ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता विद्यते । अस्याम् उपनिषदि त्रयः अध्यायाः विद्यन्ते । प्रथमे अध्याये त्रयः खण्डाः । द्वितीये तृतीये च अध्याये एकैकः खण्डः विद्यते । आत्मनः वर्णनम् आत्मना कृता सृष्टिः च अस्याः उपनिषदः विषयाः ।

आदौ आत्मामात्रम् आसीत् । अस्माकं प्रत्यक्षं जडचेतनसम्बद्धं नामरूपात्मकं जगत् सृष्टेः प्राक् ब्रह्मरूपेणैव संस्थितमासीत् । तदा अन्यत् किञ्चित् पदार्थान्तरं नासीत् । सः स्वस्य सङ्कल्पेन चतुरः लोकान् असृजत् । अम्भः मरिचिः मरम् आपः इति चत्वारः लोकाः चतुर्दशलोकानामुपलक्षणार्थाः । ततः लोकपालानां सर्जनाय विराट्पुरुषं निर्मितवान् । विराट्पुरुषस्य शरीरे इन्द्रियाणि तत्तदभिमानिदेवताः च अजायन्त ।



अत्र ब्रह्मविद्यायाः प्राधान्यमस्ति । तत्रादौ परमात्मनः सृष्टिविषयकः सङ्कल्पः वर्ण्यते । प्राणिनां कर्मफलोपभोगार्थं ब्रह्म भोग्यभोक्तृप्रपञ्चं सृजति । अत्र अम्भः मरिचिः मरम् आपः इति चत्वारः लोकाः चतुर्दशलोकानामुपलक्षणार्थाः । तदुक्तम् आत्मा वा इदमेक एवाग् आसीत् । सा ईक्षत लोकान्नु सृजा इति लोकसृष्टेरनन्तरं लोकपालं स्रष्टुमीष्टे । यतः नियन्तुः अभावे जगतः नियन्त्रणं न स्यात् । तदा पञ्चभूतानि उपयुज्य पुरुषशरीरं सृजति । तत्र यथोचितं स्थानमधितिष्ठन्ति अन्याः देवताः अग्निः वाक् भूत्वा मुखं प्राविशत् इत्यादिरूपेण ।

तदुत्तरं संसारनिर्वहणार्थम् अशनायापिपासयोः सर्जनं करोति । ते च देवतासु निक्षिपति अशनायापिपासावारणाय अन्नस्य सृष्टिं करोति । तदन्नं प्राप्तुं जीवः सर्वासां देवतानां साहाय्येन प्रयतते । तदा सर्वासु अशक्तासु अपानस्थितो मृत्युः शक्तोऽभूत् । तदपानेनाजिघृक्षत् तदावयत् । सैषोऽन्नस्य ग्रहो यद्वायुरन्नायुर्वा एष यद्वायुः इति । स्वयं सम्पूर्णं शरीरं जीवितुमसमर्थं मत्वा स्रष्टा परमात्मा पुरुषस्य मूर्धानं विदार्य शरीरं प्रविशति । स्वयं परमात्मा प्रविष्टः अस्मिन् शरीरे इति कारणात् यदि जीवः तं प्रबुध्यते तर्हि परानन्दं प्राप्नोति

। अत्र इदन्द्रः इति पदस्य आत्मा दृष्टः इत्यर्थः ।

संसारी जीवः पुरुषशरीरे वीर्यरूपेण स्थितः यदा स्त्रियाः गर्भे सिञ्च्यते तदा प्रथमं जन्म भवति । माता आगतं तेजः स्वस्य एव अङ्गमिति मत्वा तस्य परिरक्षणं वर्धनं च यत्नतः करोति । नवमासानन्तरं यदा गर्भात् सः जीवः बहिरागच्छति तदा तस्य जीवस्य द्वितीयं जन्म । अयं पुत्रः पितुः प्रतिनिधिरूपेणा परिचीयते । पितुः आत्मस्वरूपोऽयं सन्तानः पितृवत् सकलं वैदिकं लौकिकं च कर्म कुर्वन् आस्ते । एषः पितृत्वं स्वस्मिन् आरोप्य स्वस्य पुत्रस्य कृते कर्माधिकारं दत्त्वा यदा मृतो भवति तत् अस्य तृतीयं जन्म ।

तृतीयाध्याये तावत् ऋग्वेदीयमहावाक्यमन्तर्भवति । तदेव प्रज्ञानं ब्रह्म । समग्रोपनिषदि निरूपितं तथ्यमाधारीकृत्य सर्वमधिगम्य साधकः स्वतः जिज्ञासां कर्तुमुपक्रान्तो भवति किं तावत् ब्रह्म इति येन मनुष्यः पश्यति, येन शृणोति, येन जिघ्रति, स्वादु चास्वादु च विजानाति इति । तदेव तत्त्वं प्रज्ञानमिति कथितम् –संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा इत्यादिना । एतत् सर्वं प्रज्ञानस्यैव नामधेयं भवति । पञ्चमहाभूतानि, चत्वारः भूतग्रामाः, चराचरजगत् च तेनैव उत्पन्नानि तेनैव व्याप्तानि इति कारणात् प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितमिति कथितम् । ईदृशं तत्त्वं ज्ञात्वा मुमुक्षुः सच्चिदानन्दं ब्रह्म लब्ध्वा मुक्तो भवति ।

ऋतम् - सत्यानुसृतं कर्म
मरीकि - किरणम्, प्रकाशः
तपः - शक्तेः केन्द्रीकरणम्
औषधि - पुष्पस्य विकासानन्तरं शलाटुः यत्र भवेत् तादृशाः सस्यलतादयः
वनस्पतिः - अवशिष्टानि तृणादीनि
आज्ञान - अवलोकनशक्तिः
धृतिः - दृढमतिः
चारुज - कृशचर्मस्यूतवेष्टनेन जातः
अण्डज - अण्डात् जातः
स्वेदज - शरीरस्य स्वेदेन जातः
प्रज्ञा - स्वसंवित्, बुद्धिः
ऐतरेयोपनिषदः वैशिष्ट्यानि
आदौ विश्वे आत्मामात्रम् आसीत्, नान्यत् किमपि इत्येतेन तत्त्वज्ञानपूर्णेन वाक्येन एव अस्याः उपनिषदः आरम्भः भवति । अन्यासु उपनिषत्सु इन्द्रियगोचरवस्तूनाम् उत्पत्तिः कथं जातम् इति निरूप्य अन्ते आत्मनः निरूपणं भवति । किन्तु अस्याम् उपनिषदि आत्मसाक्षात्कारं प्राप्तवद्भिः ऋषिभिः आदौ आत्मतत्त्वं निरूप्यते । आत्मना इदं विश्वं कथम् उत्पन्नम् इति निरूप्यते । विश्वस्य उत्पत्तेः मूलकारणानि विविधासु उपनिषत्सु बहुधा निरूपितं वर्तते । तेषां सर्वेषां निरूपणानां समन्वयं कृत्वा अस्याम् उपनिषदि निरूपितं यत् परमात्मनः सङ्कल्पशक्त्या विविधसृष्टिः जाता इति ।
अस्याम् उपनिषदि विश्वशक्तयः देवताः / लोकपालाः इति निर्दिष्टाः सन्ति । तासां देवतानां पुरुषे विद्यमानानाम् इन्द्रियशक्तीनां च निकटसम्बन्धः अत्र स्पष्टतया निरूपितः वर्तते । इन्द्रियशक्तिषु अधिष्ठितॄणां देवतानां पोषणाय अन्नादीनि उत्पादितानि ।
देहे देवतानां प्रवेशनेन पुरुषः परिपूर्णः जातः चेदपि ’मां विना एतेषु स्थिरता कथम् ?’ इति चिन्तयता आत्मना ब्रह्मरन्ध्रद्वारा पुरुषशरीरे प्रविष्टम् । सर्वेषां समन्वयनाय आत्मा पुरुषशरीरे प्रतिष्ठितः स्यात् इत्येषः एव सारः ।
तत्त्वविवेचनाय आवश्यकाः मैथुन-गर्भादयः विषयाः अत्र स्पष्टैः शब्दैः कथिताः सन्ति ।
अन्ते आत्मस्वरूपं निरूपितवन्तः सन्ति । चित्ते जायमानाः सर्वे अपि विकाराः प्रज्ञानविकाराः एव इत्यतः प्रज्ञानमेव ब्रह्म इति अत्र ऋषिभिः उपदिष्टमस्ति । एवम् आत्मना एव सर्वं जातम् इति आरभ्य आत्मा ज्ञानमयः इति वदन्तः उपनिषदः उपसंहारं कृतवन्तः सन्ति ।
अस्याम् उपनिषदि आधुनिक-उत्क्रान्तेः बीजानि दृश्यन्ते । आत्मसङ्कल्पेन पुरुषोत्पत्तिः, ततः इन्द्रियक्रियाणां सूक्ष्मस्वरूपं, ततः बाह्येन्द्रियाणि इत्येतत् सृष्टिक्रमः । उपनिषदः अन्ते प्रज्ञानस्य विविधरूपाणां मति-धृतीनां विवरणं मनश्शास्त्रदृष्ट्या प्रामुख्यं भजते । चैतन्यमेव मनश्शक्तीनाम् आधारः

प्रथमोऽध्यायः
हरिः ॐ॥ आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्‌।
स ईक्षत लोकान्नु सृजा इति ॥ ||१||

स इमांल्लोकानसृजत - - अम्भो मरीचीर्ममापोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षं मरीचयः॥
पृथिवी मरो या अधस्तात्ता आपः ॥ ||२||

स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति॥
सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्च्छयत्‌ ॥ ||३||

तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाऽण्डं मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः॥
प्राणाद्वायुरक्षिणी निरभिद्येतमक्षीभ्यां चक्षुश्चक्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वङ् निरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः ॥ ||४||

द्वितीयोऽध्यायः
ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतंस्तमशनापिपासाभ्यामन्ववार्जत्‌।
ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन् प्रतिष्ठिता अन्नमदामेति ॥ ||१||

ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति।
ताभ्योऽश्वमानयत्ता अब्रुवन्न वै नोऽयमलमिति ॥ ||२||

ताभ्यो पुरुषमानयत्ता अब्रुवन्‌ सुकृतं बतेति पुरुषो वाव सुकृतम्‌।
ता अब्रवीद्यथायतनं प्रविशतेति ॥ ||३||

अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशाद्दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचंप्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन्‌ ॥ ||४||

तमशनायापिपासे अब्रूतामावाभ्यामभिप्रजानीहीति।
ते अब्रवीदेतास्वेव वां देवतास्वाभजाम्येतासु भागिन्न्यौ करोमीति।
तस्माद्यस्यै कस्यै च देवतायै हविगृ।
र्ह्यते भागिन्यावेवास्यामशनायापिपासे भवतः ॥ ||५||

तृतीयोऽध्यायः
स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति ॥ ||१||

सोऽपोऽभ्यतपत् ताभ्योऽभितप्ताभ्यो मूर्तिरजायत।
या वै सा मूर्तिरजायतान्नं वै तत्‌ ॥ ||२||

तदेनदभिसृष्टं पराङ्त्यजिघांसत्।
तद्वाचाऽजिघृक्षत्‌ तन्नाशक्नोद्वाचा ग्रहीतुम्‌।
स यद्धैनद्वाचाग्रहैष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत्‌ ॥ ||३||

तत् प्राणेनाजिघृक्षत्‌ तन्नाशक्नोत् प्राणेन ग्रहीतुम्।
स यद्धैनत्प्राणेनाग्रहैष्यदभिप्राण्य हैवान्नमत्रप्स्यत्‌ ॥ ||४||

तच्चक्षुषाऽजिघृक्षत्‌ तन्नाशक्नोच्चक्षुषा ग्रहीतुम्।
स यद्धैनच्चक्षुषाग्रहैष्यद् दृष्ट्वा हैवानमत्रप्स्यत्‌ ॥ ||५||

तच्छ्रोत्रेणाजिघृक्षत्‌ तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुं स यद्धैनच्छ्रोतेणाग्रहैष्यच्छ्रुत्वा हैवान्नमत्रप्स्यत्‌ ॥ ||६||

तत्त्वचाऽजिघृक्षत्‌ तन्नाशक्नोत्त्वचा ग्रहीतुम्।
स यद्धैनत्त्वचाऽग्रहैष्यत्स्पृष्ट्वा हैवान्नमत्रप्स्यत्‌ ॥ ||७||

तन्मनसाजिघृक्षत्‌ तन्नाशक्नोन्मनसा ग्रहीतुम्।
स यद्धैनन्मनसाग्रहैष्यद् ध्यात्वा हैवान्नमत्रप्स्यत्‌ ॥ ||८||

तच्छिश्नेनाजिघृक्षत्‌ तन्नाशक्नोच्छिश्नेन ग्रहीतु।
स यद्धैनच्छिश्नेनाग्रहैष्यद्वित्सृज्य हैवान्नमत्रप्स्यत्‌ ॥ ||९||

तदपानेनाजिघृक्षत्‌ तदावयत्।
सैषोऽन्नस्य ग्रहो यद्वायुरनायुवा।
र् एष यद्वायुः ॥ ||१०||

स ईक्षत कथं न्विदं मदृते स्यादिति स ईक्षत कतरेण प्रपद्या इति।
स ईक्षत यदि वाचाऽभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ कोऽहमिति ॥ ||११||

स एतमेव सीमानं विदर्यैतया द्वारा प्रापद्यत।
सैषा विदृतिर्नाम द्वास्तदेतन्नाऽन्दनम्‌।
सैषा विदृतिर्न्नामद्वास्तदेतन्नान्दनम्।
तस्य त्रय आवसथाः स्त्रयः स्वप्नाः।
अयमावसथोऽयमावसथोऽयमावसथ इति ॥ ||१२||

स जातो भूतान्यभिव्यैख्यत्‌ किमिहान्यं वावदिषदिति।
स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शनमिती ॥ ||१३||

तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम।
तमिदन्द्रं सन्तमिंद्र इत्याचक्षते परोक्षेण।
परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥ ||१४||

चतुर्थोऽध्यायः
पुरुषे ह वा अयमादितो गर्भो भवति यदेतद्रेतः।
तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतमात्मन्येवात्मानं बिभर्ति तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति तदस्य प्रथमं जन्म ॥ ||१||

तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा।
तस्मादेनां न हिनस्ति।
साऽस्यैतमात्मानमत्र गतं भावयति ॥ ||२||

सा भावयित्री भावयितव्या भवति।तं स्त्री गर्भ बिभर्ति। सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति।
स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयत्येषं लोकानां सन्तत्या। एवं सन्तता हीमे लोकास्तदस्य द्वितीयं जन्म ॥ ||३||

सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते।
अथास्यायामितर आत्मा कृतकृत्यो वयोगतः प्रैति।
स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म ॥ ||४||

तदुक्तमृषिणा गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा शतं मा पुर आयसीररक्शन्नधः श्येनो जवसा निरदीयमिति।
गर्भ एवैतच्छयानो वामदेव एवमुवाच ॥ ||५||

स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन्‌ स्वर्गे लोके सर्वान्‌ कामानाप्त्वाऽमृतः समभवत्‌ समभवत्‌ ॥ ||६||

पञ्चमोध्यायः
ॐ कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा।
येन वा पश्यति येन वा शृणोति येन वा गंधानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ॥ ||१||

यदेतद्धृदयं मनश्चैतत्‌।
संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिधृ।
र्तिमतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति।
सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवंति ॥ ||२||

एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्चमहाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्शुद्रमिश्राणीव।
बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥ ||३||

स एतेन प्राज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्‌ कामानाप्त्वाऽमृतः समभवत्‌ समभवत्‌ ॥ ||४||