्वा ।
ददात्य् अमित्रेष्व् अपि याचितः संस् तम् आत्मवन्तं प्रजहात्य् अनर्थाः ।।४४०।। [म.भा. ५.३३.९९]

यत्र सूक्तं दुरुक्तं च समं स्यान् मधुसूदन ।
न तत्र प्रलपेत् प्राज्ञो बधिरेष्व् इव गायनः ।।४४१।। [म.भा. ५.९०.१२]

भिषजो भेषजं कर्तुं कस्माद् इच्छन्ति रोगिणे ।
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ।।४४२।। [म.भा. १२.१३७.५२]

मूर्खस् तु प्रहर्तव्यः प्रत्यक्षो द्विपदः पशुः ।
भिद्यते वाक्य-शल्येन अदृशं कण्टकं यथा ।।४४३।। [बृ.चा. ३.७]

यत्रोदकं तत्र वसन्ति हंसास् तथैव शुष्कं परिवर्जयन्ति ।
न हंस-तुल्येन नरेण भाव्यं पुनस् त्यजन्तः पुनर् आश्रयन्ते ।।४४४।। [बृ.चा. ७.१३]

भूतानाम् अपरः कश्चिद् धिंसायां सततोत्थितः ।
वञ्चनायां च लोकस्य स सुखेनेह जीवति ।।४४५।। [म.भा. ३.२००.१०]

मृत्योर् वा गृहम् एवैतद् या ग्रामे वसतो रतिः ।
देवामाम् एष वै गोष्ठो यद् अरण्यम् इति श्रुतिः ।।४४६।। [म.भा. १२.१६९.२३]

यः सर्व-कालम् अबुधैः परिहस्यमानो मूलाङ्कुराद्य् अपि न जातु पुरस्करोति ।
व्यापत्सु शास्त्र-विटपी स फलं प्रसूय पुंसः किलैक-पद एव लुनात्य् अलक्ष्मीम् ।।४४७।। [रा.त. ४.५२९]

भैषज्यम् एतद् दुःखस्य यद् एतन् नानुचिन्तयेत् ।
चिन्त्यात्मानं हि न व्येति भूयश् चापि विवर्धते ।।४४८।।१४ [म.भा. ११.२.१७]

पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् ।
माला कार इवारामे न यथाङ्गार कारकः ।।४४९।। [म.भा. ५.३४.१८]

भक्त-द्वेषो जडे प्रीतिः सुरुचिर् गुरु-लङ्घने ।
मुखे कटुकता नित्यं धनिनां ज्वरिणाम् इव ।।४५०।। [?]

यत् सङ्ग्रहो रत्न-महौषधीनां करोति सर्व-व्यसनावसानम् ।
त्यागेन तद् यस्य भवेन् नमोऽस्तु चित्र-प्रभावाय धनाय तस्मै ।।४५१।। [शा.प. २४२, रा.त. ६.२२७]

उपकारं करोम्य् अस्य ममाप्य् एष करिष्यति ।
अयं चापि प्रतीकारो राम-सुग्रीवयोर् इव ।।४५२।। [का.नी. ९.१०]

महाबलान् पश्य महानुभावान् प्रशास्य भूमिं धन-धान्य-पूर्णाम् ।
राज्यानि हित्वा विपुलांश् च भोगान् गतान् नरेन्द्रान् वशम् अन्तकस्य ।।४५३।। [म.भा. ५.४०.१३]

यथा खरश् चन्दन-भार-वाही भारस्य वेत्ता न तु चन्दनस्य ।
एवं हि शास्त्राणि बहून्य् अधीत्य चार्थेषु मूढाः खरवद् वहन्ति ।।४५४।। [सुश्रु. १.१३]

फेन-मात्रोपमे देहे जीवे शकुनिवत्-स्थिते ।
अनित्ये प्रिय-संवासे कथं स्वपिषि पुत्रक ।।४५५।।

यदा विनाशो भूतानां दृश्यते काल-चोदितः ।
तदा कार्ये प्रमाद्यन्ति नराः काल-वशं गताः ।।४५६।। [रा. ३.६२.२०]

प्रिया वा मधुरा वा तु स्वाम्य् एष्व् एव विराजते ।
श्री-रक्षणे प्रमाणं तु वाचः सुनय-कर्कशाः ।।४५७।।

महा-देवो देवः सरिद् अपि च सैवामर-सरिद् गुहा एवागारं वसनम् अपि ता एव हरितः ।
सुहृद् वा कालोऽयं व्रतम् इदम् अदैन्य-व्रतम् इदं कियद् वा वक्ष्यामो बट-विटप एवास्तु दयिता ।।४५८।। [भर्तृ.सं. २९९]

यथा तैलक्षयाद् दीपः प्रम्लानिम् उपगच्छति ।
तथा कर्म क्षयाद् दैवं प्रम्लानिम् उपगच्छति ।।४५९।। [म.भा १३.६.४४]

प्राप्य कार्यं गरीयस् तु प्रियम् उत्सृज्य दूरतः ।
हितम् एव हि वक्तव्यं सुहृदा मन्त्रिणा सदा ।।४६०।।

मत्या परीक्ष्य मेधावी बुद्ध्या सम्पद्य चासकृत् ।
श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर् मैत्रीं समाचरेत् ।।४६१।। [म.भा. ५.?]

यस्यां यस्याम् अवस्थायां यत् करोति शुभाशुभम् ।
तस्यां तस्याम् अवस्थायां तत् तत् फलम् उपाश्नुते ।।४६२।। [म.भा. ११.२.२३]

भर्तारं किल या नारी छायेवानुगता सदा ।
अनुगच्छति गच्छन्तं तिष्ठन्तं चानुतिष्ठति ।।४६३।। [रा. २.२९.२०]

महान्तम् अप्य् अर्थम् अधर्म-युक्तं यः संत्यजत्य् अनुपाक्रुष्ट एव ।
सुखं स दुःखान्य् अवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य ।।४६४।। [म.भा. ५.४०.२]

यस्य चित्तं द्रवीभूतं कृपया सर्व-जन्तुषु ।
तस्य ज्ञानेन मोक्षेण किं जटा-भस्म-लेपनैः ।।४६५।। [बृ.चा. १५.२]

मद-रक्तस्य हंसस्य कोकिलस्य शिखण्डिनः ।
हरन्ति न तथा वाचो यथा साधु-विपश्चिताम् ।।४६६।। [म.भा. ५.१४८४?]

प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा ।
सर्वः काल-वशं याति शुभाशुभ-समन्वितः ।।४६७।।

यदा शरीरस्य शरीरिणश् च पृथक्त्वम् एकान्तत एव भावि ।
आहार्य-योगेन वियुज्यमानः परेण को नाम भवेद् विषादी ।।४६८।। [शाकुं. ९४]

मधुरेण दृशां मानं मधुरेण सुगन्धिना ।
सहकारोद्गमेनैव शब्द-शेषं करिष्यति ।।४६९।। [काव्या. ३२०]

तद्-भाव-भाव-निरता तत्-संयोग-परायणा ।
तम् एव भूयो भर्तारं सा प्रेत्याप्य् अनुगच्छति ।।४७०।।

मूर्खश् चिरायुर् जातोऽपि तस्माज् जात-मृतो वरः ।
मृतः स चाल्प-दुःखाय यावज्-जीवं जडो दहेत् ।।४७१।। [बृ.चा. ४.६]

प्राकृतो हि प्रशंसन् वा निन्दित्वा किं करिष्यति ।
वने काक इवाबुद्धिर् वाशमानो निरर्थकम् ।।४७२।।

यस्मिन् यथा वर्तते यो मनुष्यस् तस्मिंस् तथा वर्तितव्यं स धर्मः ।
मायाचारो मायया वर्तितव्यः साध्व्-आचारः साधुना प्रत्युदेयः ।।४७३।। [म.भा. ५.३७.७]

मयास्योपकृतं पूर्वं ममाप्य् एष करिष्यति ।
इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ।।४७४।। [कामं. नीति. ९.१०]

युगान्ते प्रचलेन् मेरुः कल्पान्ते सप्त सागराः ।
साधवः प्रतिपन्नार्थान् न चलन्ति कदाचन ।।४७५।। [बृ.चा. १३.२१]

भवने सुहृदो यस्य समागच्छन्ति नित्यशः ।
चित्ते च तस्य सौख्यस्य न किञ्चित् प्रतिमं सुखम् ।।४७६।। [पञ्च. २.१७]

वणिक् प्रमादी भृतकश् च मानी भिक्षुर् विलासी ह्य् अधनश् च कामी ।
वराङ्गना चाप्रिय-वादिनी च न ते च कर्माणि समारभन्ते ।।४७७।। [शौनकी-नीति ११५]

यस्मिन् यदा पुष्कर-नाभ-मायया दुरन्तया स्पृष्ट-धियः पृथग्-दृशः ।
कुर्वन्ति तत्र ह्य् अनुकम्पया कृपां न साधवो दैव-बलात् कृते क्रमम् ।।४७८।। [भा.पु. ४.६.४८]

कान्ता-वियोगः स्वजनापमानं ऋणस्य शेषं कुनृपस्य� सेवा ।
दारिद्र्य-भावाद् विमुखं च मित्रं विनाग्निना पञ्च दहन्ति कायम् ।।४७९।।

यदा न योगोपचितासु चेतो मायासु मिद्धस्य विषज्जतेऽङ्ग ।
अनन्य-हेतुष्व् अथ मे गतिः स्याद् आत्यन्तिको यत्र न मृत्यु-हासः ।।४८०।।

गृहेश्वरी सद्-गुण-भूषितां शुभां पङ्ग्व्-अन्ध-योगेन पतिं समेताम् ।
न लालयेत् पूरयेन् नैव कामं स किं पुमान् न पुमान् मे मृतोऽस्ति ।।४८१।।

योषिद्-धिरण्याभरणाम्बरादि- द्रव्येषु माया-रचितेषु मूढः ।
प्रलोभितात्मा ह्य् उपभोग-बुद्ध्या पतङ्ग-वन् नश्यति नष्ट-दृष्टिः ।।४८२।। [भा.पु. ११.८.८]

एकान्त-शीलस्य दृढ-व्रतस्य सर्वेन्द्रिय-प्रीति-निवर्तकस्य ।
अध्यात्म-योगे गत-मानसस्य मोक्षो ध्रुवं नित्यम् अहिंसकस्य ।।४८३।।

न शब्द-शास्त्रेण निरतस्य मोक्षो न वर्ण-सङ्गे निरतस्य चैव ।
न भोजनाच्छादन-तत्-परस्य न लोक-चित्त-ग्रहणे रतस्य ।।४८४।। [पद्म.सृ. १९]

बालातपः प्रेत-धूमः स्त्री वृद्धा तरुणं दधि ।
आयुष्कामो न सेवेत तथा संमार्जनी रजः ।।४८५।। [गरुड.पु. १०८]

नाश्नन्ति पितरो देवाः क्षुद्रस्य वृषलीपतेः ।
मा . . . . नाश्नन्ति यस्य चोपपतिर् गृहे ।।४८६।। [गरुड.पु. १०८]

सङ्गं त्यजेत मिथुन-व्रतिनां मुमुक्षुः सर्वात्मना न विसृजेद् बहिर् इन्द्रियाणि ।
एकश् चरन् रहसि चित्तम् अनन्त ईशे युञ्जीत तद् व्रतिषु साधुषु चेत् प्रसङ्गः ।।४८७।। [शौनकी ३०]

धर्मः प्रव्रजितस् तपः प्रचलितं सत्यं च दूरं गतं पृथ्वी बन्ध्य-फला जनाः कपटिनो लौल्ये स्थिता ब्राह्मणाः ।
मर्त्याः स्त्री-वश-गाः स्त्रियश् च चपला नीचा जना उन्नता हा कष्टं खलु जीवितं कलि-युगे धन्या जना ये स्मृताः ।।४८८।। [गरुड.पु. ११५]

यस्मिन् यदा पुष्कर-नाभ-मायया दुरन्तया स्पृष्ट-धियः पृथग्-दृशः ।
कुर्वन्ति तत्र ह्य् अनुकम्पया कृपां न साधवो दैव-बलात् कृते क्रमम् ।।४८९।। [भा.पु. ४.६.४८]

यो धर्म-शीलो जित-मान-रोषो विद्या-विनीतो न परोपतापी ।
स्व-दार-तुष्टः परद्-दार-वर्जितो न तस्य लोके भवम् अस्ति किञ्चित् ।।४९०।। [प.पु. १.२२४]

अतः कविर् नामसु यावद् अर्थः स्याद् अप्रमत्तो व्यवसाय-बुद्धिः ।
सिद्धेऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाणः ।।४९१।। [भा.पु. २.२.३]

भयं प्रमत्तस्य वनेष्व् अपि स्याद् यतः स आस्ते सह-षट्-सपत्नः ।
जितेन्द्रियस्यात्म-रतेर् बुधस्य गृहाश्रमः किं नु करोत्य् अवद्यम् ।।४९२।। [भा.पु. ५.१.१७]

यत्र नार्यस् तु पूज्यन्ते रमन्ते तत्र देवताः ।
यत्रैतास् तु न पूज्यन्ते सर्वास् तत्राफलाः क्रियाः ।।४९३।। [म.भा. १३.२८८८?]

पुनर् वित्तं पुनर् मित्रं पुनर् भार्या पुनर् मही ।
एतत् सर्वं पुनर् लभ्यं न शरीरं पुनः पुनः ।।४९४।। [बृ.चा. १४.४]

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।
कृतम् एवास्य जानन्ति स वै पण्डित उच्यते ।।४९५।। [म.भा. ५.३३.१८]

ममत्वं हि न कर्तव्यम् ऐश्वर्ये वा धनेऽपि वा ।
पूर्वावासं हरन्त्य् अन्ये राज-धर्मं हि तं विदुः ।।४९६।। [म.भा. २.?]

प्रज्ञावांस् त्व् एव पुरुषः संयुक्तः परया धिया ।
उदयास्तमयज्ञो हि न शोचति न हृष्यति ।।४९७।। [म.भा. ३.२४५.१४]

यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी ।
विभवे यश् च सन्तुष्टस् तस्य स्वर्ग इहैव हि ।।४९८।। [प्र. १४]

भोक्तुं पुरुषकारेण दुष्ट-स्त्रियम् इव श्रियम् ।
व्यवसायं सदैवेच्छेन् न हि क्लीबवद् आचरेत् ।।४९९।। [का.नी. १३.१०]

मार्दवं सर्व-भूतानाम् अनसूया क्षमा धृतिः ।
आयुष्याणि बुधाः प्राहुर् मित्राणां चाविमानना ।।५००।। [म.भा. ५.३९.३९]

पुन्-नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः ।
तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयम्भुवा ।।५०१।। [म.भा. १.६८.३८]

यस्य भार्या गृहे नास्ति साध्वी च प्रिय-वादिनी ।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम् ।।५०२।। [म.भा. १२.५५०९?]

भस्मना शुद्ध्यते कास्यं ताम्रम् अम्लेन शुद्ध्यति ।
रजसा शुद्ध्यते नारी नदी वेगेन शुद्ध्यति ।।५०३।। [बृ.चा. ६.३]

मा वनं छिन्धि स व्याघ्रं मा व्याघ्रान् नीनशो वनात् ।
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् ।।५०४।। [म.भा. ५.२९.४८]

यत् क्रोधनो यजते यद् ददाति यद् वा तपस् तप्यति यज् जुहोति ।
वैवस्वतस् तद् धरतेऽस्य सर्वं मोघः श्रमो भवति क्रोधनस्य ।।५०५।। [म.भा. १२.२८८.२७]

पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च ।
न तेषु निवसेत् प्राज्ञः श्रेयोऽर्थी पाप-बुद्धिषु ।।५०६।।

भार्या मूलं गृहस्थस्य भार्या मूलं सुतस्य च ।
भार्या धर्म-फलावाप्त्यै भार्या सन्तान-हेतवे ।।५०७।।

ये त्व् एनम् अभिजानन्ति वृत्तेनाभिजनेन च ।
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ।।५०८।। [म.भा. १.७४.११]

वध्यन्ते न ह विश्वस्ताः शत्रुभिर् दुर्बला अपि ।
विश्वस्तास् तेषु वध्यन्ते बलवन्तोऽपि दुर्बलैः ।।५०९।। [?]

पुरतः कृच्छ्र-कालस्य धीमान् जागर्ति पूरुषः ।
स कृच्छ्र-कालं सम्प्राप्य व्यथां नैवैति कर्हिचित् ।।५१०।।

बन्धनानि खलु सन्ति बहूनि प्रेम-रज्जु-कृत-बन्धनम् अन्यत् ।
दारु-भेद-निपुणोऽपि षड्-अङ्घ्रिर् निष्क्रियो भवति पङ्कज-कोशे ।।५११।। [बृ.चा. १५.१७]

यस् तु कृच्छ्रम् असम्प्राप्तं विचेता नावबुध्यते ।
स कृच्छ्र-काले व्यथितो न प्रजानाति किंचन ।।५१२।। [म.भा. १.२२३.२]

ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च ।
वृन्दाद् इव फलं पक्वं धृतराष्ट्र पतन्ति ते ।।५१३।।

यत् तु सम्यग् उपक्रान्तं कार्यम् एति विपर्ययम् ।
पुमांस् तत्रानुपालभ्यो दैवान्तरित-पौरुषः ।।५१४।। [का.नी. ११.३९]

पुष्पे गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम् ।
इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ।।५१५।। [बृ.चा. ७.२१]

मुखं पद्म-दलाकारं वाक्यं चन्दन-शीतलम् ।
हृदयं वह्नि-सदृशं त्रिविधं धूर्त-लक्षणम् ।।५१६।। [चा.नी.सा. ७१]

भार्यां पतिः सम्प्रविश्य स यस्माज् जायते पुनः ।
जायाया इति जायात्वं पुराणाः कवयो विदुः ।।५१७।। [म.भा. १.६८.३६]

पुस्तक-प्रत्ययाधीतं नाधीतं गुरु-सन्निधौ ।
सभा-मध्ये न शोभन्ते जार-गर्भा इव स्त्रियः ।।५१८।। [बृ.चा. १७.१]

यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम् ।
स्नेह-मूलानि दुःखानि तानि त्यक्त्वा वसेत् सुखम् ।।५१९।। [बृ.चा. १३.५]

ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा ।
अमात्यं नृपतिर् वेद राजा राजानम् एव च ।।५२०।। [म.भा. ५.३८.२५]

यस्य स्त्रीषु रतेः शक्तिर् जीर्ण-शक्तिश् च भोजने ।
देहेऽधिक-बला शकित्स् तस्यारोग्यं प्रचक्षते ।।५२१।। [प्र. १३]

प्रकीर्ण-विषयारण्ये धावन्तं विप्रमाथिनम् ।
ज्ञानाङ्कुशेन कुर्वीत वाच्यम् इन्द्रिय-दन्तिनम् ।।५२२।। [का.नी. १.२५]

प्रकुप्यत्य् अप्रतीकार्थे स्व-तेजस्-तप्त-चेतसाम् ।
शरणं मरणं त्यक्त्वा किम् इवान्यद् यशोऽर्थिनाम् ।।५२३।। [रा.त. ६.२७८]

सज्जमानम् अकार्येषु सुहृदो वारयन्ति ते ।
सत्यं ते नैव सुहृदो गुरवो गुरवो हि ते ।।५२४।। [का.नी. ४.४५]

फलं कतक-वृक्षस्य यद्य् अप्य् अम्बु-प्रसादकम् ।
न नाम-ग्रहणाद् एव तस्य वारि प्रसीदति ।।५२५।। [मनु. ६.६७]

प्राप्ते भार्ये परित्राणं प्रीति-विश्रम्भ-भाजनम् ।
केन रत्नम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयम् ।।५२६।। [पञ्च. २.१९०]

सत्यं वक्तुम् अशेषम् अस्ति सुलभा वाणी मनो-हारिणी दातुं दान-वरं शरण्यम् अभयं स्वच्छं पितृभ्यो जलम् ।
पूजार्थं परमेश्वरस्य विमलः स्वाध्याय-यज्ञः परम् क्षुद्-व्याधेः पूर्व-मूलम् अस्ति शमनं क्लेशात्मकिः किं धनैः ।।५२७।। [शान्ति-श. ४.५]

फलतीह पूर्व-सुकृतं विद्यावन्तोऽपि कुल-समुद्भूताः ।
यस्य यदा विभवः स्यात् तस्य तदा दासतां यान्ति ।।५२८।। [पञ्च. ५.८]

सर्व-नाशे च सञ्जाते प्राणानाम् अपि संशये ।
अपि शत्रुं प्रणम्यापि रक्षेत् प्राणान्धनानि च ।।५२९।। [पञ्च. ४.२२]

प्रमाणाभ्यधिकस्यापि गण्ड-श्याम-मद-च्युतेः ।
पदं मूर्ध्नि समाधत्ते केसरी मत्त-दन्तिनः ।।५३०।। [पञ्च. १.३१८१६]

सञ्चये च विनाशान्ते मरणान्ते च जीविते ।
संयोगे विप्रयोगान्ते को नु विप्रणयेन् मनः ।।५३१।। [म.भा. १२.१०५.४४]

प्राप्त-विद्यार्थ-शिल्पानां देशान्तर-निवासिनाम् ।
क्रोश-मात्रोऽपि भू-भागः शत-योजनवद् भवेत् ।।५३२।। [पञ्च. १.४३२]

सतां मतम् अतिक्रम्य योऽसतां वर्तते मते ।
कालेन व्यसनं प्राप्य पश्चात्तापं स गच्छति ।।५३३।। [म.भा. ३.४१४७?]

पृथिवी रत्न-सम्पूर्णा हिरण्यं पशवः स्त्रियः ।
नालम् एकस्य तत् सर्वम् इति मत्वा शमं व्रजेत् ।।५३४।। [म.भा. १.३१७५?]

व्यथयन्ति परं चेतो मनोरथ-शतैर् जनाः ।
नानुष्ठानैर् धनैर् हीनाः कुलजाः विधवा इव ।।५३५।। [पञ्च. २.१०१]

बोद्धारो मत्सर-ग्रस्ताः प्रभवः स्मय-दूषिताः ।
अबोधोपहताः चान्ये जीर्णम् अङ्गे सुभाषितम् ।।५३६।। [नी.श. २]

विपुलम् अपि धनौघं प्राप्य भोगान् स्त्रियो वा पुरुष इह न शक्तः कर्म हीनोऽपि भोक्तुम् ।
सुनिहितम् अपि चार्थं दैवतै रक्ष्यमाणं व्यय-गुणम् अपि साधुं कर्मणा संश्रयन्ते ।।५३७।। [म.भा. १३.६.४५]

फलं धर्मस्य विभवो विभवस्य फलं सुखम् ।
सुख-मूलं तु तन्वङ्ग्यो विना ताभिः कुतः सुखम् ।।५३८।। [शुक. ४०]

वणिग् आलोक्य निजे हृदि सोत्साहं परिचित-ग्रहीतारम् ।
हृष्यति तद्-धन-लुब्धो यद्वत् पुत्रेण जातेन ।।५३९।। [?]

बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः ।
कथञ्चिन् न विलीयन्ते विद्वद्भिश् चिन्तिता नयाः ।।५४०।। [पञ्च. ३.७५]

श्यामा प्रिया केशव एव देवो मानो धनं मन्मथ एव धन्वी ।
वाणी सखी वारण एव यानं कालो वसन्तः कवितैव विद्या ।।५४१।। [प्र. ११]

बुभुक्षितः किं न करोति पापं क्षीणा जना निष्करुणा भवन्ति ।
आख्याहि भद्रे प्रिय-दर्शनस्य न गङ्गदत्तः पुनर् एति कूपम् ।।५४२।। [पञ्च. ४.१६]

प्रायेण श्रीमतां लोके भोक्तुं शक्तिर् न विद्यते ।
दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते ।।५४३।। [म.भा. ५.३४.४९]

शत्रुणा� योजयेच् छत्रुं बलिना बलवत्तरम् ।
स्व-कार्याय यतो न स्यात् काचित् पीडात्र तत्-क्षये ।।१८।। [पञ्च. ४.१८]

प्रायः कन्दुक-पातेनोत्पतत्य् आर्यः पतन्न् अपि ।
तथा त्व् अनार्यः पतति मृत्-पिण्ड-पतनं यथा ।।५४५।।

बहूनाम् अप्य् असाराणां समवायो बलावहः ।
तृणैर् आवेष्ट्यते रज्जुस् तया नागोऽपि बध्यते ।।५४६।। [सु. २७४२]

वैषम्यम् अपि संप्राप्ता गोपायन्ति कुल-स्त्रियः ।
आत्मानम् आत्मना सत्यो जित-स्वर्गा न संशयः ।।५४७।। [म.भा. ३.६८.८]

प्रारभ्यते न खलु विघ्न-भयेन नीचैः प्रारभ्य विघ्न-विहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनर् अपि प्रतिहन्यमानाः प्रारब्धम् उत्तम-जना न परित्यजन्ति ।।५४८।।

शक्याशक्यम् अविज्ञाय यस् त्व् असाध्ये प्रवर्तते ।
स केवलम् अवाप्नोति निज-जीवित-संक्षयम् ।।५४९।। [सं.पा. ४२]

प्रणयाद् उपकाराद् वा यो विश्वसिति शत्रुषु ।
स सुप्त इव वृक्षाग्रात् पतितः प्रतिबुध्यते ।।५५०।। [हि. ४.१०]

विप्रो वृक्षस् तस्य मूलं च सन्ध्या वेदः शाखा धर्म-कर्माणि पत्रम् ।
तस्मान् मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव शाखा न पत्रम् ।।५५१।। [बृ.चा. १०.१३]

शक्ष्यामि कर्तुम् इदम् अल्पम् अयत्न-साध्यम् अनादरः क इति कृत्यम् उपेक्षमाणाः ।
केचित् प्रमत्त-मनसः परिताप-दुःखम् आपत्-प्रसङ्ग-सुलभं पुरुषाः प्रयान्ति ।।५५२।। [पञ्च. ३.२५१]

विश्राम्यन्ति महात्मानो यत्र कल्प-तराव् इव ।
स श्लाघ्यं जीवति श्रीमान् सत्-सम्भोग-फलाः श्रियः ।।५५३।। [का.नी. ५.७२]

सञ्चिन्त्य सञ्चिन्त्य तम् उग्र-दण्डं मृत्युं मनुष्यस्य विचक्षणस्य ।
वर्षाम्बु-सिक्ता इव चर्म-बन्धाः सर्वे प्रयत्नाः शिथिलीभवन्ति ।।५५४।। [भोज.प्र. ९०]

प्रविष्टः सर्व-भूतानि यथा चरति मारुतः ।
चारेणैवं चरेद् राजा स्मृतं तन् मारुतं व्रतम् ।।५५५।। [राम. २.१२२.२०]

विहितस्याननुष्ठानान् निन्दितस्य च सेवनात् ।
अनिग्रहाच् चेन्द्रियाणां नरः पतनम् ऋच्छति ।।५५६।। [याज्ञ. ३.२१९]

शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा ।
गरुडानिलयोः शैघ्र्यम् अनुगच्छन्ति योषितः ।।५५७।। [रा. ३.१३.६]

व्यञ्जनं हन्ति वै पूर्वं चैव पयोधरौ ।
रतिर् इष्टांस् तथा लोकान् हन्याच् च पितरं रजः ।।५५८।। [पञ्च. ३.२०४?]

प्लवन्ते धर्म-लघवो लोकेऽम्भसि यथा प्लवाः ।
मज्जन्ति पाप-गुरवः शस्त्रं स्कन्नम् इवोदके ।।५५९।। [म.भा. १३.१.१५]

सर्वेषाम् एव शौचानाम् अर्थशौचं परं स्मृतम् ।
योऽर्थे शुचिर् हि स शुचिर् न मृत्-वारि-शुचिः शुचिः ।।५६०।। [मनु. ५.१०६]

शठस् तु समयं प्राप्य नोपाकारं हि मन्यते ।
वरं तम् उपकर्तारं दोष-दृष्ट्या च दूषयेत् ।।५६१।। [सं. पाठोप. ४७]

सुखं ह्य् अवमतः शेते सुखं च प्रतिबुध्यते ।
सुखं चरति लोकेऽस्मिन्न् अवमन्ता विनश्यति ।।५६२।। [मनु. २.१६३]

प्रयाति� शमनं यस्य तेजस् तेजस्वि-तेजसाम् ।
वृथा जातेन किं तेन मातुर् यौवन-हारिणा ।।५६३।। [पञ्च. ३.३२]

।।५६४।।

विकारं याति नो चित्तं वित्ते यस्य कदाचन ।
मित्रं स्यात् सर्व-काले च कारयेन् मित्रम् उत्तमम् ।।५६५।। [पञ्च. २.११४]

।।५६६।।

विपुलम् अपि धनौघं प्राप्य भोगान् स्त्रियो वा पुरुष इह न शक्तः कर्म हीनोऽपि भोक्तुम् ।
सुनिहितम् अपि चार्थं दैवतै रक्ष्यमाणं व्ययगुणम् अपि साधुं कर्मणा संश्रयन्ते ।।५६७।। [म.भा. १३.६.४५]

योऽभ्यर्थितः सद्भिर् असज्जमानः करोत्य् अर्थं शक्तिम् अहापयित्वा ।
क्षिप्रं यशस् तं समुपैति सन्तम् अलं प्रसन्ना हि सुखाय सन्तः ।।५६८।। [म.भा. ५.४०.१]

षण्णाम् आत्मनि युक्तानाम् इन्द्रियाणां प्रमाथिनाम् ।
यो धीरो धारयेद् रश्मीन् स स्यात् परम-सारथिः ।।५६९।। [?]

वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थ-युक्तं वचनं प्रमाणम् ।
यस्य प्रमाणं न भवेत् प्रमाणकस् तस्य कुर्याद् वचनं प्रमाणम् ।।५७०।। [दं.श. २४]

सहाय-बन्धना ह्य् अर्थाः सहायाश् चार्थ-बन्धनाः ।
अन्योन्य-बन्धनाव् एतौ विनान्योन्यं न सिध्यतः ।।५७१।। [म.भा. ५.३७.३४]

वैराग्ये संचरत्य् एको नीतौ भ्रमति चापरः ।
शृङ्गारे रमते कश्चिद् भुवि भेदाः परस्परम् ।।५७२।। [शृ.श. १०२]

हृदि विद्ध इवात्यर्थं यथा सन्तप्यते जनः ।
पीडितोऽपि हि मेधावी न तां वाचम् उदीरयेत् ।।५७३।। [का.नीति. ३.२४]

विद्वद्भिः सुहृदाम् अत्र चिह्नैर् एतैर् असंशयम् ।
परीक्षा-करणं प्रोक्तं होमाग्नेर् इव पण्डितैः ।।५७४।। [पञ्च. २.११५]

सन्तोषस् त्रिषु कर्तव्यः स्व-दारे भोजने धने ।
त्रिषु चैव न कर्तव्योऽध्ययने जप-दानयोः ।।५७५।। [बृ.चा. ७.३]

प्रसारित-करे मित्रे जगद् उद्द्योत-कारिणि ।
किं न कैरव लज्जा ते कुर्वतः कोश-संवृतिम् ।।५७६।। [शा.प. ११३८]

यो यत्र सततं याति भुङ्क्ते चैव निरन्तरम् ।
स तत्र लघुतां याति यदि शक्र-समो भवेत् ।।५७७।। [चा.नी. ४२]

लब्धव्यम् अर्थं लभते मनुष्यो देवोऽपि तं वारयितुं न शक्तः ।
अतो न शोचामि न विस्मयो मे ललाट-लेखा न पुनः प्रयाति ।।५७८।। [महा.ना. २१४?]

ये च मूढतमा लोके ये च बुद्धेः परं गताः ।
ते नराः सुखम् एधन्ते क्लिश्यत्य् अन्तरितो� जनः ।।५७९।। [म.भा. १२.१६८.२४]

वरं न राज्यं न कुराज-राज्यं वरं न मित्रं न कुमित्र-मित्रम् ।
वरं न शिष्यो न कुशिष्य-शिष्यो वरं न दारा न कुदार-दारः ।।५८०।। [बृ.चा. ६.१३]

यो जितः पञ्चवर्गेण सहजेनात्म कर्शिना ।
आपदस् तस्य वर्धन्ते शुक्लपक्ष इवोडुराड् ।।५८१।। [म.भा. ५.३४.५३]

प्रालेय-लेश-मिश्रे मरुति प्राभातिके च वाति जडे ।
गुण-दोष-ज्ञः पुरुषो जलेन कः शीतम् अपनयति ।।५८२।। [पञ्च. ३.३४१]

प्राण-त्यागे� समुत्पन्ने यदि स्यान् मित्र-दर्शनम् ।
तद् द्वाभ्यां सुख-दं पश्चाज् जीवतोऽपि मृतस्य च ।।५८३।। [पञ्च. २.१७५]

सङ्गः सत्सु विधीयतां भगवतो भक्तिर् दृढाधीयतां शान्त्य्-आदिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् ।
सद्-धियो ह्य् उपसर्प्यतां प्रतिदिनं तत्-पादुका सेव्यतां बह्यैकाक्षरम् अर्थ्यतां श्रुति-शिरो-वाक्यं समाकर्ण्यताम् ।।५८४।। [साधन-पञ्चक २]

विरहोऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् ।
यदि हृदयं तु विघट्टितं समागमोऽपि� विरहं विशेषयति ।।५८५।। [शृ.श. ६५ (८०)]

प्रणय-मधुराः प्रेमोद्गारा रसाश्रयतां गताः फणिति-मधुरा मुग्ध-प्रायाः प्रकाशित-सम्मदाः ।
प्रकृति-सुभगा विस्रम्भार्द्राः स्मरोदय-दायिनी रहसि किम् अपि स्वैरालापा हरन्ति मृगीदृशाम् ।।५८६।। [शृ.श. २०]

शरत्-पद्मोत्सवं वक्त्रं वचश् च श्रवणामृतम् ।
हृदयं क्षुर-धाराभं स्त्रीणां को वेद चेष्टितम् ।।५८७।। [भा.पु. ६.१८.४१]

यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् ।
न मूर्च्छितः कटुकान्य् आह किञ्चित् प्रियं सदा तं कुरुते जनो हि ।।५८८।। [म.भा. ५.३३.९२]

प्रतीपं कृष्ण-माणो हि नोत्तरेद् उत्तरेन् नरः ।
बाह्यमानोऽनुकूलं तु नद्योघाद् वद्यसनात् तथा ।।५८९।। [कथा.स. ३१.८७]

संप्राप्य पण्डितः कृच्छ्रं प्रज्ञया हि विगाहते ।
बालस् तु कृच्छ्रम् आसाद्य शिलेवाम्भसि मज्जति ।।५९०।। {रा. ३.६८.५३]

प्रणिपातेन हि गुरून् सतोऽनूचान-चेष्टितैः ।
कुर्वीताभिमुखान् भूत्यै देवान् सुकृत-कर्मणा ।।५९१।।

सम्मानाद् ब्राह्मणो नित्यम् उद्विजेत विषाद् इव ।
अमृतस्येव चाकाङ्क्षेद् अवमानस्य सर्वदा ।।५९२।। [मनु २.१६२]

प्रसन्नाः कान्ति-हारिण्यो नाना-श्लेष-विचक्षणाः ।
भवन्ति कस्यचित् पुण्यैर् मुखे वाचो गृहे स्त्रियः ।।५९३।।

सर्वौषधीनाम् अमृता प्रधाना सर्वेषु सौख्येष्व् अशनं प्रधानम् ।
सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु गात्रेषु शिरः प्रधानम् ।।५९४।। [बृ.चा. ९.४]

राजा राष्ट्र-कृतं पापं राज्ञः पापं पुरोहितः ।
भर्ता च स्त्री-कृतं पापं शिष्य-पापं गुरुस् तथा ।।५९५।।

यो नात्युक्तः प्राह रूक्षं प्रियं वा यो वा हतो न प्रतिहन्ति धैर्यात् ।
पापं च यो नेच्छति तस्य हन्तुस् तस्मै देवाः स्पृहयन्ते सदैव ।।५९६।। [म.भा. १२.२८८.१७]

प्रतिक्षणम् अयं कायः क्षीयमाणो न लक्ष्यते ।
आम-कुम्भ इवाम्भः-स्थो विशीर्णः सन् विभाव्यते ।।५९७।। [हि. ४.७२]

वित्तं देहि गुणान्वितेषु मतिम् अन्नान्य् अत्र देहि क्वचित् प्राप्तं वारिनिधेर् जलं घनमुखे माधुर्य-युक्तं सदा ।
जीवान् स्थावर-जङ्गमांश् च सकलान् संजीव्य भू-मण्डलं भूयः पश्य तद् एव कोटि-गुणितं गच्छन्तम् अम्भोनिधिम् ।।५९८।। [बृ.चा. ८.५]

प्रियम् अनुचितं क्ष्मापण्य-स्त्रीक्षण-प्रभुर् ईश्वरो रमयति यतो धिक् तान् भृत्यान् स्व-वृत्ति-सुखार्थिनः ।
नृपम् अपथगं पान्ति प्राणान् उपेक्ष्य निजान् अपि प्रसभम् इह ये तैः पूतेयं महात्मभिर् उर्वरी ।।५९९।।

प्रणीतश् चाप्रणीतश् च यथाग्निर् दैवतं महत् ।
एवं विद्वान् अविद्वांश् च ब्राह्मणो दैवतं परम् ।।६००।।

संसार-श्रान्त-चित्तानां तिस्रो विश्रान्ति-भूमयः ।
अपत्यं च कलत्रं च सतां सङ्गतिर् एव च ।।६०१।। [प्रसङ्गाभ २]

वाति गन्धः सुमनसां प्रतिवातं कथञ्चन ।
धर्मजस् तु मनुष्याणां वाति गन्धः समन्ततः ।।६०२।। [रा. २.६१.१९]

शयानम् चानुशेते हि तिष्ठन्तं चानुतिष्ठति ।
अनुधावति धावन्तं कर्म पूर्व-कृतं नरम् ।।६०३।। [रा. २.६१.१९]

विद्वान् ऋजुर् अभिगम्यो विदुषि शठे चाप्रमादिना भाव्यम् ।
ऋजु-मूर्खस् त्व् अनुकम्प्यो मूर्ख-शठः सर्वथा त्यज्यः ।।६०४।। [पञ्च. ?]

यो हि दिष्टम् उपासीनो निर्विचेष्टः सुखं स्वपेत् ।
अवसीदेत् सुदुर्बुद्धिर् आमो घट इवाम्भसि ।।६०५।। [म.भा. ३.३३.१२]

राजा राष्ट्र-कृतं पापं राज्ञः पापं पुरोहितः ।
भर्ता च स्त्री-कृतं पापं शिष्य-पापं गुरुस् तथा ।।६०६?।। [बृ.चा. ६.१०]

राजा वेश्या यमश् चाग्निस् तस्करो बाल-याचकौ ।
पर-दुःखं न जानन्ति अष्टमो ग्राम-कण्टकः ।।६०६।। [बृ.चा. १७.१९]

विद्यार्थी सेवकः पान्थः क्षुधार्तो भय-कातरः ।
भाण्डारी प्रतिहारी च सप्त सुप्तान् प्रबोधयेत् ।।६१०।। [बृ.चा. ९.६]

शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः ।
घृतेन वर्धते वीर्यं मांसान् मांसं प्रवर्धते ।।६११।। [बृ.चा. १०.२०]

श्लाघ्यं जन्म सुरूपता धनिकता नीरोगता प्राज्ञता स्वाचार-स्थिरता दया सुकुलता दाक्षिण्यवद् दारता ।
आयुष्मद्-गुणि-पुत्रता स्व-वशता सौन्जन्यवन् मित्रता श्रीशे भक्ति-रती च यस्य स नरः स्यान् मानवानन्दवान् ।।६१२।। [प्रसङ्गाभ १२]

वयसः परिणामेऽपि यः खलः खल एव सः ।
सम्पक्वम् अपि माधुर्यं नोपयातीन्द्र-वारुणम् ।।६१३।। [बृ.चा. १२.२३]

शुचि भूषयति श्रुतं वपुः प्रशमतस् तस्य भवत्य् अलं क्रिया ।
प्रशमाभरणं पराक्रमः स नयापादित-सिद्धि-भूषणः ।।६१४।। [किरात. २.३२]

यो हि वेदे च शास्त्रे च ग्रन्थ धारण तत्परः ।
न च ग्रन्थार्थ तत्त्वज्ञस् तस्य तद् धारणं वृथा ।।६१५।। [म.भा. १२.२९३.२४]

रुजन्ति हि शरीराणि रोगाः शारीर-मानसाः ।
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृध-धन्विभिः ।।६१६।। [म.भा. १२.३१८.३]

भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः ।
यस् तु ग्रन्थार्थ तत्त्वज्ञो नास्य ग्रन्थागमो वृथा ।।६१७।। [म.भा. १२.२९३.२५]

रम्याणि वीक्ष्य मधुरांश् च निशम्य शब्दान् पर्युत्सुकी-भवति यत् सुखेतेऽपि जन्तुः ।
तच् चेतसा स्मरति नूनम् अबोध-पूर्वं भाव-स्थिराणि जननान्तर-सौहृदानि ।।६१८।। [अ.शाकुं]

सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।
यस्मिन्न् एव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ।।६१९।। [मनु ३.६०]

शीत-भीताश् च ये विप्रा रण-भीताश् च क्षत्रियाः ।
अग्नि-भीता च या नारी त्रयः स्वर्गं न यान्ति हि ।।६२०।। [चाणक्य ९६]

रसायन-विदश् चैव सुप्रयुक्त-रसायनाः ।
दृश्यन्ते जरया भग्ना नगा नागैर् इवोत्तमैः ।।६२२।। [म.भा. १२.२८.४६]

योऽर्थकामस्य वचनं प्रातिकूल्यान् न मृष्यते ।
शृणोति प्रतिकूलानि द्विषतां वशम् एति सः ।।६२३।। [म.भा. ५.१२२.२३]

लक्ष्म्या लक्ष्मीवतां लोके विकाशिन्या च किं तया ।
बन्धुभिश् च सुहृद्भिश् च विश्रब्धं वा न भुज्यते ।।६२४।। [का.नी. ५.७६]

लक्ष्मीर् धर्मश् च सन्तानः कीर्तिश् चायुष्य-वैभवम् ।
वर्धते दयया नित्यं राजन् भूत-दयां कुरु ।।६२६।। [प्र. १७]

प्रतिदिवसं याति लयं वसन्त-वाता-हतेव शिशिर-श्रीः ।
बुद्धिर् बुद्धिमताम् अपि कुटुम्ब-भारस्य चिन्ताभिः ।।६२७।।

रम्या रामा यदि कुल-वधूस् त्याग-भोगाय वित्ते वक्त्रे वाणी सरल-कविता केशवे चित्त-वृत्तिः ।
सद्भिः सङ्गो वपुषि दृढता सत्-कुले जन्म पुंसां धिग् धिग् दूरादनशन-पथं सर्गम् एकान्त-दुर्गम् ।।६२८।। [प्र. १३]

पूर्णापूर्णे माने परिचित-जन-वञ्चनं तथा नित्यम् ।
मिथ्या-क्रयस्य कथनं प्रकृतिर् इयं स्यात् किरातानाम् ।।६२९।। [पञ्च १.१७]

विवेकिनम् अनुप्राप्ता गुणा यान्ति मनोज्ञताम् ।
सुतरां रत्नम् आभाति चामीकर-नियोजितम् ।।६३०।। [बृ.चा. १६.९]

पूर्णेन्दुम् आलोक्य यथा प्रीतिम् आञ्जायते नरः ।
एवं यत्र प्रजाः सर्वा निर्वृत्तास् तच् छशि-व्रतम् ।।६३१।।

सत्-कृता लालिताश् चैव वैदेहि प्राकृताः स्त्रियः ।
दरिद्रम् अवमन्यन्ते भर्तारं न तु सत्-स्त्रियः ।।६३२।। [भाव. २०]

कश्चित् तरति काष्ठेन सुगम्भीरां महा-नदीम् ।
स तारयति तत् काष्ठं स च काष्ठेन तार्यते ।।६३३।।

कुमुदान्य् एव शशाङ्कः स्वैता बोधयति पङ्कजान्य् एव ।
वशिनां हि पर-परिग्रह-संश्लेष-पराङ्-मुखी वृत्तिः ।।६३४।। [अ.शा. ५.३८]

निर्गत्य न विशेद् भूयो महतां दन्ति-दन्तवत् ।
कूर्म-ग्रीवेव नीचानां वच आयाति याति च ।।६३५।। [?]

बालिशस् तु नरो नित्यं वैक्लव्यं योऽनुवर्तते ।
स मज्जत्य् अवशः शोके भाराक्रान्तेव नौर् जले ।।६३६।। [रा. ४.७.१०]

कुपुत्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः ।
कुराज्ये निर्वृतिर् नास्ति कुदेशे जीविका ।।६३७।। [म.भा. १२.?]

जीवितं न शरीरेण जात्यैव सह जायते ।
उभे सह विवर्तेते उभे सह विनश्यतः ।।६३८।। (नोत् इन् इन्देश्रुत्)

प्रज्ञा-शरेणाभिहतस्य जन्तोश् चिकित्सकाः सन्ति न चौषधानि ।
न होम-मन्त्रा न च मङ्गलानि नाथर्वणा नाप्य् अगदाः सुसिद्धाः ।।६३९।। [म.भा. ५.३७.५४]

बन्धनानि खलु सन्ति बहूनि प्रेम-रज्जु-कृत-बन्धनम् अन्यत् ।
दारु-भेद-निपुणोऽपि षड्-अङ्घ्रिर् निष्क्रियो भवति पङ्कज-कोशे ।।६४०।। [बृ.चा. १५.१७]

भार्या हि परमो नाथः� पुरुषस्येह पठ्यते ।
असहायस्य लोकेऽस्मिंल् लोकयात्रा सहायिनी ।।६४१।। [म.भा. १२.१४२.८]

कोश-द्वन्द्वम् इयं दधाती नलिनी कादम्ब-चञ्चू-क्षतं धत्ते चूत-लता नवं किसलयं पुंस्कोकिलास्वादितम् ।
इत्य् आकर्ण्य मिथः सखी-जन-वचः सा दीर्घ-कायास् तते चैलान्तेन तिरोदधे स्तन-तटं बिम्बाधरं पाणिना ।।६४१।। [कुव. ६७]

जानाति विश्वासयितुं मनुष्यान् विज्ञात दोषेषु दधाति दण्डम् ।
जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर् जुषते समग्रा ।।६४३।। [म.भा. ५.३३.८६]

एकाग्रः स्याद् अविवृतो नित्यं विवर-दर्शकः ।
राजन् राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ।।६४४।।

कर्म-भूमिम् इमां प्राप्य कर्तव्यं कर्म यच् छुभम् ।
अग्निर् वायुश् च सोमश् च कर्मणां फल-भागिनः ।।६४५।। [रा. २.१०९.२८]

न किञ्चित् सहसा कार्यं कार्यं कार्य-विदा क्वचित् ।
क्रियते चेद् विविच्यैव तस्य श्रेयः कर-स्थितम् ।।६४६।। [का.नी. ११.४७]

दातारो यदि कल्प-शाखिभिर् अलं यद्य् अर्थिनः किं तृणैर् ज्ञातिश् चेद् अनलेन किं यदि सुहृद् दिव्यौषधैः किं फलम् ।
किं कर्पूर-शलाकया यदि दृशोः पन्थानम् एति प्रिया संसारे नसतीन्द्रजालम् अपरं यद्य् अस्ति तेनापि किम् ।।६४७।। [स.कं. ४.७१]

एकान्ते सुखम् आस्यता परतरे चेतः समाधीयतां प्राणात्मा सुसमीक्ष्यतां जगद् इदं तद् व्यापितं दृश्यताम् ।
प्राक्-कर्म प्रविलोप्यतां चिति-बलान् नाप्य् उत्तरे श्लिष्यतां प्रारब्धं त्व् इह भुज्यताम् अथ पर-ब्रह्मात्मनास्थीयताम् ।।६४८।।

धूमाद् गाढ-मलीमसाच् छुचि-पयः सूते घनस्योद्गमो लोहस्यातिशितस्य जातिर् अचलात् कुष्ठाश्म-माला-मयात् ।
किं चात्यन्त-जडाज् जलाद् द्युतिमतो ज्वाला-ध्वजस्योद्भवो जन्मावध्य्-अनुकारिणो न महतां सत्यं स्वभावाः क्वचित् ।।६४९।। [रा.त. ४.११]

भूतानाम् अपरः कश्चिद् धिंसायां सततोत्थितः ।
वञ्चनायां च लोकस्य स सुखेष्व् एव जीर्यते ।।६५०।। [म.भा. १२.३१८.१२]

एकामिष-प्रभवम् एव सहोदराणाम् उज्जृम्भते जगति वैरम् इति प्रसिद्धम् ।
पृथ्वी-निमित्तम् अभवत् कुरु-पाण्डवानां तीव्रस् तथा हि भुवन-क्षय-कृद् विरोधः ।।६५१।।

ते पिबन्तः कषायांश् च सर्पींषि विविधानि च ।
दृश्यन्ते जरया भग्ना नगा नागैर् इवोत्तमैः ।।६५२।। [म.भा. ३?]

न कालस्य प्रियः कश्चिन्न द्वेष्योऽपि कपीश्वर ।
कालः कालयते सर्वान्सर्वः कालेन बध्यते ।।६५३।। [रा. ४.२७.७]

एकाकिना न गन्तव्यं यदि कार्य-शतं भवेत् ।
एक-कुक्कुट-मात्रेण ब्राह्मणः परिरक्षितः ।।६५४।। [चा.नी. ५६]

न दानैः शुध्यते नारी नोपवास-शतैर् अपि ।
न तीर्थ-सेवया तद्वद् भर्तुः पदोदकैर् यथा ।।६५५।। [बृ.चा. १७.१०]

भैषज्यम् एतद् दुःखस्य यद् एतन् नानुचिन्तयेत् ।
चिन्त्यमानं हि न व्येति भूयश् चापि विवर्धते ।।६५६।। [म.भा. ११.२.१७]

न दिष्टम् अप्य् अतिक्रान्तुं शक्यं भूतेन केनचित् ।
दिष्टम् एव ध्रुवं मन्ये पौरुषं तु निरर्थकम् ।।६५७।। [म. ६.७८]

भिषजो भेषजं कर्तुं कस्माद् इच्छन्ति रोगिणे ।
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ।।६५८।। [म.भा. १२.१३७.५२]

प्लवन्ते धर्म-लघवो लोकेऽम्भसि यथा प्लवाः ।
मज्जन्ति पाप-गुरवः शस्त्रं स्कन्नम् इवोदके ।।५५९।। [म.भा. १३.१.१५]

सर्वेषाम् एव शौचानाम् अर्थशौचं परं स्मृतम् ।
योऽर्थे शुचिर् हि स शुचिर् न मृत्-वारि-शुचिः शुचिः ।।५६०।। [मनु. ५.१०६]

शठस् तु समयं प्राप्य नोपाकारं हि मन्यते ।
वरं तम् उपकर्तारं दोष-दृष्ट्या च दूषयेत् ।।५६१।। [सं. पाठोप. ४७]

सुखं ह्य् अवमतः शेते सुखं च प्रतिबुध्यते ।
सुखं चरति लोकेऽस्मिन्न् अवमन्ता विनश्यति ।।५६२।। [मनु. २.१६३]

प्रयाति� शमनं यस्य तेजस् तेजस्वि-तेजसाम् ।
वृथा जातेन किं तेन मातुर् यौवन-हारिणा ।।५६३।। [पञ्च. ३.३२]

।।५६४।।

विकारं याति नो चित्तं वित्ते यस्य कदाचन ।
मित्रं स्यात् सर्व-काले च कारयेन् मित्रम् उत्तमम् ।।५६५।। [पञ्च. २.११४]

।।५६६।।

विपुलम् अपि धनौघं प्राप्य भोगान् स्त्रियो वा पुरुष इह न शक्तः कर्म हीनोऽपि भोक्तुम् ।
सुनिहितम् अपि चार्थं दैवतै रक्ष्यमाणं व्ययगुणम् अपि साधुं कर्मणा संश्रयन्ते ।।५६७।। [म.भा. १३.६.४५]

योऽभ्यर्थितः सद्भिर् असज्जमानः करोत्य् अर्थं शक्तिम् अहापयित्वा ।
क्षिप्रं यशस् तं समुपैति सन्तम् अलं प्रसन्ना हि सुखाय सन्तः ।।५६८।। [म.भा. ५.४०.१]

षण्णाम् आत्मनि युक्तानाम् इन्द्रियाणां प्रमाथिनाम् ।
यो धीरो धारयेद् रश्मीन् स स्यात् परम-सारथिः ।।५६९।। [?]

वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थ-युक्तं वचनं प्रमाणम् ।
यस्य प्रमाणं न भवेत् प्रमाणकस् तस्य कुर्याद् वचनं प्रमाणम् ।।५७०।। [दं.श. २४]

सहाय-बन्धना ह्य् अर्थाः सहायाश् चार्थ-बन्धनाः ।
अन्योन्य-बन्धनाव् एतौ विनान्योन्यं न सिध्यतः ।।५७१।। [म.भा. ५.३७.३४]

वैराग्ये संचरत्य् एको नीतौ भ्रमति चापरः ।
शृङ्गारे रमते कश्चिद् भुवि भेदाः परस्परम् ।।५७२।। [शृ.श. १०२]

हृदि विद्ध इवात्यर्थं यथा सन्तप्यते जनः ।
पीडितोऽपि हि मेधावी न तां वाचम् उदीरयेत् ।।५७३।। [का.नीति. ३.२४]

विद्वद्भिः सुहृदाम् अत्र चिह्नैर् एतैर् असंशयम् ।
परीक्षा-करणं प्रोक्तं होमाग्नेर् इव पण्डितैः ।।५७४।। [पञ्च. २.११५]

सन्तोषस् त्रिषु कर्तव्यः स्व-दारे भोजने धने ।
त्रिषु चैव न कर्तव्योऽध्ययने जप-दानयोः ।।५७५।। [बृ.चा. ७.३]

प्रसारित-करे मित्रे जगद् उद्द्योत-कारिणि ।
किं न कैरव लज्जा ते कुर्वतः कोश-संवृतिम् ।।५७६।। [शा.प. ११३८]

यो यत्र सततं याति भुङ्क्ते चैव निरन्तरम् ।
स तत्र लघुतां याति यदि शक्र-समो भवेत् ।।५७७।। [चा.नी. ४२]

लब्धव्यम् अर्थं लभते मनुष्यो देवोऽपि तं वारयितुं न शक्तः ।
अतो न शोचामि न विस्मयो मे ललाट-लेखा न पुनः प्रयाति ।।५७८।। [महा.ना. २१४?]

ये च मूढतमा लोके ये च बुद्धेः परं गताः ।
ते नराः सुखम् एधन्ते क्लिश्यत्य् अन्तरितो� जनः ।।५७९।। [म.भा. १२.१६८.२४]

वरं न राज्यं न कुराज-राज्यं वरं न मित्रं न कुमित्र-मित्रम् ।
वरं न शिष्यो न कुशिष्य-शिष्यो वरं न दारा न कुदार-दारः ।।५८०।। [बृ.चा. ६.१३]

यो जितः पञ्चवर्गेण सहजेनात्म कर्शिना ।
आपदस् तस्य वर्धन्ते शुक्लपक्ष इवोडुराड् ।।५८१।। [म.भा. ५.३४.५३]

प्रालेय-लेश-मिश्रे मरुति प्राभातिके च वाति जडे ।
गुण-दोष-ज्ञः पुरुषो जलेन कः शीतम् अपनयति ।।५८२।। [पञ्च. ३.३४१]

प्राण-त्यागे� समुत्पन्ने यदि स्यान् मित्र-दर्शनम् ।
तद् द्वाभ्यां सुख-दं पश्चाज् जीवतोऽपि मृतस्य च ।।५८३।। [पञ्च. २.१७५]

सङ्गः सत्सु विधीयतां भगवतो भक्तिर् दृढाधीयतां शान्त्य्-आदिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् ।
सद्-धियो ह्य् उपसर्प्यतां प्रतिदिनं तत्-पादुका सेव्यतां बह्यैकाक्षरम् अर्थ्यतां श्रुति-शिरो-वाक्यं समाकर्ण्यताम् ।।५८४।। [साधन-पञ्चक २]

विरहोऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् ।
यदि हृदयं तु विघट्टितं समागमोऽपि� विरहं विशेषयति ।।५८५।। [शृ.श. ६५ (८०)]

प्रणय-मधुराः प्रेमोद्गारा रसाश्रयतां गताः फणिति-मधुरा मुग्ध-प्रायाः प्रकाशित-सम्मदाः ।
प्रकृति-सुभगा विस्रम्भार्द्राः स्मरोदय-दायिनी रहसि किम् अपि स्वैरालापा हरन्ति मृगीदृशाम् ।।५८६।। [शृ.श. २०]

शरत्-पद्मोत्सवं वक्त्रं वचश् च श्रवणामृतम् ।
हृदयं क्षुर-धाराभं स्त्रीणां को वेद चेष्टितम् ।।५८७।। [भा.पु. ६.१८.४१]

यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् ।
न मूर्च्छितः कटुकान्य् आह किञ्चित् प्रियं सदा तं कुरुते जनो हि ।।५८८।। [म.भा. ५.३३.९२]

प्रतीपं कृष्ण-माणो हि नोत्तरेद् उत्तरेन् नरः ।
बाह्यमानोऽनुकूलं तु नद्योघाद् वद्यसनात् तथा ।।५८९।। [कथा.स. ३१.८७]

संप्राप्य पण्डितः कृच्छ्रं प्रज्ञया हि विगाहते ।
बालस् तु कृच्छ्रम् आसाद्य शिलेवाम्भसि मज्जति ।।५९०।। {रा. ३.६८.५३]

प्रणिपातेन हि गुरून् सतोऽनूचान-चेष्टितैः ।
कुर्वीताभिमुखान् भूत्यै देवान् सुकृत-कर्मणा ।।५९१।।

सम्मानाद् ब्राह्मणो नित्यम् उद्विजेत विषाद् इव ।
अमृतस्येव चाकाङ्क्षेद् अवमानस्य सर्वदा ।।५९२।। [मनु २.१६२]

प्रसन्नाः कान्ति-हारिण्यो नाना-श्लेष-विचक्षणाः ।
भवन्ति कस्यचित् पुण्यैर् मुखे वाचो गृहे स्त्रियः ।।५९३।।

सर्वौषधीनाम् अमृता प्रधाना सर्वेषु सौख्येष्व् अशनं प्रधानम् ।
सर्वेन्द्रियाणां नयनं प्रधानं सर्वेषु गात्रेषु शिरः प्रधानम् ।।५९४।। [बृ.चा. ९.४]

राजा राष्ट्र-कृतं पापं राज्ञः पापं पुरोहितः ।
भर्ता च स्त्री-कृतं पापं शिष्य-पापं गुरुस् तथा ।।५९५।।

यो नात्युक्तः प्राह रूक्षं प्रियं वा यो वा हतो न प्रतिहन्ति धैर्यात् ।
पापं च यो नेच्छति तस्य हन्तुस् तस्मै देवाः स्पृहयन्ते सदैव ।।५९६।। [म.भा. १२.२८८.१७]

प्रतिक्षणम् अयं कायः क्षीयमाणो न लक्ष्यते ।
आम-कुम्भ इवाम्भः-स्थो विशीर्णः सन् विभाव्यते ।।५९७।। [हि. ४.७२]

वित्तं देहि गुणान्वितेषु मतिम् अन्नान्य् अत्र देहि क्वचित् प्राप्तं वारिनिधेर् जलं घनमुखे माधुर्य-युक्तं सदा ।
जीवान् स्थावर-जङ्गमांश् च सकलान् संजीव्य भू-मण्डलं भूयः पश्य तद् एव कोटि-गुणितं गच्छन्तम् अम्भोनिधिम् ।।५९८।। [बृ.चा. ८.५]

प्रियम् अनुचितं क्ष्मापण्य-स्त्रीक्षण-प्रभुर् ईश्वरो रमयति यतो धिक् तान् भृत्यान् स्व-वृत्ति-सुखार्थिनः ।
नृपम् अपथगं पान्ति प्राणान् उपेक्ष्य निजान् अपि प्रसभम् इह ये तैः पूतेयं महात्मभिर् उर्वरी ।।५९९।।

प्रणीतश् चाप्रणीतश् च यथाग्निर् दैवतं महत् ।
एवं विद्वान् अविद्वांश् च ब्राह्मणो दैवतं परम् ।।६००।।

संसार-श्रान्त-चित्तानां तिस्रो विश्रान्ति-भूमयः ।
अपत्यं च कलत्रं च सतां सङ्गतिर् एव च ।।६०१।। [प्रसङ्गाभ २]

वाति गन्धः सुमनसां प्रतिवातं कथञ्चन ।
धर्मजस् तु मनुष्याणां वाति गन्धः समन्ततः ।।६०२।। [रा. २.६१.१९]

शयानम् चानुशेते हि तिष्ठन्तं चानुतिष्ठति ।
अनुधावति धावन्तं कर्म पूर्व-कृतं नरम् ।।६०३।। [रा. २.६१.१९]

विद्वान् ऋजुर् अभिगम्यो विदुषि शठे चाप्रमादिना भाव्यम् ।
ऋजु-मूर्खस् त्व् अनुकम्प्यो मूर्ख-शठः सर्वथा त्यज्यः ।।६०४।। [पञ्च. ?]

यो हि दिष्टम् उपासीनो निर्विचेष्टः सुखं स्वपेत् ।
अवसीदेत् सुदुर्बुद्धिर् आमो घट इवाम्भसि ।।६०५।। [म.भा. ३.३३.१२]

राजा राष्ट्र-कृतं पापं राज्ञः पापं पुरोहितः ।
भर्ता च स्त्री-कृतं पापं शिष्य-पापं गुरुस् तथा ।।६०६?।। [बृ.चा. ६.१०]

राजा वेश्या यमश् चाग्निस् तस्करो बाल-याचकौ ।
पर-दुःखं न जानन्ति अष्टमो ग्राम-कण्टकः ।।६०६।। [बृ.चा. १७.१९]

विद्यार्थी सेवकः पान्थः क्षुधार्तो भय-कातरः ।
भाण्डारी प्रतिहारी च सप्त सुप्तान् प्रबोधयेत् ।।६१०।। [बृ.चा. ९.६]

शोकेन रोगा वर्धन्ते पयसा वर्धते तनुः ।
घृतेन वर्धते वीर्यं मांसान् मांसं प्रवर्धते ।।६११।। [बृ.चा. १०.२०]

श्लाघ्यं जन्म सुरूपता धनिकता नीरोगता प्राज्ञता स्वाचार-स्थिरता दया सुकुलता दाक्षिण्यवद् दारता ।
आयुष्मद्-गुणि-पुत्रता स्व-वशता सौन्जन्यवन् मित्रता श्रीशे भक्ति-रती च यस्य स नरः स्यान् मानवानन्दवान् ।।६१२।। [प्रसङ्गाभ १२]

वयसः परिणामेऽपि यः खलः खल एव सः ।
सम्पक्वम् अपि माधुर्यं नोपयातीन्द्र-वारुणम् ।।६१३।। [बृ.चा. १२.२३]

शुचि भूषयति श्रुतं वपुः प्रशमतस् तस्य भवत्य् अलं क्रिया ।
प्रशमाभरणं पराक्रमः स नयापादित-सिद्धि-भूषणः ।।६१४।। [किरात. २.३२]

यो हि वेदे च शास्त्रे च ग्रन्थ धारण तत्परः ।
न च ग्रन्थार्थ तत्त्वज्ञस् तस्य तद् धारणं वृथा ।।६१५।। [म.भा. १२.२९३.२४]

रुजन्ति हि शरीराणि रोगाः शारीर-मानसाः ।
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृध-धन्विभिः ।।६१६।। [म.भा. १२.३१८.३]

भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः ।
यस् तु ग्रन्थार्थ तत्त्वज्ञो नास्य ग्रन्थागमो वृथा ।।६१७।। [म.भा. १२.२९३.२५]

रम्याणि वीक्ष्य मधुरांश् च निशम्य शब्दान् पर्युत्सुकी-भवति यत् सुखेतेऽपि जन्तुः ।
तच् चेतसा स्मरति नूनम् अबोध-पूर्वं भाव-स्थिराणि जननान्तर-सौहृदानि ।।६१८।। [अ.शाकुं]

सन्तुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च ।
यस्मिन्न् एव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ।।६१९।। [मनु ३.६०]

शीत-भीताश् च ये विप्रा रण-भीताश् च क्षत्रियाः ।
अग्नि-भीता च या नारी त्रयः स्वर्गं न यान्ति हि ।।६२०।। [चाणक्य ९६]

रसायन-विदश् चैव सुप्रयुक्त-रसायनाः ।
दृश्यन्ते जरया भग्ना नगा नागैर् इवोत्तमैः ।।६२२।। [म.भा. १२.२८.४६]

योऽर्थकामस्य वचनं प्रातिकूल्यान् न मृष्यते ।
शृणोति प्रतिकूलानि द्विषतां वशम् एति सः ।।६२३।। [म.भा. ५.१२२.२३]

लक्ष्म्या लक्ष्मीवतां लोके विकाशिन्या च किं तया ।
बन्धुभिश् च सुहृद्भिश् च विश्रब्धं वा न भुज्यते ।।६२४।। [का.नी. ५.७६]

लक्ष्मीर् धर्मश् च सन्तानः कीर्तिश् चायुष्य-वैभवम् ।
वर्धते दयया नित्यं राजन् भूत-दयां कुरु ।।६२६।। [प्र. १७]

प्रतिदिवसं याति लयं वसन्त-वाता-हतेव शिशिर-श्रीः ।
बुद्धिर् बुद्धिमताम् अपि कुटुम्ब-भारस्य चिन्ताभिः ।।६२७।।

रम्या रामा यदि कुल-वधूस् त्याग-भोगाय वित्ते वक्त्रे वाणी सरल-कविता केशवे चित्त-वृत्तिः ।
सद्भिः सङ्गो वपुषि दृढता सत्-कुले जन्म पुंसां धिग् धिग् दूरादनशन-पथं सर्गम् एकान्त-दुर्गम् ।।६२८।। [प्र. १३]

पूर्णापूर्णे माने परिचित-जन-वञ्चनं तथा नित्यम् ।
मिथ्या-क्रयस्य कथनं प्रकृतिर् इयं स्यात् किरातानाम् ।।६२९।। [पञ्च १.१७]

विवेकिनम् अनुप्राप्ता गुणा यान्ति मनोज्ञताम् ।
सुतरां रत्नम् आभाति चामीकर-नियोजितम् ।।६३०।। [बृ.चा. १६.९]

पूर्णेन्दुम् आलोक्य यथा प्रीतिम् आञ्जायते नरः ।
एवं यत्र प्रजाः सर्वा निर्वृत्तास् तच् छशि-व्रतम् ।।६३१।।

सत्-कृता लालिताश् चैव वैदेहि प्राकृताः स्त्रियः ।
दरिद्रम् अवमन्यन्ते भर्तारं न तु सत्-स्त्रियः ।।६३२।। [भाव. २०]

कश्चित् तरति काष्ठेन सुगम्भीरां महा-नदीम् ।
स तारयति तत् काष्ठं स च काष्ठेन तार्यते ।।६३३।।

कुमुदान्य् एव शशाङ्कः स्वैता बोधयति पङ्कजान्य् एव ।
वशिनां हि पर-परिग्रह-संश्लेष-पराङ्-मुखी वृत्तिः ।।६३४।। [अ.शा. ५.३८]

निर्गत्य न विशेद् भूयो महतां दन्ति-दन्तवत् ।
कूर्म-ग्रीवेव नीचानां वच आयाति याति च ।।६३५।। [?]

बालिशस् तु नरो नित्यं वैक्लव्यं योऽनुवर्तते ।
स मज्जत्य् अवशः शोके भाराक्रान्तेव नौर् जले ।।६३६।। [रा. ४.७.१०]

कुपुत्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः ।
कुराज्ये निर्वृतिर् नास्ति कुदेशे जीविका ।।६३७।। [म.भा. १२.?]

जीवितं न शरीरेण जात्यैव सह जायते ।
उभे सह विवर्तेते उभे सह विनश्यतः ।।६३८।। (नोत् इन् इन्देश्रुत्)

प्रज्ञा-शरेणाभिहतस्य जन्तोश् चिकित्सकाः सन्ति न चौषधानि ।
न होम-मन्त्रा न च मङ्गलानि नाथर्वणा नाप्य् अगदाः सुसिद्धाः ।।६३९।। [म.भा. ५.३७.५४]

बन्धनानि खलु सन्ति बहूनि प्रेम-रज्जु-कृत-बन्धनम् अन्यत् ।
दारु-भेद-निपुणोऽपि षड्-अङ्घ्रिर् निष्क्रियो भवति पङ्कज-कोशे ।।६४०।। [बृ.चा. १५.१७]

भार्या हि परमो नाथः� पुरुषस्येह पठ्यते ।
असहायस्य लोकेऽस्मिंल् लोकयात्रा सहायिनी ।।६४१।। [म.भा. १२.१४२.८]

कोश-द्वन्द्वम् इयं दधाती नलिनी कादम्ब-चञ्चू-क्षतं धत्ते चूत-लता नवं किसलयं पुंस्कोकिलास्वादितम् ।
इत्य् आकर्ण्य मिथः सखी-जन-वचः सा दीर्घ-कायास् तते चैलान्तेन तिरोदधे स्तन-तटं बिम्बाधरं पाणिना ।।६४१।। [कुव. ६७]

जानाति विश्वासयितुं मनुष्यान् विज्ञात दोषेषु दधाति दण्डम् ।
जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर् जुषते समग्रा ।।६४३।। [म.भा. ५.३३.८६]

एकाग्रः स्याद् अविवृतो नित्यं विवर-दर्शकः ।
राजन् राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ।।६४४।।

कर्म-भूमिम् इमां प्राप्य कर्तव्यं कर्म यच् छुभम् ।
अग्निर् वायुश् च सोमश् च कर्मणां फल-भागिनः ।।६४५।। [रा. २.१०९.२८]

न किञ्चित् सहसा कार्यं कार्यं कार्य-विदा क्वचित् ।
क्रियते चेद् विविच्यैव तस्य श्रेयः कर-स्थितम् ।।६४६।। [का.नी. ११.४७]

दातारो यदि कल्प-शाखिभिर् अलं यद्य् अर्थिनः किं तृणैर् ज्ञातिश् चेद् अनलेन किं यदि सुहृद् दिव्यौषधैः किं फलम् ।
किं कर्पूर-शलाकया यदि दृशोः पन्थानम् एति प्रिया संसारे नसतीन्द्रजालम् अपरं यद्य् अस्ति तेनापि किम् ।।६४७।। [स.कं. ४.७१]

एकान्ते सुखम् आस्यता परतरे चेतः समाधीयतां प्राणात्मा सुसमीक्ष्यतां जगद् इदं तद् व्यापितं दृश्यताम् ।
प्राक्-कर्म प्रविलोप्यतां चिति-बलान् नाप्य् उत्तरे श्लिष्यतां प्रारब्धं त्व् इह भुज्यताम् अथ पर-ब्रह्मात्मनास्थीयताम् ।।६४८।।

धूमाद् गाढ-मलीमसाच् छुचि-पयः सूते घनस्योद्गमो लोहस्यातिशितस्य जातिर् अचलात् कुष्ठाश्म-माला-मयात् ।
किं चात्यन्त-जडाज् जलाद् द्युतिमतो ज्वाला-ध्वजस्योद्भवो जन्मावध्य्-अनुकारिणो न महतां सत्यं स्वभावाः क्वचित् ।।६४९।। [रा.त. ४.११]

भूतानाम् अपरः कश्चिद् धिंसायां सततोत्थितः ।
वञ्चनायां च लोकस्य स सुखेष्व् एव जीर्यते ।।६५०।। [म.भा. १२.३१८.१२]

एकामिष-प्रभवम् एव सहोदराणाम् उज्जृम्भते जगति वैरम् इति प्रसिद्धम् ।
पृथ्वी-निमित्तम् अभवत् कुरु-पाण्डवानां तीव्रस् तथा हि भुवन-क्षय-कृद् विरोधः ।।६५१।।

ते पिबन्तः कषायांश् च सर्पींषि विविधानि च ।
दृश्यन्ते जरया भग्ना नगा नागैर् इवोत्तमैः ।।६५२।। [म.भा. ३?]

न कालस्य प्रियः कश्चिन्न द्वेष्योऽपि कपीश्वर ।
कालः कालयते सर्वान्सर्वः कालेन बध्यते ।।६५३।। [रा. ४.२७.७]

एकाकिना न गन्तव्यं यदि कार्य-शतं भवेत् ।
एक-कुक्कुट-मात्रेण ब्राह्मणः परिरक्षितः ।।६५४।। [चा.नी. ५६]

न दानैः शुध्यते नारी नोपवास-शतैर् अपि ।
न तीर्थ-सेवया तद्वद् भर्तुः पदोदकैर् यथा ।।६५५।। [बृ.चा. १७.१०]

भैषज्यम् एतद् दुःखस्य यद् एतन् नानुचिन्तयेत् ।
चिन्त्यमानं हि न व्येति भूयश् चापि विवर्धते ।।६५६।। [म.भा. ११.२.१७]

न दिष्टम् अप्य् अतिक्रान्तुं शक्यं भूतेन केनचित् ।
दिष्टम् एव ध्रुवं मन्ये पौरुषं तु निरर्थकम् ।।६५७।। [म. ६.७८]

भिषजो भेषजं कर्तुं कस्माद् इच्छन्ति रोगिणे ।
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ।।६५८।। [म.भा. १२.१३७.५२]

भार्या यस्य गृहे नित्यम् अतीव परिगर्विता ।
तस्य लक्ष्मीः क्षयं याति कृष्ण-पक्षे यथा शशी ।।६५९।। [?]

न कर्मणा लभ्यते चिन्तया वा नाप्य् अस्य दाता पुरुषस्य कश्चित् ।
पर्याय योगाद् विहितं विधात्रा कालेन सर्वं लभते मनुष्यः ।।६६०।। [म.भा. १२.२६.५]

भोक्तुं पुरुषकारेण दुष्ट-स्त्रियम् इव श्रियम् ।
व्यवसायं सदैवेच्छेन् न हि क्लीबवद् आचरेत् ।।६६१।।� [का.नी. १३.१०]

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च ।
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ।।६६२।। [म.भा. ५.३६.५८]

कुर्मः किल्बिषम् एतद् एव हृदये कृत्वेति कौतूहलात् स्वैरिण्यः क्षितिपाश् च धिक् चपलतां क्रौर्यं च कुर्युः सकृत् ।
पापाक्रान्त-धियो भवन्त्य् अथ यथा नान्त्यान् स्पृशन्त्योऽपि ता दूयन्ते न च ते यथा स्व-पितरौ घ्नन्तोऽपि शान्त-त्रपाः ।।६६३।। [रा.त. ४.६२६]

दुर्भिक्षाद् एव दुर्भिक्षं क्लेशात् क्लेशं भयाद् भयम् ।
मृतेभ्यः प्रमृतं यान्ति दरिद्राः पापकारिणः ।।६६४।। [म.भा. १२.१७४.३]

बहवोऽविनयान् नष्टा राजानः स-परिच्छदाः ।
वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ।।६६५।। [मनु. ७.४०]

जल-रेखा खल-प्रीतिर् अर्ध-वारि-घट-स्थता ।
शिरसा धार्यमाणोऽपि खलः खलखलायते ।।६६६।। [?]

जीवन्तं मृतवन् मन्ये देहिनं धर्म-वर्जितम् ।
मृतो धर्मेण संयुक्तो दीर्घ-जीवी न संशयः ।।६६७।। [बृ.चा. १३.९]

न वाचा दुर्गमः पारः कार्याणां राक्षसाधम ।
कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ।।६६८।।

नयेन जाग्रत्य् अनिशं नरेश्वरे सुखं स्वपन्तीह निराधयः प्रजाः ।
प्रमत्त-चित्ते स्वपतीह सम्भ्रमात् प्रजागरेणास्य जगत् प्रबुध्यते ।।६६९।। [का.नी. ७.५८]

चिता दहति निर्जीवं चिन्ता जीवं दहत्य् अहो ।
बिन्दुनैवाधिका चिन्ता चितात्यल्पा हि भूतले ।।६७०।। [प्र.भ. १७]

न कुलं वृत्ति हीनस्य प्रमाणम् इति मे मतिः ।
अन्त्येष्व् अपि हि जातानां वृत्तम् एव विशिष्यते ।।६७१।। [म.भा. ५.३२.२२]

दुर्बुद्धिम् अकृत-प्रज्ञं छन्नं कूपं तृणैर् इव ।
विवर्जयीत मेधावी तस्मिन् मैत्री प्रणश्यति ।।६७२।। [म.भा. ५.३९.३५]

न सा प्रीतिर् दिविष्ठस्य सर्व-कामान् उपाश्नतः ।
अभवद् या परा प्रीतिर् गङ्गायाः पुलिने नृणाम् ।।६७३।। [म.भा. १३.२७.५९]

तीर्थ-स्थितः स्व-कुलजांस् तिमिर् अत्ति भुङ्क्ते मौनी बकस् तिमिम् उपेत्य वनान्त-वासी ।
व्याधो निहन्ति तु बकं प्रभवन्ति ते ते पात्राण्य् उपर्य् उपरि वञ्चन-चञ्चुतायाम् ।।६७४।। [रा.त. ५.३०४]

एतल् लब्धम् इदं च लभ्यम् अधिकं च मूल्य-लभ्यं ततो लभ्यं चापरम् इत्य् अनारतम् अहो लभ्यं धनं ध्यायसि ।
नैतद् वेत्सि पुनर् भवन्तम् अचिराद् आशा-पिशाची बलात् सर्व-ग्रासम् इयं ग्रसिष्यति महा-मोहान्धकारावृतम् ।।६७५।। [?]

पूर्वं सम्मानना यत्र पश्चाच् चैव विमानना ।
जह्यात् तत् सत्त्ववान् स्थानं शत्रोः संमानितोऽपि सन् ।।६७६।।

धर्माद् अर्थः प्रभवति धर्मात् प्रभवते सुखम् ।
धर्मेण लभ्यते सर्वं धर्म-सारम् इदं जगत् ।।६७७।। [रा. ३.९.३०]

न वैराण्य् अभिजानन्ति गुणान् पश्यन्ति नागुणान् ।
विरोधं नाधिगच्छन्ति ये त उत्तम-पूरुषाः ।।६७८।। [म.भा. २.६५.६]

क्षीणो रविम् अवति शशी वृद्धौ च वर्धयति पयसां नाथम् ।
अन्ये विपदि सहाया धनिनां श्रियम् अनुभवन्त्य् अन्ये ।।६७९।। [पञ्च. ५.]

कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् ।
कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत् ।।६८०।। [म.भा. १२]

किं कुलेन विशालेन शीलम् एवात्र कारणम् ।
कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ।।६८१।। [शा.प. १४८५]

न हि कस्य प्रियः को वा विप्रियो वा जगत्-त्रये ।
काले कार्य-वाशात् सर्वे भवन्त्य् एवाप्रियाः प्रियाः ।।६८२।। [ब्र.वै.पु. जन्मखण्ड]

तीक्ष्णोपाय-प्रान्त-गम्योऽपि योऽर्थस् तस्याप्य् आदौ संश्रयः साधु-युक्तः ।
उत्तुङ्गाग्रः सार-भूतो वनानां सालोऽभ्यर्च्य च्छिद्यते पादपेन्द्रः ।।६८३।। [?]

नापितस्य गृहे क्षौरं पाषाणे गन्ध-लेपनम् ।
आत्म-रूपं जले पश्यन् शक्रस्यापि श्रियं हरेत् ।।६८४।। [?]

पुन्-नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः ।
तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयम्भुवा ।।६८५।।� [म.भा. १.६८.३८]

धर्माख्याने श्मशाने च रोगिणां या मतिर् भवेत् ।
सा सर्वदैव तिष्ठेच् चेत् को न मुच्येत बन्धनात् ।।६८६।। [बृ.चा. १४.६]

कालो हेतुं विकुरुते स्वार्थस् तम् अनुवर्तते ।
स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ।।६८७।। [म.भा. १२.१३६.१५१]

न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रतीतः ।
दत्त्वा न पश्चात् कुरुतेऽनुतापं न कत्थते सत्-पुरुषार्य शीलः ।।६८८।। [म.भा. ५.३३.९४]

तिलार्धं स्वीय-भागश् च निःसारं बदरी-फलम् ।
आहारात् परतः श्रेयो धूलिः पर-गृहाद् अपि ।।६८९।। [चाणक्य ६६]

धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् ।
सैव नौः सागरस्येव वणिजः पारम् ऋच्छतः ।।६९०।। [म.भा. ३.३२.२२]

न स्कन्दते न व्यथते न विनश्यति कर्हि चित् ।
वरिष्ठम् अग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ।।६९१।। [मनु. ७.८४]

दोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् ।
येषां चान्नानि भुञ्जीत यत्र च स्यात् प्रतिश्रयः ।।६९२।। [?]

किं करिष्यति संसर्गः स्वभावो दुरतिक्रमः ।
पश्याम्र-फल-संसर्गी कषायो मधुरः कुतः ।।६९३।। [?]

धर्मात्मनः शुभैर् वृत्तैः क्रतुभिश् चाप्त-दक्षिणैः ।
धूत-पापा गताः स्वर्गं पितामह-निषेवितम् ।।६९४।। [र.गो. २.११४.१८]

न विश्वासाज् जातु परस्य गेहं गच्छेन् नरश् चेतयानो विकाले ।
न चत्वरे निशि तिष्ठेन् निगूढो न राजन्यां योषितं प्रार्थयीत ।।६९५।। [म.भा. ५.३७.२६]

वध्यन्ते न ह्य् अविश्वस्ताः शत्रुभिर् दुर्बला अपि ।
विश्वस्तास् तेषु वध्यन्ते बलवन्तोऽपि दुर्बलैः ।।६९६।। [?]

न वैरम् उद्दीपयति प्रशान्तं न दर्मम् आरोहति नास्तम् एति ।
न दुर्गतोऽस्मीति करोति मन्युं तम् आर्य शीलं परम् आहुर् अग्र्यम् ।।६९७।। [म.भा. ५.३३.९३]

काले मृदुर् यो भवति काले भवति दारुणः ।
स वै सुखम् अवाप्नोति लोकेऽमुष्मिन्न् इहैव च ।।६९८।। [म.भा. १२.१३८.६६]

चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किञ्चित् ।
मन्त्रे गुप्ते सम्यग् अनुष्ठिते च स्वल्पो नास्य व्यथते कश् चिद् अर्थः ।।६९९।। [म.भा. ५.३३.१००]

धनेनाधर्म-लब्धेन यच् छिद्रम् अपिधीयते ।
असंवृतं तद् भवति ततोऽन्यद् अवदीर्यते ।।७००।। [म.भा. ५.३५.६०]

मद-रक्तस्य हंसस्य कोकिलस्य शिखण्डिनः ।
हरन्ति न तथा वाचो यथा साधु विपश्चिताम् ।।७०१।। [म.भा. ५.?]

न स्पृशत्य् आयुधं जातु न स्त्रीणां स्तन-मण्डलम् ।
अमनुष्यस्य कस्यापि हस्तोऽयं न किलाफलः ।।७०२।। [काव्या. ३.१२१]

कोश-मूलो हि राजेति प्रवादः सार्वलौकिकः ।
एतत् सर्वं जहातीह कोश-व्यसनवान् नृपः ।।७०३।। [का.नी. १३.३३]

कालेन शीघ्राः प्रविवान्ति वाताः कालेन वृष्टिर् जलदान् उपैति ।
कालेन पद्मोत्पलवज् जलं च कालेन पुष्पन्ति नगा वनेषु ।।७०४।। [म.भा. १२.२६.८]

त्वम् एव धातुः पूर्वोऽसि त्वम् एव प्रत्ययः परः ।
अनाख्यातं न ते किञ्चिन् नाथ केनोपमीयसे ।।७०५।। [सर्वस्व.टी. १६.७५१]

क्षीरिण्यः सन्तु गावो भवतु वसुमती सर्व-सम्पन्न-सस्या पर्जन्यः काल-वर्षी सकल-जन-मनो-नन्दिनो वान्तु वाताः ।
मोदन्तां जन्म-भाजः सततम् अभिमता ब्राह्मणाः सन्तु सन्तः श्रीमन्तः पान्तु पृथ्वीं प्रशमित-रिपवो धर्म-निष्ठाश् च भूपाः ।।७०६।।

इति श्री-सुभाषित-रत्न-भाण्डागारे सप्तमं सङ्कीर्ण-प्रकरणं

।। समाप्तोऽयं ग्रन्थः ।।

� स्निग्धोपयुक्ताशिषां

� स्वजन-ममता

� योऽत्राब्रवीत् कारण-वर्जितं वचो न तद् वचः स्याद् विषम् एव तद् भवेत् ।

� अत्यादर-

� कुजनस्य

� शत्रुभिर्

� न जातु

� मध्यमः क्लिश्यते

� प्राणात्यये

� सङ्गी

� ह्य् अर्थः

� See 499.

� Repeated, See verse 501.

बाह्यसूत्राणि

The text here is taken from the seventh book of the Subhäñita-ratna-bhäëòägära, (ed.) Narayana Ram Acharya, Kavyatirtha, as volume 106 in the Chowkhamba Sanskrit Series (Varanasi: Chowkhamba Sanskrit Series Office, 1998). It is, of course, a reprint of the Nirnaya Sagar Press edition which went through a number of different editions, the last in 1952.

 

 

This last section appears to contain odds and ends that did not fit in easily or were missed in the preparation of the earlier sections, which are organized according to subject matter. References throughout SRB are not given consistently, and that is reflected in this edition, though we have made some attempt to place the references next to the verse for the convenience of the reader. However, there are inconsistencies in the numbering, due to the differences between the editions used by the original editor and myself. 

सुभाषित-रत्न-भाण्डागारम् (७ – सङ्कीर्णक) �Page 180 � {