रक्षाबन्धनम् ( Sanskrit essay on Rakshabandhan )

रक्षाबन्धनं श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते । भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति । निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः । मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः माहात्म्यं भूरिशः उपस्थापयन्ति । आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम् ।भगिनी ईश्वराय प्रार्थनां करोति यत्, “हे ईश्वर ! मम भ्रातुः रक्षणं करोतु” इति । एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबन्धनं करोति । भगिन्याः हृदि स्वं प्रति निःस्वार्थं प्रेम दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत्, “अहं तव रक्षां करिष्ये” इति । ततः उभौ परस्परं मधुरं भोजयतः । भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता, तस्याः प्रार्थनायाः कृते भगिनीं प्रति कृतज्ञतां प्रकटयितुं भ्राता भगिन्यै उपहारम् अपि यच्छति । भ्रातृभगिन्योः सम्बन्धस्य एतत् आदानप्रदानम् अमूल्यं वर्तते ।

रक्षाबन्धनं ( ( शृणु) /ˈrkʃhɑːbənðənəm/) (हिन्दीरक्षाबन्धनआङ्ग्लRaksha Bandhanश्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते । भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति । निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः । मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः माहात्म्यं भूरिशः उपस्थापयन्ति । आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम् ।

रक्षाबन्धस्य भावः

 
आपणे रक्षासूत्राणां प्रदर्शनी

भगिनी ईश्वराय प्रार्थनां करोति यत्, “हे ईश्वर ! मम भ्रातुः रक्षणं करोतु” इति । एतां प्रार्थनां कुर्वती भगिनी भ्रातुः हस्ते रक्षासूत्रबन्धनं करोति । भगिन्याः हृदि स्वं प्रति निःस्वार्थं प्रेम दृष्ट्वा भ्राता भगिन्यै वचनं ददाति यत्, “अहं तव रक्षां करिष्ये” इति । ततः उभौ परस्परं मधुरं भोजयतः । भगिन्या ईश्वराय स्वरक्षणस्य या प्रार्थना कृता, तस्याः प्रार्थनायाः कृते भगिनीं प्रति कृतज्ञतां प्रकटयितुं भ्राता भगिन्यै उपहारम् अपि यच्छति । भ्रातृभगिन्योः सम्बन्धस्य एतत् आदानप्रदानम् अमूल्यं वर्तते ।

मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।। ७।। श्रीमद्भगवद्गीतायाः सप्तमोऽध्याय: ज्ञानविज्ञानयोगः

हे धनञ्जय ! किमपि अन्यत् वस्तु मदपेक्षया उत्कृष्टतरं नास्ति । एतत् सर्वं तन्तौ मणिसमूहाः इव मयि युक्तम् अस्ति ।

उक्तश्लोकानुगुणं भगवतः श्रीकृष्णस्य स्वरूपत्वेन सूत्रं मन्यते । अतः रक्षाबन्धनकाले भगिनी श्री[[कृष्ण]स्य स्मारकं सूत्रं भ्रातुः हस्ते बध्नाति । “द्रौपद्याः प्रत्येकसमस्याकाले यथा श्रीकृष्णः तस्याः रक्षणम् अकरोत्, तथैव मम भ्राता मम रक्षां कुर्यात्” इत्यपि भावः ।

रक्षासूत्रम्

 
स्वभ्रातुः कृते रक्षासूत्रं क्रीयन्त्यः भगिन्यः

सूत्रबन्धनस्य पृष्ठे रक्षायाः भावत्वात् रक्षाबन्धनम् इति उच्यते । "आपत्तिभ्यः, रोगेभ्यः, दूषणेभ्यः च भ्रातुः रक्षणं भवतु" इति भगिनी प्रार्थनां करोति । ततः भ्राता अपि भगिन्यै रक्षणस्य वचनं यच्छति । अतः रक्षाबन्धनम् इति । आदिभारतीयसंस्कृतौ रक्षाबन्धनं न केवलं भ्रातृभगिन्योः सम्बन्धे सीमितम् आसीत्, अपि तु अन्यसम्बन्धेषु अपि रक्षाबन्धनस्य व्यवहारः आसीत् । यतो हि सूत्रं अविच्छिन्नतायाः प्रतीकत्वेनापि परिगण्यते । मौक्तिकमालायाः, पुष्पमालायाः च आधारः यथा सूत्रं भवति, तथैव रक्षासूत्रं प्रेमप्रतीकत्वेन जनानां सम्बन्धस्य आधाररूपं मन्यते ।

प्राचीनकिंवदन्त्यानुसारं संसारे यदा यदा नैतिकतायाः न्यूनता भवति, तदा तदा सदाशिवः ब्रह्मद्वारा पवित्रसूत्राणि पृथ्वीलोकं प्रेषयति । तानि सूत्राणि एव रक्षासूत्रत्वेन भगिनी स्वभ्रातुः हस्ते बध्नाति । "शिवेन प्रेषितानि तानि सूत्राणि भ्रातुः मनसः नकारात्मकविचारान् दूरीकुर्वन्ति, अभद्राचरणात् स्वभ्रातरं रक्षन्ति च" इत्यपि मन्यते । अतः भगिनी स्वया क्रीतानि स्वनिर्मितानि वा रक्षासूत्राणि शिवलिङ्गस्य समीपं स्थापनानन्तरम् एव भ्रातुः हस्ते बध्नाति ।

पौराणिक्यः कथाः

 
भ्रातुः हस्ते सुशोभितं रक्षासूत्रम्

पुराणानुसारं श्रावणमासस्य पूर्णिमायां ब्राह्ममुहूर्ते देव-मनुष्य-पितृतर्पणानि दत्त्वा ब्राह्मणैः निर्मितं, मन्त्रितं च रक्षासूत्रं स्वहस्ते धर्तव्यम् । शिवस्य समीपं रक्षासूत्रं स्थापयित्वा स्वहस्ते रक्षासूत्रबन्धनं वरम् इत्यपि कथ्यते । पौराणिके काले रक्षाबन्धनं भ्रातृभगिन्योः सम्बन्धे सीमितं नासीत् । पत्नी पतिं, गुरुः शिष्यं, ब्राह्मणः राजानं,व्यापारी स्वसाधनं, क्षत्रियः स्वशस्त्रं, कृषकः स्वकृषिसाधनं च रक्षासूत्रं बध्नाति स्म । अधुना पतिपत्न्योः मध्ये रक्षाबन्धनस्य प्रथा न दृश्यते । परन्तु अन्येषु सम्बन्धेषु रक्षाबन्धनस्य प्रथा अधुनापि दृश्यते ।

इन्द्रस्य कथा

भविष्यपुराणे देवदानवयोः एका घटना उल्लिखिता वर्तते । तत्र उल्लिखतं यत्, प्राचीनकाले देवदानवयोः भीषणं युद्धं द्वादशवर्षेभ्यः चलत् आसीत् । तस्मिन् युद्धे देवानां पराजयः भविष्यति इति देवगणेषु चर्चा आसीत् । देवराजः इन्द्रः देवानां पराजयस्थितिं दृष्ट्वा दुःखितः, मनसा दुर्बलः अभवत् । तस्य सम्मुखं न कोऽपि मार्गः आसीत् । तस्य चिन्तनशक्तिः अपि शिथिला अभवत् । अतः सः देवगुरोः बृहस्पतेः शरणम् अगच्छत् । शक्रः यदा देवानां पराजयस्थितिविषये देवगुरुम् अकथयत्, तदा तत्र इन्द्राणी अपि उपस्थिता आसीत् । इन्द्रस्य कथनं श्रुत्वा इन्द्राणी अवदत्, “श्वः श्रावणपूर्णिमा अस्ति । अहं शास्त्रियविधानानुसारं रक्षासूत्रं सज्जं करिष्ये । तत् रक्षासूत्रं त्वं ब्राह्मणेभ्यः स्वस्तिवाचनं कारयित्वा स्वहस्ते बन्धय” इति । द्वितीये दिने इन्द्राणी यत् रक्षासूत्रं न्यर्मात्, तत् सूत्रं बृहस्पतेः स्वस्तिवाचनेन सह इन्द्रः स्वहस्ते अधरत ।

बृहस्पतिना निम्नश्लोकेन स्वस्तिवाचनं कृतम् –


येन बद्धो बलिराजा, दानवेन्द्रो महाबल: ।
तेन त्वामपि बध्नामि रक्षे मा चल मा चल ।।

ततः रणाङ्गणे दानवानां नाशं कृत्वा देवताः अजयन्त । ततः रक्षाबन्धनविधिः ब्राह्मणानां स्वस्तिवाचनेन कर्तव्या इति परिपाटिः आरब्धा ।

दानवेन्द्रस्य बलेः कथा

दानवेन्द्रः बलिः यदा अश्वमेधयज्ञं/विश्वविजययज्ञं कुर्वन् आसीत्, तदा बलेः सर्वस्वं स्वाधीनं कृत्वा वामनावतारी भगवान् विष्णुः तं पाताललोकं प्रैषयत् । पाताललोकस्य शासनं सहर्षम् अङ्गीकृत्य बलिः भगवतःविष्णोः एकं वचनम् अयाचत । बलिः अयाचत, “हे त्रिलोकस्वामिन् ! त्वं पाताललोके निवसन् मम राज्यस्य रक्षणं कुरु” इति । बलेः वचनेन बद्धः भगवान् विष्णुः पाताललोके एव निवसनं प्रारभत । वैकुण्ठलोके लक्ष्मीःस्वपत्युः विरहेण दुःखिता आसीत् । श्रावणमासस्य पूर्णिमायां ब्राह्मण्याः रूपं धृत्वा देवी लक्ष्मीः बलेः हस्ते रक्षासूत्रं बन्धयितुं (to tie, बान्धने के लिए) पाताललोकम् अगच्छत् । रक्षायाः पवित्रं सूत्रं बलेः हस्ते बद्ध्वा तस्य रक्षणस्य प्रार्थनाम् अकरोत् । ब्राह्मणीं प्रति स्वकृतज्ञतां प्रकटयितुं बलिः वचनं दातुं प्रस्तुतः अभवत् । बलिः यदा वरं याचितुं ब्राह्मणीम् अवदत्, तदा लक्ष्मीः बलिं स्वस्याः वास्तविकरूपस्य दर्शनम् अकारयत् ।लक्ष्मीः स्वपतिं वचनमुक्तं कर्तुं बलिम् अवदत् । भगिन्याः वचनेन बद्धः बलिः विष्णुं वचनमुक्तम् अकरोत् । ततः बलिः लक्ष्मीभ्रातृत्वेन प्रसिद्धः अभवत् । तत एव भगिन्यः स्वभ्रातॄणां दीर्घायोः कामनया स्वभ्रातुः हस्ते रक्षाबन्धनम् आरभन्त ।

श्रीकृष्णद्रौपद्यौ

महाभारते बहुत्र उल्लेखः प्राप्यते यत्, “श्रीकृष्णस्य हस्ते द्रौपदी रक्षाबन्धनम् अकरोत्” इति । रक्षाबन्धनसम्बद्धा कथा अपि महाभारते प्राप्यते । श्रीकृष्णः सुदर्शनचक्रेण यदा शिशुपालस्य वधम् अकरोत्, तदाश्रीकृष्णस्य दक्षिणहस्तस्य तर्जन्याः रक्तम् अवहत् । द्रौपदी स्वशाटिकायाः एकं भागं विच्छिद्य श्रीकृष्णस्य आहततर्जन्याः उपरि अबध्नात् । तस्मिन् दिने श्रावणमासस्य पूर्णिमा आसीत् । अतः श्रीकृष्णः तत् सूत्रं रक्षासूत्रत्वेन अङ्ग्यकरोत् । ततः द्रौपदीवस्त्रहरणकाले श्रीकृष्णः द्रौपद्याः रक्षणम् अकरोत् ।

ऐतिहासिक्यः कथाः

भारतस्य इतिहासः अतिप्राचीनः वर्तते । अतः रक्षाबन्धनेन सह सम्बद्धाः अनेकाः घटनाः घटिताः स्युः । परन्तु याः घटनाः अधुना अपि प्रचलिताः सन्ति, तासाम् अत्रोल्लखः कृतः ।

भारतस्वतन्त्रतायां रक्षाबन्धनम्

भारतस्वतन्त्रतान्दोलने जनसामान्यानां मनसि देशभक्तिभावम् उत्पादयितुं क्रान्तिकारिणः रक्षाबन्धनपर्व आचरन्ति स्म । १९०५ तमे वर्षे क्रूराः आङ्ग्लाः वङ्गभङ्गस्य माध्यमेन अखण्डभारतं भङ्गयितुं प्रयासम् अकुर्वन् । तेषां भारतविरोधिनीतीनां विरोधं कर्तुं भारतीयक्रान्तिकारिणः आन्दोलनानि अकुर्वन् । “वन्दे मातरं” जयघोषेण आभारतं, वङ्गप्रदेशश्च ध्वणति स्म (गुंज रहा था) । लॉर्ड् कर्ज़न् इत्यस्यभारतविरोधिनिर्णयस्य विरोधार्थं १९०५ तमे वर्षे क्रान्तिकारिभिः रक्षाबन्धनस्य सामूहिकोत्सवः आचरितः । तत्कालीना एका कविता अद्यापि श्रूयते –


"सप्त कोटि लोकेर करुण क्रन्दन, सुनेना सुनिल कर्ज़न दुर्जन;
ताइ निते प्रतिशोध मनेर मतन करिल, आमि स्वजने राखी बन्धन।"

वङ्गनागरिकाणां मनसि पारस्परिकं भ्रातृभावनाम् उद्भावयितुं रक्षाबन्धनस्य सामूहिकायोजनं सफलम् अभवत् । सामान्यजनाः अपि वङ्गभङ्गस्य विरोधं कर्तुं मार्गेषु विरोधप्रदर्शनम् अकुर्वन् । “वन्दे मातरं” जयघोषः आङ्ग्लानां हृदयानि व्यदारयत् । अन्ततो गत्वा वङ्गबङ्गस्य निर्णयः अपाभवत् ।

हुमायू, कर्मावती च

राजस्थानराज्यस्य मेवाडप्रदेशस्य महाराज्ञी कर्मावती स्वगुप्तचरेभ्यः अजानत् यत्, बहादुर शाह-नामकः राजा मेवाडप्रदेशस्योपरि आक्रमणं कर्तुं सज्जः अस्ति इति । प्रदेशस्य स्थितिः युद्धस्य कृते अनुकूला नासीत् । अतः कर्मावती मुगल-राजानं हुमायू इत्येनं रक्षासूत्रं प्रैषयत् । तेन रक्षासूत्रेण सह सा रक्षां कर्तुम् आह्वयत् । मुस्लिम-धर्मस्य अनुयायिनि सत्यपि हुमायू रक्षासूत्रस्य सम्मानम् अकरोत् । हुमायू कर्मावत्याः कथनानुसारं मेवाडप्रदेशस्य रक्षार्थं बहादुर शाह इत्यनेन सह युद्धं कृत्वा तं पराजयत ।

पुरु, सिकन्दर च

सिकन्दर इत्यस्य पत्नी पौरप्रदेशस्य पुरु-नामकाय राज्ञे रक्षासूत्रं प्रेषयित्वा युद्धकाले स्वपत्युः प्राणरक्षणस्य वचनम् ऐच्छित् । सा विदेशिस्त्री रक्षासूत्रस्य माहात्म्यं जानाति स्म । अत एव सा परु इत्यस्मात् एतादृशस्य वचनस्य याचनाम् अकरोत् । पुरु सिकन्दर इत्यनेन सह भीषणं युद्धं तु अकरोत् । परन्तु सिकन्दर यदा पराजितः, तदा स्वभगिन्याः रक्षासूत्रस्य सम्मानं कुर्वन् पुरु सिकन्दर इत्यस्मै जीवनदानम् अयच्छत् ।

भारतस्य राज्येषु रक्षाबन्धनम्

भारतस्य विभिन्नेषु राज्येषु रक्षाबन्धनस्य विभिन्नानि नामानि श्रूयन्ते ।

राज्यम्

रक्षाबन्धनस्य नामान्तरम्

उत्तराखण्डराज्यम्

श्रावणी

महाराष्ट्रराज्यम्

नारिकेलपूर्णिमा

राजस्थानराज्यम्

रामराखी, चूड़ाराखी, लूम्बा

गुजरातराज्यम्

बळेव

दक्षिणभारतीयराज्येषु

उपाकर्म

भारतस्य सर्वेषु राज्येषु ब्राह्मणाः यज्ञोपवीतोत्सर्जनस्य पौराणिकविधिम् आचरन्ति । ते स्नान-ऋषितर्पण-पितृतर्पण-मनुष्यतर्पणादिविधीः कृत्वा दानं कुर्वन्ति । ततः ते स्वयजमानानां रक्षायै प्रार्थनां कृत्वा स्वयजमानानां हस्ते रक्षाबन्धनं कुर्वन्ति ।

भारते समुद्रतटवर्तीनि यानि राज्यानि सन्ति, तेषां राज्यानां जनाः समुद्रदेवस्य पूजनं कृत्वा तस्मै नारिकेलफलं समर्पयन्ति । ते समुद्रदेवाय प्रार्थनां कुर्वन्ति यत्, “हे समुद्रदेव ! त्वम् अस्माकं पोषकः, रक्षकः च । त्वम् एवमेव अस्मान् पोषय, तोषय च” इति । तस्मिन् दिने ते प्रकृतिरक्षणस्य प्रतिज्ञामपि कुर्वन्ति ।

भारतवर्षस्य पवित्रतमेषु मन्दिरेषु अन्यतमे अमरनाथमन्दिरे श्रावणपूर्णिमा हिमशिवलिङ्गस्य अन्तिमदिवसत्वेन परिगण्यते । गुरुपूर्णिमायाः आरब्धा अमरनाथयात्रा रक्षाबन्धनस्य दिने (श्रावणपूर्णिमायां) पूर्णा भवति । एतेषु दिनेषु हिमशिवलिङ्गस्य पूर्णाकारः भवति । अतः भक्ताः अरमनाथं गच्छन्ति । यात्रायाः पूर्णाहुत्याः दिने रक्षाबन्धनपर्वणि अमरनाथतीर्थक्षेत्रे उत्सवस्य (मेला) आयोजनम् अपि भवति ।

राष्ट्रियपर्वत्वेन रक्षाबन्धनम्

भारतस्य परम्परा "सर्वजनहिताय सर्वजनसुखाय" अस्ति । अतः सहोदराणां रक्षया सह भगिन्यः देशरक्षायाः अपि चिन्तनं कुर्वन्ति । ये वीराः मातृभूमेः रक्षणार्थं स्वजीवनं समर्पयन्ति, तेषां रक्षायै, दीर्घायुने अपि भारतीयभगिन्यः ईश्वरं प्रार्थयन्ति । रक्षाबन्धनस्य दिने सैनिकानां भगिन्यस्तु स्वभ्रात्रे रक्षासूत्रं प्रेषयन्ति एव । परन्तु देशस्य अन्यभगिन्यः अपि सैनिकानां हस्ते रक्षासूत्रं बध्नन्ति ।

भारतगणराज्यस्य संविधानं धर्मनिरपेक्षतायाः यत् अमृतं धरते, तत् भारतीयानां हृदि अपि वर्तते । अतः हिन्दुजनैः सह अन्यधर्मानुगामिनः अपि रक्षाबन्धनस्य दिने रक्षाबन्धनस्य उत्सवम् आचरन्ते । मुस्लिम-सिक्ख-कैस्त-धर्मानुगामिनः सामूहिकरक्षाबन्धनस्य आयोजनम् अपि कुर्वन्ति ।

चित्रम्:Pradhanmantri.jpg

 

रक्षासूत्रं भ्रातृभगिन्योः पवित्रसम्बन्धस्य प्रतीकः अस्ति । अतः अन्यपवित्रसम्बन्धस्य कृते अपि रक्षासूत्रस्य उपयोगः भवति । स्वशासकस्य दीर्घायोः कृते ईश्वराय प्रार्थनां कृत्वा प्रजायाः प्रतिनिधित्वेन बालिकाः रक्षाबन्धनं कुर्वन्ति । अतः भारतगणराज्यस्य राष्ट्रपतिः राष्ट्रपतिभवनेप्रधानमन्त्री च स्वनिवासे रक्षाबन्धनस्य उत्सवम् आचरतः । लघ्व्यः बालिकाः राष्ट्रपतेःप्रधानमन्त्रिणः हस्ते रक्षासूत्रं बद्ध्वा तयोः दीर्घायोः कामनां कुर्वन्ति ।

रक्षाबन्धनदिने सर्वकारस्य प्रबन्धाः

भ्रातृभगिन्योः पवित्रपर्वणि शासनपक्षः काश्चन व्यवस्थाः करोति । भारतीयपत्रालयविभागः रक्षाबन्धनस्य कृते विभिन्नानां योजनानां घोषणां करोति । भगिनी स्वभ्रात्रे यत् रक्षासूत्रं प्रेषयति, तस्मै न्यूनव्ययः भवेत् इत्यस्य चिन्तां पत्रालयविभागः करोति । पत्रालयविभागः योग्यमूल्येन आकर्षकछादनानां (cover) मुद्रणं करोति, येन न्यूनव्ययेन भगिनी स्वभ्रात्रे रक्षासूत्रं प्रेषयितुं शक्नुयात् । रक्षाबन्धनस्य पर्व वर्षाकाले एव भवति । अतः वर्षायां रक्षासूत्राणि आद्राणि न भवेयुः इति पत्रालयविभागः जलरोधकछादनस्य (water proof) अपि मुद्रणं करोति । रक्षाबन्धनस्य पर्वणः मासे पत्रालयविभागस्य कार्ये २०% वृद्धिः भवति । भारतस्य जलयुक्ते वातावरणे प्रतिग्रामं, प्रतिनगरं, विदेशं च निर्धारितसमये पत्रालयविभागः रक्षासूत्रं प्रापयति । पत्रालयविभागस्य अध्यक्षः एतस्य विषये वदति यत्, “रक्षाबन्धनपर्वणः प्राक् वयं योग्यरीत्या कार्यस्य विभाजनं कुर्मः । विभागस्य उपरि आपतितम् एतत् कार्यं कुर्वन्तः अस्माकम् अधिकारिणः, पत्रवाहकाः, प्रबन्धकाः च किञ्चिदपि श्रमं नानुभवन्ति । यतो हि कस्यचित् पवित्रसम्बन्धस्य सूत्रं ते अन्यस्मै दातुं प्रयत्नशीलाः सन्ति” इति । जनसामान्यानां हितं विचिन्त्य पत्रालयविभागस्य कस्मिंश्चित् केन्द्रे तु रक्षासूत्रस्य विक्रयणम् अपि भवति, येन न्यूनव्ययेन रक्षासूत्रस्य प्रेषणं शक्यं भवेत् ।

आधुनिकं रक्षाबन्धनम्

पवित्रसम्बन्धः काल-क्षेत्र-व्यवस्थायाः उपरि आधीनः न भवति । एतस्मिन् आधुनिके युगे विदेशे, देशस्य अन्यभागे वा निवसताय भ्रात्रे अपि भगिन्यः रक्षासूत्रं प्रेषयन्ति । काश्चन पत्रालयविभागस्य साहाय्यं स्वीकुर्वन्ति, काश्चन ई-पत्रमाध्यमेन स्वभ्रात्रे रक्षासूत्रं प्रेषयन्ति । ई-रक्षासूत्रस्य चित्राणि अन्तर्जाले प्राप्यन्ते । “भगिनी स्वभ्रातरं रक्षासूत्रं बध्नाति” इत्यस्य गतिमच्चित्राणि (gif) अपि अन्तर्जाले प्राप्यन्ते । विडियो कॉन्फरस्-द्वारा अपि जनाः रक्षाबन्धनस्य उत्सवम् आचरन्ति ।

विदेशे रक्षाबन्धनोत्सवः

भारतीयाः यत्र यत्र निवसन्ति, तत्र तत्र भारतम् अपि निवसति । विदेशे ये भारतीयाः निवसन्ति, ते तस्मिन् देशे अपि रक्षाबन्धनस्य पर्व उत्साहेन आचरन्ति । धर्मैकतायाः, मानवैकतायाः, ईश्वरैकतायाः बोधपाठात्कम् उत्सवं ते विदेशेऽपि आचरन्ति । यस्मिन् देशे ते निवसन्तः सन्ति, तस्य देशस्य आरक्षकान् ते रक्षासूत्रं बध्नन्ति । वैदेशिकाः अपि भारतीयपरम्परायाः सम्मानं कृत्वा उत्सवे भागं वहन्ति । एवं रक्षाबन्धनं न केवलं भारतीयानाम् अथवा हिन्दुजनानाम् उत्सवः, अपि तु सर्वेषाम् उत्सवः इति वचने नातिशयोक्तिः ।

भारते संस्कृतोत्सवत्वेन रक्षाबन्धनम्

मुख्यलेखः : संस्कृतोत्सवः

संस्कृतोत्सवः विश्वस्मिन् प्रतिवर्षं श्रावणमासे सप्तदिनानि यावत् आचर्यते । श्रावणमासस्य शुक्लद्वादशीतः, श्रावणमासस्य कृष्णतृतीयापर्यन्तं भारतसर्वकारेण संस्कृतसप्ताहः आचर्यते । भारतस्य विभिन्नेषु स्थानेषुसंस्कृतप्रेमिणः संस्कृतोत्सवम् अत्युत्साहेन आचरन्ति । पाठशालासु, विद्यालयेषु, संस्कृतप्रचारकर्तृसंस्थासु च संस्कृतसप्ताहस्य विशिष्टम् आयोजनं भवति । नाटकानि, नृत्यानि, प्रदर्शन्यः, पदयात्राः, संस्कृतगीतानांगायनम् इत्यादयः पवृत्तयः आभारते भवन्ति । २०१४ तमे वर्षे प्रधानमन्त्री नरेन्द्र मोदी 'अगस्त'-मासस्य सप्तदिनाङ्कात् त्रयोदशदिनाङ्कपर्यन्तं सप्तदिनानि संस्कृतसप्ताहत्वेन अघोषयत् । तस्मात् पुरा अपिसंस्कृतोत्सवस्य आयोजनं भवति स्म । परन्तु भारतगणराज्यस्य प्रप्रथमः प्रधानमन्त्री एषः, यः आभारतं संस्कृतोत्सवस्य विशिष्टम् आयोजनं कृत्वा संस्कृतप्रेमिणां हर्षस्य कारणम् अभवत् ।

रक्षाबन्धनस्य केषाञ्चन चित्राणां वीथिका

रक्षाबन्धनम्1.jpg

रक्षाबन्धनम्2.jpg

रक्षाबन्धनम्3.jpg

 

रक्षाबन्धनम्4.jpg

रक्षाबन्धनम्5.jpg

रक्षाबन्धनम्7.jpg

 

रक्षाबन्धनम्6.jpg

रक्षाबन्धनम्8.jpg

रक्षाबन्धनम्9.jpg

बाह्यानुबन्धः