अष्टभिः अध्यायैः समन्विता, सूत्रात्मिका च महर्षिणा पाणिनिना विरचिता 'अष्‍टाध्‍यायी',इति जगत्प्रसिद्धः संस्‍कृतव्‍याकरणग्रन्थः अस्ति । अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते अयं ग्रन्थः । एवं श्रूयते यत् ताण्डवनृत्यानन्तरं शिवः स्वढक्कां चतुर्दशवारम् अवादयत् । ततः 'अ इ उ ण्' इत्यादीनि चतुर्दश सूत्राणि निर्गतानि । तानि महेश्वरप्रदत्तानि आसन् । अतः एव "महेश्वरादागतानि माहेश्वराणि" माहेश्वरसूत्राणि इति कथ्यते । तेषाम् आधारेण एव पाणिनिः अष्टाध्यायी इति व्याकरणग्रन्थं लिखितवान् । अस्मिन् ग्रन्थे अष्टौ अध्यायाः सन्ति । अतः एव 'अष्टाध्यायी' इति अस्ति । प्रत्येकमध्याये चत्वारः पादाः भवन्ति । आहत्य अष्टाध्याय्यां ३२ पादाः सन्ति । अष्टाध्याय्यां व्याकरणस्य उपचतुस्सहस्रं(प्रायः३९६५) सूत्राणि सन्ति ।

विषयः

अस्मिन् ग्रन्थे शब्दरूपाणि, धातुरूपाणि, सन्धयः, समासाः, कारकाणि, कृत्प्रत्ययाः, तद्धितप्रत्ययाः इत्यादीनि भाषायाः अवयवाः निरूपिताः सन्ति । सर्वाः शब्दव्युत्पत्तिप्रक्रियाः प्रकृतिप्रत्ययविवेकः च समीचीनतया सूत्ररूपेण निरूपिताः । पाणिनिकाले संस्कृतभाषा लोकव्यवहारस्य भाषा आसीत् । अतः एव जनभाषा आसीत् । अष्टाध्यायीसूत्रेषु प्रत्यक्षरूपेण अप्रत्यक्षरूपेण वा बहूनां विदुषां ग्रन्थानां, ग्रामाणां, जनपदानां, स्थानानां च उल्लेखः अस्ति । यथा - 'ऋतौ भारद्वाजस्य', 'वासुदेवार्जुनाभ्यां वून्', 'पुराणप्रोक्तेषु ब्राह्मणकल्पेषु', 'सिन्धुतक्षशिलादिभ्योऽणञौ' । अष्टाध्यायी मानवबुद्धेः उद्भूता अत्युत्कृष्टा कृतिः अस्ति । वैदेशिकाः विद्वांसः अपि एतं ग्रन्थम् मुक्तकण्ठं प्रशंसन्ति ।

व्याख्यानानि

 

पाणिनेः अष्टाध्यायीम् अधिकृत्य कात्यायनः वार्तिकानि अलिखत् । वार्तिकानि पाणिनीयव्याकरणस्य पूरकाणि सन्ति । महामुनिः पतञ्जलिः अष्टाध्याय्याः वार्तिकानां च व्याख्यारूपं महाभाष्यं नाम ग्रन्थं लिखितवान् । "अथ शब्दानुशासनम्" इति महाभाष्ये पतञ्जलेः प्रथमम् वाक्यम् । एवम् पतञ्जलिः महाभाष्यस्य शब्दानुशासनम् इति नामकरणम् कृतवान् । शब्दाः = नामानि, आख्याताः, उपसर्गाः, निपाताश्च इति चतुर्विधा अपि अनुशास्यन्ते अनेन इति शब्दानुशासनम्। पाणिनिः, कात्यायनः, पतञ्जलिश्च एते त्रयः व्याकरणशास्त्रस्य प्रमुखाः आचार्याः सन्ति । पाणिनिसूत्राणाम् आधारेण भट्टोजिदीक्षितः सिद्धान्तकौमुदीं रचितवान् । वरदराजः लघुसिद्धान्तकौमुद्याः रचनां कृतवान् ।