🔴 श्री आञ्जनेयस्तोत्रम् 🔴

       ➖➖➖➖➖

रं रं रं रक्तवर्णं दिनकरवदनं तीक्ष्णदंष्ट्राकरालं

रं रं रं रम्यतेजं गिरिचलनकरं कीर्तिपञ्चादिवक्त्रम् ।

रं रं रं राजयोगं सकलशुभनिथिं सप्तभेतालभेद्यं

रं रं रं राक्षसान्तं सकलदिशयशं रामदूतं नमामि ॥ १॥

खं खं खं खड्गहस्तं विषज्वरहरणं वेदवेदाङ्गदीपं

खं खं खं खड्गरूपं त्रिभुवननिलयं देवतासुप्रकाश ।

खं खं खं कल्पवृक्षं मणिमयमकुटं मायमायास्वरूपं

खं खं खं कालचक्रं सकलदिशयशं रामदूतं नमामि ॥ २॥

इं इं इं इन्द्रवन्द्यं जलनिधिकलनं सौम्यसाम्राज्यलाभं

इं इं इं सिद्धयोगं नतजनसदयं आर्यपूजार्चिताङ्गम् ।

इं इं इं सिंहनादं अमृतकरतलं आदि अन्त्यप्रकाशं

इं इं इं चित्स्वरूपं सकलदिशयशं रामदूतं नमामि ॥ ३॥

सं सं सं साक्षिरूपं विकसितवदनं पिङ्गालाक्षं सुरक्षं

सं सं सं सत्यगीतं सकल मुनिस्तुतं शास्त्रसम्पत्करीयम् ।

सं सं सं सामवेदं निपुणसुललितं नित्यतत्त्वं स्वरूपं

सं सं सं सावधानं सकलदिशयशं रामदूतं नमामि ॥ ४॥

हं हं हं हंसरूपं स्फुटविकटमुखं सूक्ष्मसूक्ष्मावतारं

हं हं हं अन्तरात्मं  रविशशिनयनं रम्यगम्भीरभीमम् ।

हं हं हं अट्टहासं सुरवरनिलयं ऊर्ध्वरोमं करालं

हं हं हं हंसहंसं सकलदिशयशं रामदूतं नमामि ॥ ५॥

इति आञ्जनेयस्तोत्रं समाप्तम् ।