विदुरः

 

महात्मा विदुर: तु साक्षात् धर्मस्य अवतार: आसीत् । माण्डव्यऋषे: शापेन एष: शूद्र: भूत्वा जन्म प्राप्तवान् । एष: महाराजस्य विचित्रवीर्यस्य दास्या: पुत्र: । एकरीत्या एष: धृतराष्ट्रस्य, पाण्डो: च भ्राता एव । एष: बहुबुद्धिमान्, नितिज्ञ:, धर्मज्ञ:, विद्वान्, सदाचारी, भगवद्भक्त: च आसीत् । एतस्य गुणानां कारणेन जना: एतं बहुगौरवेण पश्यन्ति स्म । निर्भीत: सत्यवादी च एष: धृतराष्ट्रस्य मन्त्री भूत्वा तस्मै सर्वदा श्रेष्ठां सूचनां ददाति स्म ।

 

दुर्योधन: जन्मन: अनुक्षणमेव शृगाल: इव चीत्कारं कर्तुम् आरब्धवान् आसीत् । तस्य जननसमये अनेका: अमङ्गलसूचना: अपि अभवन् । एतद् सर्वं दृष्ट्वा विदुर: ब्राह्मणै: सह मिलित्वा राजानं धृतराष्ट्रं वदति यत् ‘भवत: एष: पुत्र: निश्चयेन कुलनाशक: भविष्यति । अत: एतस्य त्यागः वरम् । एष: जीवति चेत् भवद्भि: दु:खम् अनुभोक्तव्यं भवति । कुलस्य निमित्तम् एकां व्यक्तिं, ग्रामस्य निमित्तम् एकं कुलं, देशस्य निमित्तम् एकं ग्रामम्, आत्मन: निमित्तं सम्पूर्णपृथिव्या: परित्यागः करणीयः चेत् दोषः नास्ति इति शास्त्रेषु उक्तम् अस्ति’ इति । किन्तु मोहवशात् धृतराष्ट्र: विदुरस्य वचनं न अङ्गीकरोति । तेन जीवनपूर्णं दु:खम् अनुभूतवान् । स्वस्य जीवनकाले एव कुलस्य नाशमपि द्रष्टव्यम् अभवत् । महात्मनः हितवचने ध्यानम् अदत्त्वा दु:खम् आहूतवान् ।

 

यदा दुर्योधन: पाण्डवानाम् उपरि अत्याचारान् कर्तुम् आरब्धवान् तदा विदुर: सहजतया पाण्डवेभ्य: सहानुभूतिं दर्शयन् आसीत् । यत: प्रथमं तु ते पितृहीना: आसन् । द्वितीयं ते धर्मात्मनः आसन् । विदुर: प्रत्यक्षपरोक्षरूपेण पाण्डवानां रक्षणं साहाय्यं च करोति स्म । पाण्डवानां यावत् वा विपदा: आगच्छन्तु नाम अन्तिमः विजयः तु तेषामेव इति विदुर: ज्ञातवान् आसीत् । दीर्घायुष्मतः पाण्डवान् केऽपि मारयितुं न शक्नुवन्ति इति एष: जानाति स्म । कदाचित् क्रीडासमये दुर्योधन: भीमसेनाय विषं खादयित्वा तं गङ्गानद्यां नुत्तवान् आसीत् । भीम: समये न प्रत्यागतवान् इति मातु: कुन्त्या: चिन्ता, दुर्योधनस्य विषये संशय: अपि आरब्धः । तदा विदुर: तस्या: समाधाननं कारयित्वा वदति – ‘एतस्मिन् अवसरे मौनेन लक्ष्यं साधयन्तु । दुर्योधनस्य विषये सन्देहस्य प्रकटनम् अपायकारि अस्ति । कुपित: स: भवत्या: अन्यबालान् अपि पीडयेत् । भीमसेन: मृत: नास्ति । सः शीघ्रं प्रत्यागच्छति’ इति । कुन्ती विदुरस्य वचनम् अङ्गीकृतवती । तस्य वचनं सत्यमभवत् । कतिपय दिनानन्तरं शक्तः भीम: प्रत्यागतवान् ।

 

लाक्षागृहत: बहि: गन्तुं मार्गं युक्तिं च विदुर: एव पाण्डवेभ्य: सूचितवान् आसीत् । एष: केवलं नीतिज्ञ: नासीत् । एतस्य बहुभाषाणां ज्ञानमपि आसीत् । पाण्डवानां वारणावतं प्रति गमनसमये एष: म्लेच्छभाषया तेषां विपत्ते: सूचनां, मुक्तिं प्राप्तुं क: उपाय: अनुसरणीय: ? इत्यपि सूचितवान् आसीत् । तावदेव न, लाक्षागृहत: बहि: गन्तुं कञ्चित् मार्गं कर्तुम् एष: पूर्वमेव सेवकमपि योजितवान् आसीत् । स: भूमे: अन्त: लाक्षागृहत: वनं गन्तुं मार्गं सज्जीकृतवान् आसीत् । लाक्षागृहाय अग्निं प्रज्वाल्य पाण्डवा: मात्रा कुन्त्या सह तेन मार्गेण एव बहि: आगतवन्त: । गङ्गातटे नद्याः पारगमनाय विदुर: नाविकेन सह नौकामपि योजितवान् आसीत् । एवं सर्वे पाण्डवा: गङ्गां पारयित्वा गतवन्त: । बुद्धिमान्, नीतिज्ञ: विदुर: एवं पाण्डवानां प्राणान् रक्षितवान् । दुर्योधनादयः यथा न जानीयुः तथा अवधानं दत्तवान् । पाण्डवा: लाक्षागृहे मात्रा सह दग्धा: अभवन् इत्येव जना: चिन्तितवन्त: । सर्वत्र शारीरकस्य बलस्य, अस्त्रबलस्य च उपयोग: न भवति । आत्मरक्षणाय नीतिबलस्य आवश्यकता अपि भवति । महात्मा विदुर: धर्मशास्त्रज्ञानेन सह नीतिभाण्डार: अपि आसीत् ।

 

यथा पाण्डवानां विषये विदुरस्य सहानुभूति: प्रेम: च आसीत् तथैव धृतराष्ट्रस्य, तस्य पुत्राणां विषयेऽपि एतस्य प्रीति:, आत्मीयता च आसीदेव । तेषां हितदृष्ट्या सर्वदा उत्तमाः सूचनाः ददाति स्म । हितेन सत्येन युक्तानि एतस्य वचनानि दुर्योधनेभ्य: अप्रियाणि भवन्ति स्म । किन्तु एष: तेषाम् अप्रसन्नताम् अविचिन्त्य तेषां शुभम् इच्छति स्म । दुर्मार्गत: तान् बहि: आनेतुम् अनवरतं यत्नं करोति स्म । दुरात्मनः पुत्रस्य प्रभावेण धृतराष्ट्र: विदुरस्य वचनं न शृणोति स्म । तेन कष्टमपि अनुभवति स्म । तथापि विदुरस्य विषये धृतराष्ट्रस्य बहुविश्वास: आसीत् । एतं बुद्धिमान्, दूरदर्शी, स्वस्य परमहितचिन्तक: इति भावयति स्म । एतस्य सूचनां विना किमपि कार्यं न करोति स्म । पाण्डवै: सह व्यवहारसमये तु विशेषरीत्या एतस्य सूचनां स्वीकरोति स्म । पाण्डवानां सम्बन्धेऽपि एष: निष्पक्षपाति: इति धृतराष्ट्र: जानाति स्म ।

 

मातुलस्य शकुने: योजनानुसारं दुर्योधन: पाण्डवै: सह द्यूतक्रीडाया: प्रस्तापं यदा पितु: पुरत: उपस्थापयति तदा अपि धृतराष्ट्र: विदुरम् अभिप्रायस्य निमित्तम् आहूतवान् । यदि मम वचनं न अङ्गीकरोति तर्हि अहं प्राणत्यागं करोमि इति दुर्योधन: पितरं भाययन् आसीत् । तथापि स: स्पष्टतया पुत्रं वदति – ‘विदुरेण सह चिन्तनेन विना अहं भवते द्यूतक्रीडार्थं कदापि अनुमतिं न ददामि’ इति । दुर्योधनस्य पापयुक्तं प्रस्तावं श्रुत्वा विदुर: इदानीं कलियुग: आगच्छन् अस्ति इति ज्ञातवान् । स: एतस्य प्रस्तावस्य नितरां विरोधं कृतवान् । अग्रजम् उक्तवान् यद् – “भवत:, भवत: अनुजस्य पुत्राणां वैरत्वम् अधिकमेव भवति । कस्यापि हितं न भवति । द्यूतक्रीडां न क्रीडन्तु । तेन उभयत्र अपि श्रेय: भवति” इति ।

 

धृतराष्ट्र: विदुरस्य अभिप्रायं प्रशंसितवान् । दुर्योधनाय बहुबुद्धिवचनम् उक्तवान् । किन्तु स: एतस्य वचनं न अङ्गीकृतवान् । द्यूते पाण्डवानाम् अपमान: भवेदेव इति स: सज्ज: आसीत् । पाण्डवानां वैभवं द्रष्टु न शक्नोति स्म । अन्ते धृतराष्ट्र: पुत्रस्य दुर्मार्गमेव अनुसृत्य विदुरस्य द्वारा पाण्डवेभ्य: इन्द्रप्रस्थत: हस्तिनापुरम् आगन्तुम् आह्वानं प्रेषितवान् । अनिच्छया एव विदुर: अग्रजस्य आज्ञां पालितवान् ।

 

इन्द्रप्रस्थं गत्वा विदुर: पाण्डवेभ्य: सर्वान् विषयान् ज्ञापितवान् । महाराज: युधिष्ठिर: द्यूतक्रीडा अनुत्तमा इति ज्ञात्वा अपि पितु: आज्ञा इति मत्वा दुर्योधनस्य अह्वानम् अङ्गीकृतवान् । द्यूतस्य समयेऽपि विदुर: तस्य दुष्परिणामान् धृतराष्ट्राय वदति – ‘इदानीं वा जागरितः भवतु । भवान् दुर्योधनस्य वचनस्य पालनं न करोतु । कुलं रक्षतु । पाण्डवै: सह विरोधं कृत्वा तान् भवत: शत्रव: इव न करोतु । तेन भवत: सर्वनाश: भविष्यति’ इति । किन्तु क्रीडा आरब्धा । शकुने: कुतन्त्रेण पाण्डवानां पराजय: अभवत् । नियमानुसारं ते वनवासार्थं प्रस्थितवन्त: । तेषां गमनानन्तरं धृतराष्ट्रस्य मनसि बहुचिन्ता व्यथा च आरब्धा । स: विदुरम् आहूय स्वस्य मन: उद्घाट्य पृच्छति – ‘इदानीं प्रजा: अस्माकं विषये सन्तुष्टाः भवेयुः । कुपितै: पाण्डवै: अस्माकं कोऽपि हानि: न भवेत् । एतादृशः व्यवहारः कथं करणीयः ?’ इति । तदा विदुर: तस्य समाधानं कारयित्वा वदति – ‘राजन् ! धर्म:, अर्थ:, काम: च एते त्रय: अपि धर्मेण एव प्राप्यन्ते । राज्यस्य मूलं धर्म: एव । अत: स्थिरतया धर्मम् अनुसृत्य पाण्डवानां, भवत: पुत्राणां च रक्षणं करोतु । भवत: पुत्र: शकुने: सूचनानुसारं पूर्णसभायां धर्मस्य तिरस्कारं कृतवान् अस्ति । यत: कपटद्यूतक्रीडायां सत्यसन्धस्य युधिष्ठिरस्य पराजयं कारयित्वा तस्य सर्वस्वमपि स्वीकृतवान् अस्ति । एष: महापराध:, अधर्म: च । एतस्य दोषस्य निवारणार्थम् एक: एव उपाय: इत्युक्ते पाण्डवै: स्वीकृतं सर्वं पुन: तेभ्य: यच्छन्तु । स्वस्य यावान् अधिकार: अस्ति तेन एव सन्तुष्ट: भवतु अन्येषाम् अधिकाराणाम् आक्रमणं न करोतु । एषः एव राज्ञ: परमधर्म: । एवम् आचरन्ति चेदेव भवत: पुत्र: कलङ्करहित: भूत्वा गौरवं प्राप्नोति । सोदरै: सह कलह: अपि न भवति । पुत्राणां सौभाग्यं किञ्चित् वा आवश्यकं चेत् एतत् कार्यं शीघ्रमेव करोतु । मोहवशात् भवान् एवं न करोति चेत् कुरुवंशस्य नाश: भविष्यति । यदि भवत: पुत्र: वचनं न शृणोति तर्हि तस्य दुरात्मनः बन्धनं कृत्वा युधिष्ठिरं राज्यसिंहासने उपवेशयतु । युधिष्ठिर: तु रागद्वेषातीत: । अत: स: एव शासनं करोतु । दु:शासनः पूर्णसभायां भीमसेनस्य, द्रौपद्या: च क्षमां प्रार्थयतु । एतावत् पर्याप्तम् । तेन भवन्त: कृतकृत्या: भवन्ति’ इति ।

 

विदुरस्य वचनं सत्ययुक्तं, धर्मयुक्तं, हितपूर्णं, निर्भितं च आसीत् । किन्तु य: मरणोन्मुख: अस्ति तस्मै निष्प्रयोजकम् औषधमिव धृतराष्ट्र: विदुरस्य वचनं न इष्टवान् । स: कोपेन वदति – ‘विदुर ! इदानीं भवते मम आवश्यकता नास्ति । इच्छति चेत् अत्र तिष्ठतु । अन्यथा गच्छतु । भवान् वारं वारं पाण्डवानां पक्षमेव गृह्णाति इति अहं जानामि । तेषां निमित्तम् अहं मम पुत्रान् कथं त्यजामि’ इति ? कौरवाणां कुलस्य नाश: जायमानः अस्ति इति ज्ञात्वा विदुर: तूष्णीम् उपविष्टवान् । अनन्तरं प्रस्थाय स: काम्यकवने स्थितानां पाण्डवानां समीपं गतवान् । तेभ्य: स्वस्य आगमनस्य कारणम् उक्तवान् । तावता विदुर: पाण्डवानां समीपं गतवान् इति ज्ञात्वा धृतराष्ट्रस्य बहुपश्चात्ताप: अभवत् ।

 

विदुरस्य चिन्तनं स्वीकुर्वन्ति चेत् पाण्डवा: इतोऽपि बलशालिन: भवन्ति इति चिन्तयित्वा धृतराष्ट्र: अनुक्षणं सञ्जयं प्रेषयित्वा विदुरम् आनेतुम् उक्तवान् । रागद्वेषरहित: विदुर: तथैव पुन: हस्तिनापुरं प्रत्यागत्य धृतराष्ट्राय वदति ‘मह्यं पाण्डवा:, भवत: पुत्रा: च सर्वे समाना: । किन्तु पाण्डवा: असहायका: । अत: तेषां साहाय्यं करणीयम् इति भाव: मनसि उत्पद्यते । मम मनसि भवत: पुत्राणां विषये द्वेषस्य भाव: तु नितरां नास्ति’ इति । धृतराष्ट्र: स्वस्य अनुचिताय व्यवहाराय विदुरे क्षमां याचितवान् । अनन्तरं विदुर: पूर्ववत् तस्य सेवायां निरत: अभवत् ।

 

कदाचित् रात्रौ धृतराष्ट्रस्य निद्रा न आगता । तदा स: रात्रौ एव विदुरम् आहूय शान्ते: उपायं पृष्टवान् । तस्मिन् अवसरे विदुर: धृतराष्ट्राय धर्मस्य नीते: च सुन्दरम् उपदेशं दत्तवान् । सा एव विदुरनीति: इति उद्योगपर्वणः ३३त: ४० पर्यन्तम् अष्टेषु अध्यायेषु सङ्गृहीता अस्ति । एष: विषय: स्वतन्त्रतया अध्ययनं कर्तुं मननं कर्तुं च योग्यः अस्ति ।

 

विदुरस्य वचनं श्रुत्वा धृतराष्ट्रस्य तृप्ति: न अभवत् । स: इतोऽपि श्रोतुम् इष्टवान् । तदा विदुर: वदति ‘महाराज ! मया यद् वक्तव्यम् आसीत् तत् सर्वम् उक्तवान् अस्मि । इदानीं ब्रह्मणः पुत्र: सनत्सुजात: नामकः कश्चन सनातन: ऋषि: आगच्छति । स: एव भवते तत्त्वोपदेशं करोति । तत्त्वोपदेशं कर्तुं मम अधिकार: तु नास्ति । यत: मम जन्म शूद्राया: गर्भे अभवत् ’ एवम् उक्त्वा स: अनुक्षणं सनत्सुजातम् अस्मरत् । अविलम्बेन एव सनत्सुजात: महर्षि: तत्र प्रत्यक्ष: अभवत् । स: राज्ञ: धृतराष्ट्रस्य प्रश्नेभ्य: उत्तरं यच्छन् परमात्मनः स्वरूपस्य, तस्य साक्षात्कारस्य विषये बहुसुन्दरतया विवेचनाम् अकरोत् । एवं विदुर: धृतराष्ट्राय सनत्सुजातसदृशस्य सिद्धयोगिनां, परममहर्षे: द्वारा तत्त्वोपदेशं कारयित्वा तस्य श्रेयोमार्गं प्रशस्तीकृतवान् । महात्मानां जीवनमेव इतरेषां श्रेयोनिमित्तं भवति । विदुर: तत्त्वज्ञानी चेदपि स्वस्य शूद्रत्वस्य कारणेन स: स्वयं तत्त्वोपदेशम् अकृत्वा सनातनस्य मर्यादाया: रक्षणं कृतवान् । एवं ज्ञानिना अपि शास्त्रमर्यादा रक्षणीया इति उपदेशं दत्तवान् । सनत्सुजातस्य एष: उपदेश: ‘सनत्सुजातीय’ इति नाम्ना उद्योगपर्वणः ४१ त: ४६ पर्यन्तं षड्षु अध्यायेषु सङ्गृहीतः अस्ति ।

 

विदुर: केवलं ज्ञानी, तत्त्वदर्शी च नासीत् । स: कश्चन अनन्य भगवद्भक्त: अपि आसीत् । श्रीकृष्णस्य चरणयोः एतस्य निश्चला प्रीति: आसीत् । परमात्मा अपि एतं बहुइच्छति स्म । यदा श्रीकृष्ण: पाण्डवानां राजदूत: भूत्वा हस्तिनापुरं गतवान् तदा स: राज्ञा धृतराष्ट्रेण सभासद्भिः च मिलित्वा अनन्तरं विदुरस्य गृहं गत्वा तस्य आतिथ्यं स्वीकृतवान् । अनन्तरं स्वस्य पितृभगिन्या कुन्त्या मिलितवान् । यदा श्रीकृष्ण: दुर्योधनं दृष्टवान् तदा एष: स्वस्य सम्बन्धी इति भावेन तं भोजनार्थं तिष्ठतु इति प्रार्थितवान् चेदपि श्रीकृष्ण: तस्य आह्वानं स्पष्टतया तिरस्कृत्य पुन: विदुरस्य गृहम् एव आगतवान् । भीष्‍मः, द्रोणः, कृपः, बाह्लीक: च इत्यादया: अनेके मेलनार्थं तत्रैव आगतवन्तः । सर्वे आतिथ्यं स्वीकरोतु इति श्रीकृष्णं प्रार्थितवन्त: । किन्तु श्रीकृष्ण: सर्वान् सम्मानपूर्वकं प्रेषयित्वा विदुरस्य गृहे एव स्थित्वा ब्राह्मणाय प्रथमं भोजनं दत्त्वा स्वयमपि भोजनम् अकरोत् । एतेन विदुरस्य श्रीकृष्णस्य विषये सह कियत् प्रेम आसीत् इति ऊहां कर्तुं शक्नुमः । प्रेम्णा विना केवलं राजयोग्येन आडम्बरेण स: आकृष्ट: न भवति । किन्तु प्रेमरसे निमज्जितं सामान्येन भोजनेन अपि स: तृप्त: भवति स्म।

 

भोजनानन्तरं रात्रौ अपि श्रीकृष्ण: विदुरस्य गृहे एव शयितवान् । सम्भाषणं कुर्वन्तौ रात्रिं यापितवन्तौ । प्रात:काले नित्यकर्म समाप्य श्रीकृष्ण: कौरवाणां सभायै गतवान् । तत्र दुर्योधन: श्रीकृष्णस्य बन्धनस्य दु:साहसपूर्णां योजनां यदा करोति तदा विदुर: तस्मै परमात्मनः महिमाया: वर्णनं कुर्वन् वदति ‘एष: साक्षात् सर्वतन्त्र: स्वतन्त्र: ईश्वर: । भवान् एतं तिरस्करोति चेत् अग्नौ पतित: पतङ्गः इव भवत: सर्वनाश: भविष्यति’ इति । अनन्तरं श्रीकृष्ण: स्वस्य विश्वरूपं दर्शितवान् । भीता: जना: नेत्रनिमीलनं कृतवन्त: । केवलं भीष्मपितामह:, गुरुद्रोणाचार्य:, विदुर:, सञ्जयः, ऋषय: च विश्वरूपदर्शनं कृतवन्त: । यत: भगवान् एतेभ्य: दिव्यदृष्टिं दत्तवान् आसीत् । किञ्चित् कालानन्तरं स्वस्य लीलां समाप्य श्रीकृष्ण: तत: प्रस्थितवान् । विदुर: अपि अन्यै: सह किञ्चित् दूरपर्यन्तं तं प्रेषयित्वा आगतवान् ।

 

यदा श्रीकृष्णस्य सन्धानमपि विफलं जातं तदा पक्षद्वयेऽपि युद्धस्य सज्जता आरब्धा । अष्टादश-अक्षोहिणी सैन्येन सह पाण्डवाः कौरवाः कुरुक्षेत्रस्य अङ्गणे मिलितवन्त: । अष्टादशेषु दिनेषु सम्पूर्णस्य सैन्यस्य नाश: अभवत् । धृतराष्ट्रस्य पुत्रपौत्राणां सर्वनाशेन स: बहुदु:खम् अनुभूतवान् । तदा विदुर: मृत्यो: अनिवार्यतां निरूपयन् उक्तवान् – ‘युद्धे य: मरणं प्राप्नोति तस्य उत्तमगति: लभ्यते । अत: तेषां निमित्तं शोक: न करणीय: । जीव: यावत् वारं जन्म प्राप्नोति तावद् वारमपि स: अन्यान्यव्यक्तिभिः सह सम्बन्धं प्राप्नोति । मृत्यो: अनन्तरं सर्वे सम्बन्धा: अपि स्वप्नाः इव विलीनाः भवन्ति । अत: मृतेभ्य: सम्बन्धिकेभ्य: बुद्धिमान् शोकं न करोति । सुखै: दु:खै: सह सम्बद्धाः संयोग: वियोग: इत्यादिघटना: अपि स्वयं कृतानां शुभाशुभकर्माणां फलरूपेण लभ्यन्ते । कर्मफलं तु सर्वै: जीवै: अनुभोक्तव्यमेव इत्युक्त्वा अनन्तरमपि विदुर: जगत: नश्वरता, नि:सारता, परिवर्तनं, जन्ममृत्यो: क्लेश:, जीवस्य अविवेक:, मृत्यो: दृष्ट्यां सर्वेषां समानता, धर्मस्य आचरणस्य महत्त्वम् इत्यादिकम् उपदिशन् प्रापञ्चिकेन दु:खेन मुक्तिं प्राप्तुम् उपायानां दिग्दर्शनं कारितवान् ।

 

युधिष्ठिरस्य राज्याभिषेकस्य अनन्तरं धृतराष्ट्र: पाण्डवानां समीपे एव आसीत् । तदा विदुर: अपि तत्रैव स्थित्वा तेन सह सर्वदा धर्मस्य विचारे सम्भाषणं करोति स्म । यदा धृतराष्ट्र: पत्न्या सह वानप्रस्थाश्रमं प्रस्थितवान् तदा एष: अपि तै: सह वनं गतवान् । वने विदुर: घोरतपसः आचरणस्य व्रतम् आरब्धवान् । आहारेण विना निर्जने वने एकान्तवासम् आरब्धवान् । शून्ये वने यदाकदापि जनानां दर्शनं भवति स्म । किञ्चित्कालानन्तरं कदाचित् महाराज: युधिष्ठिर: स्वस्य समस्तपरिवारेण, सैन्येन सह ज्येष्ठपितृव्यं, पितृव्यां, मातरं कुन्तीं, विदुरं च द्रष्टुं वनम् आगतवान् । तत्र विदुरम् अदृष्ट्वा तस्य विषये धृतराष्ट्रं पृच्छन् आसीत् । तावता तस्मै दूरे विदुर: दृष्ट: । स: शिरसि जटां कृत्वा दिगम्बर: भूत्वा मुखे कञ्चन शिलाखण्डं स्थापितवान् आसीत् । तस्य मलिने, दुर्बले शरीरे नाड्यः उपरि दृश्यन्ते स्म । स: धृतराष्ट्रस्य आश्रमं पश्यन् पृष्ठत: गच्छन् आसीत् ।

 

युधिष्ठिर: तस्य मेलनार्थं तस्य पृष्ठत: धावितवान् । स्वस्य नाम, परिचयम् उक्त्वा अपि तम् आहूतवान् । धावन् विदुर: गहनं वनं गत्वा कस्यचित् वृक्षस्य साहाय्येन स्थिरतया स्थितवान् । राजा युधिष्ठिर: यदा पश्यति तदा तस्य शरीरं केवलम् अस्तिपञ्जरम् इव आसीत् । तम् अभिज्ञातुम् एव कष्टं भवति स्म । युधिष्ठिर: पुरत: स्थित्वा तस्य पूजाम् अकरोत् । समाधिस्थ: विदुर: तदेकदृष्ट्या युधिष्ठिरं पश्यन् आसीत् । अनन्तरं स: योगबलेन स्वस्य अङ्गाङ्गान् युधिष्ठिरस्य अङ्गाङ्गेषु अङ्गानि, इन्द्रियाणि तस्य इन्द्रियेषु, प्राणान् तस्य प्राणेषु संयुज्य युधिष्ठिरस्य शरीरे प्रवेशितवान् । तस्य निर्जीवं शरीरं पूर्ववत् वृक्षस्य साहाय्येन स्थितमासीत् । एवं साक्षात् धर्मस्य अवतार: महात्मा विदुर: धर्ममयं जीवनं यापयित्वा अन्ते धर्ममूर्ते: महाराजस्य युधिष्ठिरस्य शरीरे एव विलीन: अभवत् ।