जमदग्निः

अयं कश्चन ऋषिः । अस्य पत्नी प्रसेनजितः पुत्री रेणुका । अयं मुनेः ऋचीकस्य पुत्रः । अस्य माता गाधिराजस्य पुत्री सत्यवती । जमदग्नेः रुमण्वन्तःसुषेणःवसुःविश्वावसुःपरशुरामश्चेतिपञ्च पुत्राः ।
रेणुका कदाचित् स्नानाय नदीतीरं गतवती आसीत् । तत्र स्वस्य पत्नीभिः सह जलक्रीडायां मग्नस्य गन्धर्वस्य चित्रतथस्य दर्शनेन मोहयुक्ता जाता । तत्रैव अधिकं समयं याप्य विलम्बेन आश्रमं प्रत्यागतवती । जमदग्निः पत्न्याः चारित्र्यविषये क्रुद्धः सन् चतुरः पुत्रान् उद्दिश्य मातरं मारयितुम् आदिष्टवान् । किन्तु ते चत्वारः अपि तूष्णीम् अतिष्ठन् । तदा जमदग्निः तान् उद्दिश्य 'जडाः भवन्तु’ इति शप्तवान् । ततः परशुरामम् आदिष्टवान् । भ्रातृभिः प्राप्तां दुर्गतिं दृष्ट्वा परशुरामः अचिरात् पितुः आदेशम् परिपाल्य आगत्य पितरं नमस्कृतवान् ।
तेन परमसन्तुष्टः जमदग्निः वरं पृच्छ्यताम् इति अवदत् । जननी पुनरुज्जीविता स्यात्, सा प्रवृत्तं न किमपि स्मरेत्, भ्रातरः पूर्वस्थितिं प्राप्नुयुः, जमदग्निः कोपं परित्यजेत् इत्येषा मम अपेक्षा इत् अवदत् पुत्रः परशुरामः । जमदग्निः स्वस्य सम्मतिम् असूचयत् ।
जमदग्निः कार्यवीर्यस्य पुत्रेण शूरसेनेन हतः जातः । अयम् इदानीं प्रवर्तमानस्य वैवस्वतमन्वन्तरस्य सप्तर्षिषु अन्यतमः । अयं गोत्रप्रवर्तकः अस्ति ।

देवनागरी ब्राह्मी लिपि परिवर्तक...
Virendra Tiwari

देवनागरी ब्राह्मी लिपि परिवर्तक function convert_to_Devanagari() { var a [ ... ]

अधिकम् पठतु
तिङन्त निर्माणक
Virendra Tiwari

$(function() { var availableTags = ['aMsa','ahi!','aka!','akzU!','aga!','aNka','aki!','aNga',' [ ... ]

अधिकम् पठतु
प्रत्यय निर्माणक
Virendra Tiwari

सवर्ण निर्माणक देववाणी - याति स्वयं प्रख्यार्पितग [ ... ]

अधिकम् पठतु
संधि निर्माणक
Virendra Tiwari

संधि निर्माणक देववाणी - याति स्वयं प्रख्यार्पितग [ ... ]

अधिकम् पठतु
धातु रूप निर्माणक देववाणी...
Virendra Tiwari

धातु रूप निर्माणक देववाणी - याति स्वय [ ... ]

अधिकम् पठतु
भगवती के ५१ प्रमुख शक्तिपीठ...
Virendra Tiwari

॥ ॐ दुं दर्गायॆ नम: ॥
॥ भगवती के ५१ प्रमुख शक्तिपीठ ॥
**********

1. कि [ ... ]

अधिकम् पठतु
अन्य लेख