भागवतपुराण

भागवतपुराण

Loading...

श्रीमद्भागवतमहापुराणम् ( SrimadbhagavataPurana) हिन्दूधर्मस्य अनुयायिनाम् अष्टादशपुराणेषु अन्यतमम्। एतत् पुराणं श्रीमद्भागवतम् अथवा केवलं "भागवतम्" च उच्यते। पुराणस्य मुख्यवर्ण्यविषयः भक्ति योगः अस्ति। पुराणे कृष्णं सर्वेषां देवानां देव: इति वा स्वयं भगवान् इति रूपेण वा चित्रितवन्त: सन्ति। एतत् अतिरिच्य अस्मिन् पुराणे रसभावं भक्तिनिरूपणञ्च कृतवन्त: सन्ति, परम्परागतरुपेण एतस्य पुराणस्य रचयिता व्यासः । श्रीमद्भागवतम् भारतीयवाङ्मयस्य मुकुटमणिः इव अस्ति। भगवता शुकदेवेन महाराज्ञे परीक्षिताय उक्तस्य भक्तिमार्गस्य वर्णनं अस्मिन् पुस्तके अस्ति। पुराणस्य प्रत्येकं श्लोक: श्रीकृष्णप्रेम्णा सुगन्धित: अस्ति। साधन-ज्ञानं, सिद्धज्ञानं, साधन-भक्तिः, सिद्धा-भक्तिः, मर्यादा-मार्गः, अनुग्रह-मार्गः, द्वैताद्वैतसमन्वयेन सह प्रेरणादायीनि विविधानि उपाख्यानानि अद्भुतप्रकारेण सङ्गृहीतानि सन्ति। [१]

भागवतपुराणे महर्षि सूत गोस्वामी तस्य समक्षे प्रस्तुतसाधूभ्यः शौनकादिभ्यो एकां कथाम् उवाच। साधवः सूतसमक्षे भगवतः विष्णोः विभिन्नानाम् अवताराणां विषये जिज्ञासां कुर्वन्ति। सूतगोस्वामी समस्तप्रश्नानां उत्तरं ददाति। अस्मिन् ग्रन्थे द्वादश स्कन्धाः वर्तन्ते। प्रथमे स्कन्धे सर्वेषाम् अवताराणां संक्षिप्तरुपेण वर्णनं कृतमस्ति। द्वितीये स्कन्धे पुराणलक्षणानां वर्णनं कृतम्। एते लक्षणाः सर्गः, विसर्गः, स्थानं, पोषणम्, ऊतयः, मन्वन्तरम्, ईशानुकथा, निरोधः, मुक्तिः, आश्रयश्च। एतेषाम् लक्षणानाम् वर्णनं तृतीयस्कन्धादारभ्य द्वादशस्कन्धपर्यन्तं क्रमेण भवति।

विद्यावतां भागवते परीक्षा इत्युक्तेर्भागवतस्य काठिन्यं श्रुतचरम् । भागवतस्य पुराणत्वे लोकाः सन्दिहते, ते हि देवीभागवतमेवाष्टादशपुराणान्तर्गतं मन्यन्ते न श्रीमद्भागवतम् । त्रयोदशशतकोत्पन्नो वोपदेवनाम‌ वङ्गीयो विद्वान् श्रीमदभागवतं प्रणीतवानिति कथनमपि श्रीमदभागवतस्य पुराणत्वं सन्देहे पातयतां केषाञ्चनावस्तुतत्त्वविदामेव ।

वस्तुतस्तु पुराणेषु अपेक्षितस्य ग्रन्थविस्तरस्य ‘सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षणम्’ इति स्वरुपनिर्दिशस्य च भागवते सत्त्वेन तदीयं महापुराणत्वं न सन्देहदोलाधिरुढम् श्रीमदभागवतं गायत्रिमन्त्रेणारभ्यते तेनैव च समाप्तिमाप्नोतीति मन्ये महामन्त्रसम्पुटितमिदं न केवलं पुराणमेवापि तु महापुराणम् । अष्टादशपुराणेषु गणनाऽपि भागवतशब्दसाधारण्यादुभयोः प्राप्नोति, तत्र श्रीमदभागवतमुत्कृष्टगुणशालितया प्राथम्यमर्हति ।

वोपदेवेन त्रयोदशशतकोत्पन्नेन भागवतं रचितमिति कथनं तु नितान्तनिर्मूलम् तत्र कारणान्यधो निर्दिश्यते –

१. द्वैतमतानुयायी मध्वाचार्यो भागवतोपरि भागवततात्पर्यनिर्णयं नाम टीकाग्रन्थं व्यरचयत्, मध्वाचार्यः ११९९ ई. वर्षे जन्माग्रहीत्, अतस्त्रयोदशशतकात् पूर्वकालिकं भागवतं त्रयोदशशताब्द्यामुत्पन्नेन वोपदेवेन प्रणीतं न सम्भवति ।
२. एकादशशतकोत्पन्नो रामानुजाचार्यो वेदान्ततत्वसारनामके स्वग्रन्थे भागवतवर्त्तिवेदस्तुतेः पद्यमुदधृतवान् ।
३. चित्सुखाचार्येण नवमशतकसम्भूतेन विरचिताया भागवतव्याख्याया निर्देशो मध्वाचार्यश्रीधरस्वामिविजयध्वजैः स्वग्रन्थेषु कृतः ।
४. दशमशतकोत्पन्नः प्रत्यभिज्ञादर्शनाचार्योऽभिनवगुप्तः स्वीयायां गीतादीकायां भागव्तस्यैकादशस्कन्धतः कतिपयपद्यानि उद्धृतवान् ।
५. साङ्ख्याकारिकासु माठरवृत्तिनाम्नी व्याख्या विद्यते, यस्याः अनुवादःचीनदेशभाषायां ५५७-५६९ मध्ये कदाचिदजायत, तत्र भागवतस्य श्लोकद्वयं निर्दिष्टम् ।
६. अष्टमशतकोत्पन्नः शङ्कराचार्यः गोविन्दाष्टक-प्रबोधसुधाकरनामकयोः स्वस्तोत्रयोः स्तुतिप्रसङ्गे यासां घटनानां चर्चामकृत ता भागवत इव स्थिताः ।
७. शङ्कराचार्यस्य परमगुरवः गौडपादाचार्याः पञ्चीकरणव्याख्यां ‘जगृहे पौरुषं रुपम्’ इति भागवतस्य पद्यं भागवतनामोपादानपूर्वकसुद्धृतवान् । अयं गौडपादाचार्यः षष्ठ शतकात् परतो नैव सम्भावयितुं शक्यते ।

इमानि प्रमाणानि सभेरीनादं साधयन्ति भागवतस्य षष्ठशतकात्प्राचीनताम्, तथा सति त्रयोदशशताब्दीजातेन वोपदेवेन निर्मितत्वं वक्तुरुपहासायैव केवलम् । पद्मपुराणान्तर्गतभागवतमाहात्म्यानुसारेण तु कलियुगप्रारम्भ एव भागवतस्य निर्माणं सिद्ध्यति । वोपदेवेन यदि भागवतं कृतं तदा हरिलीलामृतं मुक्ताफलं चेति ग्रन्थद्वयं कथं कृतम् ? हरिलीलामृते भागवतानुक्रमणी विद्यते, मुक्ताफलं च भागवतस्थसरसश्लोकानां संग्रहः, वोपदेवस्य भागवतरचयितृत्वे मुक्ताफलसदृशस्य ग्रन्थस्य तेनैव प्रणयनएप्यर्थमेव स्यात् ।

देवनागरी ब्राह्मी लिपि परिवर्तक...
Virendra Tiwari

देवनागरी ब्राह्मी लिपि परिवर्तक function convert_to_Devanagari() { var a [ ... ]

अधिकम् पठतु
तिङन्त निर्माणक
Virendra Tiwari

$(function() { var availableTags = ['aMsa','ahi!','aka!','akzU!','aga!','aNka','aki!','aNga',' [ ... ]

अधिकम् पठतु
प्रत्यय निर्माणक
Virendra Tiwari

सवर्ण निर्माणक देववाणी - याति स्वयं प्रख्यार्पितग [ ... ]

अधिकम् पठतु
संधि निर्माणक
Virendra Tiwari

संधि निर्माणक देववाणी - याति स्वयं प्रख्यार्पितग [ ... ]

अधिकम् पठतु
धातु रूप निर्माणक देववाणी...
Virendra Tiwari

धातु रूप निर्माणक देववाणी - याति स्वय [ ... ]

अधिकम् पठतु
भगवती के ५१ प्रमुख शक्तिपीठ...
Virendra Tiwari

॥ ॐ दुं दर्गायॆ नम: ॥
॥ भगवती के ५१ प्रमुख शक्तिपीठ ॥
**********

1. कि [ ... ]

अधिकम् पठतु
अन्य लेख