जलमालिन्यं प्रमुखेषु परिसरमालिन्येषु अन्यतमं विद्यते । सरोवराः, नद्यः, समुद्राः इत्यादिषु अनपेक्षितानां वस्तूनां संयोगेन जलमालिन्यं भविष्यति ।अस्मिन् दशके अस्माकं भूमण्डलस्य परिसरस्य प्रदूषणं विषयीकृत्य सर्वेषु राष्ट्रेषु बहुभिः नेतृभिः प्राज्ञैः वैज्ञानिकैः पौरजनैः विशेषेण चर्चा प्रचालिता । परिसरस्य प्रदूषणं विविच्य विविधया दृष्ट्या एते प्रविभागाः प्रवृत्ताः - जलमालिन्यं, वायुमालिन्यं, शब्दमालिन्यं, भूमालिन्यम्, आम्लवर्षणम् इत्यादयः । सर्वस्यापि भूमण्डलस्य परिसरस्तावत् एक एव । सः पुनः निर्मातुं न शक्यते । अतः परिसररक्षणे एव यत्नः सर्वैः विधेयः ।
जले यदा अनपेक्षितानि हानिकारकाणि विषयुक्तानि रासायनिकवस्तूनि, आम्लानि, तैलादीनि विलीयन्ते, तदा तादृशं जलं जीविनां प्राणधारणाय योग्यं न भवति । इदं जलमालिन्यम् इत्युच्यते ।
जलमालिन्यस्य एतानि प्रमुखानि कारणानि -पेट्रोलियम् तैलम्, डि.डि.टि इत्यादयः कीटनाशकाः, पि.सि.बि (पालि क्लोरिनेटड् बैफीनैल्) रासायनिकाः कीटनाशकाः, पारदः, क्याङ्मियम् आर्सैनिक् इत्यादिलोहाः, अणुशक्तिकारागारेभ्यः निसृतानि अनुपयोगीनि वस्तूनि नगरेभ्यः बहिः निष्कासितानि फेनकानि, तत्र प्रमुखानि । एवं विविधानि रासायनिकानि जलमालिन्यं कुर्वन्ति । जलजन्तूनां प्राणधरणाय जले वीलीनः आम्लजनकः अत्यावश्यकः । एतानि लवणानि जले विलीनं भूय आम्लजनकानिलं दुर्बलं कुर्वन्ति । एवं तस्मिन् मलिने जले जलजन्तवः जीवितुम् अशक्ताः भवन्ति म्रियन्ते च ।