स्वातन्त्र्यदिनोत्सवः ( Sanskrit Essay on Independence Day )

 

              भारतस्वतन्त्रतादिनम्  'अगस्त'-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वं ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्य शासनं भारतीयेभ्यः यच्छन्तः भारतत्यागम् अकुर्वन् । भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आचर्यते ।

             स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः देहली-महानगरस्थे रक्तदुर्गे (लालकिला, red fort) भारतगणराज्यस्य राष्ट्रपतेः भाषणेन आरभते । ततः प्रधानमन्त्रिद्वाराध्वजारोहणं भवति । अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति । ततः सर्वेषां राज्यानां राजधानीषु मुख्यमन्त्रिणःध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति ।

           स्वातन्त्र्यदिने प्रातः सप्तवादने ध्वजारोहणस्य कार्यकालः । ततः भारतगणराज्यस्य राष्ट्रपतिः देशं सम्बोध्य भाषणं करोति । राष्ट्रपतेः भाषणानन्तरंभारतगणराज्यस्य प्रधानमन्त्री देशं सम्बोधयति । तस्मिन् दिने भारतीयत्रिवर्णध्वजः सर्वत्र विराजते ।

भारतस्वतन्त्रतादिनम् ( ( शृणु) /ˈsvɑːtəntrjədɪntsəvəh/) (हिन्दीभारतस्वतन्त्रता दिवसआङ्ग्लIndependence Day (India)) 'अगस्त'-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्केभारतगणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वं ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्यशासनं भारतीयेभ्यः यच्छन्तः भारतत्यागम् अकुर्वन् । भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आचर्यते ।

भारतदेशे पूर्वं यवनाः विदेशात् आगत्य अत्र स्थित्वा प्रशासनम् अकुर्वन् । अनन्तरं पुर्तुगाल-देशीयाः, नेदरर्लैण्ड-देशीयाः, फ्रान्स-जनाः, ब्रिटिश-जनाः च आगताः । सर्वे अत्र शासनम् अकुर्वन् । तेषु प्रबलाः आङ्ग्लाः दीर्घकालपर्यन्तं प्रशासनाधिकारं प्रापन् । ततः स्वतन्त्रतां प्राप्तुंकर्णाटकराज्ये आङ्ग्लविरुद्धं युद्धं राज्ञी कित्तूरु चेन्नम्म आरभत । मङ्गल पाण्डेयराज्ञी लक्ष्मीबाईतात्या टोपे इत्यादयः युद्धं कृत्वा जनानपि प्राचोदयन् । देशे स्वाभिमानिनः राष्ट्रभक्ताः विभिन्नैः क्रान्तिमार्गैः आङ्ग्लविरुद्धं युद्धम् अकुर्वन् । सरदार वल्लभभाई पटेलभगत सिंह,मदनलाला धिङ्ग्राचन्द्रशेखर आजादमहात्मा गान्धीमैलार महादेवसङ्गोळ्ळि रायण्णनाना साहेब इत्यादयः आङ्ग्लविरुद्धं युद्धम् अकुर्वन् । लाला लाजपत रायमातङ्गिनी हाजराभगत सिंहचन्द्रशेखर आजाद सदृशाः वीरदेशभक्ताः स्वप्राणाहुतिम् अपि अयच्छन् । तेषाम् अन्तिमसमयेऽपि मनसि वचने च 'भारत माता की जय', ‘वन्दे मातरं’ जयघोषाः भवन्ति स्म । एवं भारतदेशं स्वतन्त्रं कर्तुं बहूनिस्वतन्त्रतान्दोलनानि अभवन् ।

इतिहासः

१८५७ तमे वर्षे भारते प्रप्रथमं स्वतन्त्रतान्दोलनम् अभवत् । १८२० तमस्य वर्षस्य कित्तूरु चेन्नम्मा इत्यस्याः आङ्ग्लविरुद्धं युद्धम् अपि प्रप्रथमम् आङ्ग्लविरुद्धम् आन्दोलनं गण्यते । कित्तूरु चेन्नम्माझांसी लक्ष्मीबाईतात्या तोपे, राजा कुंवर सिंह, नाना साहेबमङ्गल पाण्डेय इत्यादीनाम् आह्वानेन भारतीयाः तयोः आङ्ग्लविरुद्धयोः युद्धयोः भागम् अवहन् । परन्तु आङ्ग्लानां कूटनीतेः कारणेन, भारतीयानां देशद्रोहस्य बाहुल्येन च तयोः युद्धयोः भारतीयानां करुणपराजयः अभवत् । ततः अपि भारतस्वातन्त्रतायाः अग्निः अखण्डः आसीत् ।

कालान्तरे रामप्रसाद बिस्मिलचन्द्रशेखर आजादभगत सिंहसुखदेवराजगुरुबटुकेश्वर दत्तभगवतीचरण वर्मादुर्गा भाभीसुशीला भगिनीमातङ्गिनी हाजरालाला लाजपत रायसुभाष चन्द्र बसुजयप्रकाश नारायणसरदार वल्लभभाई पटेलमहात्मा गान्धी इत्यादयः स्वतन्त्रतासङ्ग्रामे स्वयोगदानम् अयच्छन् । १८२० तः १९४७ पर्यन्तं भारतीयानाम् अविरतप्रयासेन १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे (१५/८/१९४७) दिनाङ्के भारतीयाः स्वतन्त्रतां प्रापन् ।

भारतात् पलायनस्य पृष्ठे अपि आङ्ग्लानां कूटनीतिः आसीत् । गमनकाले ते भारतस्य विभाजनं कृत्वा अगच्छन् । भारतस्य सीमावर्तिप्रदेशान् पाकिस्थानाय दत्त्वा भारतं विकटस्थित्याम् उपास्थापयन् । भारतस्यपाकिस्थानेन सह पौनःपुन्येन युद्धे सति भारतं स्वतन्त्रतायै योग्यं नास्ति इति सिद्धयितुं तेषां प्रयासः आसीत् । परन्तु सरदार वल्लभभाई पटेलवी पी मेननबी आर् आम्बेडकर इत्यादीनाम् अविरतप्रयासेन तेषां पुनरागमनस्य स्थितिः अपाभवत् ।

स्वतन्त्रतानन्तरं भारतम्

१९४७ तमे वर्षे आङ्गलाः भारतं त्यक्त्वा अगच्छन् । स्वतन्त्र्याप्राप्तेः अनन्तरम् आङ्ग्लैः जनिताः अनेकाः कष्टदायिकाः समस्याः भारतदेशे समुद्भूताः । पाकिस्थान-भारतयोः असङ्ख्याकाः जनाः देशविभाजनप्रक्रियायां मृताः । भारते प्रधानमन्त्री जवाहरलाल नेहरू इत्यस्य काले कृषि-उद्योग-आरोग्य-शिक्षा-यन्त्रागारादिषु क्षेत्रेषु कार्यम् आरभत । ततः ग्रामोद्धारः, महिलाशिक्षा, निरुद्योगपरिहारः, आहारोत्पादनं, विद्युदुत्पादनं, जलबन्धानां निर्माणम् इत्यादीनि उत्तमकार्याणि स्वतन्त्रे भारते आरब्धानि । भारतदेशे जनसङ्ख्यायाः आधिक्यात् समस्याः अधिकाः आसन् । भारतीयसर्वकारः भारतीयसंविधानस्य माध्येन भारतस्यसुचारुशासनद्वारा शनैः शनैः देशजनानां दुःखनिवारणस्य कार्यं करोति स्म ।

 
भारतस्य भविष्यम्

यद्यपि भारतीयसंविधाने "सर्वेषां समानाधिकारः" इति नियमेन भारतीयानां विकासे वेगः अवर्धत, तथापि "देशस्य केचन वर्गाः दुःखिताः सन्ति" इति सर्वकारेणानुभूतम् । अतः संविधाने दलित-वर्गस्य दुःखं परिहर्तुं प्रयासाः अभवन् । सर्वेषां कृते उत्तमा योजना अभवत् । भारतस्वतन्त्रतानन्तरं संविधानस्यनिर्माणं भारतीयशासनस्य स्थायित्वस्य शिलान्यासः आसीत् । अतः २६/१ तमे दिनाङ्के वयं प्रजासत्ताकदिनस्य उत्सवम् आचरामः ।

स्वतन्त्रतादिने उत्सवः

स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः देहली-महानगरस्थे रक्तदुर्गे (लालकिला, red fort) भारतगणराज्यस्य राष्ट्रपतेः भाषणेन आरभ्यते । ततः प्रधानमन्त्रिद्वाराध्वजारोहणं भवति । अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति । ततः सर्वेषां राज्यानां राजधानीषु मुख्यमन्त्रिणःध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति । आभारते शैक्षणिकसंस्थासु, सर्वकारसंस्थासु, स्वयंसेविसंस्थासु सर्वत्र ध्वजारोहणेन सह राष्ट्रगानं भवति । विभिन्नाः शैक्षणिकसंस्थाः बालकेषु देशभक्त्याः भावम् उत्पादयितुं विभिन्नानां स्पर्धानाम् आयोजनं कुर्वन्ति । भाषणस्पर्धा, देशभक्तिगीतानां गायनं, समूहनृत्यं, नाटकानि, पदयात्राः, प्रदर्शिन्यः इत्यादीनाम् आयोजनं भवति । दिनेऽस्मिन् सर्वत्र स्वातन्त्र्यवीराणां स्मरणम्, आत्मार्पणं कृतवतां संस्मरणं, वीरगाथाश्रावणं च प्रतिध्वनति ।

ध्वजारोहणस्य समारोहः

स्वातन्त्र्यदिने प्रातः सप्तवादने ध्वजारोहणस्य कार्यकालः । ततः भारतगणराज्यस्य राष्ट्रपतिः देशं सम्बोध्य भाषणं करोति । राष्ट्रपतेः भाषणानन्तरंभारतगणराज्यस्य प्रधानमन्त्री देशं सम्बोधयति । तस्मिन् दिने भारतीयत्रिवर्णध्वजः सर्वत्र विराजते । मध्याह्नेऽपि सांस्कृतिककार्यक्रमाः आयोज्यन्ते । स्वातन्त्र्योत्सवः भारतस्य राष्ट्रियपर्व अस्ति । अस्मिन् पर्वणि सर्वे भारतीयाः एकीभूय भागं गृह्णन्ति । स्वातन्त्र्योत्सवसमारम्भेषु भारतस्य स्थितिविषये अभिवृद्धिकार्यविषये चर्चा, चिन्तनं च भवति । तस्मिन् दिने आभारते अवकाशः भवति । यतो हि भारतीयाः स्वतन्त्रतायोद्धॄणां सम्मानाय, भारतस्य स्वतन्त्रतायाः उत्सवाय, देशस्य वर्तमानस्थित्याः मूल्याङ्कनाय च स्वसमयं दातुं प्रभवन्ति ।

स्वातन्त्र्यप्राप्तिः अतिकष्टेन अभवत् । देशविकासकार्येण तस्याः स्वतन्त्रतायाः संरक्षणं भारतीयैः कर्तव्यम् अस्ति । राष्ट्रं वैदेशिकेभ्यः, भ्रष्टचारिभ्यः, भयोत्पादकेभ्यः च रक्षितुं सर्वैः सन्नद्धाः भवितव्यम् । स्वस्य दायित्वस्य सम्यक्तया पालनं, देशभक्त्याः विचारान् धृत्वा च कार्यं कर्तव्यम् । देशरक्षणं न केवलं सैनिकानां दायित्वम्, अपि तु सर्वेषां भारतीयानां दायित्वम् इति अस्माभिः स्मर्तव्यम् । विद्यार्थिनः देशविकासाय सम्यक्तया अध्ययनं कुर्युः, पिता स्वपुत्राय सद्संस्कारान् दद्यात्, माता स्वपुत्रीं पाठयेत्, शिक्षकः स्वविद्यार्थिषु ज्ञानपिपासां जनयेत्, कर्मचारी स्वदायित्वस्य योग्यरीत्या पालनं कुर्यात् इत्यादीनि कार्याणि देशसेवायाः अभिन्नाङ्गानि सन्ति ।

बाह्यानुबन्धः