अष्टांगहृदय चिकित्सास्थान

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 
अध्याय 01
आमाशय-स्थो हत्वाग्निं सामो मार्गान् पिधाय यत् ।
विदधाति ज्वरं दोषस् तस्मात् कुर्वीत लङ्घनम् ॥ १ ॥

प्राग्-रूपेषु ज्वरादौ वा बलं यत्नेन पालयन् ।
बलाधिष्ठानम् आरोग्यम् आरोग्यार्थः क्रिया-क्रमः ॥ २ ॥

१.२dv आरोग्यार्थं क्रिया-क्रमः लङ्घनैः क्षपिते दोषे दीप्ते ऽग्नौ लाघवे सति ।
स्वास्थ्यं क्षुत् तृड् रुचिः पक्तिर् बलम् ओजश् च जायते ॥ ३ ॥

तत्रोत्कृष्टे समुत्क्लिष्टे कफ-प्राये चले मले ।
स-हृल्-लास-प्रसेकान्न-द्वेष-कास-विषूचिके ॥ ४ ॥

सद्यो-भुक्तस्य संजाते ज्वरे सामे विशेषतः ।
वमनं वमनार्हस्य शस्तं कुर्यात् तद् अन्य-था ॥ ५ ॥

श्वासातीसार-संमोह-हृद्-रोग-विषम-ज्वरान् ।
पिप्पलीभिर् युतान् गालान् कलिङ्गैर् मधुकेन वा ॥ ६ ॥

उष्णाम्भसा स-मधुना पिबेत् स-लवणेन वा ।
पटोल-निम्ब-कर्कोट-वेत्र-पत्त्रोदकेन वा ॥ ७ ॥

तर्पणेन रसेनेक्षोर् मद्यैः कल्पोदितानि वा ।
वमनानि प्रयुञ्जीत बल-काल-विभाग-वित् ॥ ८ ॥

कृते ऽ-कृते वा वमने ज्वरी कुर्याद् विशोषणम् ।
दोषाणां समुदीर्णानां पाचनाय शमाय च ॥ ९ ॥

दोषेण भस्मनेवाग्नौ छन्ने ऽन्नं न विपच्यते ।
तस्माद् आ-दोष-पचनाज् ज्वरितान् उपवासयेत् ॥ १० ॥

१.१०av आमेन भस्मनेवाग्नौ तृष्णग् अल्पाल्पम् उष्णाम्बु पिबेद् वात-कफ-ज्वरे ।
तत् कफं विलयं नीत्वा तृष्णाम् आशु निवर्तयेत् ॥ ११ ॥

१.११av तृष्यन्न् अल्पाल्पम् उष्णाम्बु उदीर्य चाग्निं स्रोतांसि मृदू-कृत्य विशोधयेत् ।
लीन-पित्तानिल-स्वेद-शकृन्-मूत्रानुलोमनम् ॥ १२ ॥

निद्रा-जाड्या-रुचि-हरं प्राणानाम् अवलम्बनम् ।
विपरीतम् अतः शीतं दोष-संघात-वर्धनम् ॥ १३ ॥

उष्णम् एवङ्-गुण-त्वे ऽपि युञ्ज्यान् नैकान्त-पित्तले ।
उद्रिक्त-पित्ते दवथु-दाह-मोहातिसारिणि ॥ १४ ॥

विष-मद्योत्थिते ग्रीष्मे क्षत-क्षीणे ऽस्र-पित्तिनि ।
घन-चन्दन-शुण्ठ्य्-अम्बु-पर्पटोशीर-साधितम् ॥ १५ ॥

शीतं तेभ्यो हितं तोयं पाचनं तृड्-ज्वरापहम् ।
ऊष्मा पित्ताद् ऋते नास्ति ज्वरो नास्त्य् ऊष्मणा विना ॥ १६ ॥

तस्मात् पित्त-विरुद्धानि त्यजेत् पित्ताधिके ऽधिकम् ।
स्नानाभ्यङ्ग-प्रदेहांश् च परिशेषं च लङ्घनम् ॥ १७ ॥

अ-जीर्ण इव शूल-घ्नं सामे तीव्र-रुजि ज्वरे ।
न पिबेद् औषधं तद् धि भूय एवामम् आवहेत् ॥ १८ ॥

आमाभिभूत-कोष्ठस्य क्षीरं विषम् अहेर् इव ।
सोदर्द-पीनस-श्वासे जङ्घा-पर्वास्थि-शूलिनि ॥ १९ ॥

१.१९dv जङ्घा-पार्श्वास्थि-शूलिनि वात-श्लेष्मात्मके स्वेदः प्रशस्तः स प्रवर्तयेत् ।
स्वेद-मूत्र-शकृद्-वातान् कुर्याद् अग्नेश् च पाटवम् ॥ २० ॥

स्नेहोक्तम् आचार-विधिं सर्व-शश् चानुपालयेत् ।
लङ्घनं स्वेदनं कालो यवाग्वस् तिक्तको रसः ॥ २१ ॥

१.२१dv यवागूस् तिक्तको रसः मलानां पाचनानि स्युर् यथावस्थं क्रमेण वा ।
शुद्ध-वात-क्षयागन्तु-जीर्ण-ज्वरिषु लङ्घनम् ॥ २२ ॥

नेष्यते तेषु हि हितं शमनं यन् न कर्शनम् ।
तत्र साम-ज्वराकृत्या जानीयाद् अ-विशोषितम् ॥ २३ ॥

१.२३bv शमनं यन् न कर्षणम् द्वि-विधोपक्रम-ज्ञानम् अवेक्षेत च लङ्घने ।
युक्तं लङ्घित-लिङ्गैस् तु तं पेयाभिर् उपाचरेत् ॥ २४ ॥

यथा-स्वौषध-सिद्धाभिर् मण्ड-पूर्वाभिर् आदितः ।
षड्-अहं वा मृदु-त्वं वा ज्वरो यावद् अवाप्नुयात् ॥ २५ ॥

तस्याग्निर् दीप्यते ताभिः समिद्भिर् इव पावकः ।
प्राग् लाज-पेयां सु-जरां स-शुण्ठी-धान्य-पिप्पलीम् ॥ २६ ॥

स-सैन्धवां तथाम्लार्थी तां पिबेत् सह-दाडिमाम् ।
सृष्ट-विड् बहु-पित्तो वा स-शुण्ठी-माक्षिकां हिमाम् ॥ २७ ॥

वस्ति-पार्श्व-शिरः-शूली व्याघ्री-गोक्षुर-साधिताम् ।
पृश्निपर्णी-बला-बिल्व-नागरोत्पल-धान्यकैः ॥ २८ ॥

सिद्धां ज्वरातिसार्य् अम्लां पेयां दीपन-पाचनीम् ।
ह्रस्वेन पञ्च-मूलेन हिक्का-रुक्-श्वास-कास-वान् ॥ २९ ॥

पञ्च-मूलेन महता कफार्तो यव-साधिताम् ।
विबद्ध-वर्चाः स-यवां पिप्पल्य्-आमलकैः कृतां ॥ ३० ॥

१.३०dv पिप्पल्य्-आमलकैः शृतां यवागूं सर्पिषा भृष्टां मल-दोषानुलोमनीम् ।
चविका-पिप्पली-मूल-द्राक्षामलक-नागरैः ॥ ३१ ॥

कोष्ठे विबद्धे स-रुजि पिबेत् तु परिकर्तिनि ।
कोल-वृक्षाम्ल-कलशी-धावनी-श्रीफलैः कृताम् ॥ ३२ ॥

१.३२dv -धावनी-श्री-बला-कृताम् अ-स्वेद-निद्रस् तृष्णार्तः सितामलक-नागरैः ।
सिता-बदर-मृद्वीका-शारिवा-मुस्त-चन्दनैः ॥ ३३ ॥

१.३३av अ-स्वेद-निद्रा-तृष्णार्तः तृष्णा-छर्दि-परीदाह-ज्वर-घ्नीं क्षौद्र-संयुताम् ।
कुर्यात् पेयौषधैर् एव रस-यूषादिकान् अपि ॥ ३४ ॥

१.३४av तृष्णा-छर्दि-परीवार- १.३४av तृष्णा-छर्दि-परो दाह- मद्योद्भवे मद्य-नित्ये पित्त-स्थान-गते कफे ।
ग्रीष्मे तयोर् वाधिकयोस् तृट्-छर्दिर्-दाह-पीडिते ॥ ३५ ॥

१.३५dv तृट्-छर्दि-दाह-पीडिते ऊर्ध्वं प्रवृत्ते रक्ते च पेयां नेच्छन्ति तेषु तु ।
ज्वरापहैः फल-रसैर् अद्भिर् वा लाज-तर्पणात् ॥ ३६ ॥

१.३६dv अद्भिर् वा लाज-तर्पणम् पिबेत् स-शर्करा-क्षौद्रान् ततो जीर्णे तु तर्पणे ।
यवाग्वां वौदनं क्षुद्-वान् अश्नीयाद् भृष्ट-तण्डुलम् ॥ ३७ ॥

१.३७av पिबेत् स-शर्करा-क्षौद्रं १.३७bv ततो जीर्णे च तर्पणे १.३७cv यवाग्वाम् ओदनं क्षुद्-वान् १.३७cv यवाग्वां चौदनं क्षुद्-वान् दक-लावणिकैर् यूषै रसैर् वा मुद्ग-लाव-जैः ।
इत्य् अयं षड्-अहो नेयो बलं दोषं च रक्षता ॥ ३८ ॥

ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते ।
कषायो दोष-शेषस्य पाचनः शमनो ऽथ-वा ॥ ३९ ॥

तिक्तः पित्ते विशेषेण प्रयोज्यः कटुकः कफे ।
पित्त-श्लेष्म-हर-त्वे ऽपि कषायः स न शस्यते ॥ ४० ॥

१.४०dv कषायस् तु न शस्यते नव-ज्वरे मल-स्तम्भात् कषायो विषम-ज्वरम् ।
कुरुते ऽ-रुचि-हृल्-लास-हिध्माध्मानादिकान् अपि ॥ ४१ ॥

सप्ताहाद् औषधं के-चिद् आहुर् अन्ये दशाहतः ।
के-चिल् लघ्व्-अन्न-भुक्तस्य योज्यम् आमोल्बणे न तु ॥ ४२ ॥

१.४२bv आहुश् चान्ये दशाहतः तीव्र-ज्वर-परीतस्य दोष-वेगोदये यतः ।
दोषे ऽथ-वाति-निचिते तन्द्रा-स्तैमित्य-कारिणि ॥ ४३ ॥

अ-पच्यमानं भैषज्यं भूयो ज्वलयति ज्वरम् ।
मृदुर् ज्वरो लघुर् देहश् चलिताश् च मला यदा ॥ ४४ ॥

अ-चिर-ज्वरितस्यापि भेषजं योजयेत् तदा ।
मुस्तया पर्पटं युक्तं शुण्ठ्या दुःस्पर्शयापि वा ॥ ४५ ॥

पाक्यं शीत-कषायं वा पाठोशीरं स-वालकम् ।
पिबेत् तद्-वच् च भूनिम्ब-गुडूची-मुस्त-नागरम् ॥ ४६ ॥

यथा-योगम् इमे योज्याः कषाया दोष-पाचनाः ।
ज्वरा-रोचक-तृष्णास्य-वैरस्या-पक्ति-नाशनाः ॥ ४७ ॥

कलिङ्गकाः पटोलस्य पत्त्रं कटुक-रोहिणी ॥ ४८अब् ॥
पटोलं शारिवा मुस्ता पाठा कटुक-रोहिणी ।
पटोल-निम्ब-त्रि-फला-मृद्वीका-मुस्त-वत्सकाः ॥ ४९ ॥

किराततिक्तम् अमृता चन्दनं विश्व-भेषजम् ।
धात्री-मुस्तामृता-क्षौद्रम् अर्ध-श्लोक-समापनाः ॥ ५० ॥

पञ्चैते संततादीनां पञ्चानां शमना मताः ।
दुरालभामृता-मुस्ता-नागरं वात-जे ज्वरे ॥ ५१ ॥

अथ-वा पिप्पली-मूल-गुडूची-विश्व-भेषजम् ।
कनीयः पञ्च-मूलं च पित्ते शक्रयवा घनम् ॥ ५२ ॥

१.५२dv पित्ते क्षौद्र-समन्विताः कटुका चेति स-क्षौद्रं मुस्ता-पर्पटकं तथा ।
स-धन्वयास-भूनिम्बं वत्सकाद्यो गणः कफे ॥ ५३ ॥

१.५३av कलिङ्ग-मुस्त-कटुका अथ-वा वृष-गाङ्गेयी-शृङ्गवेर-दुरालभाः ।
रुग्-विबन्धानिल-श्लेष्म-युक्ते दीपन-पाचनम् ॥ ५४ ॥

अभया-पिप्पली-मूल-शम्याक-कटुका-घनम् ।
द्राक्षा-मधूक-मधुक-लोध्र-काश्मर्य-शारिवाः ॥ ५५ ॥

मुस्तामलक-ह्रीवेर-पद्म-केसर-पद्मकम् ।
मृणाल-चन्दनोशीर-नीलोत्पल-परूषकम् ॥ ५६ ॥

फाण्टो हिमो वा द्राक्षादिर् जाती-कुसुम-वासितः ।
युक्तो मधु-सिता-लाजैर् जयत्य् अनिल-पित्त-जम् ॥ ५७ ॥

ज्वरं मदात्ययं छर्दिं मूर्छां दाहं श्रमं भ्रमम् ।
ऊर्ध्व-गं रक्त-पित्तं च पिपासां कामलाम् अपि ॥ ५८ ॥

१.५८av ज्वरं मदात्ययं छर्दिर् पाचयेत् कटुकां पिष्ट्वा कर्परे ऽभिनवे शुचौ ।
निष्पीडितो घृत-युतस् तद्-रसो ज्वर-दाह-जित् ॥ ५९ ॥

कफ-वाते वचा-तिक्ता-पाठारग्वध-वत्सकाः ।
पिप्पली-चूर्ण-युक्तो वा क्वाथश् छिन्नोद्भवोद्भवः ॥ ६० ॥

व्याघ्री-शुण्ठ्य्-अमृता-क्वाथः पिप्पली-चूर्ण-संयुतः ।
वात-श्लेष्म-ज्वर-श्वास-कास-पीनस-शूल-जित् ॥ ६१ ॥

पथ्या-कुस्तुम्बुरी-मुस्ता-शुण्ठी-कट्तृण-पर्पटम् ।
स-कट्फल-वचा-भार्गी-देवाह्वं मधु-हिङ्गु-मत् ॥ ६२ ॥

कफ-वात-ज्वर-ष्ठीव-कुक्षि-हृत्-पार्श्व-वेदनाः ।
कण्ठामयास्य-श्वयथु-कास-श्वासान् नियच्छति ॥ ६३ ॥

१.६३av कफ-वात-ज्वरे ष्ठेव- आरग्वधादिः स-क्षौद्रः कफ-पित्त-ज्वरं जयेत् ।
तथा तिक्ता-वृषोशीर-त्रायन्ती-त्रि-फलामृताः ॥ ६४ ॥

पटोलातिविषा-निम्ब-मूर्वा-धन्वयवासकाः ।
संनिपात-ज्वरे व्याघ्री-देवदारु-निशा-घनम् ॥ ६५ ॥

पटोल-पत्त्र-निम्ब-त्वक्-त्रि-फला-कटुका-युतम् ।
नागरं पौष्करं मूलं गुडूची कण्टकारिका ॥ ६६ ॥

स-कास-श्वास-पार्श्वार्तौ वात-श्लेष्मोत्तरे ज्वरे ।
मधूक-पुष्प-मृद्वीका-त्रायमाणा-परूषकम् ॥ ६७ ॥

सोशीर-तिक्ता-त्रि-फला-काश्मर्यं कल्पयेद् धिमम् ।
कषायं तं पिबन् काले ज्वरान् सर्वान् अपोहति ॥ ६८ ॥

१.६८dv ज्वरान् सर्वान् व्यपोहति जात्य्-आमलक-मुस्तानि तद्-वद् धन्वयवासकम् ।
बद्ध-विट् कटुका-द्राक्षा-त्रायन्ती-त्रि-फला-गुडम् ॥ ६९ ॥

१.६९dv -त्रायन्ती-त्रि-फला-गुडान् १.६९dv -त्रायन्ती-त्रि-फला-गुडाः जीर्णौषधो ऽन्नं पेयाद्यम् आचरेच् छ्लेष्म-वान् न तु ।
पेया कफं वर्धयति पङ्कं पांसुषु वृष्टि-वत् ॥ ७० ॥

श्लेष्माभिष्यण्ण-देहानाम् अतः प्राग् अपि योजयेत् ।
यूषान् कुलत्थ-चणक-कलायादि-कृतान् लघून् ॥ ७१ ॥

१.७१av श्लेष्माभिषव-देहानाम् १.७१av श्लेष्माभिस्पन्द-देहानाम् रूक्षांस् तिक्त-रसोपेतान् हृद्यान् रुचि-करान् पटून् ।
रक्ताद्याः शालयो जीर्णाः षष्टिकाश् च ज्वरे हिताः ॥ ७२ ॥

श्लेष्मोत्तरे वीत-तुषास् तथा वाटी-कृता यवाः ।
ओदनस् तैः स्रुतो द्विस् त्रिः प्रयोक्तव्यो यथा-यथम् ॥ ७३ ॥

दोष-दूष्यादि-बलतो ज्वर-घ्न-क्वाथ-साधितः ।
मुद्गाद्यैर् लघुभिर् यूषाः कुलत्थैश् च ज्वरापहाः ॥ ७४ ॥

कारवेल्लक-कर्कोट-बाल-मूलक-पर्पटैः ।
वार्ताक-निम्ब-कुसुम-पटोल-फल-पल्लवैः ॥ ७५ ॥

अत्य्-अन्त-लघुभिर् मांसैर् जाङ्गलैश् च हिता रसाः ।
व्याघ्री-परूष-तर्कारी-द्राक्षामलक-दाडिमैः ॥ ७६ ॥

संस्कृताः पिप्पली-शुण्ठी-धान्य-जीरक-सैन्धवैः ।
सिता-मधुभ्यां प्रायेण संयुता वा कृता-कृताः ॥ ७७ ॥

अन्-अम्ल-तक्र-सिद्धानि रुच्यानि व्यञ्जनानि च ।
अच्छान्य् अनल-संपन्नान्य् अनु-पाने ऽपि योजयेत् ॥ ७८ ॥

तानि क्वथित-शीतं च वारि मद्यं च सात्म्यतः ।
स-ज्वरं ज्वर-मुक्तं वा दिनान्ते भोजयेल् लघु ॥ ७९ ॥

श्लेष्म-क्षय-विवृद्धोष्मा बल-वान् अनलस् तदा ।
यथोचिते ऽथ-वा काले देश-सात्म्यानुरोधतः ॥ ८० ॥

प्राग् अल्प-वह्निर् भुञ्जानो न ह्य् अ-जीर्णेन पीड्यते ।
कषाय-पान-पथ्यान्नैर् दशाह इति लङ्घिते ॥ ८१ ॥

सर्पिर् दद्यात् कफे मन्दे वात-पित्तोत्तरे ज्वरे ।
पक्वेषु दोषेष्व् अमृतं तद् विषोपमम् अन्य-था ॥ ८२ ॥

दशाहे स्याद् अतीते ऽपि ज्वरोपद्रव-वृद्धि-कृत् ।
लङ्घनादि-क्रमं तत्र कुर्याद् आ-कफ-संक्षयात् ॥ ८३ ॥

देह-धात्व्-अ-बल-त्वाच् च ज्वरो जीर्णो ऽनुवर्तते ।
रूक्षं हि तेजो ज्वर-कृत् तेजसा रूक्षितस्य च ॥ ८४ ॥

वमन-स्वेद-कालाम्बु-कषाय-लघु-भोजनैः ।
यः स्याद् अति-बलो धातुः सह-चारी सदा-गतिः ॥ ८५ ॥

तस्य संशमनं सर्पिर् दीप्तस्येवाम्बु वेश्मनः ।
वात-पित्त-जिताम् अग्र्यं संस्कारं चानुरुध्यते ॥ ८६ ॥

१.८६dv संस्कारम् अनुरुध्यते सु-तरां तद् ध्य् अतो दद्याद् यथा-स्वौषध-साधितम् ।
विपरीतं ज्वरोष्माणं जयेत् पित्तं च शैत्यतः ॥ ८७ ॥

स्नेहाद् वातं घृतं तुल्यं योग-संस्कारतः कफम् ।
पूर्वे कषायाः स-घृताः सर्वे योज्या यथा-मलम् ॥ ८८ ॥

त्रि-फला-पिचुमन्द-त्वङ्-मधुकं बृहती-द्वयम् ।
स-मसूर-दलं क्वाथः स-घृतो ज्वर-कास-हा ॥ ८९ ॥

पिप्पलीन्द्रयव-धावनि-तिक्ता-शारिवामलक-तामलकीभिः ।
बिल्व-मुस्त-हिम-पालनि-सेव्यैर् द्राक्षयातिविषया स्थिरया च ॥ ९० ॥

घृतम् आशु निहन्ति साधितं ज्वरम् अग्निं विषमं हलीमकम् ।
अ-रुचिं भृश-तापम् अंसयोर् वमथुं पार्श्व-शिरो-रुजं क्षयम् ॥ ९१ ॥

१.९१bv ज्वरम् उग्रं विषमं हलीमकम् तैल्वकं पवन-जन्मनि ज्वरे योजयेत् त्रिवृतया वियोजितम् ।
तिक्तकं वृष-घृतं च पैत्तिके यच् च पालनिकया शृतं हविः ॥ ९२ ॥

विडङ्ग-सौवर्चल-चव्य-पाठा-व्योषाग्नि-सिन्धूद्भव-याव-शूकैः ।
पलांशकैः क्षीर-समं घृतस्य प्रस्थं पचेज् जीर्ण-कफ-ज्वर-घ्नम् ॥ ९३ ॥

१.९३cv पलांशिकैः क्षीर-समं घृतस्य गुडूच्या रस-कल्काभ्यां त्रि-फलाया वृषस्य वा ।
मृद्वीकाया बलायाश् च स्नेहाः सिद्धा ज्वर-च्छिदः ॥ ९४ ॥

जीर्णे घृते च भुञ्जीत मृदु-मांस-रसौदनम् ।
बलं ह्य् अलं दोष-हरं परं तच् च बल-प्रदम् ॥ ९५ ॥

१.९५bv मृदु-मांस-रसाशनम् कफ-पित्त-हरा मुद्ग-कारवेल्लादि-जा रसाः ।
प्रायेण तस्मान् न हिता जीर्णे वातोत्तरे ज्वरे ॥ ९६ ॥

शूलोदावर्त-विष्टम्भ-जनना ज्वर-वर्धनाः ।
न शाम्यत्य् एवम् अपि चेज् ज्वरः कुर्वीत शोधनम् ॥ ९७ ॥

शोधनार्हस्य वमनं प्राग् उक्तं तस्य योजयेत् ।
आमाशय-गते दोषे बलिनः पालयन् बलम् ॥ ९८ ॥

पक्वे तु शिथिले दोषे ज्वरे वा विष-मद्य-जे ।
मोदकं त्रि-फला-श्यामा-त्रिवृत्-पिप्पलि-केसरैः ॥ ९९ ॥

स-सिता-मधुभिर् दद्याद् व्योषाद्यं वा विरेचनम् ।
द्राक्षा-धात्री-रसं तद्-वत् स-द्राक्षां वा हरीतकीम् ॥ १०० ॥

लिह्याद् वा त्रैवृतं चूर्णं संयुक्तं मधु-सर्पिषा ॥ १००.१+१अब् ॥
आरग्वधं वा पयसा मृद्वीकानां रसेन वा ।
त्रि-फलां त्रायमाणां वा पयसा ज्वरितः पिबेत् ॥ १०१ ॥

विरिक्तानां च संसर्गी मण्ड-पूर्वा यथा-क्रमम् ।
च्यवमानं ज्वरोत्क्लिष्टम् उपेक्षेत मलं सदा ॥ १०२ ॥

पक्वो ऽपि हि विकुर्वीत दोषः कोष्ठे कृतास्पदः ।
अतिप्रवर्तमानं वा पाचयन् संग्रहं नयेत् ॥ १०३ ॥

आम-संग्रहणे दोषा दोषोपक्रम ईरिताः ।
पाययेद् दोष-हरणं मोहाद् आम-ज्वरे तु यः ॥ १०४ ॥

१.१०४av आम-संग्रहणाद् दोषो १.१०४bv दोषोपक्रम ईरितः प्रसुप्तं कृष्ण-सर्पं स कराग्रेण परामृशेत् ।
ज्वर-क्षीणस्य न हितं वमनं न विरेचनम् ॥ १०५ ॥

कामं तु पयसा तस्य निरूहैर् वा हरेन् मलान् ।
क्षीरोचितस्य प्रक्षीण-श्लेष्मणो दाह-तृड्-वतः ॥ १०६ ॥

क्षीरं पित्तानिलार्तस्य पथ्यम् अप्य् अतिसारिणः ।
तद् वपुर् लङ्घनोत्तप्तं प्लुष्टं वनम् इवाग्निना ॥ १०७ ॥

दिव्याम्बु जीवयेत् तस्य ज्वरं चाशु नियच्छति ।
संस्कृतं शीतम् उष्णं वा तस्माद् धारोष्णम् एव वा ॥ १०८ ॥

१.१०८dv तद्-वद् धारोष्णम् एव वा विभज्य काले युञ्जीत ज्वरिणं हन्त्य् अतो ऽन्य-था ।
पयः स-शुण्ठी-खर्जूर-मृद्वीका-शर्करा-घृतम् ॥ १०९ ॥

शृत-शीतं मधु-युतं तृड्-दाह-ज्वर-नाशनम् ।
तद्-वद् द्राक्षा-बला-यष्टी-शारिवा-कण-चन्दनैः ॥ ११० ॥

चतुर्-गुणेनाम्भसा वा पिप्पल्या वा शृतं पिबेत् ।
कासाच् छ्वासाच् छिरः-शूलात् पार्श्व-शूलाच् चिर-ज्वरात् ॥ १११ ॥

मुच्यते ज्वरितः पीत्वा पञ्च-मूली-शृतं पयः ।
शृतम् एरण्ड-मूलेन बाल-बिल्वेन वा ज्वरात् ॥ ११२ ॥

धारोष्णं वा पयः पीत्वा विबद्धानिल-वर्चसः ।
स-रक्त-पिच्छातिसृतेः स-तृट्-शूल-प्रवाहिकात् ॥ ११३ ॥

सिद्धं शुण्ठी-बला-व्याघ्री-गोकण्टक-गुडैः पयः ।
शोफ-मूत्र-शकृद्-वात-विबन्ध-ज्वर-कास-जित् ॥ ११४ ॥

वृश्चीव-बिल्व-वर्षाभू-साधितं ज्वर-शोफ-नुत् ।
शिंशिपा-सार-सिद्धं च क्षीरम् आशु ज्वरापहम् ॥ ११५ ॥

१.११५cv शिंशिपा-सार-सिद्धं वा निरूहस् तु बलं वह्निं वि-ज्वर-त्वं मुदं रुचिम् ।
दोषे युक्तः करोत्य् आशु पक्वे पक्वाशयं गते ॥ ११६ ॥

पित्तं वा कफ-पित्तं वा पक्वाशय-गतं हरेत् ।
स्रंसनं त्रीन् अपि मलान् वस्तिः पक्वाशयाश्रयान् ॥ ११७ ॥

१.११७dv वस्तिः पक्वाशयाश्रितान् प्रक्षीण-कफ-पित्तस्य त्रिक-पृष्ठ-कटी-ग्रहे ।
दीप्ताग्नेर् बद्ध-शकृतः प्रयुञ्जीतानुवासनम् ॥ ११८ ॥

पटोल-निम्ब-च्छदन-कटुका-चतुरङ्गुलैः ।
स्थिरा-बला-गोक्षुरक-मदनोशीर-वालकैः ॥ ११९ ॥

पयस्य् अर्धोदके क्वाथं क्षीर-शेषं विमिश्रितम् ।
कल्कितैर् मुस्त-मदन-कृष्णा-मधुक-वत्सकैः ॥ १२० ॥

वस्तिं मधु-घृताभ्यां च पीडयेज् ज्वर-नाशनम् ।
चतस्रः पर्णिनीर् यष्टी-फलोशीर-नृपद्रुमान् ॥ १२१ ॥

क्वाथयेत् कल्कयेद् यष्टी-शताह्वा-फलिनी-फलम् ।
मुस्तं च वस्तिः स-गुड-क्षौद्र-सर्पिर् ज्वरापहः ॥ १२२ ॥

जीवन्तीं मदनं मेदां पिप्पलीं मधुकं वचाम् ।
ऋद्धिं रास्नां बलां बिल्वं शतपुष्पां शतावरीम् ॥ १२३ ॥

पिष्ट्वा क्षीरं जलं सर्पिस् तैलं चैक-त्र साधितम् ।
ज्वरे ऽनुवासनं दद्याद् यथा-स्नेहं यथा-मलम् ॥ १२४ ॥

१.१२४cv ज्वरे ऽनुवासनं दद्यात् १.१२४dv तथा स्नेहं यथा मलम् १.१२४dv यथा-दोषं यथा-बलम् ये च सिद्धिषु वक्ष्यन्ते वस्तयो ज्वर-नाशनाः ।
शिरो-रुग्-गौरव-श्लेष्म-हरम् इन्द्रिय-बोधनम् ॥ १२५ ॥

जीर्ण-ज्वरे रुचि-करं दद्यान् नस्यं विरेचनम् ।
स्नैहिकं शून्य-शिरसो दाहार्ते पित्त-नाशनम् ॥ १२६ ॥

धूम-गण्डूष-कवडान् यथा-दोषं च कल्पयेत् ।
प्रतिश्यायास्य-वैरस्य-शिरः-कण्ठामयापहान् ॥ १२७ ॥

अ-रुचौ मातुलुङ्गस्य केसरं साज्य-सैन्धवम् ।
धात्री-द्राक्षा-सितानां वा कल्कम् आस्येन धारयेत् ॥ १२८ ॥

यथोपशय-संस्पर्शान् शीतोष्ण-द्रव्य-कल्पितान् ।
अभ्यङ्गालेप-सेकादीञ् ज्वरे जीर्णे त्वग्-आश्रिते ॥ १२९ ॥

कुर्याद् अञ्जन-धूमांश् च तथैवागन्तु-जे ऽपि तान् ।
दाहे सहस्र-धौतेन सर्पिषाभ्यङ्गम् आचरेत् ॥ १३० ॥

सूत्रोक्तैश् च गणैस् तैस् तैर् मधुराम्ल-कषायकैः ।
दूर्वादिभिर् वा पित्त-घ्नैः शोधनादि-गणोदितैः ॥ १३१ ॥

शीत-वीर्यैर् हिम-स्पर्शैः क्वाथ-कल्की-कृतैः पचेत् ।
तैलं स-क्षीरम् अभ्यङ्गात् सद्यो दाह-ज्वरोपहम् ॥ १३२ ॥

शिरो गात्रं च तैर् एव नाति-पिष्टैः प्रलेपयेत् ।
तत्-क्वाथेन परीषेकम् अवगाहं च योजयेत् ॥ १३३ ॥

तथारनाल-सलिल-क्षीर-शुक्त-घृतादिभिः ।
कपित्थ-मातुलुङ्गाम्ल-विदारी-लोध्र-दाडिमैः ॥ १३४ ॥

बदरी-पल्लवोत्थेन फेनेनारिष्टकस्य वा ।
लिप्ते ऽङ्गे दाह-रुङ्-मोहाश् छर्दिस् तृष्णा च शाम्यति ॥ १३५ ॥

१.१३५bv फेनेनारिष्टकस्य च १.१३५bv फेनेनारिष्ट-जेन वा यो वर्णितः पित्त-हरो दोषोपक्रमणे क्रमः ।
तं च शीलयतः शीघ्रं स-दाहो नश्यति ज्वरः ॥ १३६ ॥

वीर्योष्णैर् उष्ण-संस्पर्शैस् तगरागुरु-कुङ्कुमैः ।
कुष्ठ-स्थौणेय-शैलेय-सरलामरदारुभिः ॥ १३७ ॥

नख-रास्ना-पुर-वचा-चण्डैला-द्वय-चोरकैः ।
पृथ्वीका-शिग्रु-सुरसा-हिंस्रा-ध्यामक-सर्षपैः ॥ १३८ ॥

१.१३८av नख-रास्ना-मुख-वचा- दश-मूलामृतैरण्ड-द्वय-पत्तूर-रोहिषैः ।
तमाल-पत्त्र-भूतीक-शल्लकी-धान्य-दीप्यकैः ॥ १३९ ॥

१.१३९cv तमाल-पत्त्र-पूतीक- मिशि-माष-कुलत्थाग्नि-प्रकीर्या-नाकुली-द्वयैः ।
अन्यैश् च तद्-विधैर् द्रव्यैः शीते तैलं ज्वरे पचेत् ॥ १४० ॥

क्वथितैः कल्कितैर् युक्तैः सुरा-सौवीरकादिभिः ।
तेनाभ्यञ्ज्यात् सुखोष्णेन तैः सु-पिष्टैश् च लेपयेत् ॥ १४१ ॥

१.१४१cv तेनाभ्यज्य सुखोष्णेन कवोष्णैस् तैः परीषेकम् अवगाहं च कल्पयेत् ।
केवलैर् अपि तद्-वच् च शुक्त-गो-मूत्र-मस्तुभिः ॥ १४२ ॥

आरग्वधादि-वर्गं च पानाभ्यञ्जन-लेपने ।
धूपान् अगुरु-जान् यांश् च वक्ष्यन्ते विषम-ज्वरे ॥ १४३ ॥

१.१४३cv धूपान् अगुरु-जान् ये च अग्न्य्-अन्-अग्नि-कृतान् स्वेदान् स्वेदि भेषज-भोजनन् ।
गर्भ-भू-वेश्म-शयनं कुथ-कम्बल-रल्लकान् ॥ १४४ ॥

निर्-धूम-दीप्तैर् अङ्गारैर् हसन्तीश् च हसन्तिकाः ।
मद्यं स-त्र्य्-ऊषणं तक्रं कुलत्थ-व्रीहि-कोद्रवान् ॥ १४५ ॥

संशीलयेद् वेपथु-मान् यच् चान्यद् अपि पित्तलम् ।
दयिताः स्तन-शालिन्यः पीना विभ्रम-भूषणाः ॥ १४६ ॥

१.१४६av भजेच् छीतार्दितो युक्त्या यौवनासव-मत्ताश् च तम् आलिङ्गेयुर् अङ्गनाः ।
वीत-शीतं च विज्ञाय तास् ततो ऽपनयेत् पुनः ॥ १४७ ॥

१.१४७cv वीत-शीतं तु वियतास् वर्धनेनैक-दोषस्य क्षपणेनोच्छ्रितस्य वा ।
कफ-स्थानानुपूर्व्या वा तुल्य-कक्षाञ् जयेन् मलान् ॥ १४८ ॥

१.१४८bv क्षपणेनोच्छ्रितस्य च शमयेत् पित्तम् एवादौ ज्वरेषु समवायिषु ।
दुर्-निवार-तरं तद् धि ज्वरार्तानां विशेषतः ॥ १४८+१ ॥

छर्दि-मूर्छा-पिपासादीन् अ-विरोधाञ् ज्वरस्य तु ॥ १४८+२अब् ॥
संनिपात-ज्वरस्यान्ते कर्ण-मूले सु-दारुणः ।
शोफः संजायते येन कश्-चिद् एव विमुच्यते ॥ १४९ ॥

१.१४९cv शोफः संजायते तेन १.१४९dv कश्-चिद् एव प्रमुच्यते रक्तावसेचनैः शीघ्रं सर्पिः-पानैश् च तं जयेत् ।
प्रदेहैः कफ-पित्त-घ्नैर् नावनैः कवड-ग्रहैः ॥ १५० ॥

१.१५०cv प्रदेहैः कफ-वात-घ्नैर् शीतोष्ण-स्निग्ध-रूक्षाद्यैर् ज्वरो यस्य न शाम्यति ।
शाखानुसारी तस्याशु मुञ्चेद् बाह्वोः क्रमात् सिराम् ॥ १५१ ॥

अयम् एव विधिः कार्यो विषमे ऽपि यथा-यथम् ।
ज्वरे विभज्य वातादीन् यश् चान्-अन्तरम् उच्यते ॥ १५२ ॥

१.१५२bv विषमे च यथा-यथम् पटोल-कटुका-मुस्ता-प्राणदा-मधुकैः कृताः ।
त्रि-चतुः-पञ्च-शः क्वाथा विषम-ज्वर-नाशनाः ॥ १५३ ॥

योजयेत् त्रि-फलां पथ्यां गुडूचीं पिप्पलीं पृथक् ।
तैस् तैर् विधानैः स-गुडं भल्लातकम् अथापि वा ॥ १५४ ॥

लङ्घनं बृंहणं वादौ ज्वरागमन-वासरे ।
प्रातः स-तैलं लशुनं प्राग्-भक्तं वा तथा घृतम् ॥ १५५ ॥

१.१५५av लङ्घनं बृंहणं वापि जीर्णं तद्-वद् दधि पयस् तक्रं सर्पिश् च षट्-पलम् ।
कल्याणकं पञ्च-गव्यं तिक्ताख्यं वृष-साधितम् ॥ १५६ ॥

त्रि-फला-कोल-तर्कारी-क्वाथे दध्ना शृतं घृतम् ।
तिल्वक-त्वक्-कृतावापं विषम-ज्वर-जित् परम् ॥ १५७ ॥

सुरां तीक्ष्णं च यन् मद्यं शिखि-तित्तिरि-दक्ष-जम् ।
मांसं मेद्योष्ण-वीर्यं च सहान्नेन प्र-कामतः ॥ १५८ ॥

१.१५८bv शिखि-तित्तिरि-कुक्कुटात् १.१५८cv मांसं मध्योष्ण-वीर्यं च १.१५८cv मांसं मेध्योष्ण-वीर्यं च सेवित्वा तद्-अहः स्वप्याद् अथ-वा पुनर् उल्लिखेत् ।
सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः ॥ १५९ ॥

नीलिनीम् अजगन्धां च त्रिवृतां कटु-रोहिणीम् ।
पिबेज् ज्वरस्यागमने स्नेह-स्वेदोपपादितः ॥ १६० ॥

मनोह्वा सैन्धवं कृष्णा तैलेन नयनाञ्जनम् ।
योज्यं हिङ्गु-समा व्याघ्री-वसा नस्यं स-सैन्धवम् ॥ १६१ ॥

पुराण-सर्पिः सिंहस्य वसा तद्-वत् स-सैन्धवा ।
पलङ्कषा निम्ब-पत्त्रं वचा कुष्ठं हरीतकी ॥ १६२ ॥

सर्षपाः स-यवाः सर्पिर् धूपो विड् वा बिडाल-जा ।
पुर-ध्याम-वचा-सर्ज-निम्बार्कागुरु-दारुभिः ॥ १६३ ॥

धूपो ज्वरेषु सर्वेषु कार्यो ऽयम् अ-पराजितः ।
धूप-नस्याञ्जनोत्त्रासा ये चोक्ताश् चित्त-वैकृते ॥ १६४ ॥

१.१६४bv प्रयोक्तव्यो ऽ-पराजितः १.१६४cv धूप-नस्याञ्जन-त्रासा दैवाश्रयं च भैषज्यं ज्वरान् सर्वान् व्यपोहति ।
विशेषाद् विषमान् प्रायस् ते ह्य् आगन्त्व्-अनुबन्ध-जाः ॥ १६५ ॥

यथा-स्वं च सिरां विध्येद् अ-शान्तौ विषम-ज्वरे ।
केवलानिल-वीसर्प-विस्फोटाभिहत-ज्वरे ॥ १६६ ॥

१.१६६bv अ-शान्ते विषम-ज्वरे १.१६६dv -विस्फोटाभिहते ज्वरे सर्पिः-पान-हिमालेप-सेक-मांस-रसाशनम् ।
कुर्याद् यथा-स्वम् उक्तं च रक्त-मोक्षादि साधनम् ॥ १६७ ॥

१.१६७av सर्पिः-पानं हिमालेप- १.१६७bv -सेकान् मांस-रसाशनम् ग्रहोत्थे भूत-विद्योक्तं बलि-मन्त्रादि साधनम् ।
ओषधि-गन्ध-जे पित्त-शमनं विष-जिद् विषे ॥ १६८ ॥

१.१६८cv औषधि-गन्ध-जे पित्त- इष्टैर् अर्थैर् मनो-ज्ञैश् च यथा-दोष-शमेन च ।
हिता-हित-विवेकैश् च ज्वरं क्रोधादि-जं जयेत् ॥ १६९ ॥

क्रोध-जो याति कामेन शान्तिं क्रोधेन काम-जः ।
भय-शोकोद्भवौ ताभ्यां भी-शोकाभ्यां तथेतरौ ॥ १७० ॥

शापाथर्वण-मन्त्रोत्थे विधिर् दैव-व्यपाश्रयः ।
ते ज्वराः केवलाः पूर्वं व्याप्यन्ते ऽन्-अन्तरम् मलैः ॥ १७१ ॥

तस्माद् दोषानुसारेण तेष्व् आहारादि कल्पयेत् ।
न हि ज्वरो ऽनुबध्नाति मारुताद्यैर् विना कृतः ॥ १७२ ॥

ज्वर-काल-स्मृतिं चास्य हारिभिर् विषयैर् हरेत् ।
करुणार्द्रं मनः शुद्धं सर्व-ज्वर-विनाशनम् ॥ १७३ ॥

१.१७३dv सर्व-ज्वर-विमोक्षणम् त्यजेद् आ-बल-लाभाच् च व्यायाम-स्नान-मैथुनम् ।
गुर्व्-अ-सात्म्य-विदाह्य् अन्नं यच् चान्यज् ज्वर-कारणम् ॥ १७४ ॥

न वि-ज्वरो ऽपि सहसा सर्वान्नीनो भवेत् तथा ।
निवृत्तो ऽपि ज्वरः शीघ्रं व्यापादयति दुर्-बलम् ॥ १७५ ॥

१.१७५bv सर्वान्नीनो भवेत् तदा १.१७५cv निवृत्तो हि ज्वरः शीघ्रं सद्यः प्राण-हरो यस्मात् तस्मात् तस्य विशेषतः ।
तस्यां तस्याम् अवस्थायां तत् तत् कुर्याद् भिषग्-जितम् ॥ १७६ ॥

१.१७६dv तत् तत् कुर्याच् चिकित्सितम् ओषधयो मणयश् च सु-मन्त्राः साधु-गुरु-द्वि-ज-दैवत-पूजाः ।
प्रीति-करा मनसो विषयाश् च घ्नन्त्य् अपि विष्णु-कृतं ज्वरम् उग्रम् ॥ १७७ ॥

१.१७७av औषधयो मणयश् च सु-मन्त्राः

अध्याय 02

ऊर्ध्व-गं बलिनो ऽ-वेगम् एक-दोषानुगं नवम् ।
रक्त-पित्तं सुखे काले साधयेन् निर्-उपद्रवम् ॥ १ ॥

अधो-गं यापयेद् रक्तं यच् च दोष-द्वयानुगम् ।
शान्तं शान्तं पुनः कुप्यन् मार्गान् मार्गान्तरं च यत् ॥ २ ॥

अति-प्रवृत्तं मन्दाग्नेस् त्रि-दोषं द्वि-पथं त्यजेत् ।
ज्ञात्वा निदानम् अयनं मलाव् अनु-बलौ बलम् ॥ ३ ॥

देश-कालाद्य्-अवस्थां च रक्त-पित्ते प्रयोजयेत् ।
लङ्घनं बृंहणं वादौ शोधनं शमनं तथा ॥ ४ ॥

२.४cv लङ्घनं बृंहणं चादौ संतर्पणोत्थं बलिनो बहु-दोषस्य साधयेत् ।
ऊर्ध्व-भागं विरेकेण वमनेन त्व् अधो-गतम् ॥ ५ ॥

२.५dv वमनेन त्व् अधो-गमम् शमनैर् बृंहणैश् चान्यल् लङ्घ्य-बृंह्यान् अवेक्ष्य च ।
ऊर्ध्वं प्रवृत्ते शमनौ रसौ तिक्त-कषायकौ ॥ ६ ॥

२.६bv लङ्घ्य-बृंह्यान् अपेक्ष्य च उपवासश् च निः-शुण्ठी-षड्-अङ्गोदक-पायिनः ।
अधो-गे रक्त-पित्ते तु बृंहणो मधुरो रसः ॥ ७ ॥

ऊर्ध्व-गे तर्पणं योज्यं प्राक् च पेया त्व् अधो-गते ।
अश्नतो बलिनो ऽ-शुद्धं न धार्यं तद् धि रोग-कृत् ॥ ८ ॥

२.८bv पेया पूर्वम् अधो-गते २.८bv प्राक् च पेया त्व् अधो-गमे २.८bv वा प्राक् पेया त्व् अधो-गमे धारयेद् अन्य-था शीघ्रम् अग्नि-वच् छीघ्र-कारि तत् ।
त्रिवृच्-छ्यामा-कषायेण कल्केन च स-शर्करम् ॥ ९ ॥

गल-ग्रहं पूति-नस्यं मूर्छायम् अ-रुचिं ज्वरम् ।
गुल्मं प्लीहानम् आनाहं किलासं मूत्र-कृच्छ्र-ताम् ॥ ९.१+१ ॥

कुष्ठान्य् अर्शांसि वीसर्पं वर्ण-नाशं भगन्दरम् ।
बुद्धीन्द्रियोपरोधं च कुर्यात् स्तम्भितम् आदितः ॥ ९.१+२ ॥

साधयेद् विधि-वल् लेहं लिह्यात् पाणि-तलं ततः ।
त्रिवृता त्रि-फला श्यामा पिप्पली शर्करा मधु ॥ १० ॥

मोदकः संनिपातोर्ध्व-रक्त-शोफ-ज्वरापहः ।
त्रिवृत् सम-सिता तद्-वत् पिप्पली-पाद-संयुता ॥ ११ ॥

२.११bv -रक्त-पित्त-ज्वरापहः वमनं फल-संयुक्तं तर्पणं स-सिता-मधु ।
स-सितं वा जलं क्षौद्र-युक्तं वा मधुकोदकम् ॥ १२ ॥

क्षीरं वा रसम् इक्षोर् वा शुद्धस्यान्-अन्तरो विधिः ।
यथा-स्वं मन्थ-पेयादिः प्रयोज्यो रक्षता बलम् ॥ १३ ॥

मन्थो ज्वरोक्तो द्राक्षादिः पित्त-घ्नैर् वा फलैः कृतः ।
मधु-खर्जूर-मृद्वीका-परूषक-सिताम्भसा ॥ १४ ॥

मन्थो वा पञ्च-सारेण स-घृतैर् लाज-सक्तुभिः ।
दाडिमामलकाम्लो वा मन्दाग्न्य्-अम्लाभिलाषिणाम् ॥ १५ ॥

२.१५dv मन्दाग्न्य्-अम्लाभिलाषिणः कमलोत्पल-किञ्जल्क-पृश्निपर्णी-प्रियङ्गुकाः ।
उशीरं शबरं लोध्रं शृङ्गवेरं कु-चन्दनम् ॥ १६ ॥

ह्रीवेरं धातकी-पुष्पं बिल्व-मध्यं दुरालभा ।
अर्धार्धैर् विहिताः पेया वक्ष्यन्ते पाद-यौगिकाः ॥ १७ ॥

२.१७cv अर्धर्चैर् विहिताः पेया २.१७cv अर्धार्ध-विहिताः पेया भूनिम्ब-सेव्य-जलदा मसूराः पृश्निपर्ण्य् अपि ।
विदारिगन्धा मुद्गाश् च बला सर्पिर् हरेणुकाः ॥ १८ ॥

२.१८dv बला सर्पिः प्रियङ्गुकाः जाङ्गलानि च मांसानि शीत-वीर्याणि साधयेत् ।
पृथक् पृथग् जले तेषां यवागूः कल्पयेद् रसे ॥ १९ ॥

शीताः स-शर्करा-क्षौद्रास् तद्-वन् मांस-रसान् अपि ।
ईषद्-अम्लान् अन्-अम्लान् वा घृत-भृष्टान् स-शर्करान् ॥ २० ॥

शूक-शिम्बी-भवं धान्यं रक्ते शाकं च शस्यते ।
अन्न-स्व-रूप-विज्ञाने यद् उक्तं लघु-शीतलम् ॥ २१ ॥

पूर्वोक्तम् अम्बु पानीयं पञ्च-मूलेन वा शृतम् ।
लघुना शृत-शीतं वा मध्व्-अम्भो वा फलाम्बु वा ॥ २२ ॥

शशः स-वास्तुकः शस्तो विबन्धे तित्तिरिः पुनः ।
उदुम्बरस्य निर्यूहे साधितो मारुते ऽधिके ॥ २३ ॥

प्लक्षस्य बर्हिणस् तद्-वन् न्यग्रोधस्य च कुक्कुटः ।
यत् किञ्-चिद् रक्त-पित्तस्य निदानं तच् च वर्जयेत् ॥ २४ ॥

वासा-रसेन फलिनी-मृल्-लोध्राञ्जन-माक्षिकम् ।
पित्तासृक् शमयेत् पीतं निर्यासो वाटरूषकात् ॥ २५ ॥

शर्करा-मधु-संयुक्तः केवलो वा शृतो ऽपि वा ।
वृषः सद्यो जयत्य् अस्रं स ह्य् अस्य परम् औषधम् ॥ २६ ॥

पटोल-मालती-निम्ब-चन्दन-द्वय-पद्मकम् ।
लोध्रो वृषस् तण्डुलीयः कृष्णा मृन् मदयन्तिका ॥ २७ ॥

२.२७av पटोलामलकी-निम्ब- शतावरी गोपकन्या काकोल्यौ मधुयष्टिका ।
रक्त-पित्त-हराः क्वाथास् त्रयः स-मधु-शर्कराः ॥ २८ ॥

पलाश-वल्क-क्वाथो वा सु-शीतः शर्करान्वितः ।
लिह्याद् वा मधु-सर्पिर्भ्यां गवाश्व-शकृतो रसम् ॥ २९ ॥

२.२९cv पिबेद् वा मधु-सर्पिर्भ्यां स-क्षौद्रं ग्रथिते रक्ते लिह्यात् पारावताच् छकृत् ।
अति-निःस्रुत-रक्तश् च क्षौद्रेण रुधिरं पिबेत् ॥ ३० ॥

२.३०bv लिह्यात् पारावतं शकृत् २.३०cv अति-निःसृत-रक्तश् च २.३०cv अति-निःसृत-रक्तो वा २.३०cv अति-निःस्रुत-रक्तो वा जाङ्गलं भक्षयेद् वाजम् आमं पित्त-युतं यकृत् ।
चन्दनोशीर-जलद-लाज-मुद्ग-कणा-यवैः ॥ ३१ ॥

बला-जले पर्युषितैः कषायो रक्त-पित्त-हा ।
प्रसादश् चन्दनाम्भो-ज-सेव्य-मृद्-भृष्ट-लोष्ट-जः ॥ ३२ ॥

सु-शीतः स-सिता-क्षौद्रः शोणिताति-प्रवृत्ति-जित् ।
आपोथ्य वा नवे कुम्भे प्लावयेद् इक्षु-गण्डिकाः ॥ ३३ ॥

स्थितं तद् गुप्तम् आकाशे रात्रिं प्रातः स्रुतं जलम् ।
मधु-मद् विकचाम्भो-ज-कृतोत्तंसं च तद्-गुणम् ॥ ३४ ॥

ये च पित्त-ज्वरे चोक्ताः कषायास् तांश् च योजयेत् ।
कषायैर् विविधैर् एभिर् दीप्ते ऽग्नौ विजिते कफे ॥ ३५ ॥

रक्त-पित्तं न चेच् छाम्येत् तत्र वातोल्बणे पयः ।
युञ्ज्याच् छागं शृतं तद्-वद् गव्यं पञ्च-गुणे ऽम्भसि ॥ ३६ ॥

पञ्च-मूलेन लघुना शृतं वा स-सिता-मधु ।
जीवकर्षभक-द्राक्षा-बला-गोक्षुर-नागरैः ॥ ३७ ॥

पृथक् पृथक् शृतं क्षीरं स-घृतं सितयाथ-वा ।
गोकण्टकाभीरु-शृतं पर्णिनीभिस् तथा पयः ॥ ३८ ॥

हन्त्य् आशु रक्तं स-रुजं विशेषान् मूत्र-मार्ग-गम् ।
विण्-मार्ग-गे विशेषेण हितं मोच-रसेन तु ॥ ३९ ॥

वट-प्ररोहैर् शुङ्गैर् वा शुण्ठ्य्-उदीच्योत्पलैर् अपि ।
रक्तातीसार-दुर्-नाम-चिकित्सां चात्र कल्पयेत् ॥ ४० ॥

२.४०av वट-प्ररोहैर् शृङ्गैर् वा पीत्वा कषायान् पयसा भुञ्जीत पयसैव च ।
कषाय-योगैर् एभिर् वा विपक्वं पाययेद् घृतम् ॥ ४१ ॥

स-मूल-मस्तकं क्षुण्णं वृषम् अष्ट-गुणे ऽम्भसि ।
पक्त्वाष्टांशावशेषेण घृतं तेन विपाचयेत् ॥ ४२ ॥

तत्-पुष्प-गर्भं तच् छीतं स-क्षौद्रं पित्त-शोणितम् ।
पित्त-गुल्म-ज्वर-श्वास-कास-हृद्-रोग-कामलाः ॥ ४३ ॥

तिमिर-भ्रम-वीसर्प-स्वर-सादांश् च नाशयेत् ।
पलाश-वृन्त-स्व-रसे तद्-गर्भं च घृतं पचेत् ॥ ४४ ॥

स-क्षौद्रं तच् च रक्त-घ्नं तथैव त्रायमाणया ।
रक्ते स-पिच्छे स-कफे ग्रथिते कण्ठ-मार्ग-गे ॥ ४५ ॥

लिह्यान् माक्षिक-सर्पिर्भ्यां क्षारम् उत्पल-नाल-जम् ।
पृथक् पृथक् तथाम्भो-ज-रेणु-श्यामा-मधूक-जम् ॥ ४६ ॥

गुदागमे विशेषेण शोणिते वस्तिर् इष्यते ।
घ्राण-गे रुधिरे शुद्धे नावनं चानुषेचयेत् ॥ ४७ ॥

कषाय-योगान् पूर्वोक्तान् क्षीरेक्ष्व्-आदि-रसाप्लुतान् ।
क्षीरादीन् स-सितांस् तोयं केवलं वा जलं हितं ॥ ४८ ॥

२.४८bv क्षीरेक्ष्व्-आदि-रस-प्लुतान् रसो दाडिम-पुष्पाणाम् आम्रास्थ्नः शाद्वलस्य वा ।
कल्पयेच् छीत-वर्गं च प्रदेहाभ्यञ्जनादिषु ॥ ४९ ॥

२.४९bv आम्रास्थ्नः शाद्वलस्य च सु-सूक्ष्मा माष-पिष्टी च घृत-भृष्टा शिवस्य च ।
रुणद्धि मूर्ध-लेपेन नासा-रक्तं न संशयः ॥ ४९.१+१ ॥

यच् च पित्त-ज्वरे प्रोक्तं बहिर् अन्तश् च भेषजम् ।
रक्त-पित्ते हितं तच् च क्षत-क्षीणे हितं च यत् ॥ ५० ॥



अध्याय 03

केवलानिल-जं कासं स्नेहैर् आदाव् उपाचरेत् ।
वात-घ्न-सिद्धैः स्निग्धैश् च पेया-यूष-रसादिभिः ॥ १ ॥

लेहैर् धूमैस् तथाभ्यङ्ग-स्वेद-सेकावगाहनैः ।
वस्तिभिर् बद्ध-विड्-वातं स-पित्तं तूर्ध्व-भक्तिकैः ॥ २ ॥

३.२dv स-पित्तं वोर्ध्व-भक्तिकैः ३.२dv स-पित्तं वोर्ध्व-भक्तिकैः घृतैः क्षीरैश् च स-कफं जयेत् स्नेह-विरेचनैः ।
गुडूची-कण्टकारीभ्यां पृथक् त्रिंशत्-पलाद् रसे ॥ ३ ॥

प्रस्थः सिद्धो घृताद् वात-कास-नुद् वह्नि-दीपनः ।
क्षार-रास्ना-वचा-हिङ्गु-पाठा-यष्ट्य्-आह्व-धान्यकैः ॥ ४ ॥

द्वि-शाणैः सर्पिषः प्रस्थं पञ्च-कोल-युतैः पचेत् ।
दश-मूलस्य निर्यूहे पीतो मण्डानुपायिना ॥ ५ ॥

स कास-श्वास-हृत्-पार्श्व-ग्रहणी-रोग-गुल्म-नुत् ।
द्रोणे ऽपां साधयेद् रास्ना-दश-मूल-शतावरीः ॥ ६ ॥

पलोन्मिता द्वि-कुडवं कुलत्थं बदरं यवं ।
तुलार्धं चाज-मांसस्य तेन साध्यं घृताढकम् ॥ ७ ॥

सम-क्षीरं पलांशैश् च जीवनीयैः समीक्ष्य तत् ।
प्रयुक्तं वात-रोगेषु पान-नावन-वस्तिभिः ॥ ८ ॥

पञ्च-कासाञ् छिरः-कम्पं योनि-वङ्क्षण-वेदनाम् ।
सर्वाङ्गैकाङ्ग-रोगांश् च स-प्लीहोर्ध्वानिलाञ् जयेत् ॥ ९ ॥

विदार्य्-आदि-गण-क्वाथ-कल्क-सिद्धं च कास-जित् ।
अशोक-बीज-क्षवक-जन्तुघ्नाञ्जन-पद्मकैः ॥ १० ॥

स-विडैश् च घृतं सिद्धं तच्-चूर्णं वा घृत-प्लुतम् ।
लिह्यात् पयश् चानुपिबेद् आजं कासाति-पीडितः ॥ ११ ॥

३.११dv आजं कासाभिपीडितः ३.११dv आजं कासादि-पीडितः विडङ्गं नागरं रास्ना पिप्पली हिङ्गु सैन्धवम् ।
भार्गी क्षारश् च तच् चूर्णं पिबेद् वा घृत-मात्रया ॥ १२ ॥

स-कफे ऽनिल-जे कासे श्वास-हिध्मा-हताग्निषु ।
दुरालभां शृङ्गवेरं शठीं द्राक्षां सितोपलाम् ॥ १३ ॥

३.१३dv शुण्ठीं द्राक्षां सितोपलाम् लिह्यात् कर्कटशृङ्गीं च कासे तैलेन वात-जे ।
दुःस्पर्शां पिप्पलीं मुस्तां भार्गीं कर्कटकीं शठीम् ॥ १४ ॥

पुराण-गुड-तैलाभ्यां चूर्णितान्य् अवलेहयेत् ।
तद्-वत् स-कृष्णां शुण्ठीं च स-भार्गीं तद्-वद् एव च ॥ १५ ॥

पिबेच् च कृष्णां कोष्णेन सलिलेन स-सैन्धवाम् ।
मस्तुना स-सितां शुण्ठीं दध्ना वा कण-रेणुकाम् ॥ १६ ॥

३.१६dv दध्ना वा कण-रेणुकम् पिबेद् बदर-मज्ज्ञो वा मदिरा-दधि-मस्तुभिः ।
अथ-वा पिप्पली-कल्कं घृत-भृष्टं स-सैन्धवम् ॥ १७ ॥

३.१७av पिबेद् बदर-मज्जां वा कासी स-पीनसो धूमं स्नैहिकं विधिना पिबेत् ।
हिध्मा-श्वासोक्त-धूमांश् च क्षीर-मांस-रसाशनः ॥ १८ ॥

ग्राम्यानूपौदकैः शालि-यव-गोधूम-षष्टिकान् ।
रसैर् माषात्मगुप्तानां यूषैर् वा भोजयेद् धितान् ॥ १९ ॥

३.१९av ग्राम्यानूपोद्भवैः शालि- यवानी-पिप्पली-बिल्व-मध्य-नागर-चित्रकैः ।
रास्नाजाजी-पृथक्पर्णी-पलाश-शठि-पौष्करैः ॥ २० ॥

सिद्धां स्निग्धाम्ल-लवणां पेयाम् अनिल-जे पिबेत् ।
कटी-हृत्-पार्श्व-कोष्ठार्ति-श्वास-हिध्मा-प्रणाशनीम् ॥ २१ ॥

दश-मूल-रसे तद्-वत् पञ्च-कोल-गुडान्विताम् ।
पिबेत् पेयां सम-तिलां क्षैरेयीं वा स-सैन्धवाम् ॥ २२ ॥

मात्स्य-कौक्कुट-वाराहैर् मांसैर् वा साज्य-सैन्धवाम् ।
वास्तुको वायसी-शाकं कासघ्नः सुनिषण्णकः ॥ २३ ॥

कण्टकार्याः फलं पत्त्रं बालं शुष्कं च मूलकम् ।
स्नेहास् तैलादयो भक्ष्याः क्षीरेक्षु-रस-गौडिकाः ॥ २४ ॥

दधि-मस्त्व्-आरनालाम्ल-फलाम्बु-मदिराः पिबेत् ।
पित्त-कासे तु स-कफे वमनं सर्पिषा हितम् ॥ २५ ॥

तथा मदन-काश्मर्य-मधुक-क्वथितैर् जलैः ।
फल-यष्ट्य्-आह्व-कल्कैर् वा विदारीक्षु-रसाप्लुतैः ॥ २६ ॥

पित्त-कासे तनु-कफे त्रिवृतां मधुरैर् युताम् ।
युञ्ज्याद् विरेकाय युतां घन-श्लेष्मणि तिक्तकैः ॥ २७ ॥

हृत-दोषो हिमं स्वादु स्निग्धं संसर्जनं भजेत् ।
घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम् ॥ २८ ॥

लेहः पैत्ते सिता-धात्री-क्षौद्र-द्राक्षा-हिमोत्पलैः ।
स-घृतः सानिले हितः स-कफे साब्द-मरिचः ॥ २९ ॥

३.२९av लेहः पित्ते सिता-धात्री- मृद्वीकार्ध-शतं त्रिंशत् पिप्पलीः शर्करा-पलम् ।
लेहयेन् मधुना गोर् वा क्षीर-पस्य शकृद्-रसम् ॥ ३० ॥

त्वग्-एला-व्योष-मृद्वीका-पिप्पली-मूल-पौष्करैः ।
लाज-मुस्ता-शठी-रास्ना-धात्री-फल-विभीतकैः ॥ ३१ ॥

शर्करा-क्षौद्र-सर्पिर्भिर् लेहो हृद्-रोग-कास-हा ।
मधुरैर् जाङ्गल-रसैर् यव-श्यामाक-कोद्रवाः ॥ ३२ ॥

मुद्गादि-यूषैः शाकैश् च तिक्तकैर् मात्रया हिताः ।
घन-श्लेष्मणि लेहाश् च तिक्तका मधु-संयुताः ॥ ३३ ॥

शालयः स्युस् तनु-कफे षष्टिकाश् च रसादिभिः ।
शर्कराम्भो ऽनु-पानार्थं द्राक्षेक्षु-स्व-रसाः पयः ॥ ३४ ॥

काकोली-बृहती-मेदा-द्वयैः स-वृष-नागरैः ।
पित्त-कासे रस-क्षीर-पेया-यूषान् प्रकल्पयेत् ॥ ३५ ॥

द्राक्षां कणां पञ्च-मूलं तृणाख्यं च पचेज् जले ।
तेन क्षीरं शृतं शीतं पिबेत् स-मधु-शर्करम् ॥ ३६ ॥

साधितां तेन पेयां वा सु-शीतां मधुनान्विताम् ।
शठी-ह्रीवेर-बृहती-शर्करा-विश्व-भेषजम् ॥ ३७ ॥

पिष्ट्वा रसं पिबेत् पूतं वस्त्रेण घृत-मूर्छितम् ।
मेदां विदारीं काकोलीं स्वयङ्गुप्ता-फलं बलाम् ॥ ३८ ॥

शर्करां जीवकं मुद्ग-माषपर्ण्यौ दुरालभाम् ।
कल्की-कृत्य पचेत् सर्पिः क्षीरेणाष्ट-गुणेन तत् ॥ ३९ ॥

पान-भोजन-लेहेषु प्रयुक्तं पित्त-कास-जित् ।
लिह्याद् वा चूर्णम् एतेषां कषायम् अथ-वा पिबेत् ॥ ४० ॥

कफ-कासी पिबेद् आदौ सुरकाष्ठात् प्रदीपितात् ।
स्नेहं परिस्रुतं व्योष-यव-क्षारावचूर्णितम् ॥ ४१ ॥

३.४१av कफ-कासे पिबेद् आदौ स्निग्धं विरेचयेद् ऊर्ध्वम् अधो मूर्ध्नि च युक्तितः ।
तीक्ष्णैर् विरेकैर् बलिनं संसर्गीं चास्य योजयेत् ॥ ४२ ॥

यव-मुद्ग-कुलत्थान्नैर् उष्ण-रूक्षैः कटूत्कटैः ।
कासमर्दक-वार्ताक-व्याघ्री-क्षार-कणान्वितैः ॥ ४३ ॥

धान्व-बैल-रसैः स्नेहैस् तिल-सर्षप-निम्ब-जैः ।
दश-मूलाम्बु घर्माम्बु मद्यं मध्व्-अम्बु वा पिबेत् ॥ ४४ ॥

३.४४av धान्व-बैल-रसैर् लेहैस् ३.४४bv तिल-सर्षप-बिल्व-जैः मूलैः पौष्कर-शम्याक-पटोलैः संस्थितं निशाम् ।
पिबेद् वारि सह-क्षौद्रं कालेष्व् अन्नस्य वा त्रिषु ॥ ४५ ॥

३.४५bv -पटोलैर् अन्वितं निशाम् पिप्पली पिप्पली-मूलं शृङ्गवेरं विभीतकम् ।
शिखि-कुक्कुट-पिच्छानां मषी क्षारो यवोद्भवः ॥ ४६ ॥

विशाला पिप्पली-मूलं त्रिवृता च मधु-द्रवाः ।
कफ-कास-हरा लेहास् त्रयः श्लोकार्ध-योजिताः ॥ ४७ ॥

मधुना मरिचं लिह्यान् मधुनैव च जोङ्गकम् ।
पृथग् रसांश् च मधुना व्याघ्री-वार्ताक-भृङ्ग-जान् ॥ ४८ ॥

कासघ्नस्याश्व-शकृतः सुरसस्यासितस्य च ।
देवदारु-शठी-रास्ना-कर्कटाख्या-दुरालभाः ॥ ४९ ॥

३.४९bv सुरसस्यासितस्य वा पिप्पली नागरं मुस्तं पथ्या धात्री सितोपला ।
लाजाः सितोपला सर्पिः शृङ्गी धात्री-फलोद्भवा ॥ ५० ॥

३.५०dv शृङ्गी धात्री-फलाद् रजः मधु-तैल-युता लेहास् त्रयो वातानुगे कफे ।
द्वे पले दाडिमाद् अष्टौ गुडाद् व्योषात् पल-त्रयम् ॥ ५१ ॥

रोचनं दीपनं स्वर्यं पीनस-श्वास-कास-जित् ।
गुड-क्षारोषण-कणा-दाडिमं श्वास-कास-जित् ॥ ५२ ॥

३.५२dv -दाडिमाच् छ्वास-कास-जित् क्रमात् पल-द्वयार्धाक्ष-कर्षार्धाक्ष-पलोन्मितम् ।
पिबेज् ज्वरोक्तं पथ्यादि स-शृङ्गीकं च पाचनम् ॥ ५३ ॥

३.५३bv -कर्षाक्षार्ध-पलोन्मितम् अथ-वा दीप्यक-त्रिवृद्-विशाला-घन-पौष्करम् ।
स-कणं क्वथितं मूत्रे कफ-कासी जले ऽपि वा ॥ ५४ ॥

तैल-भृष्टं च वैदेही-कल्काक्षं स-सितोपलम् ।
पाययेत् कफ-कास-घ्नं कुलत्थ-सलिलाप्लुतम् ॥ ५५ ॥

दश-मूलाढके प्रस्थं घृतस्याक्ष-समैः पचेत् ।
पुष्कराह्व-शठी-बिल्व-सुरसा-व्योष-हिङ्गुभिः ॥ ५६ ॥

३.५६cv पुष्कराख्य-शठी-बिल्व- पेयानु-पानं तत् सर्व-वात-श्लेष्मामयापहम् ।
निर्गुण्डी-पत्त्र-निर्यास-साधितं कास-जिद् घृतम् ॥ ५७ ॥

घृतं रसे विडङ्गानां व्योष-गर्भं च साधितम् ॥ ५७ऊ̆अब् ॥
पुनर्नव-शिवातिका-सरल-कासमर्दामृता- ॥ ५८अ ॥
पटोल-बृहती-फणिज्जक-रसैः पयः-संयुतैः ॥ ५८ब् ॥
घृतं त्रि-कटुना च सिद्धम् उपयुज्य संजायते ॥ ५८च् ॥
न कास-विषम-ज्वर-क्षय-गुदाङ्कुरेभ्यो भयम् ॥ ५८द् ॥
स-मूल-फल-पत्त्रायाः कण्टकार्या रसाढके ॥ ५९अब् ॥
३.५९av स-मूल-फल-शाखायाः घृत-प्रस्थं बला-व्योष-विडङ्ग-शठि-दाडिमैः ।
सौवर्चल-यव-क्षार-मूलामलक-पौष्करैः ॥ ६० ॥

वृश्चीव-बृहती-पथ्या-यवानी-चित्रकर्द्धिभिः ।
मृद्वीका-चव्य-वर्षाभू-दुरालभाम्ल-वेतसैः ॥ ६१ ॥

शृङ्गी-तामलकी-भार्गी-रास्ना-गोक्षुरकैः पचेत् ।
कल्कैस् तत् सर्व-कासेषु श्वास-हिध्मासु चेष्यते ॥ ६२ ॥

कण्टकारी-घृतं चैतत् कफ-व्याधि-विनाशनम् ।
पचेद् व्याघ्री-तुलां क्षुण्णां वहे ऽपाम् आढक-स्थिते ॥ ६३ ॥

क्षिपेत् पूते तु संचूर्ण्य व्योष-रास्नामृताग्निकान् ।
शृङ्गी-भार्गी-घन-ग्रन्थि-धन्वयासान् पलार्धकान् ॥ ६४ ॥

३.६४av क्षिपेत् पूते च संचूर्ण्य सर्पिषः षो-डश-पलं चत्वारिंशत् पलानि च ।
मत्स्यण्डिकायाः शुद्धायाः पुनश् च तद् अधिश्रयेत् ॥ ६५ ॥

दर्वी-लेपिनि शीते च पृथग् द्वि-कुडवं क्षिपेत् ।
पिप्पलीनां तवक्षीर्या माक्षिकस्या-नवस्य च ॥ ६६ ॥

३.६६cv पिप्पलीनां तुकाक्षीर्या लेहो ऽयं गुल्म-हृद्-रोग-दुर्-नाम-श्वास-कास-जित् ।
शमनं च पिबेद् धूमं शोधनं बहले कफे ॥ ६७ ॥

३.६७dv शोधनं बहुले कफे मनःशिलाल-मधुक-मांसी-मुस्तेङ्गुदी-त्वचः ।
धूमं कास-घ्न-विधिना पीत्वा क्षीरं पिबेद् अनु ॥ ६८ ॥

निष्ठ्यूतान्ते गुड-युतं कोष्णं धूमो निहन्ति सः ।
वात-श्लेष्मोत्तरान् कासान् अ-चिरेण चिरन्-तनान् ॥ ६९ ॥

तमकः कफ-कासे तु स्याच् चेत् पित्तानुबन्ध-जः ।
पित्त-कास-क्रियां तत्र यथावस्थं प्रयोजयेत् ॥ ७० ॥

कफानुबन्धे पवने कुर्यात् कफ-हरां क्रियाम् ।
पित्तानुबन्धयोर् वात-कफयोः पित्त-नाशिनीम् ॥ ७१ ॥

वात-श्लेष्मात्मके शुष्के स्निग्धम् आर्द्रे विरूक्षणम् ।
कासे कर्म स-पित्ते तु कफ-जे तिक्त-संयुतम् ॥ ७२ ॥

३.७२bv स्निग्धं चार्द्रे विरूक्षणम् उरस्य् अन्तः-क्षते सद्यो लाक्षां क्षौद्र-युतां पिबेत् ।
क्षीरेण शालीन् जीर्णे ऽद्यात् क्षीरेणैव स-शर्करान् ॥ ७३ ॥

पार्श्व-वस्ति-स-रुक् चाल्प-पित्ताग्निस् तां सुरा-युताम् ।
भिन्न-विट्कः स-मुस्तातिविषा-पाठां स-वत्सकाम् ॥ ७४ ॥

लाक्षां सर्पिर् मधूच्छिष्टं जीवनीयं गणं सिताम् ।
त्वक्क्षीरीं समितं क्षीरे पक्त्वा दीप्तानलः पिबेत् ॥ ७५ ॥

३.७५cv त्वक्क्षीरीं संमितं क्षीरे इक्ष्वारिका-बिस-ग्रन्थि-पद्म-केसर-चन्दनैः ।
शृतं पयो मधु-युतं संधानार्थं पिबेत् क्षती ॥ ७६ ॥

यवानां चूर्णम् आमानां क्षीरे सिद्धं घृतान्वितम् ।
ज्वर-दाहे सिता-क्षौद्र-सक्तून् वा पयसा पिबेत् ॥ ७७ ॥

३.७७bv क्षीर-सिद्धं घृतान्वितम् कास-वांस् तु पिबेत् सर्पिर् मधुरौषध-साधितम् ।
गुडोदकं वा क्वथितं स-क्षौद्र-मरिचं हितम् ॥ ७८ ॥

३.७८av कास-वांश् च पिबेत् सर्पिर् चूर्णम् आमलकानां वा क्षीरे पक्वं घृतान्वितम् ।
रसायन-विधानेन पिप्पलीर् वा प्रयोजयेत् ॥ ७९ ॥

३.७९bv क्षीर-पक्वं घृतान्वितम् कासी पर्वास्थि-शूली च लिह्यात् स-घृत-माक्षिकाः ।
मधूक-मधुक-द्राक्षा-त्वक्क्षीरी-पिप्पली-बलाः ॥ ८० ॥

३.८०bv लिह्यात् स-घृत-माक्षिकान् ३.८०dv -त्वक्क्षीरी-पिप्पली-बलान् त्रि-जातम् अर्ध-कर्षांशं पिप्पल्य्-अर्ध-पलं सिता ।
द्राक्षा मधूकं खर्जूरं पलाशं श्लक्ष्ण-चूर्णितम् ॥ ८१ ॥

मधुना गुटिका घ्नन्ति ता वृष्याः पित्त-शोणितम् ।
कास-श्वासा-रुचि-च्छर्दि-मूर्छा-हिध्मा-मद-भ्रमान् ॥ ८२ ॥

३.८२dv -मूर्छा-हिध्मा-वमि-भ्रमान् क्षत-क्षय-स्वर-भ्रंश-प्लीह-शोषाढ्य-मारुतान् ।
रक्त-निष्ठीव-हृत्-पार्श्व-रुक्-पिपासा-ज्वरान् अपि ॥ ८३ ॥

३.८३bv -प्लीह-शोफाढ्य-मारुतान् वर्षाभू-शर्करा-रक्त-शालि-तण्डुल-जं रजः ।
रक्त-ष्ठीवी पिबेत् सिद्धं द्राक्षा-रस-पयो-घृतैः ॥ ८४ ॥

मधूक-मधुक-क्षीर-सिद्धं वा तण्डुलीयकम् ।
यथा-स्वं मार्ग-विसृते रक्ते कुर्याच् च भेषजम् ॥ ८५ ॥

मूढ-वातस् त्व् अजा-मेदः सुरा-भृष्टं स-सैन्धवम् ।
क्षामः क्षीणः क्षतोरस्को मन्द-निद्रो ऽग्नि-दीप्ति-मान् ॥ ८६ ॥

शृत-क्षीर-सरेणाद्यात् स-घृत-क्षौद्र-शर्करम् ।
शर्करा-यव-गोधूमं जीवकर्षभकौ मधु ॥ ८७ ॥

३.८७cv शर्करां यव-गोधूमं शृत-क्षीरानु-पानं वा लिह्यात् क्षीणः क्षतः कृशः ।
क्रव्यात्-पिशित-निर्यूहं घृत-भृष्टं पिबेच् च सः ॥ ८८ ॥

पिप्पली-क्षौद्र-संयुक्तं मांस-शोणित-वर्धनम् ।
न्यग्रोधोदुम्बराश्वत्थ-प्लक्ष-शाल-प्रियङ्गुभिः ॥ ८९ ॥

ताल-मस्तक-जम्बू-त्वक्-प्रियालैश् च स-पद्मकैः ।
साश्वकर्णैः शृतात् क्षीराद् अद्याज् जातेन सर्पिषा ॥ ९० ॥

शाल्य्-ओदनं क्षतोरस्कः क्षीण-शुक्र-बलेन्द्रियः ।
वात-पित्तार्दिते ऽभ्यङ्गो गात्र-भेदे घृतैर् मतः ॥ ९१ ॥

तैलैश् चानिल-रोग-घ्नैः पीडिते मातरिश्वना ।
हृत्-पार्श्वार्तिषु पानं स्याज् जीवनीयस्य सर्पिषः ॥ ९२ ॥

३.९२cv हृत-पार्श्वार्तौ तु पानं स्याज् कुर्याद् वा वात-रोग-घ्नं पित्त-रक्ता-विरोधि यत् ।
यष्ट्य्-आह्व-नागबलयोः क्वाथे क्षीर-समे घृतम् ॥ ९३ ॥

पयस्या-पिप्पली-वांशी-कल्कैः सिद्धं क्षते हितम् ।
जीवनीयो गणः शुण्ठी वरी वीरा पुनर्नवा ॥ ९४ ॥

बला-भार्गी-स्वगुप्तर्द्धि-शठी-तामलकी-कणाः ।
शृङ्गाटकं पयस्या च पञ्च-मूलं च यल् लघु ॥ ९५ ॥

द्राक्षाक्षोटादि च फलं मधुर-स्निग्ध-बृंहणम् ।
तैः पचेत् सर्पिषः प्रस्थं कर्षांशैः श्लक्ष्ण-कल्कितैः ॥ ९६ ॥

क्षीर-धात्री-विदारीक्षु-च्छाग-मांस-रसान्वितम् ।
प्रस्थार्धं मधुनः शीते शर्करार्ध-तुला-रजः ॥ ९७ ॥

पलार्धकं च मरिच-त्वग्-एला-पत्त्र-केसरम् ।
विनीय प्रसृतं तस्माल् लिह्यान् मात्रां यथा-बलम् ॥ ९८ ॥

३.९८dv लिह्यान् मात्रां यथानलम् अमृत-प्राशम् इत्य् एतन् नराणाम् अमृतं घृतम् ।
सुधामृत-रसं प्राश्यं क्षीर-मांस-रसाशिना ॥ ९९ ॥

नष्ट-शुक्र-क्षत-क्षीण-दुर्-बल-व्याधि-कर्शितान् ।
स्त्री-प्रसक्तान् कृशान् वर्ण-स्वर-हीनांश् च बृंहयेत् ॥ १०० ॥

३.१००bv -दुर्-बल-व्याधि-कर्षितान् कास-हिध्मा-ज्वर-श्वास-दाह-तृष्णास्र-पित्त-नुत् ।
पुत्र-दं छर्दि-मूर्छा-हृद्-योनि-मूत्रामयापहम् ॥ १०१ ॥

श्वदंष्ट्रोशीर-मञ्जिष्ठा-बला-काश्मर्य-कट्तृणम् ।
दर्भ-मूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम् ॥ १०२ ॥

पालिकानि पचेत् तेषां रसे क्षीर-चतुर्-गुणे ।
कल्कैः स्वगुप्ता-जीवन्ती-मेदर्षभक-जीवकैः ॥ १०३ ॥

शतावर्य्-ऋद्धि-मृद्वीका-शर्करा-श्रावणी-बिसैः ।
प्रस्थः सिद्धो घृताद् वात-पित्त-हृद्-रोग-शूल-नुत् ॥ १०४ ॥

३.१०४dv -पित्त-हृद्-द्रव-शूल-नुत् मूत्र-कृच्छ्र-प्रमेहार्शः-कास-शोष-क्षयापहः ।
धनुः-स्त्री-मद्य-भाराध्व-खिन्नानां बल-मांस-दः ॥ १०५ ॥

मधुकाष्ट-पल-द्राक्षा-प्रस्थ-क्वाथे पचेद् घृतम् ।
पिप्पल्य्-अष्ट-पले कल्के प्रस्थं सिद्धे च शीतले ॥ १०६ ॥

पृथग् अष्ट-पलं क्षौद्र-शर्कराभ्यां विमिश्रयेत् ।
सम-सक्तु क्षत-क्षीण-रक्त-गुल्मेषु तद् धितम् ॥ १०७ ॥

धात्री-फल-विदारीक्षु-जीवनीय-रसाद् घृतात् ।
गव्याजयोश् च पयसोः प्रस्थं प्रस्थं विपाचयेत् ॥ १०८ ॥

सिद्ध-शीते सिता-क्षौद्रं द्वि-प्रस्थं विनयेत् ततः ।
यक्ष्मापस्मार-पित्तासृक्-कास-मेह-क्षयापहम् ॥ १०९ ॥

३.१०९av सिद्ध-पूते सिता-क्षौद्रं ३.१०९dv -कास-मेह-ज्वरापहम् वयः-स्थापनम् आयुष्यं मांस-शुक्र-बल-प्रदम् ।
घृतं तु पित्ते ऽभ्यधिके लिह्याद् वाते ऽधिके पिबेत् ॥ ११० ॥

३.११०dv लिह्याद् वाताधिके पिबेत् लीढं निर्वापयेत् पित्तम् अल्प-त्वाद् धन्ति नानलम् ।
आक्रामत्य् अनिलं पीतम् ऊष्माणं निरुणद्धि च ॥ १११ ॥

क्षाम-क्षीण-कृशाङ्गानाम् एतान्य् एव घृतानि तु ।
त्वक्क्षीरी-शर्करा-लाज-चूर्णैः स्त्यानानि योजयेत् ॥ ११२ ॥

३.११२cv त्वक्क्षीरी-पिप्पली-लाज- ३.११२dv -चूर्णैः पानानि योजयेत् सर्पिर्-गुडान् स-मध्व्-अंशान् कृत्वा दद्यात् पयो ऽनु च ।
रेतो वीर्यं बलं पुष्टिं तैर् आशु-तरम् आप्नुयात् ॥ ११३ ॥

वीत-त्वग्-अस्थि-कूष्माण्ड-तुलां स्विन्नां पुनः पचेत् ।
घट्टयन् सर्पिषः प्रस्थे क्षौद्र-वर्णे ऽत्र च क्षिपेत् ॥ ११४ ॥

३.११४dv क्षौद्र-वर्णे तु निक्षिपेत् खण्डाच् छतं कणा-शुण्ठ्योर् द्वि-पलं जीरकाद् अपि ।
त्रि-जात-धान्य-मरिचं पृथग् अर्ध-पलांशकम् ॥ ११५ ॥

अवतारित-शीते च दत्त्वा क्षौद्रं घृतार्धकम् ।
खजेनामथ्य च स्थाप्यं तन् निहन्त्य् उपयोजितम् ॥ ११६ ॥

कास-हिध्मा-ज्वर-श्वास-रक्त-पित्त-क्षत-क्षयान् ।
उरः-संधान-जननं मेधा-स्मृति-बल-प्रदम् ॥ ११७ ॥

अश्विभ्यां विहितं हृद्यं कूष्माण्डक-रसायनम् ।
पिबेन् नागबला-मूलस्यार्ध-कर्षाभिवर्धितम् ॥ ११८ ॥

३.११८dv ंयार्ध-कर्षादि-वर्धितम् ३.११८dv ंयार्ध-कर्ष-विवर्धितम् पलं क्षीर-युतं मासं क्षीर-वृत्तिर् अन्-अन्न-भुक् ।
एष प्रयोगः पुष्ट्य्-आयुर्-बल-वर्ण-करः परम् ॥ ११९ ॥

मण्डूकपर्ण्याः कल्पो ऽयं यष्ट्या विश्वौषधस्य च ।
पाद-शेषं जल-द्रोणे पचेन् नागबला-तुलाम् ॥ १२० ॥

तेन क्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत् ।
पलार्धिकैश् चातिबला-बला-यष्टी-पुनर्नवैः ॥ १२१ ॥

प्रपौण्डरीक-काश्मर्य-प्रियाल-कपिकच्छुभिः ।
अश्वगन्धा-सिताभीरु-मेदा-युग्म-त्रिकण्टकैः ॥ १२२ ॥

काकोली-क्षीर-काकोली-क्षीरशुक्ला-द्वि-जीरकैः ।
मृणाल-बिस-खर्जूर-शृङ्गाटक-कसेरुकैः ॥ १२३ ॥

३.१२३bv -क्षीरशुक्ला-द्वि-जीवकैः एतन् नागबला-सर्पिः पित्त-रक्त-क्षत-क्षयान् ।
जयेत् तृड्-भ्रम-दाहांश् च बल-पुष्टि-करं परम् ॥ १२४ ॥

वर्ण्यम् आयुष्यम् ओजस्यं वली-पलित-नाशनम् ।
उपयुज्य च षण् मासान् वृद्धो ऽपि तरुणायते ॥ १२५ ॥

३.१२५cv उपयुज्य तु षण्-मासाद् दीप्ते ऽग्नौ विधिर् एष स्यान् मन्दे दीपन-पाचनः ।
यक्ष्मोक्तः क्षतिनां शस्तो ग्राही शकृति तु द्रवे ॥ १२६ ॥

दश-मूलं स्वयङ्गुप्तां शङ्खपुष्पीं शठीं बलाम् ।
हस्ति-पिप्पल्य्-अपामार्ग-पिप्पली-मूल-चित्रकान् ॥ १२७ ॥

भार्गीं पुष्कर-मूलं च द्वि-पलांशं यवाढकम् ।
हरीतकी-शतं चैकं जल-पञ्चाढके पचेत् ॥ १२८ ॥

३.१२८bv द्वि-पलांशान् यवाढकम् ३.१२८dv जले पञ्चाढके पचेत् यव-स्वेदे कषायं तं पूतं तच् चाभया-शतम् ।
पचेद् गुड-तुलां दत्त्वा कुडवं च पृथग् घृतात् ॥ १२९ ॥

३.१२९av यवे स्विन्ने कषायं तं तैलात् स-पिप्पली-चूर्णात् सिद्ध-शीते च माक्षिकात् ।
लेहं द्वे चाभये नित्यम् अतः खादेद् रसायनात् ॥ १३० ॥

३.१३०cv लेहे द्वे चाभये नित्यम् तद् वली-पलितं हन्याद् वर्णायुर्-बल-वर्धनम् ।
पञ्च-कासान् क्षयं श्वासं स-हिध्मं विषम-ज्वरम् ॥ १३१ ॥

मेह-गुल्म-ग्रहण्य्-अर्शो-हृद्-रोगा-रुचि-पीनसान् ।
अगस्त्य-विहितं धन्यम् इदं श्रेष्ठं रसायनम् ॥ १३२ ॥

दश-मूलं बलां मूर्वां हरिद्रे पिप्पली-द्वयम् ।
पाठाश्वगन्धापामार्ग-स्वगुप्तातिविषामृताः ॥ १३३ ॥

३.१३३bv हरिद्रा-पिप्पली-द्वयम् ३.१३३dv -स्वगुप्तातिविषामृतम् बाल-बिल्वं त्रिवृद्-दन्ती-मूलं पत्त्रं च चित्रकात् ।
पयस्यां कुटजं हिंस्रां पुष्पं सारं च बीजकात् ॥ १३४ ॥

बोट-स्थविर-भल्लात-विकङ्कत-शतावरीः ।
पूति-करञ्ज-शम्याक-चन्द्रलेखा-सहाचरम् ॥ १३५ ॥

३.१३५dv -चन्द्रलेखा-सहाचरात् शौभाञ्जनक-निम्ब-त्वग्-इक्षुरं च पलांशकम् ।
पथ्या-सहस्रं स-शतं यवानां चाढक-द्वयम् ॥ १३६ ॥

पचेद् अष्ट-गुणे तोये यव-स्वेदे ऽवतारयेत् ।
पूते क्षिपेत् स-पथ्ये च तत्र जीर्ण-गुडात् तुलाम् ॥ १३७ ॥

३.१३७cv पूते क्षिपेत् स-पथ्यां च तैलाज्य-धात्री-रसतः प्रस्थं प्रस्थं ततः पुनः ।
अधिश्रयेन् मृदाव् अग्नौ दर्वी-लेपे ऽवतार्य च ॥ १३८ ॥

शीते प्रस्थ-द्वयं क्षौद्रात् पिप्पली-कुडवं क्षिपेत् ।
चूर्णी-कृतं त्रि-जाताच् च त्रि-पलं निखनेत् ततः ॥ १३९ ॥

धान्ये पुराण-कुम्भ-स्थं मासं खादेच् च पूर्व-वत् ।
रसायनं वसिष्ठोक्तम् एतत् पूर्व-गुणाधिकम् ॥ १४० ॥

स्वस्थानां निष्-परीहारं सर्वर्तुषु च शस्यते ।
पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात् पले ॥ १४१ ॥

कुडवांशानि वृक्षाम्लं दाडिमं पत्त्रम् आर्जकात् ।
एकैकां मरिचाजाज्योर् धान्यकाद् द्वे चतुर्थिके ॥ १४२ ॥

३.१४२bv दाडिमं पत्त्रम् आर्जकम् शर्करायाः पलान्य् अत्र दश द्वे च प्रदापयेत् ।
कृत्वा चूर्णम् अतो मात्राम् अन्न-पानेषु दापयेत् ॥ १४३ ॥

रुच्यं तद् दीपनं बल्यं पार्श्वार्ति-श्वास-कास-जित् ।
एकां षो-डशिकां धान्याद् द्वे द्वे चाजाजि-दीप्यकात् ॥ १४४ ॥

३.१४४bv पार्श्वार्ति-श्वास-कास-नुत् ताभ्यां दाडिम-वृक्षाम्ले द्विर् द्विः सौवर्चलात् पलम् ।
शुण्ठ्याः कर्षं दधित्थस्य मध्यात् पञ्च पलानि च ॥ १४५ ॥

३.१४५cv शुण्ठ्याः कर्षं कपित्थस्य तच् चूर्णं षो-डश-पलैः शर्कराया विमिश्रयेत् ।
षाडवो ऽयं प्रदेयः स्याद् अन्न-पानेषु पूर्व-वत् ॥ १४६ ॥

विधिश् च यक्ष्म-विहितो यथावस्थं क्षते हितः ।
निवृत्ते क्षत-दोषे तु कफे वृद्ध उरः शिरः ॥ १४७ ॥

दाल्यते कासिनो यस्य स ना धूमान् पिबेद् इमान् ।
द्वि-मेदा-द्वि-बला-यष्टी-कल्कैः क्षौमे सु-भाविते ॥ १४८ ॥

३.१४८av दाल्येते कासिनो यस्य ३.१४८bv स धूमान् ना पिबेद् इमान् वर्तिं कृत्वा पिबेद् धूमं जीवनीय-घृतानुपः ।
मनःशिला-पलाशाजगन्धा-त्वक्क्षीरि-नागरैः ॥ १४९ ॥

तद्-वद् एवानु-पानं तु शर्करेक्षु-गुडोदकम् ।
पिष्ट्वा मनःशिलां तुल्याम् आर्द्रया वट-शुङ्गया ॥ १५० ॥

स-सर्पिष्कं पिबेद् धूमं तित्तिरि-प्रतिभोजनम् ।
क्षय-जे बृंहणं पूर्वं कुर्याद् अग्नेश् च वर्धनम् ॥ १५१ ॥

३.१५१bv तित्तिरि-प्रतिभोजितम् बहु-दोषाय स-स्नेहं मृदु दद्याद् विरेचनम् ।
शम्याकेन त्रिवृतया मृद्वीका-रस-युक्तया ॥ १५२ ॥

तिल्वकस्य कषायेण विदारी-स्व-रसेन च ।
सर्पिः सिद्धं पिबेद् युक्त्या क्षीण-देहो विशोधनम् ॥ १५३ ॥

पित्ते कफे धातुषु च क्षीणेषु क्षय-कास-वान् ।
घृतं कर्कटकी-क्षीर-द्वि-बला-साधितं पिबेत् ॥ १५४ ॥

विदारीभिः कदम्बैर् वा ताल-सस्यैश् च साधितम् ।
घृतं पयश् च मूत्रस्य वैवर्ण्ये कृच्छ्र-निर्गमे ॥ १५५ ॥

शूने स-वेदने मेढ्रे पायौ स-श्रोणि-वङ्क्षणे ।
घृत-मण्डेन लघुनानुवास्यो मिश्रकेण वा ॥ १५६ ॥

जाङ्गलैर् प्रतिभुक्तस्य वर्तकाद्या बिले-शयाः ।
क्रम-शः प्रसहास् तद्-वत् प्रयोज्याः पिशिताशिनः ॥ १५७ ॥

औष्ण्यात् प्रमाथि-भावाच् च स्रोतोभ्यश् च्यावयन्ति ते ।
कफं शुद्धैश् च तैः पुष्टिं कुर्यात् सम्यग् वहन् रसः ॥ १५८ ॥

चविका-त्रि-फला-भार्गी-दश-मूलैः स-चित्रकैः ।
कुलत्थ-पिप्पली-मूल-पाठा-कोल-यवैर् जले ॥ १५९ ॥

शृतैर् नागर-दुःस्पर्शा-पिप्पली-शठि-पौष्करैः ।
पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर् विपाचयेत् ॥ १६० ॥

सिद्धे ऽस्मिंश् चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च ।
दत्त्वा युक्त्या पिबेन् मात्रां क्षय-कास-निपीडितः ॥ १६१ ॥

३.१६१bv द्वौ पञ्च लवणानि तु कासमर्दाभया-मुस्ता-पाठा-कट्फल-नागरैः ।
पिप्पल्या कटु-रोहिण्या काश्मर्या सुरसेन च ॥ १६२ ॥

अक्ष-मात्रैर् घृत-प्रस्थं क्षीर-द्राक्षा-रसाढके ।
पचेच् छोष-ज्वर-प्लीह-सर्व-कास-हरं शिवम् ॥ १६३ ॥

वृष-व्याघ्री-गुडूचीनां पत्त्र-मूल-फलाङ्कुरात् ।
रस-कल्कैर् घृतं पक्वं हन्ति कास-ज्वरा-रुचीः ॥ १६४ ॥

द्वि-गुणे दाडिम-रसे सिद्धं वा व्योष-संयुतम् ।
पिबेद् उपरि भुक्तस्य यव-क्षार-युतं नरः ॥ १६५ ॥

३.१६५cv पिबेद् उपरि भक्तस्य ३.१६५dv यव-क्षार-घृतं नरः ३.१६५dv यव-क्षार-युतं घृतम् पिप्पली-गुड-सिद्धं वा छाग-क्षीर-युतं घृतम् ।
एतान्य् अग्नि-विवृद्ध्य्-अर्थं सर्पींषि क्षय-कासिनाम् ॥ १६६ ॥

स्युर् दोष-बद्ध-कण्ठोरः-स्रोतसां च विशुद्धये ।
प्रस्थोन्मिते यव-क्वाथे विंशतिं विजयाः पचेत् ॥ १६७ ॥

स्विन्ना मृदित्वा तास् तस्मिन् पुराणात् षट्-पलं गुडात् ।
पिप्पल्या द्वि-पलं कर्षं मनोह्वाया रसाञ्जनात् ॥ १६८ ॥

दत्त्वार्धाक्षं पचेद् भूयः स लेहः श्वास-कास-जित् ।
श्वाविधां सूचयो दग्धाः स-घृत-क्षौद्र-शर्कराः ॥ १६९ ॥

३.१६९bv स लेहः श्वास-कास-नुत् श्वास-कास-हरा बर्हि-पादौ वा मधु-सर्पिषा ।
एरण्ड-पत्त्र-क्षारं वा व्योष-तैल-गुडान्वितम् ॥ १७० ॥

लेहयेत् क्षारम् एवं वा सुरसैरण्ड-पत्त्र-जम् ।
लिह्यात् त्र्य्-ऊषण-चूर्णं वा पुराण-गुड-सर्पिषा ॥ १७१ ॥

पद्मकं त्रि-फला व्योषं विडङ्गं देवदारु च ।
बला रास्ना च तच्-चूर्णं समस्तं सम-शर्करम् ॥ १७२ ॥

३.१७२dv समस्त-सम-शर्करम् खादेन् मधु-घृताभ्यां वा लिह्यात् कास-हरं परम् ।
तद्-वन् मरिच-चूर्णं वा स-घृत-क्षौद्र-शर्करम् ॥ १७३ ॥

३.१७३cv तद्-वन् मरिच-चूर्णं च पथ्या-शुण्ठी-घन-गुडैर् गुटिकां धारयेन् मुखे ।
सर्वेषु श्वास-कासेषु केवलं वा विभीतकम् ॥ १७४ ॥

पत्त्र-कल्कं घृत-भृष्टं तिल्वकस्य स-शर्करम् ।
पेया वोत्कारिका छर्दि-तृट्-कासामातिसार-जित् ॥ १७५ ॥

३.१७५cv पेया चोत्कारिका छर्दि- ३.१७५dv -तृट्-कासामातिसार-नुत् कण्टकारी-रसे सिद्धो क्षीरं यूषान् रसान् अपि ।
स-गौरामलकः साम्लः सर्व-कास-भिषग्-जितम् ॥ १७६ ॥

वात-घ्नौषध-निःक्वाथे क्षीरं यूषान् रसान् अपि ।
वैष्किरान् प्रातुदान् बैलान् दापयेत् क्षय-कासिने ॥ १७७ ॥

क्षत-कासे च ये धूमाः सानु-पाना निदर्शिताः ।
क्षय-कासे ऽपि ते योज्या वक्ष्यते यच् च यक्ष्मणि ॥ १७८ ॥

३.१७८dv वक्ष्यन्ते ये च यक्ष्मणि बृंहणं दीपनं चाग्नेः स्रोतसां च विशोधनम् ।
व्यत्यासात् क्षय-कासिभ्यो बल्यं सर्वं प्रशस्यते ॥ १७९ ॥

संनिपातोद्भवो घोरः क्षय-कासो यतस् ततः ।
यथा-दोष-बलं तस्य संनिपात-हितं हितम् ॥ १८० ॥



अध्याय 04
श्वास-हिध्मा यतस् तुल्य-हेत्व्-आद्याः साधनं ततः ।
तुल्यम् एव तद्-आर्तं च पूर्वं स्वेदैर् उपाचरेत् ॥ १ ॥

स्निग्धैर् लवण-तैलाक्तं तैः खेषु ग्रथितः कफः ।
सु-लीनो ऽपि विलीनो ऽस्य कोष्ठं प्राप्तः सु-निर्हरः ॥ २ ॥

स्रोतसां स्यान् मृदु-त्वं च मरुतश् चानुलोम-ता ।
स्विन्नं च भोजयेद् अन्नं स्निग्धम् आनूप-जै रसैः ॥ ३ ॥

४.३bv मारुतस्यानुलोम-ता दध्य्-उत्तरेण वा दद्यात् ततो ऽस्मै वमनं मृदु ।
विशेषात् कास-वमथु-हृद्-ग्रह-स्वर-सादिने ॥ ४ ॥

पिप्पली-सैन्धव-क्षौद्र-युक्तं वाता-विरोधि यत् ।
निर्हृते सुखम् आप्नोति स कफे दुष्ट-विग्रहे ॥ ५ ॥

स्रोतःसु च विशुद्धेषु चरत्य् अ-विहतो ऽनिलः ।
ध्मानोदावर्त-तमके मातुलुङ्गाम्ल-वेतसैः ॥ ६ ॥

हिङ्गु-पीलु-विडैर् युक्तम् अन्नं स्याद् अनुलोमनम् ।
स-सैन्धवं फलाम्लं वा कोष्णं दद्याद् विरेचनम् ॥ ७ ॥

एते हि कफ-संरुद्ध-गति-प्राण-प्रकोप-जाः ।
तस्मात् तन्-मार्ग-शुद्ध्य्-अर्थम् ऊर्ध्वाधः शोधनं हितम् ॥ ८ ॥

उदीर्यते भृश-तरं मार्ग-रोधाद् वहज् जलम् ।
यथा तथानिलस् तस्य मार्गम् अस्माद् विशोधयेत् ॥ ९ ॥

अ-शान्तौ कृत-संशुद्धेर् धूमैर् लीनं मलं हरेत् ।
हरिद्रा-पत्त्रम् एरण्ड-मूलं लाक्षां मनःशिलाम् ॥ १० ॥

४.१०dv -मूलं द्राक्षां मनःशिलाम् स-देवदार्व् अलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत् ।
तां घृताक्तां पिबेद् धूमं यवान् वा घृत-संयुतान् ॥ ११ ॥

मधूच्छिष्टं सर्ज-रसं घृतं वा गुरु वागुरु ।
चन्दनं वा तथा शृङ्गं वालान् वा स्नाव वा गवाम् ॥ १२ ॥

४.१२dv वालान् वा स्नायु वा गवाम् ऋक्ष-गोधा-कुरङ्गैण-चर्म-शृङ्ग-खुराणि वा ।
गुग्गुलुं वा मनोह्वां वा शाल-निर्यासम् एव वा ॥ १३ ॥

४.१३av ऋश्य-गोधा-कुरङ्गैण- ४.१३bv -चर्म-शृङ्ग-खुराणि च शल्लकीं गुग्गुलुं लोहं पद्मकं वा घृताप्लुतम् ।
अवश्यं स्वेदनीयानाम् अ-स्वेद्यानाम् अपि क्षणम् ॥ १४ ॥

४.१४bv पद्मकं वा घृत-प्लुतम् स्वेदयेत् स-सिता-क्षीर-सुखोष्ण-स्नेह-सेचनैः ।
उत्कारिकोपनाहैश् च स्वेदाध्यायोक्त-भेषजैः ॥ १५ ॥

उरः कण्ठं च मृदुभिः सामे त्व् आम-विधिं चरेत् ।
अति-योगोद्धतं वातं दृष्ट्वा पवन-नाशनैः ॥ १६ ॥

स्निग्धै रसाद्यैर् नात्य्-उष्णैर् अभ्यङ्गैश् च शमं नयेत् ।
अन्-उत्क्लिष्ट-कफा-स्विन्न-दुर्-बलानां हि शोधनात् ॥ १७ ॥

वायुर् लब्धास्पदो मर्म संशोष्याशु हरेद् असून् ।
कषाय-लेह-स्नेहाद्यैस् तेषां संशमयेद् अतः ॥ १८ ॥

क्षीण-क्षतातिसारासृक्-पित्त-दाहानुबन्ध-जान् ।
मधुर-स्निग्ध-शीताद्यैर् हिध्मा-श्वासान् उपाचरेत् ॥ १९ ॥

कुलत्थ-दश-मूलानां क्वाथे स्युर् जाङ्गला रसाः ।
यूषाश् च शिग्रु-वार्ताक-कासघ्न-वृष-मूलकैः ॥ २० ॥

पल्लवैर् निम्ब-कुलक-बृहती-मातुलुङ्ग-जैः ।
व्याघ्री-दुरालभा-शृङ्गी-बिल्व-मध्य-त्रिकण्टकैः ॥ २१ ॥

सामृताग्नि-कुलत्थैश् च यूषः स्यात् क्वथितैर् जले ।
तद्-वद् रास्ना-बृहत्य्-आदि-बला-मुद्गैः स-चित्रकैः ॥ २२ ॥

४.२२bv यूषः स्यात् क्वथितैर् जलैः पेया च चित्रकाजाजी-शृङ्गी-सौवर्चलैः कृता ।
दश-मूलेन वा कास-श्वास-हिध्मा-रुजापहा ॥ २३ ॥

दश-मूल-शठी-रास्ना-भार्गी-बिल्वर्द्धि-पौष्करैः ।
कुलीरशृङ्गी-चपला-तामलक्य्-अमृतौषधैः ॥ २४ ॥

पिबेत् कषायं जीर्णे ऽस्मिन् पेयां तैर् एव साधिताम् ।
शालि-षष्टिक-गोधूम-यव-मुद्ग-कुलत्थ-भुक् ॥ २५ ॥

कास-हृद्-ग्रह-पार्श्वार्ति-हिध्मा-श्वास-प्रशान्तये ।
सक्तून् वार्काङ्कुर-क्षीर-भावितानां स-माक्षिकान् ॥ २६ ॥

यवानां दश-मूलादि-निःक्वाथ-लुलितान् पिबेत् ।
अन्ने च योजयेत् क्षार-हिङ्ग्व्-आज्य-विड-दाडिमान् ॥ २७ ॥

स-पौष्कर-शठी-व्योष-मातुलुङ्गाम्ल-वेतसान् ।
दश-मूलस्य वा क्वाथम् अथ-वा देवदारुणः ॥ २८ ॥

४.२८cv दश-मूलस्य निःक्वाथम् पिबेद् वा वारुणी-मण्डं हिध्मा-श्वासी पिपासितः ।
पिप्पली-पिप्पली-मूल-पथ्या-जन्तुघ्न-चित्रकैः ॥ २९ ॥

कल्कितैर् लेपिते रूढे निःक्षिपेद् घृत-भाजने ।
तक्रं मास-स्थितं तद् धि दीपनं श्वास-कास-जित् ॥ ३० ॥

पाठां मधुरसां दारु सरलं च निशि स्थितम् ।
सुरा-मण्डे ऽल्प-लवणं पिबेत् प्रसृत-संमितम् ॥ ३१ ॥

४.३१bv सरलं निशि संस्थितम् ४.३१dv पिबेत् प्रसृति-संमितम् भार्गी-शुण्ठ्यौ सुखाम्भोभिः क्षारं वा मरिचान्वितम् ।
स्व-क्वाथ-पिष्टां लुलितां बाष्पिकां पाययेत वा ॥ ३२ ॥

स्व-रसः सप्तपर्णस्य पुष्पाणां वा शिरीषतः ।
हिध्मा-श्वासे मधु-कणा-युक्तः पित्त-कफानुगे ॥ ३३ ॥

उत्कारिका तुगा-कृष्णा-मधूली-घृत-नागरैः ।
पित्तानुबन्धे योक्तव्या पवने त्व् अनुबन्धिनि ॥ ३४ ॥

श्वाविच्-छशामिष-कणा-घृत-शल्यक-शोणितैः ।
सुवर्चला-रस-व्योष-सर्पिर्भिः सहितं पयः ॥ ३५ ॥

अनु शाल्य्-ओदनं पेयम् वात-पित्तानुबन्धिनि ।
चतुर्-गुणाम्बु-सिद्धं वा छागं स-गुड-नागरम् ॥ ३६ ॥

पिप्पली-मूल-मधुक-गुड-गो-ऽश्व-शकृद्-रसान् ।
हिध्माभिष्यन्द-कास-घ्नाō̃ लिह्यान् मधु-घृतान्वितान् ॥ ३७ ॥

गो-गजाश्व-वराहोष्ट्र-खर-मेषाज-विड्-रसम् ।
स-मध्व् एकैक-शो लिह्याद् बहु-श्लेष्माथ-वा पिबेत् ॥ ३८ ॥

चतुष्-पाच्-चर्म-रोमास्थि-खुर-शृङ्गोद्भवां मषीम् ।
तथैव वाजिगन्धाया लिह्याच् छ्वासी कफोल्बणः ॥ ३९ ॥

शठी-पौष्कर-धात्रीर् वा पौष्करं वा कणान्वितम् ।
गैरिकाञ्जन-कृष्णा वा स्व-रसं वा कपित्थ-जम् ॥ ४० ॥

रसेन वा कपित्थस्य धात्री-सैन्धव-पिप्पलीः ।
घृत-क्षौद्रेण वा पथ्या-विडङ्गोषण-पिप्पलीः ॥ ४१ ॥

कोल-लाजामल-द्राक्षा-पिप्पली-नागराणि वा ।
गुड-तैल-निशा-द्राक्षा-कणा-रास्नोषणानि वा ॥ ४२ ॥

पिबेद् रसाम्बु-मद्याम्लैर् लेहौषध-रजांसि वा ।
जीवन्ती-मुस्त-सुरस-त्वग्-एला-द्वय-पौष्करम् ॥ ४३ ॥

चण्डा-तामलकी-लोह-भार्गी-नागर-वालकम् ।
कर्कटाख्या-शठी-कृष्णा-नागकेसर-चोरकम् ॥ ४४ ॥

उपयुक्तं यथा-कामं चूर्णं द्वि-गुण-शर्करम् ।
पार्श्व-रुग्-ज्वर-कास-घ्नं हिध्मा-श्वास-हरं परम् ॥ ४५ ॥

शठी-तामलकी-भार्गी-चण्डा-वालक-पौष्करम् ।
शर्कराष्ट-गुणं चूर्णं हिध्मा-श्वास-हरं परम् ॥ ४६ ॥

तुल्यं गुडं नागरं च भक्षयेन् नावयेत वा ।
लशुनस्य पलाण्डोर् वा मूलं गृञ्जनकस्य वा ॥ ४७ ॥

चन्दनाद् वा रसं दद्यान् नारी-क्षीरेण नावनम् ।
स्तन्येन मक्षिका-विष्ठाम् अलक्तक-रसेन वा ॥ ४८ ॥

स-सैन्धवं घृताच्छं वा सिद्धं स्तन्येन वा घृतम् ।
कल्कितैर् मधुर-द्रव्यैस् तत् पिबेन् नावयेत वा ॥ ४९ ॥

सकृद् उष्णं सकृच् छीतं व्यत्यासात् स-सिता-मधु ।
तद्-वत् पयस् तथा सिद्धम् अधो-भागौषधैर् घृतम् ॥ ५० ॥

कणा-सौवर्चल-क्षार-वयःस्था-हिङ्गु-चोरकैः ।
स-कायस्थैर् घृतं मस्तु-दश-मूल-रसे पचेत् ॥ ५१ ॥

तत् पिबेज् जीवनीयैर् वा लिह्यात् स-मधु साधितम् ।
तेजोवत्य् अभया कुष्ठं पिप्पली कटु-रोहिणी ॥ ५२ ॥

भूतिकं पौष्करं मूलं पलाशश् चित्रकः शठी ।
पटु-द्वयं तामलकी जीवन्ती बिल्व-पेशिका ॥ ५३ ॥

वचा पत्त्रं च तालीशं कर्षांशैस् तैर् विपाचयेत् ।
हिङ्गु-पादैर् घृत-प्रस्थं पीतम् आशु निहन्ति तत् ॥ ५४ ॥

४.५४av वचा पत्त्रं च तालीशात् शाखानिलार्शो-ग्रहणी-हिध्मा-हृत्-पार्श्व-वेदनाः ।
अर्धांशेन पिबेत् सर्पिः क्षारेण पटुनाथ-वा ॥ ५५ ॥

धान्वन्तरं वृष-घृतं दाधिकं हपुषादि वा ।
शीताम्बु-सेकः सहसा त्रास-विक्षेप-भी-शुचः ॥ ५६ ॥

हर्षेर्ष्योच्छ्वास-रोधाश् च हितं कीटैश् च दंशनम् ।
यत् किञ्-चित् कफ-वात-घ्नम् उष्णं वातानुलोमनम् ॥ ५७ ॥

४.५७av हर्षेर्ष्योच्छ्वास-संरोधा तत् सेव्यं प्राय-शो यच् च सु-तरां मारुतापहम् ।
सर्वेषां बृंहणे ह्य् अल्पः शक्यश् च प्राय-शो भवेत् ॥ ५८ ॥

नात्य्-अर्थं शमने ऽपायो भृशो ऽ-शक्यश् च कर्षणे ।
शमनैर् बृंहणैश् चातो भूयिष्ठं तान् उपाचरेत् ॥ ५९ ॥

४.५९bv भृशो ऽ-शक्यश् च कर्शने कास-श्वास-क्षय-च्छर्दि-हिध्माश् चान्यो-ऽन्य-भेषजैः ॥ ५९ऊ̆अब् ॥

अध्याय 05
बलिनो बहु-दोषस्य स्निग्ध-स्विन्नस्य शोधनम् ।
ऊर्ध्वाधो यक्ष्मिणः कुर्यात् स-स्नेहं यन् न कर्शनम् ॥ १ ॥

५.१dv स-स्नेहं यन् न कर्षणम् पयसा फल-युक्तेन मधुरेण रसेन वा ।
सर्पिष्-मत्या यवाग्वा वा वमन-द्रव्य-सिद्धया ॥ २ ॥

वमेद् विरेचनं दद्यात् त्रिवृच्-छ्यामा-नृपद्रुमान् ।
शर्करा-मधु-सर्पिर्भिः पयसा तर्पणेन वा ॥ ३ ॥

द्राक्षा-विदारी-काश्मर्य-मांसानां वा रसैर् युतान् ।
शुद्ध-कोष्ठस्य युञ्जीत विधिं बृंहण-दीपनम् ॥ ४ ॥

५.४bv -मांसानां वा रसैर् युतम् हृद्यानि चान्न-पानानि वात-घ्नानि लघूनि च ।
शालि-षष्टिक-गोधूम-यव-मुद्गं समोषितम् ॥ ५ ॥

लघुम् अ-च्युत-वीर्यं च सु-जरं बल-कृच् च यत् ॥ ५+(१)अब् ॥
५.५+(१)अव् लघुं चा-च्युत-वीर्यं च ५.५+(१)अव् लघुम् अद्भुत-वीर्यं च आजं क्षीरं घृतं मांसं क्रव्यान्-मांसं च शोष-जित् ।
काकोलूक-वृक-द्वीपि-गवाश्व-नकुलोरगम् ॥ ६ ॥

गृध्र-भास-खरोष्ट्रं च हितं छद्मोपसंहितम् ।
ज्ञातं जुगुप्सितं तद् धि च्छर्दिषे न बलौजसे ॥ ७ ॥

५.७av गृध्र-चाष-खरोष्ट्रं च मृगाद्याः पित्त-कफयोः पवने प्रसहादयः ।
वेसवारी-कृताः पथ्या रसादिषु च कल्पिताः ॥ ८ ॥

भृष्टाः सर्षप-तैलेन सर्पिषा वा यथा-यथम् ।
रसिका मृदवः स्निग्धाः पटु-द्रव्याभिसंस्कृताः ॥ ९ ॥

हिता मौलक-कौलत्थास् तद्-वद् यूषाश् च साधिताः ।
स-पिप्पलीकं स-यवं स-कुलत्थं स-नागरम् ॥ १० ॥

स-दाडिमं सामलकं स्निग्धम् आजं रसं पिबेत् ।
तेन षड् विनिवर्तन्ते विकाराः पीनसादयः ॥ ११ ॥

५.११bv स्निग्धम् आज-रसं पिबेत् पिबेच् च सु-तरां मद्यं जीर्णं स्रोतो-विशोधनम् ।
पित्तादिषु विशेषेण मध्व्-अरिष्टाच्छ-वारुणीः ॥ १२ ॥

५.१२dv मध्व्-अरिष्टं च वारुणीम् सिद्धं वा पञ्च-मूलेन तामलक्याथ-वा जलम् ।
पर्णिनीभिश् चतसृभिर् धान्य-नागरकेण वा ॥ १३ ॥

कल्पयेच् चानुकूलो ऽस्य तेनान्नं शुचि यत्न-वान् ।
दश-मूलेन पयसा सिद्धं मांस-रसेन वा ॥ १४ ॥

बला-गर्भं घृतं योज्यं क्रव्यान्-मांस-रसेन वा ।
स-क्षौद्रं पयसा सिद्धं सर्पिर् दश-गुणेन वा ॥ १५ ॥

जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च ।
पुष्कराह्वं शठीं कृष्णां व्याघ्रीं गोक्षुरकं बलाम् ॥ १६ ॥

५.१६dv व्याघ्रीं गोक्षुरकं बलाः नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम् ।
कल्की-कृत्य घृतं पक्वं रोग-राज-हरं परम् ॥ १७ ॥

घृतं खर्जूर-मृद्वीका-मधुकैः स-परूषकैः ।
स-पिप्पलीकं वैस्वर्य-कास-श्वास-ज्वरापहम् ॥ १८ ॥

दश-मूल-शृतात् क्षीरात् सर्पिर् यद् उदियान् नवम् ।
स-पिप्पलीकं स-क्षौद्रं तत् परं स्वर-बोधनम् ॥ १९ ॥

शिरः-पार्श्वांस-शूल-घ्नं कास-श्वास-ज्वरापहम् ।
पञ्चभिः पञ्च-मूलैर् वा शृताद् यद् उदियाद् घृतम् ॥ २० ॥

पञ्चानां पञ्च-मूलानां रसे क्षीर-चतुर्-गुणे ।
सिद्धं सर्पिर् जयत्य् एतद् यक्ष्मणः सप्तकं बलम् ॥ २१ ॥

५.२१dv यक्ष्मिणः सप्तकं बलम् पञ्च-कोल-यव-क्षार-षट्-पलेन पचेद् घृतम् ।
प्रस्थोन्मितं तुल्य-पयः स्रोतसां तद् विशोधनम् ॥ २२ ॥

गुल्म-ज्वरोदर-प्लीह-ग्रहणी-पाण्डु-पीनसान् ।
श्वास-कासाग्नि-सदन-श्वयथूर्ध्वानिलाञ् जयेत् ॥ २३ ॥

रास्ना-बला-गोक्षुरक-स्थिरा-वर्षाभु-वारिणि ।
जीवन्ती-पिप्पली-गर्भं स-क्षीरं शोष-जिद् घृतम् ॥ २४ ॥

अश्वगन्धा-शृतात् क्षीराद् घृतं च स-सिता-पयः ।
साधारणामिष-तुलां तोय-द्रोण-द्वये पचेत् ॥ २५ ॥

तेनाष्ट-भाग-शेषेण जीवनीयैः पलोन्मितैः ।
साधयेत् सर्पिषः प्रस्थं वात-पित्तामयापहम् ॥ २६ ॥

मांस-सर्पिर् इदम् पीतं युक्तं मांस-रसेन वा ।
कास-श्वास-स्वर-भ्रंश-शोष-हृत्-पार्श्व-शूल-जित् ॥ २७ ॥

५.२७bv युक्तं मांस-रसेषु वा एलाजमोदा-त्रि-फला-सौराष्ट्री-व्योष-चित्रकान् ।
सारान् अरिष्ट-गायत्री-शाल-बीजक-संभवान् ॥ २८ ॥

भल्लातकं विडङ्गं च पृथग् अष्ट-पलोन्मितम् ।
सलिले षो-डश-गुणे षो-डशांश-स्थितं पचेत् ॥ २९ ॥

पुनस् तेन घृत-प्रस्थं सिद्धे चास्मिन् पलानि षट् ।
तवक्षीर्याः क्षिपेत् त्रिंशत् सिताया द्वि-गुणं मधु ॥ ३० ॥

घृतात् त्रि-जातात् त्रि-पलं ततो लीढं खजाहतम् ।
पयो-ऽनु-पानं तत् प्राह्णे रसायनम् अ-यन्त्रणम् ॥ ३१ ॥

मेध्यं चक्षुष्यम् आयुष्यं दीपनं हन्ति चा-चिरात् ।
मेह-गुल्म-क्षय-व्याधि-पाण्डु-रोग-भगन्दरान् ॥ ३२ ॥

ये च सर्पिर्-गुडाः प्रोक्ताः क्षते योज्याः क्षये ऽपि ते ।
त्वग्-एला-पिप्पली-क्षीरी-शर्करा द्वि-गुणाः क्रमात् ॥ ३३ ॥

चूर्णिता भक्षिताः क्षौद्र-सर्पिषा वावलेहिताः ।
स्वर्याः कास-क्षय-श्वास-पार्श्व-रुक्-कफ-नाशनाः ॥ ३४ ॥

५.३४bv -सर्पिषा चावलेहिताः विशेषात् स्वर-सादे ऽस्य नस्य-धूमादि योजयेत् ।
तत्रापि वात-जे कोष्णं पिबेद् औत्तरभक्तिकम् ॥ ३५ ॥

५.३५dv पिबेद् उत्तर-भक्तिकम् कासमर्दक-वार्ताकी-मार्कव-स्व-रसैर् घृतम् ।
साधितं कास-जित् स्वर्यं सिद्धम् आर्तगलेन वा ॥ ३६ ॥

बदरी-पत्त्र-कल्कं वा घृत-भृष्टं स-सैन्धवम् ।
तैलं वा मधुक-द्राक्षा-पिप्पली-कृमिनुत्-फलैः ॥ ३७ ॥

५.३७dv -पिप्पली-कृमिहृत्-फलैः हंसपद्याश् च मूलेन पक्वं नस्तो निषेचयेत् ।
सुखोदकानु-पानं च स-सर्पिष्कं गुडौदनम् ॥ ३८ ॥

अश्नीयात् पायसं चैवं स्निग्धं स्वेदं नियोजयेत् ।
पित्तोद्भवे पिबेत् सर्पिः शृत-शीत-पयो-ऽनुपः ॥ ३९ ॥

क्षीरि-वृक्षाङ्कुर-क्वाथ-कल्क-सिद्धं स-माक्षिकम् ।
अश्नीयाच् च स-सर्पिष्कं यष्टीमधुक-पायसम् ॥ ४० ॥

बला-विदारिगन्धाभ्यां विदार्या मधुकेन च ।
सिद्धं स-लवणं सर्पिर् नस्यं स्वर्यम् अन्-उत्तमम् ॥ ४१ ॥

प्रपौण्डरीकं मधुकं पिप्पली बृहती बला ।
साधितं क्षीर-सर्पिश् च तत् स्वर्यं नावनं परम् ॥ ४२ ॥

लिह्यान् मधुरकाणां च चूर्णं मधु-घृताप्लुतम् ।
पिबेत् कटूनि मूत्रेण कफ-जे रूक्ष-भोजनः ॥ ४३ ॥

कट्फलामलक-व्योषं लिह्यात् तैल-मधु-प्लुतम् ।
व्योष-क्षाराग्नि-चविका-भार्गी-पथ्या-मधूनि वा ॥ ४४ ॥

यवैर् यवागूं यमके कणा-धात्री-कृतां पिबेत् ।
भुक्त्वाद्यात् पिप्पलीं शुण्ठीं तीक्ष्णं वा वमनं भजेत् ॥ ४५ ॥

शर्करा-क्षौद्र-मिश्राणि शृतानि मधुरैः सह ।
पिबेत् पयांसि यस्योच्चैर् वदतो ऽभिहतः स्वरः ॥ ४६ ॥

विचित्रम् अन्नम् अ-रुचौ हितैर् उपहितं हितम् ।
बहिर्-अन्तर्-मृजा चित्त-निर्वाणं हृद्यम् औषधम् ॥ ४७ ॥

द्वौ कालौ दन्त-पवनं भक्षयेन् मुख-धावनैः ।
कषायैः क्षालयेद् आस्यं धूमं प्रायोगिकं पिबेत् ॥ ४८ ॥

तालीश-चूर्ण-वटकाः स-कर्पूर-सितोपलाः ।
शशाङ्क-किरणाख्याश् च भक्ष्या रुचि-कराः परम् ॥ ४९ ॥

५.४९dv भक्ष्या रुचि-करा भृशम् वाताद् अ-रोचके तत्र पिबेच् चूर्णं प्रसन्नया ।
हरेणु-कृष्णा-कृमिजिद्-द्राक्षा-सैन्धव-नागरात् ॥ ५० ॥

एला-भार्गी-यव-क्षार-हिङ्गु-युक्ताद् घृतेन वा ।
छर्दयेद् वा वचाम्भोभिः पित्ताच् च गुड-वारिभिः ॥ ५१ ॥

लिह्याद् वा शर्करा-सर्पिर्-लवणोत्तम-माक्षिकम् ।
कफाद् वमेन् निम्ब-जलैर् दीप्यकारग्वधोदकम् ॥ ५२ ॥

पानं स-मध्व्-अरिष्टाश् च तीक्ष्णाः स-मधु-माधवाः ।
पिबेच् चूर्णं च पूर्वोक्तं हरेण्व्-आद्य्-उष्ण-वारिणा ॥ ५३ ॥

एला-त्वङ्-नागकुसुम-तीक्ष्ण-कृष्णा-महौषधम् ।
भाग-वृद्धं क्रमाच् चूर्णं निहन्ति सम-शर्करम् ॥ ५४ ॥

प्रसेका-रुचि-हृत्-पार्श्व-कास-श्वास-गलामयान् ।
यवानी-तिन्तिडीकाम्ल-वेतसौषध-दाडिमम् ॥ ५५ ॥

कृत्वा कोलं च कर्षांशं सितायाश् च चतुः-पलम् ।
धान्य-सौवर्चलाजाजी-वराङ्गं चार्ध-कार्षिकम् ॥ ५६ ॥

पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च ।
चूर्णम् एतत् परं रुच्यं हृद्यं ग्राहि हिनस्ति च ॥ ५७ ॥

५.५७cv तच्-चूर्णं दीपनं रुच्यं विबन्ध-कास-हृत्-पार्श्व-प्लीहार्शो-ग्रहणी-गदान् ।
तालीश-पत्त्रं मरिचं नागरं पिप्पली शुभा ॥ ५८ ॥

यथोत्तरं भाग-वृद्ध्या त्वग्-एले चार्ध-भागिके ।
तद् रुच्यं दीपनं चूर्णं कणाष्ट-गुण-शर्करम् ॥ ५९ ॥

५.५९av यथोत्तरं भाग-वृद्धास् ५.५९cv तद् द्रव्यं दीपनं चूर्णं कास-श्वासा-रुचि-च्छर्दि-प्लीह-हृत्-पार्श्व-शूल-नुत् ।
पाण्डु-ज्वरातिसार-घ्नं मूढ-वातानुलोमनम् ॥ ६० ॥

अर्कामृता-क्षार-जले शर्वरीम् उषितैर् यवैः ।
प्रसेके कल्पितान् सक्तून् भक्ष्यांश् चाद्याद् बली वमेत् ॥ ६१ ॥

५.६१av अर्कामृता-क्षीर-जले कटु-तिक्तैस् तथा शूल्यं भक्षयेज् जाङ्गलं पलम् ।
शुष्कांश् च भक्ष्यान् सु-लघूंश् चणकादि-रसानुपः ॥ ६२ ॥

श्लेष्मणो ऽति-प्रसेकेन वायुः श्लेष्माणम् अस्यति ।
कफ-प्रसेकं तं विद्वान् स्निग्धोष्णैर् एव निर्जयेत् ॥ ६३ ॥

५.६३dv स्निग्धोष्णेनैव निर्जयेत् पीनसे ऽपि क्रमम् इमं वमथौ च प्रयोजयेत् ।
विशेषात् पीनसे ऽभ्यङ्गान् स्नेहान् स्वेदांश् च शीलयेत् ॥ ६४ ॥

५.६४av पीनसे च क्रमम् इमं स्निग्धान् उत्कारिका-पिण्डैः शिरः-पार्श्व-गलादिषु ।
लवणाम्ल-कटूष्णांश् च रसान् स्नेहोपसंहितान् ॥ ६५ ॥

शिरो-ऽंस-पार्श्व-शूलेषु यथा-दोष-विधिं चरेत् ।
औदकानूप-पिशितैर् उपनाहाः सु-संस्कृताः ॥ ६६ ॥

तत्रेष्टाः स-चतुः-स्नेहा दोष-संसर्ग इष्यते ।
प्रलेपो नत-यष्ट्य्-आह्व-शताह्वा-कुष्ठ-चन्दनैः ॥ ६७ ॥

बला-रास्ना-तिलैस् तद्-वत् स-सर्पिर्-मधुकोत्पलैः ।
पुनर्नवा-कृष्णगन्धा-बला-वीरा-विदारिभिः ॥ ६८ ॥

नावनं धूम-पानानि स्नेहाश् चौत्तरभक्तिकाः ।
तैलान्य् अभ्यङ्ग-योगीनि वस्ति-कर्म तथा परम् ॥ ६९ ॥

शृङ्गाद्यैर् वा यथा-दोषं दुष्टम् एषां हरेद् असृक् ।
प्रदेहः स-घृतैः श्रेष्ठः पद्मकोशीर-चन्दनैः ॥ ७० ॥

दूर्वा-मधुक-मञ्जिष्ठा-केसरैर् वा घृताप्लुतैः ।
वटादि-सिद्ध-तैलेन शत-धौतेन सर्पिषा ॥ ७१ ॥

अभ्यङ्गः पयसा सेकः शस्तश् च मधुकाम्बुना ।
प्रायेणोपहताग्नि-त्वात् स-पिच्छम् अतिसार्यते ॥ ७२ ॥

तस्यातीसार-ग्रहणी-विहितं हितम् औषधम् ।
पुरीषं यत्नतो रक्षेच् छुष्यतो राज-यक्ष्मिणः ॥ ७३ ॥

सर्व-धातु-क्षयार्तस्य बलं तस्य हि विड्-बलम् ।
मांसम् एवाश्नतो युक्त्या मार्द्वीकं पिबतो ऽनु च ॥ ७४ ॥

अ-विधारित-वेगस्य यक्ष्मा न लभते ऽन्तरम् ।
सुरां स-मण्डां मार्द्वीकम् अरिष्टान् सीधु-माधवान् ॥ ७५ ॥

५.७५dv अरिष्टं सीधु-माधवान् यथार्हम् अनु-पानार्थं पिबेन् मांसानि भक्षयन् ।
स्रोतो-विबन्ध-मोक्षार्थं बलौजः-पुष्टये च तत् ॥ ७६ ॥

स्नेह-क्षीराम्बु-कोष्ठेषु स्व्-अभ्यक्तम् अवगाहयेत् ।
उत्तीर्णं मिश्रकैः स्नेहैर् भूयो ऽभ्यक्तं सुखैः करैः ॥ ७७ ॥

५.७७cv उत्तीर्णं मिश्रक-स्नेहैर् मृद्नीयात् सुखम् आसीनं सुखं चोद्वर्तयेत् परम् ।
जीवन्तीं शतवीर्यां च विकसां स-पुनर्नवाम् ॥ ७८ ॥

अश्वगन्धाम् अपामार्गं तर्कारीं मधुकं बलाम् ।
विदारीं सर्षपान् कुष्ठं तण्डुलान् अतसी-फलम् ॥ ७९ ॥

माषांस् तिलांश् च किण्वं च सर्वम् एक-त्र चूर्णयेत् ।
यव-चूर्णं त्रि-गुणितं दध्ना युक्तं स-माक्षिकम् ॥ ८० ॥

एतद् उद्वर्तनं कार्यं पुष्टि-वर्ण-बल-प्रदम् ।
गौर-सर्षप-कल्केन स्नानीयौषधिभिश् च सः ॥ ८१ ॥

५.८१av एतद् उत्सादनं कार्यं ५.८१dv स्नानैर् औषधिभिश् च सः स्नायाद् ऋतु-सुखैस् तोयैर् जीवनीयोपसाधितैः ।
गन्ध-माल्यादिकां भूषाम् अ-लक्ष्मी-नाशनीं भजेत् ॥ ८२ ॥

५.८२cv गन्ध-माल्यादिकैर् भूषाम् सुहृदां दर्शनं गीत-वादित्रोत्सव-संश्रुतिः ।
वस्तयः क्षीर-सर्पींषि मद्य-मांस-सु-शील-ता ॥ ८३ ॥

५.८३dv मद्यं मांसं सु-शील-ता दैव-व्यपाश्रयं तत् तद् अथर्वोक्तं च पूजितम् ॥ ८३ऊ̆अब् ॥

अध्याय 06[सम्पाद्यताम्]
आमाशयोत्क्लेश-भवाः प्रायश् छर्द्यो हितं ततः ।
लङ्घनं प्राग् ऋते वायोर् वमनं तत्र योजयेत् ॥ १ ॥

६.१bv प्रायश् छर्द्यो हितं मतम् बलिनो बहु-दोषस्य वमतः प्रततं बहु ।
ततो विरेकं क्रम-शो हृद्यं मद्यैः फलाम्बुभिः ॥ २ ॥

क्षीरैर् वा सह स ह्य् ऊर्ध्वं गतं दोषं नयत्य् अधः ।
शमनं चौषधं रूक्ष-दुर्-बलस्य तद् एव तु ॥ ३ ॥

परिशुष्कं प्रियं सात्म्यम् अन्नं लघु च शस्यते ।
उपवासस् तथा यूषा रसाः काम्बलिकाः खलाः ॥ ४ ॥

शाकानि लेहा भोज्यानि राग-षाडव-पानकाः ।
भक्ष्याः शुष्का विचित्राश् च फलानि स्नान-घर्षणम् ॥ ५ ॥

गन्धाः सु-गन्धयो गन्ध-फल-पुष्पान्न-पान-जाः ।
भुक्त-मात्रस्य सहसा मुखे शीताम्बु-सेचनम् ॥ ६ ॥

हन्ति मारुत-जां छर्दिं सर्पिः पीतं स-सैन्धवम् ।
किञ्-चिद्-उष्णं विशेषेण स-कास-हृदय-द्रवाम् ॥ ७ ॥

व्योष-त्रि-लवणाढ्यं वा सिद्धं वा दाडिमाम्बुना ।
स-शुण्ठी-दधि-धान्येन शृतं तुल्याम्बु वा पयः ॥ ८ ॥

६.८dv शृतं तुल्याम्बुना पयः ६.८dv पीतं तुल्याम्बुना पयः व्यक्त-सैन्धव-सर्पिर् वा फलाम्लो वैष्किरो रसः ।
स्निग्धं च भोजनं शुण्ठी-दधि-दाडिम-साधितम् ॥ ९ ॥

कोष्णं स-लवणं चात्र हितं स्नेह-विरेचनम् ।
पित्त-जायां विरेकार्थं द्राक्षेक्षु-स्व-रसैस् त्रिवृत् ॥ १० ॥

सर्पिर् वा तैल्वकं योज्यं वृद्धं च श्लेष्म-धाम-गम् ।
ऊर्ध्वम् एव हरेत् पित्तं स्वादु-तिक्तैर् विशुद्धि-मान् ॥ ११ ॥

पिबेन् मन्थं यवागूं वा लाजैः स-मधु-शर्कराम् ।
मुद्ग-जाङ्गल-जैर् अद्याद् व्यञ्जनैः शालि-षष्टिकम् ॥ १२ ॥

६.१२bv लाजैः स-मधु-शर्करैः मृद्-भृष्ट-लोष्ट-प्रभवं सु-शीतं सलिलं पिबेत् ।
मुद्गोशीर-कणा-धान्यैः सह वा संस्थितं निशाम् ॥ १३ ॥

द्राक्षा-रसं रसं वेक्षोर् गुडूच्य्-अम्बु पयो ऽपि वा ।
जम्ब्व्-आम्र-पल्लवोशीर-वट-शुङ्गावरोह-जः ॥ १४ ॥

६.१४av द्राक्षा-रसं रसं चेक्षोर् ६.१४dv -वट-शृङ्गावरोह-जः क्वाथः क्षौद्र-युतः पीतः शीतो वा विनियच्छति ।
छर्दिं ज्वरम् अतीसारं मूर्छां तृष्णां च दुर्-जयाम् ॥ १५ ॥

धात्री-रसेन वा शीतं पिबेन् मुद्ग-दलाम्बु वा ।
कोल-मज्ज-सिता-लाजा-मक्षिका-विट्-कणाञ्जनम् ॥ १६ ॥

६.१६cv कोल-मज्ज-सिता-लाक्षा- ६.१६dv -मक्षिका-विट्-रसाञ्जनम् लिह्यात् क्षौद्रेण पथ्यां वा द्राक्षां वा बदराणि वा ।
कफ-जायां वमेन् निम्ब-कृष्णा-पिण्डीत-सर्षपैः ॥ १७ ॥

युक्तेन कोष्ण-तोयेन दुर्-बलं चोपवासयेत् ।
आरग्वधादि-निर्यूहं शीतं क्षौद्र-युतं पिबेत् ॥ १८ ॥

६.१८cv आरग्वधादेर् निर्यूहं मन्थान् यवैर् वा बहु-शश् छर्दि-घ्नौषध-भावितैः ।
कफ-घ्नम् अन्नं हृद्यं च रागाः सार्जक-भूस्तृणाः ॥ १९ ॥

लीढं मनःशिला-कृष्णा-मरिचं बीजपूरकात् ।
स्व-रसेन कपित्थस्य स-क्षौद्रेण वमिं जयेत् ॥ २० ॥

खादेत् कपित्थं स-व्योषं मधुना वा दुरालभाम् ।
लिह्यान् मरिच-चोचैला-गो-शकृद्-रस-माक्षिकम् ॥ २१ ॥

अनुकूलोपचारेण याति द्विष्टार्थ-जा शमम् ।
कृमि-जा कृमि-हृद्-रोग-गदितैश् च भिषग्-जितैः ॥ २२ ॥

यथा-स्वं परिशेषाश् च तत्-कृताश् च तथामयाः ॥ २२ऊ̆अब् ॥
छर्दि-प्रसङ्गेन हि मातरिश्वा धातु-क्षयात् कोपम् उपैत्य् अवश्यम् ।
कुर्याद् अतो ऽस्मिन् वमनाति-योग-प्रोक्तं विधिं स्तम्भन-बृंहणीयम् ॥ २३ ॥

६.२३cv कुर्याद् अतो ऽस्मिन् वमनाति-योगे ६.२३dv प्रोक्तं विधिं स्तम्भन-बृंहणीयम् सर्पिर्-गुडा मांस-रसा घृतानि कल्याणक-त्र्य्-ऊषण-जीवनानि ।
पयांसि पथ्योपहितानि लेहाश् छर्दिं प्रसक्तां प्रशमं नयन्ति ॥ २४ ॥

६.२४av सर्पिर् गुडो मांस-रसा घृतानि इति छर्दि-चिकित्सितम् अथ हृद्-रोग-चिकित्सितम् ॥ २४+१ ॥

हृद्-रोगे वात-जे तैलं मस्तु-सौवीर-तक्र-वत् ॥ २५ ॥

तैलं च लवणैः सिद्धं स-मूत्राम्लं तथा-गुणम् ॥ २६ ॥

पिबेत् सुखोष्णं स-विडं गुल्मानाहार्ति-जिच् च तत् ।
तैलं च लवणैः सिद्धं स-मूत्राम्लं तथा-गुणम् ॥ २६ ॥

बिल्वं रास्नां यवान् कोलं देवदारुं पुनर्नवाम् ।
कुलत्थान् पञ्च-मूलं च पक्त्वा तस्मिन् पचेज् जले ॥ २७ ॥

तैलं तन् नावने पाने वस्तौ च विनियोजयेत् ।
शुण्ठी-वयःस्था-लवण-कायस्था-हिङ्गु-पौष्करैः ॥ २८ ॥

६.२८cv शुण्ठी-कयस्था-लवण- ६.२८cv -वयःस्था-हिङ्गु-पौष्करैः पथ्यया च शृतं पार्श्व-हृद्-रुजा-गुल्म-जिद् घृतम् ।
सौवर्चलस्य द्वि-पले पथ्या-पञ्चाशद्-अन्विते ॥ २९ ॥

घृतस्य साधितः प्रस्थो हृद्-रोग-श्वास-गुल्म-जित् ।
दाडिमं कृष्ण-लवणं शुण्ठी-हिङ्ग्व्-अम्ल-वेतसम् ॥ ३० ॥

६.३०bv हृद्-रोग-श्वास-गुल्म-हृत् ६.३०dv शुण्ठी हिङ्ग्व् अम्ल-वेतसः अपतन्त्रक-हृद्-रोग-श्वास-घ्नं चूर्णम् उत्तमम् ।
पुष्कराह्व-शठी-शुण्ठी-बीजपूर-जटाभयाः ॥ ३१ ॥

पीताः कल्की-कृताः क्षार-घृताम्ल-लवणैर् युताः ।
विकर्तिका-शूल-हराः क्वाथः कोष्णश् च तद्-गुणः ॥ ३२ ॥

यवानी-लवण-क्षार-वचाजाज्य्-औषधैः कृतः ।
स-पूतिदारु-बीजाह्व-पलाश-शठि-पौष्करैः ॥ ३३ ॥

६.३३cv स पूतिदारु-बीजाह्व- ६.३३dv -विजया-शठि-पौष्करैः यव-क्षारो यवानी च पिबेद् उष्णेन वारिणा ।
एतेन वात-जं शूलं गुल्मं चैव चिरोत्थितम् ॥ ३३+(१) ॥
भिद्यते सप्त-रात्रेण पवनेन यथा घनः ॥ ३३+(१ऊ̆)अब् ॥
पञ्च-कोल-शठी-पथ्या-गुड-बीजाह्व-पौष्करम् ।
वारुणी-कल्कितं भृष्टं यमके लवणान्वितम् ॥ ३४ ॥

हृत्-पार्श्व-योनि-शूलेषु खादेद् गुल्मोदरेषु च ।
स्निग्धाश् चेह हिताः स्वेदाः संस्कृतानि घृतानि च ॥ ३५ ॥

६.३५dv संस्कृतानि घृतानि तु लघुना पञ्च-मूलेन शुण्ठ्या वा साधितं जलम् ।
वारुणी-दधि-मण्डं वा धान्याम्लं वा पिबेत् तृषि ॥ ३६ ॥

६.३६cv वारुणीं दधि-मण्डं वा सायाम-स्तम्भ-शूलामे हृदि मारुत-दूषिते ।
क्रियैषा स-द्रवायाम-प्रमोहे तु हिता रसाः ॥ ३७ ॥

स्नेहाढ्यास् तित्तिरि-क्रौञ्च-शिखि-वर्तक-दक्ष-जाः ।
बला-तैलं स-हृद्-रोगः पिबेद् वा सु-कुमारकम् ॥ ३८ ॥

६.३८av स्नेहाद्यास् तित्तिरि-क्रौञ्च- यष्ट्य्-आह्व-शत-पाकं वा महा-स्नेहं तथोत्तमम् ।
रास्ना-जीवक-जीवन्ती-बला-व्याघ्री-पुनर्नवैः ॥ ३९ ॥

भार्गी-स्थिरा-वचा-व्योषैर् महा-स्नेहं विपाचयेत् ।
दधि-पादं तथाम्लैश् च लाभतः स निषेवितः ॥ ४० ॥

तर्पणो बृंहणो बल्यो वात-हृद्-रोग-नाशनः ।
दीप्ते ऽग्नौ स-द्रवायामे हृद्-रोगे वातिके हितम् ॥ ४१ ॥

क्षीरं दधि गुडः सर्पिर् औदकानूपम् आमिषम् ।
एतान्य् एव च वर्ज्यानि हृद्-रोगेषु चतुर्ष्व् अपि ॥ ४२ ॥

शेषेषु स्तम्भ-जाड्याम-संयुक्ते ऽपि च वातिके ।
कफानुबन्धे तस्मिंस् तु रूक्षोष्णाम् आचरेत् क्रियाम् ॥ ४३ ॥

पैत्ते द्राक्षेक्षु-निर्यास-सिता-क्षौद्र-परूषकैः ।
युक्तो विरेको हृद्यः स्यात् क्रमः शुद्धे च पित्त-हा ॥ ४४ ॥

६.४४cv युक्तो विरेचो हृद्यः स्यात् क्षत-पित्त-ज्वरोक्तं च बाह्यान्तः परिमार्जनम् ।
कट्वी-मधुक-कल्कं च पिबेत् स-सितम् अम्भसा ॥ ४५ ॥

श्रेयसी-शर्करा-द्राक्षा-जीवकर्षभकोत्पलैः ।
बला-खर्जूर-काकोली-मेदा-युग्मैश् च साधितम् ॥ ४६ ॥

स-क्षीरं माहिषं सर्पिः पित्त-हृद्-रोग-नाशनम् ।
प्रपौण्डरीक-मधुक-बिस-ग्रन्थि-कसेरुकाः ॥ ४७ ॥

स-शुण्ठी-शैवलास् ताभिः स-क्षीरं विपचेद् घृतम् ।
शीतं स-मधु तच् चेष्टं स्वादु-वर्ग-कृतं च यत् ॥ ४८ ॥

वस्तिं च दद्यात् स-क्षौद्रं तैलं मधुक-साधितम् ।
कफोद्भवे वमेत् स्विन्नः पिचुमन्द-वचाम्भसा ॥ ४९ ॥

६.४९av वस्तिं च दद्यात् स-क्षौद्र- ६.४९bv -तैलं मधुक-साधितम् ६.४९dv पिचुमन्द-वचाम्बुना कुलत्थ-धन्वोत्थ-रस-तीक्ष्ण-मद्य-यवाशनः ।
पिबेच् चूर्णं वचा-हिङ्गु-लवण-द्वय-नागरात् ॥ ५० ॥

सैला-यवानक-कणा-यव-क्षारात् सुखाम्बुना ।
फल-धान्याम्ल-कौलत्थ-यूष-मूत्रासवैस् तथा ॥ ५१ ॥

६.५१av सैला-यवानिक-कणा- पुष्कराह्वाभया-शुण्ठी-शठी-रास्ना-वचा-कणात् ।
क्वाथं तथाभया-शुण्ठी-माद्री-पीतद्रु-कट्फलात् ॥ ५२ ॥

६.५२ब्च् -शठी-रास्ना-वचा-कणा- ६.५२च्च् -क्वाथं तथाभया-शुण्ठी- क्वाथे रोहीतकाश्वत्थ-खदिरोदुम्बरार्जुने ।
स-पलाश-वटे व्योष-त्रिवृच्-चूर्णान्विते कृतः ॥ ५३ ॥

सुखोदकानु-पानश् च लेहः कफ-विकार-हा ।
श्लेष्म-गुल्मोदिताज्यानि क्षारांश् च विविधान् पिबेत् ॥ ५४ ॥

६.५४av सुखोदकानु-पानस्य प्रयोजयेच् छिलाह्वं वा ब्राह्मं वात्र रसायनम् ।
तथामलक-लेहं वा प्राशं वागस्त्य-निर्मितम् ॥ ५५ ॥

६.५५bv ब्राह्मं चात्र रसायनम् ६.५५dv प्राश्यं वागस्त्य-निर्मितम् ६.५५dv प्राश्यं चागस्त्य-निर्मितम् स्याच् छूलं यस्य भुक्ते ऽति जीर्यत्य् अल्पं जरां गते ।
शाम्येत् स कुष्ठ-कृमिजिल्-लवण-द्वय-तिल्वकैः ॥ ५६ ॥

६.५६av स्याच् छूलं यस्य भुक्ते ऽन्ने स-देवदार्व्-अतिविषैश् चूर्णम् उष्णाम्बुना पिबेत् ।
यस्य जीर्णे ऽधिकं स्नेहैः स विरेच्यः फलैः पुनः ॥ ५७ ॥

जीर्यत्य् अन्ने तथा मूलैस् तीक्ष्णैः शूले सदाधिके ।
प्रायो ऽनिलो रुद्ध-गतिः कुप्यत्य् आमाशये गतः ॥ ५८ ॥

६.५८dv कुप्यत्य् आमाशये ततः ६.५८dv कुप्यत्य् आमाशये यतः तस्यानुलोमनं कार्यं शुद्धि-लङ्घन-पाचनैः ।
कृमि-घ्नम् औषधं सर्वं कृमि-जे हृदयामये ॥ ५९ ॥

६.५९dv कृमि-जे च हृद्-आमये तृष्णासु वात-पित्त-घ्नो विधिः प्रायेण शस्यते ।
सर्वासु शीतो बाह्यान्तस् तथा शमन-शोधनः ॥ ६० ॥

६.६०bv विधिः प्रायेण युज्यते ६.६०dv तथा शमन-शोधनम् दिव्याम्बु शीतं स-क्षौद्रं तद्-वद् भौमं च तद्-गुणम् ।
निर्वापितं तप्त-लोष्ट-कपाल-सिकतादिभिः ॥ ६१ ॥

स-शर्करं वा क्वथितं पञ्च-मूलेन वा जलम् ।
दर्भ-पूर्वेण मन्थश् च प्रशस्तो लाज-सक्तुभिः ॥ ६२ ॥

वाट्यश् चाम-यवैः शीतः शर्करा-माक्षिकान्वितः ।
यवागूः शालिभिस् तद्-वत् कोद्रवैश् च चिरन्-तनैः ॥ ६३ ॥

शीतेन शीत-वीर्यैश् च द्रव्यैः सिद्धेन भोजनम् ।
हिमाम्बु-परिषिक्तस्य पयसा स-सिता-मधु ॥ ६४ ॥

रसैश् चान्-अम्ल-लवणैर् जाङ्गलैर् घृत-भर्जितैः ।
मुद्गादीनां तथा यूषैर् जीवनीय-रसान्वितैः ॥ ६५ ॥

६.६५av रसैश् चान्-अल्प-लवणैर् नस्यं क्षीर-घृतं सिद्धं शीतैर् इक्षोस् तथा रसः ।
निर्वापणाश् च गण्डूषाः सूत्र-स्थानोदिता हिताः ॥ ६६ ॥

६.६६bv शीतैर् इक्षोस् तथा रसैः ६.६६bv शीतैर् इक्षोस् तथा रसे दाह-ज्वरोक्ता लेपाद्या निरीह-त्वं मनो-रतिः ।
महा-सरिद्-ध्रदादीनां दर्शन-स्मरणानि च ॥ ६७ ॥

६.६७dv दर्शन-स्मरणादि च तृष्णायां पवनोत्थायां स-गुडं दधि शस्यते ।
रसाश् च बृंहणाः शीता विदार्य्-आदि-गणाम्बु च ॥ ६८ ॥

६.६८dv विदार्य्-आदि-गणाम्बु वा पित्त-जायां सिता-युक्तः पक्वोदुम्बर-जो रसः ।
तत्-क्वाथो वा हिमस् तद्-वच् छारिवादि-गणाम्बु वा ॥ ६९ ॥

तद्-विधैश् च गणैः शीत-कषायान् स-सिता-मधून् ।
मधुरैर् औषधैस् तद्-वत् क्षीरि-वृक्षैश् च कल्पितान् ॥ ७० ॥

बीजपूरक-मृद्वीका-वट-वेतस-पल्लवान् ।
मूलानि कुश-काशानां यष्ट्य्-आह्वं च जले शृतम् ॥ ७१ ॥

ज्वरोदितं वा द्राक्षादि पञ्च-साराम्बु वा पिबेत् ।
कफोद्भवायां वमनं निम्ब-प्रसव-वारिणा ॥ ७२ ॥

बिल्वाढकी-पञ्च-कोल-दर्भ-पञ्चक-साधितम् ।
जलं पिबेद् रजन्या वा सिद्धं स-क्षौद्र-शर्करम् ॥ ७३ ॥

६.७३bv -दर्भ-कच्छक-साधितम् ६.७३cv जलं पिबेद् रजन्यां वा मुद्ग-यूषं च स-व्योष-पटोली-निम्ब-पल्लवम् ।
यवान्नं तीक्ष्ण-कवड-नस्य-लेहांश् च शीलयेत् ॥ ७४ ॥

सर्वैर् आमाच् च तद् धन्त्री क्रियेष्टा वमनं तथा ।
त्र्य्-ऊषणारुष्कर-वचा-फलाम्लोष्णाम्बु-मस्तुभिः ॥ ७५ ॥

अन्नात्ययान् मण्डम् उष्णं हिमं मन्थं च काल-वित् ।
तृषि श्रमान् मांस-रसं मन्थं वा स-सितं पिबेत् ॥ ७६ ॥

६.७६dv मद्यं वा स-सितं पिबेत् आतपात् स-सितं मन्थं यव-कोल-ज-सक्तुभिः ।
सर्वाण्य् अङ्गानि लिम्पेच् च तिल-पिण्याक-काञ्जिकैः ॥ ७७ ॥

शीत-स्नानाच् च मद्याम्बु पिबेत् तृण्-मान् गुडाम्बु वा ।
मद्याद् अर्ध-जलं मद्यं स्नातो ऽम्ल-लवणैर् युतम् ॥ ७८ ॥

६.७८av शीत-स्नानात् तु मद्याम्बु ६.७८bv पिबेत् तृड्-वान् गुडाम्बु वा ६.७८dv स्नातो ऽम्ल-लवणायुतम् स्नेह-तीक्ष्ण-तराग्निस् तु स्व-भाव-शिशिरं जलम् ।
स्नेहाद् उष्णाम्ब्व् अ-जीर्णात् तु जीर्णान् मण्डं पिपासितः ॥ ७९ ॥

६.७९av स्नेहात् तीक्ष्ण-तराग्निस् तु पिबेत् स्निग्धान्न-तृषितो हिम-स्पर्धि गुडोदकम् ।
गुर्व्-आद्य्-अन्नेन तृषितः पीत्वोष्णाम्बु तद् उल्लिखेत् ॥ ८० ॥

क्षय-जायां क्षय-हितं सर्वं बृंहणम् औषधम् ।
कृश-दुर्-बल-रूक्षाणां क्षीरं छागो रसो ऽथ-वा ॥ ८१ ॥

क्षीरं च सोर्ध्व-वातायां क्षय-कास-हरैः शृतम् ।
रोगोपसर्गाज् जातायां धान्याम्बु स-सिता-मधु ॥ ८२ ॥

६.८२cv रोगोपसर्ग-जातायां पाने प्रशस्तं सर्वा च क्रिया रोगाद्य्-अपेक्षया ।
तृष्यन् पूर्वामय-क्षीणो न लभेत जलं यदि ॥ ८३ ॥

६.८३cv तृष्णन् पूर्वामय-क्षीणो ६.८३च्च् तृष्णक् पूर्वामय-क्षीणो मरणं दीर्घ-रोगं वा प्राप्नुयात् त्वरितं ततः ।
सात्म्यान्न-पान-भैषज्यैस् तृष्णां तस्य जयेत् पुरा ॥ ८४ ॥

६.८४dv तृष्णां तस्य जयेत् पुरस् तस्यां जितायाम् अन्यो ऽपि व्याधिः शक्यश् चिकित्सितुम् ॥ ८४ऊ̆अब् ॥

अध्याय 07[सम्पाद्यताम्]
यं दोषम् अधिकं पश्येत् तस्यादौ प्रतिकारयेत् ।
कफ-स्थानानुपूर्व्या च तुल्य-दोषे मदात्यये ॥ १ ॥

७.१cv कफ-स्थानानुपूर्व्या तु पित्त-मारुत-पर्य्-अन्तः प्रायेण हि मदात्ययः ।
हीन-मिथ्याति-पीतेन यो व्याधिर् उपजायते ॥ २ ॥

सम-पीतेन तेनैव स मद्येनोपशाम्यति ।
मद्यस्य विष-सादृश्याद् विषं तूत्कर्ष-वृत्तिभिः ॥ ३ ॥

तीक्ष्णादिभिर् गुणैर् योगाद् विषान्तरम् अपेक्षते ।
तीक्ष्णोष्णेनाति-मात्रेण पीतेनाम्ल-विदाहिना ॥ ४ ॥

मद्येनान्न-रस-क्लेदो विदग्धः क्षार-तां गतः ।
यान् कुर्यान् मद-तृण्-मोह-ज्वरान्तर्-दाह-विभ्रमान् ॥ ५ ॥

मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतःसु मारुतः ।
सु-तीव्रा वेदना याश् च शिरस्य् अस्थिषु संधिषु ॥ ६ ॥

जीर्णाम-मद्य-दोषस्य प्रकाङ्क्षा-लाघवे सति ।
यौगिकं विधि-वद् युक्तं मद्यम् एव निहन्ति तान् ॥ ७ ॥

क्षारो हि याति माधुर्यं शीघ्रम् अम्लोपसंहितः ।
मद्यम् अम्लेषु च श्रेष्ठं दोष-विष्यन्दनाद् अलम् ॥ ८ ॥

७.८dv दोष-विस्रावणाद् अलम् तीक्ष्णोष्णाद्यैः पुरा प्रोक्तैर् दीपनाद्यैस् तथा गुणैः ।
सात्म्य-त्वाच् च तद् एवास्य धातु-साम्य-करं परम् ॥ ९ ॥

सप्ताहम् अष्ट-रात्रं वा कुर्यात् पानात्ययौषधम् ।
जीर्यत्य् एतावता पानं कालेन वि-पथाश्रितम् ॥ १० ॥

परं ततो ऽनुबध्नाति यो रोगस् तस्य भेषजम् ।
यथा-यथं प्रयुञ्जीत कृत-पानात्ययौषधः ॥ ११ ॥

७.११dv कृत-पानात्ययौषधम् तत्र वातोल्बणे मद्यं दद्यात् पिष्ट-कृतं युतम् ।
बीजपूरक-वृक्षाम्ल-कोल-दाडिम-दीप्यकैः ॥ १२ ॥

यवानी-हपुषाजाजी-व्योष-त्रि-लवणार्द्रकैः ।
शूल्य-मांसैर् हरीतकैः स्नेह-वद्भिश् च सक्तुभिः ॥ १३ ॥

७.१३bv -व्योष-त्रि-लवणार्जकैः ७.१३cv शूल्य-मांसैर् हरितकैः उष्ण-स्निग्धाम्ल-लवणा मेद्य-मांस-रसा हिताः ।
आम्राम्रातक-पेशीभिः संस्कृता राग-षाडवाः ॥ १४ ॥

७.१४av उष्णाः स्निग्धाम्ल-लवणा ७.१४bv मद्य-मांस-रसा हिताः ७.१४dv संस्कृता राग-खाण्डवाः गोधूम-माष-विकृतिर् मृदुश् चित्रा मुख-प्रिया ।
आर्द्रिकार्द्रक-कुल्माष-शुक्त-मांसादि-गर्भिणी ॥ १५ ॥

सुरभिर् लवणा शीता निर्-गदा वाच्छ-वारुणी ।
स्व-रसो दाडिमात् क्वाथः पञ्च-मूलात् कनीयसः ॥ १६ ॥

७.१६bv निगदा वाच्छ-वारुणी शुण्ठी-धान्यात् तथा मस्तु शुक्ताम्भो-ऽच्छाम्ल-काञ्जिकम् ।
अभ्यङ्गोद्वर्तन-स्नानम् उष्णं प्रावरणं घनम् ॥ १७ ॥

घनश् चागुरु-जो धूपः पङ्कश् चागुरु-कुङ्कुमः ।
कुचोरु-श्रोणि-शालिन्यो यौवनोष्णाङ्ग-यष्टयः ॥ १८ ॥

हर्षेणालिङ्गने युक्ताः प्रियाः संवाहनेषु च ।
पित्तोल्बणे बहु-जलं शार्करं मधु वा युतम् ॥ १९ ॥

रसैर् दाडिम-खर्जूर-भव्य-द्राक्षा-परूष-जैः ।
सु-शीतं स-सिता-सक्तु योज्यं तादृक् च पानकम् ॥ २० ॥

७.२०bv -भव्य-द्राक्षा-परूषकैः ७.२२bv -पटोली-दाडिमैर् अपि स्वादु-वर्ग-कषायैर् वा युक्तं मद्यं स-माक्षिकम् ।
शालि-षष्टिकम् अश्नीयाच् छशाजैण-कपिञ्जलैः ॥ २१ ॥

सतीन-मुद्गामलक-पटोली-दाडिमै रसैः ।
कफ-पित्तं समुत्क्लिष्टम् उल्लिखेत् तृड्-विदाह-वान् ॥ २२ ॥

पीत्वाम्बु शीतं मद्यं वा भूरीक्षु-रस-संयुतम् ।
द्राक्षा-रसं वा संसर्गी तर्पणादिः परं हितः ॥ २३ ॥

तथाग्निर् दीप्यते तस्य दोष-शेषान्न-पाचनः ।
कासे स-रक्त-निष्ठीवे पार्श्व-स्तन-रुजासु च ॥ २४ ॥

तृष्णायां स-विदाहायां सोत्क्लेशे हृदयोरसि ।
गुडूची-भद्र-मुस्तानां पटोलस्याथ-वा रसम् ॥ २५ ॥

स-शृङ्गवेरं युञ्जीत तित्तिरि-प्रतिभोजनम् ।
तृष्यते चाति बल-वद् वात-पित्ते समुद्धते ॥ २६ ॥

७.२६av स-नागरं योजयेत दद्याद् द्राक्षा-रसं पानं शीतं दोषानुलोमनम् ।
जीर्णे ऽद्यान् मधुराम्लेन च्छाग-मांस-रसेन च ॥ २७ ॥

तृष्य् अल्प-शः पिबेन् मद्यं मदं रक्षन् बहूदकम् ।
मुस्त-दाडिम-लाजाम्बु जलं वा पर्णिनी-शृतम् ॥ २८ ॥

पाटल्य्-उत्पल-कन्दैर् वा स्व-भावाद् एव वा हिमम् ।
मद्याति-पानाद् अब्-धातौ क्षीणे तेजसि चोद्धते ॥ २९ ॥

७.२९av पटोल्य्-उत्पल-कन्दैर् वा यः शुष्क-गल-ताल्व्-ओष्ठो जिह्वां निष्कृष्य चेष्टते ।
पाययेत् कामतो ऽम्भस् तं निशीथ-पवनाहतम् ॥ ३० ॥

कोल-दाडिम-वृक्षाम्ल-चुक्रीका-चुक्रिका-रसः ।
पञ्चाम्लको मुखालेपः सद्यस् तृष्णां नियच्छति ॥ ३१ ॥

त्वचं प्राप्तश् च पानोष्मा पित्त-रक्ताभिमूर्छितः ।
दाहं प्रकुरुते घोरं तत्राति-शिशिरो विधिः ॥ ३२ ॥

७.३२av त्वचं प्राप्तस् तु पानोष्मा ७.३२av त्वचं प्राप्तः स पानोष्मा अ-शाम्यति रसैस् तृप्ते रोहिणीं व्यधयेत् सिराम् ।
उल्लेखनोपवासाभ्यां जयेच् छ्लेष्मोल्बणं पिबेत् ॥ ३३ ॥

शीतं शुण्ठी-स्थिरोदीच्य-दुःस्पर्शान्य-तमोदकम् ।
निर्-आमं क्षुधितं काले पाययेद् बहु-माक्षिकम् ॥ ३४ ॥

शार्करं मधु वा जीर्णम् अरिष्टं सीधुम् एव वा ।
रूक्ष-तर्पण-संयुक्तं यवानी-नागरान्वितम् ॥ ३५ ॥

यूषेण यव-गोधूमं तनुनाल्पेन भोजयेत् ।
उष्णाम्ल-कटु-तिक्तेन कौलत्थेनाल्प-सर्पिषा ॥ ३६ ॥

७.३६cv उष्णाम्बु-कटु-तिक्तेन शुष्क-मूलक-जैश् छागै रसैर् वा धन्व-चारिणाम् ।
साम्ल-वेतस-वृक्षाम्ल-पटोली-व्योष-दाडिमैः ॥ ३७ ॥

७.३७dv -पाटली-व्योष-दाडिमैः प्रभूत-शुण्ठी-मरिच-हरितार्द्रक-पेशिकम् ।
बीजपूर-रसाद्य्-अम्ल-भृष्ट-नी-रस-वर्तितम् ॥ ३८ ॥

करीर-करमर्दादि रोचिष्णु बहु-शालनम् ।
प्रव्यक्ताष्टाङ्ग-लवणं विकल्पित-निमर्दकम् ॥ ३९ ॥

७.३९dv विकल्पित-विमर्दकम् यथाग्नि भक्षयन् मांसं माधवं निगदं पिबेत् ।
सिता-सौवर्चलाजाजी-तिन्तिडीकाम्ल-वेतसम् ॥ ४० ॥

७.४०bv माधवं निर्-गदं पिबेत् त्वग्-एला-मरिचार्धांशम् अष्टाङ्ग-लवणं हितम् ।
स्रोतो-विशुद्ध्य्-अग्नि-करं कफ-प्राये मदात्यये ॥ ४१ ॥

रूक्षोष्णोद्वर्तनोद्घर्ष-स्नान-भोजन-लङ्घनैः ।
स-कामाभिः सह स्त्रीभिर् युक्त्या जागरणेन च ॥ ४२ ॥

मदात्ययः कफ-प्रायः शीघ्रं समुपशाम्यति ।
यद् इदं कर्म निर्दिष्टं पृथग् दोष-बलं प्रति ॥ ४३ ॥

संनिपाते दश-विधे तच् छेषे ऽपि विकल्पयेत् ।
त्वङ्-नागपुष्प-मगधा-मरिचाजाजि-धान्यकैः ॥ ४४ ॥

परूषक-मधूकैला-सुराह्वैश् च सितान्वितैः ।
स-कपित्थ-रसं हृद्यं पानकं शशि-बोधितम् ॥ ४५ ॥

मदात्ययेषु सर्वेषु पेयं रुच्य्-अग्नि-दीपनम् ।
ना-विक्षोभ्य मनो मद्यं शरीरम् अ-विहन्य वा ॥ ४६ ॥

७.४६cv ना-क्षोभ्य हि मनो मद्यं ७.४६dv शरीरम् अ-विहत्य वा कुर्यान् मदात्ययं तस्माद् इष्यते हर्षणी क्रिया ।
संशुद्धि-शमनाद्येषु मद-दोषः कृतेष्व् अपि ॥ ४७ ॥

न चेच् छाम्येत् कफे क्षीणे जाते दौर्बल्य-लाघवे ।
तस्य मद्य-विदग्धस्य वात-पित्ताधिकस्य च ॥ ४८ ॥

ग्रीष्मोपतप्तस्य तरोर् यथा वर्षं तथा पयः ।
मद्य-क्षीणस्य हि क्षीणं क्षीरम् आश्व् एव पुष्यति ॥ ४९ ॥

७.४९cv मद्य-क्षीणस्य हि क्षीरं ७.४९dv पीतम् आश्व् एव पुष्यति ओजस् तुल्यं गुणैः सर्वैर् विपरीतं च मद्यतः ।
पयसा विहते रोगे बले जाते निवर्तयेत् ॥ ५० ॥

७.५०cv पयसा विजिते रोगे क्षीर-प्रयोगं मद्यं च क्रमेणाल्पाल्पम् आचरेत् ।
न विक्षय-ध्वंसकोत्थैः स्पृशेतोपद्रवैर् यथा ॥ ५१ ॥

७.५१cv न विट्-क्षय-ध्वंसकोत्थैः ७.५१dv स्पृश्येतोपद्रवैर् यथा तयोस् तु स्याद् घृतं क्षीरं वस्तयो बृंहणाः शिवाः ।
अभ्यङ्गोद्वर्तन-स्नानान्य् अन्न-पानं च वात-जित् ॥ ५२ ॥

युक्त-मद्यस्य मद्योत्थो न व्याधिर् उपजायते ।
अतो ऽस्य वक्ष्यते योगो यः सुखायैव केवलम् ॥ ५३ ॥

आश्विनं या महत् तेजो बलं सारस्वतं च या ।
दधात्य् ऐन्द्रं च या वीर्यं प्रभावं वैष्णवं च या ॥ ५४ ॥

अस्त्रं मकर-केतोर् या पुरुषार्थो बलस्य या ।
सौत्रामण्यां द्वि-ज-मुखे या हुताशे च ह्वयते ॥ ५५ ॥

७.५५bv पुरुषार्थो बलस्य च या सर्वौषधि-संपूर्णान् मथ्यमानात् सुरासुरैः ।
महोद-धेः समुद्भूता श्री-शशाङ्कामृतैः सह ॥ ५६ ॥

मधु-माधव-मैरेय-सीधु-गौडासवादिभिः ।
मद-शक्तिम् अन्-उज्झन्ती या रूपैर् बहुभिः स्थिता ॥ ५७ ॥

७.५७cv मद-शक्तिम् अ-त्यजन्ती याम् आस्वाद्य विलासिन्यो यथार्थं नाम बिभ्रति ।
कुलाङ्गनापि यां पीत्वा नयत्य् उद्धत-मानसा ॥ ५८ ॥

७.५८av याम् आसाद्य विलासिन्यो अन्-अङ्गालिङ्गितैर् अङ्गैः क्वापि चेतो मुनेर् अपि ।
तरङ्ग-भङ्ग-भ्रू-कुटी-तर्जनैर् मानिनी-मनः ॥ ५९ ॥

एकं प्रसाद्य कुरुते या द्वयोर् अपि निर्वृतिम् ।
यथा-कामं भटावाप्ति-परिहृष्टाप्सरो-गणे ॥ ६० ॥

७.६०cv यथा-काम-भटावाप्ति- तृण-वत् पुरुषा युद्धे याम् आस्वाद्य त्यजन्त्य् असून् ।
यां शीलयित्वापि चिरं बहु-धा बहु-विग्रहाम् ॥ ६१ ॥

७.६१bv याम् आसाद्य त्यजन्त्य् असून् नित्यं हर्षाति-वेगेन तत्-पूर्वम् इव सेवते ।
शोकोद्वेगा-रति-भयैर् यां दृष्ट्वा नाभिभूयते ॥ ६२ ॥

गोष्ठी-महोत्सवोद्यानं न यस्याः शोभते विना ।
स्मृत्वा स्मृत्वा च बहु-शो वियुक्तः शोचते यया ॥ ६३ ॥

७.६३cv स्मृत्वा तु यां च बहु-शो अ-प्रसन्नापि या प्रीत्यै प्रसन्ना स्वर्ग एव या ।
अपीन्द्रं मन्यते दुः-स्थं हृदय-स्थितया यया ॥ ६४ ॥

अ-निर्देश्य-सुखास्वादा स्वयं-वेद्यैव या परम् ।
इति चित्रास्व् अवस्थासु प्रियाम् अनुकरोति या ॥ ६५ ॥

प्रियाति-प्रिय-तां याति यत् प्रियस्य विशेषतः ।
या प्रीतिर् या रतिर् वा वाग् या पुष्टिर् इति च स्तुता ॥ ६६ ॥

देव-दानव-गन्धर्व-यक्ष-राक्षस-मानुषैः ।
पान-प्रवृत्तौ सत्यां तु तां सुरां विधिना पिबेत् ॥ ६७ ॥

७.६७bv -यक्ष-राक्षस-मानवैः ७.६७bv -यक्ष-राक्षस-मानवैः संभवन्ति न ते रोगा मेदो-ऽनिल-कफोद्भवाः ।
विधि-युक्ताद् ऋते मद्याद् ये न सिध्यन्ति दारुणाः ॥ ६८ ॥

७.६८av संभवन्ति च ये रोगा ७.६८cv विधि-युक्ताद् ऋते मद्यात् ७.६८dv ते न सिध्यन्ति दारुणाः अस्ति देहस्य सावस्था यस्यां पानं निवार्यते ।
अन्य-त्र मद्यान् निगदाद् विविधौषध-संस्कृतात् ॥ ६९ ॥

७.६९dv विविधौषध-संभृतात् आनूपं जाङ्गलं ंांसं विधिनाप्य् उपकल्पितम् ।
मद्यं सहायम् अ-प्राप्य सम्यक् परिणमेत् कथम् ॥ ७० ॥

सु-तीव्र-मारुत-व्याधि-घातिनो लशुनस्य च ।
मद्य-मांस-वियुक्तस्य प्रयोगे स्यात् कियान् गुणः ॥ ७१ ॥

७.७१dv प्रयोगः स्यात् कियान् गुणः ७.७१dv प्रयोगात् स्यात् कियान् गुणः निगूढ-शल्याहरणे शस्त्र-क्षाराग्नि-कर्मणि ।
पीत-मद्यश् विषहते सुखं वैद्य-विकत्थनाम् ॥ ७२ ॥

७.७२bv शस्त्र-क्षाराग्नि-कर्मसु अनलोत्तेजनं रुच्यं शोक-श्रम-विनोदकम् ।
न चातः परम् अस्त्य् अन्यद् आरोग्य-बल-पुष्टि-कृत् ॥ ७३ ॥

७.७३bv शोक-श्रम-विनोदनम् रक्षता जीवितं तस्मात् पेयम् आत्म-वता सदा ।
आश्रितोपाश्रित-हितं परमं धर्म-साधनम् ॥ ७४ ॥

स्नातः प्रणम्य सुर-विप्र-गुरून् यथा-स्वं वृत्तिं विधाय च समस्त-परिग्रहस्य ।
आपान-भूमिम् अथ गन्ध-जलाभिषिक्ताम् आहार-मण्डप-समीप-गतां श्रयेत् ॥ ७५ ॥

स्व्-आस्तृते ऽथ शयने कमनीये मित्र-भृत्य-रमणी-समवेतः ।
स्वं यशः कथक-चारण-संघैर् उद्धतं निशमयन्न् अति-लोकम् ॥ ७६ ॥

विलासिनीनां च विलास-शोभि गीतं स-नृत्यं कल-तूर्य-घोषैः ।
काञ्ची-कलापैश् चल-किङ्किणीकैः क्रीडा-विहङ्गैश् च कृतानुनादम् ॥ ७७ ॥

७.७७bv गीतं स-नृत्तं कल-तूर्य-घोषैः ७.७७cv काञ्ची-कलापैः स्फुट-किङ्किणीकैः मणि-कनक-समुत्थैर् आवनेयैर् विचित्रैः ॥ ७८अ ॥
७.७८av मणि-कनक-समुत्थैर् औपगेयैर् विचित्रैः ७.७८av मणि-कनक-समुत्थैः पान-पात्रैर् विचित्रैः स-जल-विविध-लेख-क्षौम-वस्त्रावृताङ्गैः ॥ ७८ब् ॥
७.७८bv स-जल-विविध-भक्ति-क्षौम-वस्त्रावृताङ्गैः अपि मुनि-जन-चित्त-क्षोभ-संपादिनीभिश् ॥ ७८च् ॥
चकित-हरिण-लोल-प्रेक्षणीभिः प्रियाभिः ॥ ७८द् ॥
७.७८dv चकित-हरिण-लोल-प्रेक्षणाभिः प्रियाभिः स्तन-नितम्ब-कृताद् अति-गौरवाद् अलसम् आकुलम् ईश्वर-संभ्रमात् ।
इति गतं दधतीभिर् अ-संस्थितं तरुण-चित्त-विलोभन-कार्मणम् ॥ ७९ ॥

यौवनासव-मत्ताभिर् विलासाधिष्ठितात्मभिः ।
संचार्यमाणं युग-पत् तन्व्-अङ्गीभिर् इतस्-ततः ॥ ८० ॥

ताल-वृन्त-नलिनी-दलानिलैः शीतली-कृतम् अतीव शीतलैः ।
दर्शने ऽपि विदधद् वशानुगम् स्वादितं किम् उत चित्त-जन्मनः ॥ ८१ ॥

७.८१dv सेवितं किम् उत चित्त-जन्मनः चूत-रसेन्दु-मृगैः कृत-वासं मल्लिकयोज्ज्वलया च स-नाथम् ।
स्फाटिक-शुक्ति-गतं स-तरङ्गं कान्तम् अन्-अङ्गम् इवोद्वहद् अङ्गम् ॥ ८२ ॥

७.८२bv मल्लिकयोज्ज्वलयाथ स-नाथम् ७.८२cv स्फाटिक-शुक्ति-गतं सु-तरङ्गं तालीशाद्यं चूर्णम् एलादिकं वा हृद्यं प्राश्य प्राग् वयः-स्थापनं वा ।
तत्-प्रार्थिभ्यो भूमि-भागे सु-मृष्टे तोयोन्मिश्रं दापयित्वा ततश् च ॥ ८३ ॥

७.८३bv हृद्यं प्राश्यं प्राग् वयः-स्थापनं वा धृति-मान् स्मृति-मान् नित्यम् अन्-ऊनाधिकम् आचरन् ।
उचितेनोपचारेण सर्वम् एवोपपादयन् ॥ ८४ ॥

७.८४bv अ-न्यूनाधिकम् आचरन् ७.८४cv उदितेनोपचारेण ७.८४dv सर्वम् एवोपपालयन् जित-विकसितासित-सरो-ज-नयन-संक्रान्ति-वर्धित-श्रीकम् ।
कान्ता-मुखम् इव सौरभ-हृत-मधु-प-गणं पिबेन् मद्यम् ॥ ८५ ॥

७.८५bv -ज-नयन-संक्रान्त-वर्धित-श्रीकम् ७.८५bv -ज-नयनं सत् कान्ति-वर्धित-श्रीकम् पीत्वैवं चषक-द्वयं परिजनं सन्-मान्य सर्वं ततो ॥ ८६अ ॥
७.८६av पीत्वैवं चषक-त्रयं परिजनं सन्-मान्य सर्वं ततो ७.८६av पीत्वैवं चषक-द्वयं परिजनं संभाव्य सर्वं ततो गत्वाहार-भुवं पुरः सु-भिषजो भुञ्जीत भूयो ऽत्र च ॥ ८६ब् ॥
मांसापूप-घृतार्द्रकादि-हरितैर् युक्तं स-सौवर्चलैर् ॥ ८६च् ॥
द्विस् त्रिर् वा निशि चाल्पम् एव वनिता-संवल्गनार्थं पिबेत् ॥ ८६द् ॥
रहसि दयिताम् अङ्के कृत्वा भुजान्तर-पीडनात् ॥ ८७अ ॥
पुलकित-तनुं जात-स्वेदां स-कम्प-पयो-धराम् ॥ ८७ब् ॥
यदि स-रभसं सीधोर् वारं न पाययते कृती ॥ ८७च् ॥
७.८७cv यदि स-रभसं सीधूद्गारं न पाययते कृती किम् अनुभवति क्लेश-प्रायं ततो गृह-तन्त्र-ताम् ॥ ८७द् ॥
७.८७dv किम् अनुभवति क्लेश-प्रायां वृथा गृह-तन्त्र-ताम् ७.८७dv किम् अनुभवति क्लेश-प्रायां तदा गृह-तन्त्र-ताम् वर-तनु-वक्त्र-संगति-सु-गन्धि-तरं सरकम् ॥ ८८अ ॥
द्रुतम् इव पद्म-राग-मणिम् आसव-रूप-धरम् ॥ ८८ब् ॥
भवति रति-श्रमेण च मदः पिबतो ऽल्पम् अपि ॥ ८८च् ॥
क्षयम् अत ओजसः परिहरन् स शयीत परम् ॥ ८८द् ॥
इत्थं युक्त्या पिबन् मद्यं न त्रि-वर्गाद् विहीयते ।
अ-सार-संसार-सुखं परमं चाधिगच्छति ॥ ८९ ॥

ऐश्वर्यस्योपभोगो ऽयं स्पृहणीयः सुरैर् अपि ।
अन्य-था हि विपत्सु स्यात् पश्चात् तापेन्धनं धनम् ॥ ९० ॥

७.९०cv अन्य-था हि विपत्स्व् अस्य उपभोगेन रहितो भोग-वान् इति निन्द्यते ।
निर्मितो ऽति-कद्-अर्यो ऽयं विधिना निधि-पालकः ॥ ९१ ॥

तस्माद् व्यवस्थया पानं पानस्य सततं हितम् ।
जित्वा विषय-लुब्धानाम् इन्द्रियाणां स्व-तन्त्र-ताम् ॥ ९२ ॥

७.९२av तस्माद् अवस्थया पानं विधिर् वसु-मताम् एष भविष्यद्-वसवस् तु ये ।
यथोपपत्ति तैर् मद्यं पातव्यं मात्रया हितम् ॥ ९३ ॥

यावद् दृष्टेर् न संभ्रान्तिर् यावन् न क्षोभते मनः ।
तावद् एव विरन्तव्यं मद्याद् आत्म-वता सदा ॥ ९४ ॥

अभ्यङ्गोद्वर्तन-स्नान-वास-धूपानुलेपनैः ।
स्निग्धोष्णैर् भावितश् चान्नैः पानं वातोत्तरः पिबेत् ॥ ९५ ॥

शीतोपचारैर् विविधैर् मधुर-स्निग्ध-शीतलैः ।
पैत्तिको भावितश् चान्नैः पिबन् मद्यं न सीदति ॥ ९६ ॥

उपचारैर् अ-शिशिरैर् यव-गोधूम-भुक् पिबेत् ।
श्लैष्मिको धन्व-जैर् मांसैर् मद्यं मारिचिकैः सह ॥ ९७ ॥

७.९७cv श्लैष्मिको जाङ्गलैर् मांसैर् ७.९७dv मद्यं मरिचकैः सह तत्र वाते हितं मद्यं प्रायः पैष्टिक-गौडिकम् ।
पित्ते साम्भो मधु कफे मार्द्वीकारिष्ट-माधवम् ॥ ९८ ॥

७.९८dv माध्वीकारिष्ट-माधवम् प्राक् पिबेच् छ्लैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः ।
वातिकस् तु पिबेन् मध्ये सम-दोषो यथेच्छया ॥ ९९ ॥

७.९९dv सम-दोषो यथेच्छति ७.९९dv सम-दोषो यद्-ऋच्छया मदेषु वात-पित्त-घ्नं प्रायो मूर्छासु चेष्यते ।
सर्व-त्रापि विशेषेण पित्तम् एवोपलक्षयेत् ॥ १०० ॥

शीताः प्रदेहा मणयः सेका व्यजन-मारुताः ।
सिता द्राक्षेक्षु-खर्जूर-काश्मर्य-स्व-रसाः पयः ॥ १०१ ॥

सिद्धं मधुर-वर्गेण रसा यूषाः स-दाडिमाः ।
षष्टिकाः शालयो रक्ता यवाः सर्पिश् च जीवनम् ॥ १०२ ॥

कल्याणकं महा-तिक्तं षट्-पलं पयसाग्निकः ।
पिप्पल्यो वा शिलाह्वं वा रसायन-विधानतः ॥ १०३ ॥

त्रि-फला वा प्रयोक्तव्या स-घृत-क्षौद्र-शर्करा ।
प्रसक्त-वेगेषु हितं मुख-नासावरोधनम् ॥ १०४ ॥

पिबेद् वा मानुषी-क्षीरं तेन दद्याच् च नावनम् ।
मृणाल-बिस-कृष्णा वा लिह्यात् क्षौद्रेण साभयाः ॥ १०५ ॥

७.१०५av पिबेद् वा मानुषं क्षीरं दुरालभां वा मुस्तं वा शीतेन सलिलेन वा ।
पिबेन् मरिच-कोलास्थि-मज्जोशीराहिकेसरम् ॥ १०६ ॥

धात्री-फल-रसे सिद्धं पथ्या-क्वाथेन वा घृतम् ।
कुर्यात् क्रियां यथोक्तां च यथा-दोष-बलोदयम् ॥ १०७ ॥

पञ्च कर्माणि चेष्टानि सेचनं शोणितस्य च ।
सत्-त्वस्यालम्बनं ज्ञानम् अ-गृद्धिर् विषयेषु च ॥ १०८ ॥

मदेष्व् अति-प्रवृद्धेषु मूर्छायेषु च योजयेत् ।
तीक्ष्णं संन्यास-विहितं विष-घ्नं विष-जेषु च ॥ १०९ ॥

७.१०९cv कर्म संन्यास-विहितं ७.१०९dv विष-घ्नं विष-जेषु तु आशु प्रयोज्यं संन्यासे सु-तीक्ष्णं नस्यम् अञ्जनम् ।
धूमः प्रधमनं तोदः सूचीभिश् च नखान्तरे ॥ ११० ॥

७.११०cv धूमं प्रधमनं तोदः ७.११०dv सूचीभिश् च नखान्तरैः केशानां लुञ्चनं दाहो दंशो दशन-वृश्चिकैः ।
कट्व्-अम्ल-गालनं वक्त्रे कपिकच्छ्व्-अवघर्षणम् ॥ १११ ॥

७.१११dv कपिकच्छ्वावघर्षणम् उत्थितो लब्ध-संज्ञश् च लशुन-स्व-रसं पिबेत् ।
खादेत् स-व्योष-लवणं बीजपूरक-केसरम् ॥ ११२ ॥

लघ्व्-अन्न-प्रति तीक्ष्णोष्णम् अद्यात् स्रोतो-विशुद्धये ।
विस्मापनैः संस्मरणैः प्रिय-श्रवण-दर्शनैः ॥ ११३ ॥

७.११३av लघ्व् अन्नं कटु-तीक्ष्णोष्णम् पटुभिर् गीत-वादित्र-शब्दैर् व्यायाम-शीलनैः ।
स्रंसनोल्लेखनैर् धूमैः शोणितस्यावसेचनैः ॥ ११४ ॥

उपाचरेत् तं प्रततम् अनुबन्ध-भयात् पुनः ।
तस्य संरक्षितव्यं च मनः प्रलय-हेतुतः ॥ ११५ ॥



अध्याय 08[सम्पाद्यताम्]
काले साधारणे व्य्-अभ्रे नाति-दुर्-बलम् अर्शसम् ।
विशुद्ध-कोष्ठं लघ्व्-अल्पम् अनुलोमनम् आशितम् ॥ १ ॥

८.१cv विशुद्ध-कोष्ठं लघ्व्-अन्नम् शुचिं कृत-स्वस्त्य्-अयनं मुक्त-विण्-मूत्रम् अ-व्यथम् ।
शयने फलके वान्य-नरोत्सङ्गे व्यपाश्रितम् ॥ २ ॥

पूर्वेण कायेनोत्तानं प्रत्य्-आदित्य-गुदं समम् ।
समुन्नत-कटी-देशम् अथ यन्त्रण-वाससा ॥ ३ ॥

सक्थ्नोः शिरो-धरायां च परिक्षिप्तम् ऋजु स्थितम् ।
आलम्बितं परिचरैः सर्पिषाभ्यक्त-पायवे ॥ ४ ॥

ततो ऽस्मै सर्पिषाभ्यक्तं निदध्याद् ऋजु यन्त्रकम् ।
शनैर् अनु-सुखं पायौ ततो दृष्ट्वा प्रवाहणात् ॥ ५ ॥

यन्त्रे प्रविष्टं दुर्-नाम प्लोत-गुण्ठितयानु च ।
शलाकयोत्पीड्य भिषग् यथोक्त-विधिना दहेत् ॥ ६ ॥

८.६av यन्त्रे प्रविष्टे दुर्-नाम क्षारेणैवार्द्रम् इतरत् क्षारेण ज्वलनेन वा ।
महद् वा बलिनश् छित्त्वा वीत-यन्त्रम् अथातुरम् ॥ ७ ॥

स्व्-अभ्यक्त-पायु-जघनम् अवगाहे निधापयेत् ।
निर्-वात-मन्दिर-स्थस्य ततो ऽस्याचारम् आदिशेत् ॥ ८ ॥

८.८cv निर्-वातागार-संस्थस्य एकैकम् इति सप्ताहात् सप्ताहात् समुपाचरेत् ।
प्राग् दक्षिणं ततो वामम् अर्शः पृष्ठाग्र-जं ततः ॥ ९ ॥

बह्व्-अर्शसः सु-दग्धस्य स्याद् वायोर् अनुलोम-ता ।
रुचिर् अन्ने ऽग्नि-पटु-ता स्वास्थ्यं वर्ण-बलोदयः ॥ १० ॥

वस्ति-शूले त्व् अधो नाभेर् लेपयेच् छ्लक्ष्ण-कल्कितैः ।
वर्षाभू-कुष्ठ-सुरभि-मिशि-लोहामराह्वयैः ॥ ११ ॥

शकृन्-मूत्र-प्रतीघाते परिषेकावगाहयोः ।
वरणालम्बुषैर् अण्ड-गोकण्टक-पुनर्नवैः ॥ १२ ॥

८.१२av शकृन्-मूत्र-परीघाते सुषवी-सुरभीभ्यां च क्वाथम् उष्णं प्रयोजयेत् ।
स-स्नेहम् अथ-वा क्षीरं तैलं वा वात-नाशनम् ॥ १३ ॥

युञ्जीतान्नं शकृद्-भेदि स्नेहान् वात-घ्न-दीपनान् ।
अथा-प्रयोज्य-दाहस्य निर्गतान् कफ-वात-जान् ॥ १४ ॥

स-स्तम्भ-कण्डू-रुक्-शोफान् अभ्यज्य गुद-कीलकान् ।
बिल्व-मूलाग्निक-क्षार-कुष्ठैः सिद्धेन सेचयेत् ॥ १५ ॥

८.१५av संरम्भ-कण्डू-रुक्-शोफान् ८.१५av संस्तम्भ-कण्डू-रुक्-शोफान् तैलेनाहि-बिडालोष्ट्र-वराह-वसयाथ-वा ।
स्वेदयेद् अनु पिण्डेन द्रव-स्वेदेन वा पुनः ॥ १६ ॥

कासीसं सैन्धवं रास्ना शुण्ठी कुष्ठं च लाङ्गली ।
शिलाभ्रकाश्वमारं च जन्तुहृद् दन्ति-चित्रकौ ॥ १६.१+(१) ॥
हरितालं तथा स्वर्णक्षीरी तैश् च पचेत् समैः ।
तैलं सुधार्क-पयसी गवां मूत्रे चतुर्-गुणे ॥ १६.१+(२) ॥
एतद् अभ्यङ्गतो ऽर्शांसि क्षार-वत् पातयेद् द्रुतम् ।
क्षार-कर्म-करं ह्य् एतन् न च दूषयते वलीम् ॥ १६.१+(३) ॥
सक्तूनां पिण्डिकाभिर् वा स्निग्धानां तैल-सर्पिषा ।
रास्नाया हपुषाया वा पिण्डैर् वा कार्ष्ण्यगन्धिकैः ॥ १७ ॥

८.१७dv पिण्डैर् वा कार्षकान्वितैः अर्क-मूलं शमी-पत्त्रम् नृ-केशः सर्प-कञ्चुकम् ।
मार्जार-चर्म सर्पिश् च धूपनं हितम् अर्शसाम् ॥ १८ ॥

तथाश्वगन्धा सुरसा बृहती पिप्पली घृतम् ।
धान्याम्ल-पिष्टैर् जीमूत-बीजैस् तज्-जालकं मृदु ॥ १९ ॥

लेपितं छायया शुष्कं वर्तिर् गुद-ज-शातनी ।
स-जाल-मूल-जीमूत-लेहे वा क्षार-संयुते ॥ २० ॥

गुञ्जा-सूरण-कूष्माण्ड-बीजैर् वर्तिस् तथा-गुणा ।
स्नुक्-क्षीरार्द्र-निशा-लेपस् तथा गो-मूत्र-कल्कितैः ॥ २१ ॥

कृकवाकु-शकृत्-कृष्णा-निशा-गुञ्जा-फलैस् तथा ।
स्नुक्-क्षीर-पिष्टैः षड्ग्रन्था-हलिनी-वारणास्थिभिः ॥ २२ ॥

कुलीरशृङ्गी-विजया-कुष्ठारुष्कर-तुत्थकैः ।
शिग्रु-मूलक-जैर् बीजैः पत्त्रैर् अश्वघ्न-निम्ब-जैः ॥ २३ ॥

८.२३cv शिग्रु-मूलक-बीजैर् वा पीलु-मूलेन बिल्वेन हिङ्गुना च समन्वितैः ।
कुष्ठं शिरीष-बीजानि पिप्पल्यः सैन्धवं गुडः ॥ २४ ॥

अर्क-क्षीरं सुधा-क्षीरं त्रि-फला च प्रलेपनम् ।
आर्कं पयः सुधा-काण्डं कटुकालाबु-पल्लवाः ॥ २५ ॥

८.२५av आर्कं पयः स्नुही-काण्डं करञ्जो बस्त-मूत्रं च लेपनं श्रेष्ठम् अर्शसाम् ।
आनुवासनिकैर् लेपः पिप्पल्य्-आद्यैश् च पूजितः ॥ २६ ॥

एभिर् एवौषधैः कुर्यात् तैलान्य् अभ्यञ्जनाय च ।
धूपनालेपनाभ्यङ्गैः प्रस्रवन्ति गुदाङ्कुराः ॥ २७ ॥

८.२७av एभिर् लेपौषधैः कुर्यात् ८.२७bv तैलान्य् अभ्यञ्जनानि च संचितं दुष्ट-रुधिरं ततः संपद्यते सुखी ।
अ-वर्तमानम् उच्छून-कठिनेभ्यो हरेद् असृक् ॥ २८ ॥

अर्शोभ्यो जल-जा-शस्त्र-सूची-कूर्चैः पुनः पुनः ।
शीतोष्ण-स्निग्ध-रूक्षैर् हि न व्याधिर् उपशाम्यति ॥ २९ ॥

८.२९cv शीतोष्ण-स्निग्ध-रूक्षाद्यैर् रक्ते दुष्टे भिषक् तस्माद् रक्तम् एवावसेचयेत् ।
यो जातो गो-रसः क्षीराद् वह्नि-चूर्णावचूर्णितात् ॥ ३० ॥

८.३०dv बहु-मूलावचूर्णितात् पिबंस् तम् एव तेनैव भुञ्जानो गुद-जान् जयेत् ।
कोविदारस्य मूलानां मथितेन रजः पिबन् ॥ ३१ ॥

८.३१dv मथितेन रजः पिबेत् अश्नन् जीर्णे च पथ्यानि मुच्यते हत-नामभिः ।
गुद-श्वयथु-शूलार्तो मन्दाग्निर् गौल्मिकान् पिबेत् ॥ ३२ ॥

हिङ्ग्व्-आदीन् अनु-तक्रं वा खादेद् गुड-हरीतकीम् ।
तक्रेण वा पिबेत् पथ्या-वेल्लाग्नि-कुटज-त्वचः ॥ ३३ ॥

८.३३av हिङ्ग्व्-आदीन् अनु-तक्रां वा ८.३३cv तक्रेण वा पिबेत् पथ्यां ८.३३dv वेल्लाग्नि-कुटज-त्वचः कलिङ्ग-मगधा-ज्योतिः-सूरणान् वांश-वर्धितान् ।
कोष्णाम्बुना वा त्रि-पटु-व्योष-हिङ्ग्व्-अम्ल-वेतसम् ॥ ३४ ॥

युक्तं बिल्व-कपित्थाभ्यां महौषध-विडेन वा ।
अरुष्करैर् यवान्या वा प्रदद्यात् तक्र-तर्पणम् ॥ ३५ ॥

८.३५cv आरुष्करैर् यवान्या वा दद्याद् वा हपुषा-हिङ्गु-चित्रकं तक्र-संयुतम् ।
मासं तक्रानु-पानानि खादेत् पीलु-फलानि वा ॥ ३६ ॥

पिबेद् अहर् अहस् तक्रं निर्-अन्नो वा प्र-कामतः ।
अत्य्-अर्थं मन्द-कायाग्नेस् तक्रम् एवावचारयेत् ॥ ३७ ॥

८.३७cv अत्य्-अर्थ-मन्द-कायाग्नेस् सप्ताहं वा दशाहं वा मासार्धं मासम् एव च ।
बल-काल-विकार-ज्ञो भिषक् तक्रं प्रयोजयेत् ॥ ३८ ॥

सायं वा लाज-सक्तूनां दद्यात् तक्रावलेहिकाम् ।
जीर्णे तक्रे प्रदद्याद् वा तक्र-पेयां स-सैन्धवाम् ॥ ३९ ॥

तक्रानु-पानं स-स्नेहं तक्रौदनम् अतः परम् ।
यूषै रसैर् वा तक्राढ्यैः शालीन् भुञ्जीत मात्रया ॥ ४० ॥

रूक्षम् अर्धोद्धृत-स्नेहं यतश् चान्-उद्धृतं घृतम् ।
तक्रं दोषाग्नि-बल-वित् त्रि-विधं तत् प्रयोज्येत् ॥ ४१ ॥

न विरोहन्ति गुद-जाः पुनस् तक्र-समाहताः ।
निषिक्तं तद् धि दहति भूमाव् अपि तृणोलुपम् ॥ ४२ ॥

८.४२cv निषिक्तं तद् विदहति स्रोतःसु तक्र-शुद्धेषु रसो धातून् उपैति यः ।
तेन पुष्टिर् बलं वर्णः परं तुष्टिश् च जायते ॥ ४३ ॥

वात-श्लेष्म-विकाराणां शतं च विनिवर्तते ।
मथितं भाजने क्षुद्र-बृहती-फल-लेपिते ॥ ४४ ॥

निशां पर्युषितं पेयम् इच्छद्भिर् गुद-ज-क्षयम् ।
धान्योपकुञ्चिकाजाजी-हपुषा-पिप्पली-द्वयैः ॥ ४५ ॥

कारवी-ग्रन्थिक-शठी-यवान्य्-अग्नि-यवानकैः ।
चूर्णितैर् घृत-पात्र-स्थं नात्य्-अम्लं तक्रम् आसुतम् ॥ ४६ ॥

८.४६bv -यवान्य्-अग्नि-यवानिकैः तक्रारिष्टं पिबेज् जातं व्यक्ताम्ल-कटु कामतः ।
दीपनं रोचनं वर्ण्यं कफ-वातानुलोमनम् ॥ ४७ ॥

गुद-श्वयथु-कण्ड्व्-अर्ति-नाशनं बल-वर्धनम् ।
त्वचं चित्रक-मूलस्य पिष्ट्वा कुम्भं प्रलेपयेत् ॥ ४८ ॥

तक्रं वा दधि वा तत्र जातम् अर्शो-हरं पिबेत् ।
भार्ग्य्-आस्फोतामृता-पञ्च-कोलेष्व् अप्य् एष संविधिः ॥ ४९ ॥

पिष्टैर् गज-कणा-पाठा-कारवी-पञ्च-कोलकैः ।
तुम्बुर्व्-अजाजी-धनिका-बिल्व-मध्यैश् च कल्पयेत् ॥ ५० ॥

फलाम्लान् यमक-स्नेहान् पेया-यूष-रसादिकान् ।
एभिर् एवौषधैः साध्यं वारि सर्पिश् च दीपनम् ॥ ५१ ॥

क्रमो ऽयं भिन्न-शकृतां वक्ष्यते गाढ-वर्चसाम् ।
स्नेहाढ्यैः सक्तुभिर् युक्तां लवणां वारुणीं पिबेत् ॥ ५२ ॥

लवणा एव वा तक्र-सीधु-धान्याम्ल-वारुणीः ।
प्राग्-भक्तान् यमके भृष्टान् सक्तुभिश् चावचूर्णितान् ॥ ५३ ॥

८.५३cv प्राग्-भक्तं यमके भृष्टान् करञ्ज-पल्लवान् खादेद् वात-वर्चो-ऽनुलोमनान् ।
स-गुडं नागरं पाठां गुड-क्षार-घृतानि वा ॥ ५४ ॥

८.५४cv स-गुडं नागरं पाठा- ८.५४dv -गुड-क्षार-घृतानि वा गो-मूत्राध्युषिताम् अद्यात् स-गुडां वा हरीतकीम् ।
पथ्या-शत-द्वयान् मूत्र-द्रोणेना-मूत्र-संक्षयात् ॥ ५५ ॥

८.५५cv पथ्या-शत-द्वयं मूत्र- पक्वात् खादेत् स-मधुनी द्वे द्वे हन्ति कफोद्भवान् ।
दुर्-नाम-कुष्ठ-श्वयथु-गुल्म-मेहोदर-कृमीन् ॥ ५६ ॥

८.५६av पक्त्वा खादेत् स-मधुनी ग्रन्थ्य्-अर्बुदापची-स्थौल्य-पाण्डु-रोगाढ्य-मारुतान् ।
अजशृङ्गी-जटा-कल्कम् अजा-मूत्रेण यः पिबेत् ॥ ५७ ॥

गुड-वार्ताक-भुक् तस्य नश्यन्त्य् आशु गुदाङ्कुराः ।
श्रेष्ठा-रसेन त्रिवृतां पथ्यां तक्रेण वा सह ॥ ५८ ॥

पथ्यां वा पिप्पली-युक्तां घृत-भृष्टां गुडान्विताम् ।
अथ-वा स-त्रिवृद्-दन्तीं भक्षयेद् अनुलोमनीम् ॥ ५९ ॥

हते गुदाश्रये दोषे गुद-जा यान्ति संक्षयम् ।
दाडिम-स्व-रसाजाजी-यवानी-गुड-नागरैः ॥ ६० ॥

८.६०av हृते गुदाश्रये दोषे पाठया वा युतं तक्रं वात-वर्चो-ऽनुलोमनम् ।
सीधुं वा गौडम् अथ-वा स-चित्रक-महौषधम् ॥ ६१ ॥

पिबेत् सुरां वा हपुषा-पाठा-सौवर्चलान्विताम् ।
दशादि-दशकैर् वृद्धाः पिप्पलीर् द्वि-पिचुं तिलान् ॥ ६२ ॥

८.६२dv पिप्पलीर् द्वि-पिचुं तिलात् पीत्वा क्षीरेण लभते बलं देह-हुताशयोः ।
दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा ॥ ६३ ॥

८.६३dv यवान्या नागरेण च एकैकेनापि संयुक्ता पाठा हन्त्य् अर्शसां रुजम् ।
सलिलस्य वहे पक्त्वा प्रस्थार्धम् अभया-त्वचाम् ॥ ६४ ॥

८.६४dv प्रस्थार्धम् अभया-त्वचम् प्रस्थं धात्र्या दश-पलं कपित्थानां ततो ऽर्धतः ।
विशालां लोध्र-मरिच-कृष्णा-वेल्लैलवालुकम् ॥ ६५ ॥

द्वि-पलांशं पृथक् पाद-शेषे पूते गुडात् तुले ।
दत्त्वा प्रस्थं च धातक्याः स्थापयेद् घृत-भाजने ॥ ६६ ॥

८.६६cv दत्त्वा प्रस्थं तु धातक्याः पक्षात् स शीलितो ऽरिष्टः करोत्य् अग्निं निहन्ति च ।
गुद-ज-ग्रहणी-पाण्डु-कुष्ठोदर-गर-ज्वरान् ॥ ६७ ॥

श्वयथु-प्लीह-हृद्-रोग-गुल्म-यक्ष्म-वमि-कृमीन् ।
जल-द्रोणे पचेद् दन्ती-दश-मूल-वराग्निकान् ॥ ६८ ॥

पालिकान् पाद-शेषे तु क्षिपेद् गुड-तुलां परम् ।
पूर्व-वत् सर्वम् अस्य स्याद् आनुलोमि-तरस् त्व् अयम् ॥ ६९ ॥

पचेद् दुरालभा-प्रस्थं द्रोणे ऽपां प्रासृतैः सह ।
दन्ती-पाठाग्नि-विजया-वासामलक-नागरैः ॥ ७० ॥

८.७०bv द्रोणे ऽपां द्वि-पलैः सह तस्मिन् सिता-शतं दद्यात् पाद-स्थे ऽन्यच् च पूर्व-वत् ।
लिम्पेत् कुम्भं तु फलिनी-कृष्णा-चव्याज्य-माक्षिकैः ॥ ७१ ॥

प्राग्-भक्तम् आनुलोम्याय फलाम्लं वा पिबेद् घृतम् ।
चव्य-चित्रक-सिद्धं वा यव-क्षार-गुडान्वितम् ॥ ७२ ॥

पिप्पली-मूल-सिद्धं वा स-गुड-क्षार-नागरम् ।
पिप्पली-पिप्पली-मूल-धानका-दाडिमैर् घृतम् ॥ ७३ ॥

८.७३dv -धान्यका-दाडिमैर् घृतम् दध्ना च साधितं वात-शकृन्-मूत्र-विबन्ध-नुत् ।
पलाश-क्षार-तोयेन त्रि-गुणेन पचेद् घृतम् ॥ ७४ ॥

८.७४bv -शकृन्-मूत्र-विबन्ध-हृत् वत्सकादि-प्रतीवापम् अर्शो-घ्नं दीपनं परम् ।
पञ्च-कोलाभया-क्षार-यवानी-विड-सैन्धवैः ॥ ७५ ॥

स-पाठा-धान्य-मरिचैः स-बिल्वैर् दधि-मत् घृतम् ।
साधयेत् तज् जयत्य् आशु गुद-वङ्क्षण-वेदनाम् ॥ ७६ ॥

प्रवाहिकां गुद-भ्रंशं मूत्र-कृच्छ्रं परिस्रवम् ।
पाठाजमोद-धनिका-श्वदंष्ट्रा-पञ्च-कोलकैः ॥ ७७ ॥

स-बिल्वैर् दध्नि चाङ्गेरी-स्व-रसे च चतुर्-गुणे ।
हन्त्य् आज्यं सिद्धम् आनाहं मूत्र-कृच्छ्रं प्रवाहिकाम् ॥ ७८ ॥

गुद-भ्रंशार्ति-गुद-ज-ग्रहणी-गद-मारुतान् ।
शिखि-तित्तिरि-लावानां रसान् अम्लान् सु-संस्कृतान् ॥ ७९ ॥

दक्षाणां वर्तकानां वा दद्याद् विड्-वात-संग्रहे ।
वास्तुकाग्नि-त्रिवृद्-दन्ती-पाठाम्लीकादि-पल्लवान् ॥ ८० ॥

अन्यच् च कफ-वात-घ्नं शाकं च लघु भेदि च ।
स-हिङ्गु यमके भृष्टं सिद्धं दधि-सरैः सह ॥ ८१ ॥

८.८१dv सिद्धं दधि-सरेण च धनिका-पञ्च-कोलाभ्यां पिष्टाभ्यां दाडिमाम्बुना ।
आर्द्रिकायाः किसलयैः शकलैर् आर्द्रकस्य च ॥ ८२ ॥

युक्तम् अङ्गार-धूपेन हृद्येन सुरभी-कृतम् ।
स-जीरकं स-मरिचं विड-सौवर्चलोत्कटम् ॥ ८३ ॥

८.८३av युक्तम् अङ्गार-धूमेन वातोत्तरस्य रूक्षस्य मन्दाग्नेर् बद्ध-वर्चसः ।
कल्पयेद् रक्त-शाल्य्-अन्न-व्यञ्जनं शाक-वद् रसान् ॥ ८४ ॥

८.८४cv कल्पयेद् रक्त-शाल्य्-अन्नं ८.८४dv व्यञ्जनं शाक-वद् रसान् ८.८४dv व्यञ्जनाञ् छाक-वद् रसान् गो-गोधा-छगलोष्ट्राणां विशेषात् क्रव्य-भोजिनाम् ।
मदिरां शार्करं गौडं सीधुं तक्रं तुषोदकम् ॥ ८५ ॥

अरिष्टं मस्तु पानीयं पानीयं वाल्पकं शृतम् ।
धान्येन धान्य-शुण्ठीभ्यां कण्टकारिकयाथ-वा ॥ ८६ ॥

अन्ते भक्तस्य मध्ये वा वात-वर्चो-ऽनुलोमनम् ।
विड्-वात-कफ-पित्तानाम् आनुलोम्ये हि निर्-मले ॥ ८७ ॥

गुदे शाम्यन्ति गुद-जाः पावकश् चाभिवर्धते ।
उदावर्त-परीता ये ये चात्य्-अर्थं विरूक्षिताः ॥ ८८ ॥

विलोम-वाताः शूलार्तास् तेष्व् इष्टम् अनुवासनम् ।
पिप्पलीं मदनं बिल्वं शताह्वां मधुकं वचाम् ॥ ८९ ॥

कुष्ठं शठीं पुष्कराख्यं चित्रकं देवदारु च ।
पिष्ट्वा तैलं विपक्तव्यं द्वि-गुण-क्षीर-संयुतम् ॥ ९० ॥

८.९०av कुष्ठं शठीं पुष्कराह्वं ८.९०av कुष्ठं शठीं पौष्कराख्यं ८.९०av कुष्ठं शुण्ठीं पुष्कराख्यं अर्शसां मूढ-वातानां तच् छ्रेष्ठम् अनुवासनम् ।
गुद-निःसरणं शूलं मूत्र-कृच्छ्रं प्रवाहिकाम् ॥ ९१ ॥

कट्य्-ऊरु-पृष्ठ-दौर्बल्यम् आनाहं वङ्क्षणाश्रयम् ।
पिच्छा-स्रावं गुदे शोफं वात-वर्चो-विनिग्रहम् ॥ ९२ ॥

उत्थानं बहु-शो यच् च जयेत् तच् चानुवासनात् ।
निरूहं वा प्रयुञ्जीत स-क्षीरं पाञ्चमूलिकम् ॥ ९३ ॥

स-मूत्र-स्नेह-लवणं कल्कैर् युक्तं फलादिभिः ।
अथ रक्तार्शसां वीक्ष्य मारुतस्य कफस्य वा ॥ ९४ ॥

८.९४dv मारुतस्य कफस्य च अनुबन्धं ततः स्निग्धं रूक्षं वा योजयेद् धिमम् ।
शकृच् छ्यावं खरं रूक्षम् अधो निर्याति नानिलः ॥ ९५ ॥

कट्य्-ऊरु-गुद-शूलं च हेतुर् यदि च रूक्षणम् ।
तत्रानुबन्धो वातस्य श्लेष्मणो यदि विट् श्लथा ॥ ९६ ॥

श्वेता पीता गुरुः स्निग्धा स-पिच्छः स्तिमितो गुदः ।
हेतुः स्निग्ध-गुरुर् विद्याद् यथा-स्वं चास्र-लक्षणात् ॥ ९७ ॥

दुष्टे ऽस्रे शोधनं कार्यं लङ्घनं च यथा-बलम् ।
यावच् च दोषैः कालुष्यं स्रुतेस् तावद् उपेक्षणम् ॥ ९८ ॥

दोषाणां पाचनार्थं च वह्नि-संधुक्षणाय च ।
संग्रहाय च रक्तस्य परं तिक्तैर् उपाचरेत् ॥ ९९ ॥

यत् तु प्रक्षीण-दोषस्य रक्तं वातोल्बणस्य वा ।
स्नेहैस् तत् साधयेत् युक्तैः पानाभ्यञ्जन-वस्तिषु ॥ १०० ॥

यत् तु पित्तोल्बणं रक्तं घर्म-काले प्रवर्तते ।
स्तम्भनीयं तद् एकान्तान् न चेद् वात-कफानुगम् ॥ १०१ ॥

स-कफे ऽस्रे पिबेत् पाक्यं शुण्ठी-कुटज-वल्कलम् ।
किराततिक्तकं शुण्ठीं धन्वयासं कु-चन्दनम् ॥ १०२ ॥

दार्वी-त्वङ्-निम्ब-सेव्यानि त्वचं वा दाडिमोद्भवाम् ।
कुटज-त्वक्-फलं तार्क्ष्यं माक्षिकं घुणवल्लभाम् ॥ १०३ ॥

पिबेत् तण्डुल-तोयेन कल्कितं वा मयूरकम् ।
तुलां दिव्याम्भसि पचेद् आर्द्रायाः कुटज-त्वचः ॥ १०४ ॥

नी-रसायां त्वचि क्वाथे दद्यात् सूक्ष्म-रजी-कृतान् ।
समङ्गा-फलिनी-मोच-रसान् मुष्ट्य्-अंशकान् समान् ॥ १०५ ॥

तैश् च शक्रयवान् पूते ततो दर्वी-प्रलेपनम् ।
पक्त्वावलेहं लीढ्वा च तं यथाग्नि-बलं पिबेत् ॥ १०६ ॥

८.१०६av तैश् च शक्रयवान् पूतं पेयां मण्डं पयश् छागं गव्यं वा छाग-दुग्ध-भुक् ।
लेहो ऽयं शमयत्य् आशु रक्तातीसार-पायु-जान् ॥ १०७ ॥

बल-वद् रक्त-पित्तं च स्रवद् ऊर्ध्वम् अधो ऽपि वा ।
कुटज-त्वक्-तुलां द्रोणे पचेद् अष्टांश-शेषितम् ॥ १०८ ॥

८.१०८dv पचेद् अष्टांश-शेषिताम् कल्की-कृत्य क्षिपेत् तत्र तार्क्ष्य-शैलं कटु-त्रयम् ।
लोध्र-द्वयं मोच-रसं बलां दाडिम-जं त्वचम् ॥ १०९ ॥

बिल्व-कर्कटिकां मुस्तं समङ्गां धातकी-फलम् ।
पलोन्मितं दश-पलं कुटजस्यैव च त्वचः ॥ ११० ॥

त्रिंशत् पलानि गुडतो घृतात् पूते च विंशतिः ।
तत् पक्वं लेह-तां यातं धान्ये पक्ष-स्थितं लिहन् ॥ १११ ॥

सर्वार्शो-ग्रहणी-दोष-श्वास-कासान् नियच्छति ।
लोध्रं तिलान् मोच-रसं समङ्गां चन्दनोत्पलम् ॥ ११२ ॥

८.११२bv -श्वास-कासान् निबर्हति पाययित्वाज-दुग्धेन शालींस् तेनैव भोजयेत् ।
यष्ट्य्-आह्व-पद्मकानन्ता-पयस्या-क्षीर-मोरटम् ॥ ११३ ॥

स-सिता-मधु पातव्यं शीत-तोयेन तेन वा ।
लोध्र-कट्वङ्ग-कुटज-समङ्गा-शाल्मली-त्वचम् ॥ ११४ ॥

८.११४dv -समङ्गा-शाल्मली-त्वचः हिम-केसर-यष्ट्य्-आह्व-सेव्यं वा तण्डुलाम्बुना ।
यवानीन्द्रयवाः पाट्ःा बिल्वं शुण्ठी रसाञ्जनम् ॥ ११५ ॥

चूर्णश् चले हितः शूले प्रवृत्ते चाति-शोणिते ।
दुग्धिका-कण्टकारीभ्यां सिद्धं सर्पिः प्रशस्यते ॥ ११६ ॥

अथ-वा धातकी-लोध्र-कुटज-त्वक्-फलोत्पलैः ।
स-केसरैर् यव-क्षार-दाडिम-स्व-रसेन वा ॥ ११७ ॥

शर्कराम्भो-ज-किञ्जल्क-सहितं सह वा तिलैः ।
अभ्यस्तं रक्त-गुद-जान् नव-नीतं नियच्छति ॥ ११८ ॥

छागानि नव-नीताज्य-क्षीर-मांसानि जाङ्गलः ।
अन्-अम्लो वा कद्-अम्ल वा स-वास्तुक-रसो रसः ॥ ११९ ॥

रक्त-शालिः सरो दध्नः षष्टिकस् तरुणी सुरा ।
तरुणश् च सुरा-मण्डः शोणितस्यौषधं परम् ॥ १२० ॥

पेया-यूष-रसाद्येषु पलाण्डुः केवलो ऽपि वा ।
स जयत्य् उल्बणं रक्तं मारुतं च प्रयोजितः ॥ १२१ ॥

वातोल्बणानि प्रायेण भवन्त्य् अस्रे ऽति-निःसृते ।
अर्शांसि तस्माद् अधिकं तज्-जये यत्नम् आचरेत् ॥ १२२ ॥

दृष्ट्वास्र-पित्तं प्रबलम् अ-बलौ च कफानिलौ ।
शीतोपचारः कर्तव्यः सर्व-था तत्-प्रशान्तये ॥ १२३ ॥

न चेद् एवं शमस् तस्य स्निग्धोष्णैस् तर्पयेत् ततः ।
रसैः कोष्णैश् च सर्पिर्भिर् अवपीडक-योजितैः ॥ १२४ ॥

८.१२४av यदा चैवं शमो न स्यात् सेचयेत् तं कवोष्णैश् च कामं तैल-पयो-घृतैः ।
यवास-कुश-काशानां मूलं पुष्पं च शाल्मलेः ॥ १२५ ॥

न्यग्रोधोदुम्बराश्वत्थ-शुङ्गाश् च द्वि-पलोन्मिताः ।
त्रि-प्रस्थे सलिलस्यैतत् क्षीर-प्रस्थे च साधयेत् ॥ १२६ ॥

क्षीर-शेषे कषाये च तस्मिन् पूते विमिश्रयेत् ।
कल्की-कृतं मोच-रसं समङ्गां चन्दनोत्पलम् ॥ १२७ ॥

प्रियङ्गुं कौटजं बीजं कमलस्य च केसरम् ।
पिच्छा-वस्तिर् अयं सिद्धः स-घृत-क्षौद्र-शर्करः ॥ १२८ ॥

प्रवाहिका-गुद-भ्रंश-रक्त-स्राव-ज्वरापहः ।
यष्ट्य्-आह्व-पुण्डरीकेण तथा मोच-रसादिभिः ॥ १२९ ॥

क्षीर-द्वि-गुणितः पक्वो देयः स्नेहो ऽनुवासनम् ।
मधुकोत्पल-लोध्राम्बु समङ्गा बिल्व-चन्दनम् ॥ १३० ॥

चविकातिविषा मुस्तं पाठा क्षारो यवाग्र-जः ।
दार्वी-त्वङ् नागरं मांसी चित्रको देवदारु च ॥ १३१ ॥

चाङ्गेरी-स्व-रसे सर्पिः साधितं तैस् त्रि-दोष-जित् ।
अर्शो-ऽतीसार-ग्रहणी-पाण्डु-रोग-ज्वरा-रुचौ ॥ १३२ ॥

मूत्र-कृच्छ्रे गुद-भ्रंशे वस्त्य्-आनाहे प्रवाहणे ।
पिच्छा-स्रावे ऽर्शसां शूले देयं तत् परमौषधम् ॥ १३३ ॥

व्यत्यासान् मधुराम्लानि शीतोष्णानि च योजयेत् ।
नित्यम् अग्नि-बलापेक्षी जयत्य् अर्शः-कृतान् गदान् ॥ १३४ ॥

८.१३४dv जयत्य् अर्शः-कृतां रुजम् उदावर्तार्तम् अभ्यज्य तैलैः शीत-ज्वरापहैः ।
सु-स्निग्धैः स्वेदयेत् पिण्डैर् वर्तिम् अस्मै गुदे ततः ॥ १३५ ॥

अभ्यक्तां तत्-कराङ्गुष्ठ-संनिभाम् अनुलोमनीम् ।
दद्याच् छ्यामा-त्रिवृद्-दन्ती-पिप्पली-नीलिनी-फलैः ॥ १३६ ॥

विचूर्णितैर् द्वि-लवणैर् गुड-गो-मूत्र-संयुतैः ।
तद्-वन् मागधिका-राठ-गृह-धूमैः स-सर्षपैः ॥ १३७ ॥

८.१३७bv गुड-गो-मूत्र-पाचितैः एतेषाम् एव वा चूर्णं गुदे नाड्या विनिर्धमेत् ।
तद्-विघाते सु-तीक्ष्णं तु वस्तिं स्निग्धं प्रपीडयेत् ॥ १३८ ॥

ऋजू-कुर्याद् गुद-सिरा-विण्-मूत्र-मरुतो ऽस्य सः ।
भूयो ऽनुबन्धे वात-घ्नैर् विरेच्यः स्नेह-रेचनैः ॥ १३९ ॥

८.१३९av ऋजू-कुर्याद् गुद-शिरो- अनुवास्यश् च रौक्ष्याद् धि सङ्गो मारुत-वर्चसोः ।
त्रि-पटु-त्रि-कटु-श्रेष्ठा-दन्त्य्-अरुष्कर-चित्रकम् ॥ १४० ॥

जर्जरं स्नेह-मूत्राक्तम् अन्तर्-धूमं विपाचयेत् ।
शराव-संधौ मृल्-लिप्ते क्षारः कल्याणकाह्वयः ॥ १४१ ॥

स पीतः सर्पिषा युक्तो भक्ते वा स्निग्ध-भोजिना ।
उदावर्त-विबन्धार्शो-गुल्म-पाण्डूदर-कृमीन् ॥ १४२ ॥

मूत्र-सङ्गाश्मरी-शोफ-हृद्-रोग-ग्रहणी-गदान् ।
मेह-प्लीह-रुजानाह-श्वास-कासांश् च नाशयेत् ॥ १४३ ॥

सर्वं च कुर्याद् यत् प्रोक्तम् अर्शसां गाढ-वर्चसाम् ॥ १४४अब् ॥
द्रोणे ऽपां पूति-वल्क-द्वि-तुलम् अथ पचेत् पाद-शेषे च तस्मिन् ॥ १४४च् ॥
८.१४४cv द्रोणे ऽपां पूति-वल्कं द्वि-तुलम् अथ पचेत् पाद-शेषे च तस्मिन् देयाशीतिर् गुडस्य प्रतनुक-रजसो व्योषतो ऽष्टौ पलानि ॥ १४४द् ॥
एतन् मासेन जातं जनयति परमाम् ऊष्मणः पक्ति-शक्तिं ॥ १४४ए ॥
शुक्तं कृत्वानुलोम्यं प्रजयति गुद-ज-प्लीह-गुल्मोदराणि ॥ १४४f ॥
पचेत् तुलां पूति-करञ्ज-वल्काद् द्वे मूलतश् चित्रक-कण्टकार्योः ।
द्रोण-त्रये ऽपि चरणावशेषे पूते शतं तत्र गुडस्य दद्यात् ॥ १४५ ॥

पलिकं च सु-चूर्णितं त्रि-जात-त्रि-कटु-ग्रन्थिक-दाडिमाश्मभेदम् ।
पुर-पुष्कर-मूल-धान्य-चव्यं हपुषाम् आर्द्रकम् अम्ल-वेतसं च ॥ १४६ ॥

शीती-भूतं क्षौद्र-विंशत्य्-उपेतम् आर्द्र-द्राक्षा-बीजपूरार्द्रकैश् च ।
युक्तं कामं गण्डिकाभिस् तथेक्षोः सर्पिः-पात्रे मास-मात्रेण जातम् ॥ १४७ ॥

चुक्रं क्रकचम् इवेदं दुर्-नाम्नां वह्नि-दीपनं परमम् ।
पाण्डु-गरोदर-गुल्म-प्लीहानाहाश्म-कृच्छ्र-घ्नम् ॥ १४८ ॥

द्रोणं पीलु-रसस्य वस्त्र-गलितं न्यस्तं हविर्-भाजने ॥ १४९अ ॥
युञ्जीत द्वि-पलैर् मदा-मधुफला-खर्जूर-धात्री-फलैः ॥ १४९ब् ॥
पाठा-माद्रि-दुरालभाम्ल-विदुल-व्योष-त्वग्-एलोल्लकैः ॥ १४९च् ॥
८.१४९cv पाठा-माद्रि-दुरालभाम्ल-विदुल-व्योष-त्वग्-एल्लाल्लकैः स्पृक्का-कोल-लवङ्ग-वेल्ल-चपला-मूलाग्निकैः पालिकैः ॥ १४९द् ॥
गुड-पल-शत-योजितं निवाते निहितम् इदं प्रपिबंश् च पक्ष-मात्रात् ।
निशमयति गुदाङ्कुरान् स-गुल्मान् अनल-बलं प्रबलं करोति चाशु ॥ १५० ॥

८.१५०cv प्रशमयति गुदाङ्कुरान् स-गुल्मान् एकैक-शो दश-पले दश-मूल-कुम्भ-पाठा-द्वयार्क-घुणवल्लभ-कट्फलानाम् ।
दग्धे स्रुते ऽनु कलशेन जलेन पक्वे पाद-स्थिते गुड-तुलां पल-पञ्चकं च ॥ १५१ ॥

८.१५१bv -पाठाभयार्क-घुणवल्लभ-कट्फलानाम् दद्यात् प्रत्य्-एकं व्योष-चव्याभयानां वह्नेर् मुष्टी द्वे यव-क्षारतश् च ।
दर्वीम् आलिम्पन् हन्ति लीढो गुडो ऽयं गुल्म-प्लीहार्शः-कुष्ठ-मेहाग्नि-सादान् ॥ १५२ ॥

तोय-द्रोणे चित्रक-मूल-तुलार्धं साध्यं यावत् पाद-दल-स्थम् अथेदम् ।
अष्टौ दत्त्वा जीर्ण-गुडस्य पलानि क्वाथ्यं भूयः सान्द्र-तया समम् एतत् ॥ १५३ ॥

८.१५३bv साध्यं यावत् पाद-जल-स्थम् अप्य् इदम् त्रि-कटुक-मिशि-पथ्या-कुष्ठ-मुस्ता-वराङ्ग-कृमिरिपु-दहनैला-चूर्ण-कीर्णो ऽवलेहः ।
जयति गुद-ज-कुष्ठ-प्लीह-गुल्मोदराणि प्रबलयति हुताशं शश्वद् अभ्यस्यमानः ॥
१५४ ॥

८.१५४cv जयति गुद-ज-युक्त-प्लीह-गुल्मोदराणि गुड-व्योष-वरा-वेल्ल-तिलारुष्कर-चित्रकैः ।
अर्शांसि हन्ति गुटिका त्वग्-विकारं च शीलिता ॥ १५५ ॥

मृल्-लिप्तं सौरणं कन्दं पक्त्वाग्नौ पुट-पाक-वत् ।
अद्यात् स-तैल-लवणं दुर्-नाम-विनिवृत्तये ॥ १५६ ॥

मरिच-पिप्पलि-नागर-चित्रकान् क्रम-विवर्धित-भाग-समाहृतान् ।
शिखि-चतुर्-गुण-सूरण-योजितान् कुरु गुडेन गुडान् गुद-ज-च्छिदः ॥ १५७ ॥

चूर्णी-कृताः षो-डश सूरणस्य भागास् ततो ऽर्धेन च चित्रकस्य ।
महौषधाद् द्वौ मरिचस्य चैको गुडेन दुर्-नाम-जयाय पिण्डी ॥ १५८ ॥

पथ्या-नागर-कृष्णा-करञ्ज-वेल्लाग्निभिः सिता-तुल्यैः ।
वडबा-मुख इव जरयति बहु-गुर्व् अपि भोजनं चूर्णः ॥ १५९ ॥

८.१५९dv बहु-गुर्व् अपि भोजनं चूर्णम् कलिङ्ग-लाङ्गली-कृष्णा-वह्न्य्-अपामार्ग-तण्डुलैः ।
भूनिम्ब-सैन्धव-गुडैर् गुडा गुद-ज-नाशनाः ॥ १६० ॥

लवणोत्तम-वह्नि-कलिङ्ग-यवांश् चिरिबिल्व-महापिचुमन्द-युतान् ।
पिब सप्त-दिनं मथितालुडितान् यदि मर्दितुम् इच्छसि पायु-रुहान् ॥ १६१ ॥

८.१६१cv पिब सप्त-दिनं मथितालुलितान् ८.१६१dv यदि मर्दितुम् इच्छसि पायु-रुहः शुष्केषु भल्लातकम् अग्र्यम् उक्तं भैषज्यम् आर्द्रेषु तु वत्सक-त्वक् ।
सर्वेषु सर्वर्तुषु कालशेयम् अर्शःसु बल्यं च मलापहं च ॥ १६२ ॥

भित्त्वा विबन्धान् अनुलोमनाय यन् मारुतस्याग्नि-बलाय यच् च ।
तद् अन्न-पानौषधम् अर्शसेन सेव्यं विवर्ज्यं विपरीतम् अस्मात् ॥ १६३ ॥

अर्शो-ऽतिसार-ग्रहणी-विकाराः प्रायेण चान्यो-ऽन्य-निदान-भूताः ।
सन्ने ऽनले सन्ति न सन्ति दीप्ते रक्षेद् अतस् तेषु विशेषतो ऽग्निम् ॥ १६४ ॥

८.१६४dv रक्षेत् ततस् तेषु विशेषतो ऽग्निम्

अध्याय 09[सम्पाद्यताम्]
अतीसारो हि भूयिष्ठं भवत्य् आमाशयान्वयः ।
हत्वाग्निं वात-जे ऽप्य् अस्मात् प्राक् तस्मिō̃ लङ्घनं हितम् ॥ १ ॥

९.१dv प्राग् अस्मिō̃ लङ्घनं हितम् शूलानाह-प्रसेकार्तं वामयेद् अतिसारिणम् ।
दोषाः संनिचिता ये च विदग्धाहार-मूर्छिताः ॥ २ ॥

अतीसाराय कल्पन्ते तेषूपेक्षैव भेषजम् ।
भृशोत्क्लेश-प्रवृत्तेषु स्वयम् एव चलात्मसु ॥ ३ ॥

न तु संग्रहणं योज्यं पूर्वम् आमातिसारिणि ।
अपि चाध्मान-गुरु-ता-शूल-स्तैमित्य-कारिणि ॥ ४ ॥

९.४av प्रयोज्यं न तु संग्राहि ९.४bv पूर्वम् आमोल्बणे न तु प्राणदा प्राण-दा दोषे विबद्धे संप्रवर्तिनी ।
पिबेत् प्रक्वथितास् तोये मध्य-दोषो विशोषयन् ॥ ५ ॥

भूतिक-पिप्पली-शुण्ठी-वचा-धान्य-हरीतकीः ।
अथ-वा बिल्व-धनिका-मुस्त-नागर-वालकम् ॥ ६ ॥

विड-पाठा-वचा-पथ्या-कृमिजिन्-नागराणि वा ।
शुण्ठी-घन-वचा-माद्री-बिल्व-वत्सक-हिङ्गु वा ॥ ७ ॥

शस्यते त्व् अल्प-दोषाणाम् उपवासो ऽतिसारिणाम् ।
वचा-प्रतिविषाभ्यां वा मुस्ता-पर्पटकेन वा ॥ ८ ॥

ह्रीवेर-नागराभ्यां वा विपक्वं पाययेज् जलम् ।
युक्ते ऽन्न-काले क्षुत्-क्षामं लघ्व्-अन्न-प्रति भोजयेत् ॥ ९ ॥

९.९dv लघ्व् अन्नं प्रतिभोजयेत् तथा स शीघ्रं प्राप्नोति रुचिम् अग्नि-बलं बलम् ।
तक्रेणावन्ति-सोमेन यवाग्वा तर्पणेन वा ॥ १० ॥

सुरया मधुना वाथ यथा-सात्म्यम् उपाचरेत् ।
भोज्यानि कल्पयेद् ऊर्ध्वं ग्राहि-दीपन-पाचनैः ॥ ११ ॥

९.११av सुरया मधुना चाथ बाल-बिल्व-शठी-धान्य-हिङ्गु-वृक्षाम्ल-दाडिमैः ।
पलाश-हपुषाजाजी-यवानी-विड-सैन्धवैः ॥ १२ ॥

लघुना पञ्च-मूलेन पञ्च-कोलेन पाठया ।
शालिपर्णी-बला-बिल्वैः पृश्निपर्ण्या च साधिता ॥ १३ ॥

दाडिमाम्ला हिता पेया कफ-पित्ते समुल्बणे ।
अभया-पिप्पली-मूल-बिल्वैर् वातानुलोमनी ॥ १४ ॥

विबद्धं दोष-बहुलो दीप्ताग्निर् यो ऽतिसार्यते ।
कृष्णा-विडङ्ग-त्रि-फला-कषायैस् तं विरेचयेत् ॥ १५ ॥

पेयां युञ्ज्याद् विरिक्तस्य वात-घ्नैर् दीपनैः कृताम् ।
आमे परिणते यस् तु दीप्ते ऽग्नाव् उपवेश्यते ॥ १६ ॥

स-फेन-पिच्छं स-रुजं स-विबन्धं पुनः पुनः ।
अल्पाल्पम् अल्प-शमलं निर्-विड् वा स-प्रवाहिकम् ॥ १७ ॥

९.१७cv अल्पाल्पम् अल्पं स-मलं दधि-तैल-घृत-क्षीरैः स शुण्ठीं स-गुडां पिबेत् ।
स्विन्नानि गुड-तैलेन भक्षयेद् बदराणि वा ॥ १८ ॥

गाढ-विड्-विहितैः शाकैर् बहु-स्नेहैस् तथा रसैः ।
क्षुधितं भोजयेद् एनं दधि-दाडिम-साधितैः ॥ १९ ॥

९.१९dv दधि-दाडिम-संस्कृतैः शाल्य्-ओदनं तिलैर् माषैर् मुद्गैर् वा साधु साधितम् ।
शठ्या मूलक-पोतायाः पाठायाः स्वस्तिकस्य वा ॥ २० ॥

९.२०cv शुण्ठ्या मूलक-पोतायाः सूषा-यवानी-कर्कारु-क्षीरिणी-चिर्भटस्य वा ।
उपोदकाया जीवन्त्या वाकुच्या वास्तुकस्य वा ॥ २१ ॥

सुवर्चलायाश् चुञ्चोर् वा लोणिकाया रसैर् अपि ।
कूर्म-वर्तक-लोपाक-शिखि-तित्तिरि-कौक्कुटैः ॥ २२ ॥

९.२२dv -शिखि-तित्तिरि-दक्ष-जैः बिल्व-मुस्ताक्षि-भैषज्य-धातकी-पुष्प-नागरैः ।
पक्वातीसार-जित् तक्रे यवागूर् दाधिकी तथा ॥ २३ ॥

कपित्थ-कच्छुरा-फञ्जी-यूथिका-वट-शेलु-जैः ।
दाडिमी-शण-कार्पासी-शाल्मलीनां च पल्लवैः ॥ २४ ॥

९.२४dv -शाल्मली-मोच-पल्लवैः कल्को बिल्व-शलाटूनां तिल-कल्कश् च तत्-समः ।
दध्नः सरो ऽम्लः स-स्नेहः खलो हन्ति प्रवाहिकाम् ॥ २५ ॥

मरिचं धनिकाजाजी तिन्तिडीकं शठी विडम् ।
दाडिमं धातकी पाठा त्रि-फला पञ्च-कोलकम् ॥ २६ ॥

याव-शूकं कपित्थाम्र-जम्बू-मध्यं स-दीप्यकम् ।
पिष्टैः षड्-गुण-बिल्वैस् तैर् दध्नि मुद्ग-रसे गुडे ॥ २७ ॥

स्नेहे च यमके सिद्धः खलो ऽयम् अ-पराजितः ।
दीपनः पाचनो ग्राही रुच्यो बिम्बिशि-नाशनः ॥ २८ ॥

कोलानां बाल-बिल्वानां कल्कैः शालि-यवस्य च ।
मुद्ग-माष-तिलानां च धान्य-यूषं प्रकल्पयेत् ॥ २९ ॥

ऐकध्यं यमके भृष्टं दधि-दाडिम-सारिकम् ।
वर्चः-क्षये शुष्क-मुखं शाल्य्-अन्नं तेन भोजयेत् ॥ ३० ॥

दध्नः सरं वा यमके भृष्टं स-गुड-नागरम् ।
सुरां वा यमके भृष्टां व्यञ्जनार्थं प्रयोजयेत् ॥ ३१ ॥

फलाम्लं यमके भृष्टं यूषं गृञ्जनकस्य वा ।
भृष्टान् वा यमके सक्तून् खादेद् व्योषावचूर्णितान् ॥ ३२ ॥

माषान् सु-सिद्धांस् तद्-वद् वा घृत-मण्डोपसेवनान् ।
रसं सु-सिद्ध-पूतं वा छाग-मेषान्तर्-आधि-जम् ॥ ३३ ॥

९.३३cv रसं सु-सिद्धं पूतं वा पचेद् दाडिम-साराम्लं स-धान्य-स्नेह-नागरम् ।
रक्त-शाल्य्-ओदनं तेन भुञ्जानः प्रपिबंश् च तम् ॥ ३४ ॥

वर्चः-क्षय-कृतैर् आशु विकारैः परिमुच्यते ।
बाल-बिल्वं गुडं तैलं पिप्पलीं विश्व-भेषजम् ॥ ३५ ॥

९.३५dv पिप्पली-विश्व-भेषजम् लिह्याद् वाते प्रतिहते स-शूलः स-प्रवाहिकः ।
वल्कलं शाबरं पुष्पं धातक्या बदरी-दलम् ॥ ३६ ॥

९.३६bv स-शूले स-प्रवाहिके ९.३६dv धातक्या बदरी-फलम् एरण्ड-बिल्व-यव-गोक्षुरकाम्ल-सिद्धां पथ्यां लिहन् मधु-युताम् अथ वा गुडेन ।
कृच्छ्र-प्रवृत्तम् अति-शूलम् असृग्-विमिश्रं हन्याद् अवश्यम् अतिसारम् उदीर्ण-वेगम् ॥
३६.१+१ ॥

पिबेद् दधि-सर-क्षौद्र-कपित्थ-स्व-रसाप्लुतम् ।
विबद्ध-वात-वर्चास् तु बहु-शूल-प्रवाहिकः ॥ ३७ ॥

स-रक्त-पिच्छस् तृष्णार्तः क्षीर-सौहित्यम् अर्हति ।
यमकस्योपरि क्षीरं धारोष्णं वा प्रयोजयेत् ॥ ३८ ॥

शृतम् एरण्ड-मूलेन बाल-बिल्वेन वा पुनः ।
पयस्य् उत्क्वाथ्य मुस्तानां विंशतिं त्रि-गुणे ऽम्भसि ॥ ३९ ॥

९.३९dv विंशतिं त्रि-गुणाम्भसि क्षीरावशिष्टं तत् पीतं हन्याद् आमं स-वेदनम् ।
पिप्पल्याः पिबतः सूक्ष्मं रजो मरिच-जन्म वा ॥ ४० ॥

चिर-कालानुषक्तापि नश्यत्य् आशु प्रवाहिका ।
निर्-आम-रूपं शूलार्तं लङ्घनाद्यैश् च कर्षितम् ॥ ४१ ॥

रूक्ष-कोष्ठम् अपेक्ष्याग्निं स-क्षारं पाययेद् घृतम् ।
सिद्धं दधि-सुरा-मण्डे दश-मूलस्य चाम्भसि ॥ ४२ ॥

९.४२dv दश-मूलस्य वाम्भसि सिन्धूत्थ-पञ्च-कोलाभ्यां तैलं सद्यो ऽर्ति-नाशनम् ।
षड्भिः शुण्ठ्याः पलैर् द्वाभ्यां द्वाभ्यां ग्रन्थ्य्-अग्नि-सैन्धवात् ॥ ४३ ॥

तैल-प्रस्थं पचेद् दध्ना निः-सारक-रुजापहम् ।
एकतो मांस-दुग्धाज्यं पुरीष-ग्रह-शूल-जित् ॥ ४४ ॥

पानानुवासनाभ्यङ्ग-प्रयुक्तं तैलम् एकतः ।
तद् धि वात-जिताम् अग्र्यं शूलं च वि-गुणो ऽनिलः ॥ ४५ ॥

धात्व्-अन्तरोपमर्देद्धश् चलो व्यापी स्व-धाम-गः ।
तैलं मन्दानलस्यापि युक्त्या शर्म-करं परम् ॥ ४६ ॥

९.४६av धात्व्-अन्तरोपमर्दाद् वै ९.४६av धात्व्-अन्तरोपमर्देन वाय्व्-आशये स-तैले हि बिम्बिशिर् नावतिष्ठते ॥ ४६ऊ̆अब् ॥
क्षीणे मले स्वायतन-च्युतेषु दोषान्तरेष्व् ईरण एक-वीरे ।
को निष्टनन् प्राणिति कोष्ठ-शूली नान्तर्-बहिस्-तैल-परो यदि स्यात् ॥ ४७ ॥

गुद-रुग्-भ्रंशयोर् युञ्ज्यात् स-क्षीरं साधितं हविः ॥ ४८अब् ॥
रसे कोलाम्ल-चाङ्गेर्योर् दध्नि पिष्टे च नागरे ।
तैर् एव चाम्लैः संयोज्य सिद्धं सु-श्लक्ष्ण-कल्कितैः ॥ ४९ ॥

९.४९cv तैर् एव चाम्लैः संयुक्तैः धान्योषण-विडाजाजी-पञ्च-कोलक-दाडिमैः ।
योजयेत् स्नेह-वस्तिं वा दश-मूलेन साधितम् ॥ ५० ॥

शठी-शताह्वा-कुष्ठैर् वा वचया चित्रकेण वा ।
प्रवाहणे गुद-भ्रंशे मूत्राघाते कटी-ग्रहे ॥ ५१ ॥

मधुराम्लैः शृतं तैलं घृतं वाप्य् अनुवासनम् ।
प्रवेशयेद् गुदं ध्वस्तम् अभ्यक्तं स्वेदितं मृदु ॥ ५२ ॥

कुर्याच् च गो-फणा-बन्धं मध्य-च्छिद्रेण चर्मणा ।
पञ्च-मूलस्य महतः क्वाथं क्षीरे विपाचयेत् ॥ ५३ ॥

९.५३dv क्वाथं क्षीरेण पाचयेत् उन्दुरुं चान्त्र-रहितं तेन वात-घ्न-कल्क-वत् ।
तैलं पचेद् गुद-भ्रंशं पानाभ्यङ्गेन तज् जयेत् ॥ ५४ ॥

पैत्ते तु सामे तीक्ष्णोष्ण-वर्ज्यं प्राग् इव लङ्घनम् ।
तृड्-वान् पिबेत् षड्-अङ्गाम्बु स-भूनिम्बं स-शारिवम् ॥ ५५ ॥

पेयादि क्षुधितस्यान्नम् अग्नि-संधुक्षणं हितम् ।
बृहत्य्-आदि-गणाभीरु-द्वि-बला-शूर्पपर्णिभिः ॥ ५६ ॥

पाययेद् अनुबन्धे तु स-क्षौद्रं तण्डुलाम्भसा ।
कुटजस्य फलं पिष्टं स-वल्कं स-घुणप्रियम् ॥ ५७ ॥

९.५७bv स-क्षौद्रं तण्डुलाम्बुना ९.५७cv वत्सकस्य फलं पिष्टं पाठा-वत्सक-बीज-त्वग्-दार्वी-ग्रन्थिक-शुण्ठि वा ।
क्वाथं वातिविषा-बिल्व-वत्सकोदीच्य-मुस्त-जम् ॥ ५८ ॥

अथ-वातिविषा-मूर्वा-निशेन्द्रयव-तार्क्ष्य-जम् ।
स-मध्व्-अतिविषा-शुण्ठी-मुस्तेन्द्रयव-कट्फलम् ॥ ५९ ॥

पलं वत्सक-बीजस्य श्रपयित्वा रसं पिबेत् ।
यो रसाशी जयेच् छीघ्रं स पैत्तं जठरामयम् ॥ ६० ॥

मुस्ता-कषायम् एवं वा पिबेन् मधु-समायुतम् ।
स-क्षौद्रं शाल्मली-वृन्त-कषायं वा हिमाह्वयम् ॥ ६१ ॥

किराततिक्तकं मुस्तं वत्सकं स-रसाञ्जनम् ।
कटङ्कटेरी ह्रीवेरं बिल्व-मध्यं दुरालभा ॥ ६२ ॥

तिला मोच-रसं लोध्रं समङ्गा कमलोत्पलम् ।
नागरं धातकी-पुष्पं दाडिमस्य त्वग् उत्पलम् ॥ ६३ ॥

अर्ध-श्लोकैः स्मृता योगाः स-क्षौद्रास् तण्डुलाम्बुना ।
निशेन्द्रयव-लोध्रैला-क्वाथः पक्वातिसार-जित् ॥ ६४ ॥

९.६४dv -क्वाथः पक्वातिसार-नुत् नागरातिविषा-मुस्ता-भूनिम्बामृत-वत्सकैः ।
सर्व-ज्वर-हरः क्वाथः सर्वातीसार-नाशनः ॥ ६४+१ ॥

गुडूच्य्-अतिविषा-धान्य-शुण्ठी-बिल्वाब्द-वालकैः ।
पाठा-भूनिम्ब-कुटज-चन्दनोशीर-पद्मकैः ॥ ६४+२ ॥

कषायः शितलः पेयो ज्वरातीसार-शान्तये ।
हृल्-लासा-रोचक-च्छर्दि-पिपासा-दाह-नाशनः ॥ ६४+३ ॥

लोध्राम्बष्ठा-प्रियङ्ग्व्-आदि-गणांस् तद्-वत् पृथक् पिबेत् ।
कट्वङ्ग-वल्क-यष्ट्य्-आह्व-फलिनी-दाडिमाङ्कुरैः ॥ ६५ ॥

पेया-विलेपी-खलकान् कुर्यात् स-दधि-दाडिमान् ।
तद्-वद् दधित्थ-बिल्वाम्र-जम्बू-मध्यैः प्रकल्पयेत् ॥ ६६ ॥

अजा-पयः प्रयोक्तव्यं निर्-आमे तेन चेच् छमः ।
दोषाधिक्यान् न जायेत बलिनं तं विरेचयेत् ॥ ६७ ॥

व्यत्यासेन शकृद्-रक्तम् उपवेश्येत यो ऽपि वा ।
पलाश-फल-निर्यूहं युक्तं वा पयसा पिबेत् ॥ ६८ ॥

ततो ऽनु कोष्णं पातव्यं क्षीरम् एव यथा-बलम् ।
प्रवाहिते तेन मले प्रशाम्यत्य् उदरामयः ॥ ६९ ॥

पलाश-वत् प्रयोज्या वा त्रायमाणा विशोधनी ।
संसर्ग्यां क्रियमाणायां शूलं यद्य् अनुवर्तते ॥ ७० ॥

९.७०bv त्रायमाणा विशोधने स्रुत-दोषस्य तं शीघ्रं यथा-वह्न्य् अनुवासयेत् ।
शतपुष्पा-वरीभ्यां च बिल्वेन मधुकेन च ॥ ७१ ॥

तैल-पादं पयो-युक्तं पक्वम् अन्वासनं घृतम् ।
अ-शान्ताव् इत्य् अतीसारे पिच्छा-वस्तिः परं हितः ॥ ७२ ॥

परिवेष्ट्य कुशैर् आर्द्रैर् आर्द्र-वृन्तानि शाल्मलेः ।
कृष्ण-मृत्तिकयालिप्य स्वेदयेद् गो-मयाग्निना ॥ ७३ ॥

मृच्-छोषे तानि संक्षुद्य तत्-पिण्डं मुष्टि-संमितम् ।
मर्दयेत् पयसः प्रस्थे पूतेनास्थापयेत् ततः ॥ ७४ ॥

नत-यष्ट्य्-आह्व-कल्काज्य-क्षौद्र-तैल-वतानु च ।
स्नातो भुञ्जीत पयसा जाङ्गलेन रसेन वा ॥ ७५ ॥

पित्तातिसार-ज्वर-शोफ-गुल्म-समीरणास्र-ग्रहणी-विकारान् ।
जयत्य् अयं शीघ्रम् अति-प्रवृत्तिं विरेचनास्थापनयोश् च वस्तिः ॥ ७६ ॥

कट्वङ्ग-बिल्व-जं त्व् अस्थि कपित्थं सुरसाञ्जनम् ।
लाक्षा-हरिद्रे ह्रीवेरं कट्फलं शुकनासिका ॥ ७६+१ ॥

लोध्रं मोच-रसं मुस्तं धातकी वट-शुङ्गकान् ।
पिष्ट्वा तण्डुल-तोयेन वटकान् अक्ष-संमितान् ॥ ७६+२ ॥

पिबेत् तेनैव तोयेन ज्वरातीसार-नाशनः ।
रक्त-प्रसादनो ह्य् एष शोफातीसार-नाशनः ॥ ७६+३ ॥

फाणितं कुटजोत्थं च सर्वातीसार-नाशनम् ।
वत्सकादि-समायुक्तं साम्बष्ठादि स-माक्षिकम् ॥ ७७ ॥

नी-रुङ्-निर्-आमं दीप्ताग्नेर् अपि सास्रं चिरोत्थितम् ।
नाना-वर्णम् अतीसारं पुट-पाकैर् उपाचरेत् ॥ ७८ ॥

त्वक्-पिण्डाद् दीर्घवृन्तस्य श्रीपर्णी-पत्त्र-संवृतात् ।
मृल्-लिप्ताद् अग्निना स्विन्नाद् रसं निष्पीडितं हिमम् ॥ ७९ ॥

अतीसारी पिबेद् युक्तं मधुना सितयाथ-वा ।
एवं क्षीरि-द्रुम-त्वग्भिस् तत्-प्ररोहैश् च कल्पयेत् ॥ ८० ॥

९.८०cv एवं क्षीर-द्रुम-त्वग्भिस् कट्वङ्ग-त्वग्-घृत-युता स्वेदिता सलिलोष्मणा ।
स-क्षौद्रा हन्त्य् अतीसारं बल-वन्तम् अपि द्रुतम् ॥ ८१ ॥

पित्तातीसारी सेवेत पित्तलान्य् एव यः पुनः ।
रक्तातीसारं कुरुते तस्य पित्तं स-तृड्-ज्वरम् ॥ ८२ ॥

दारुणं गुद-पाकं च तत्र च्छागं पयो हितम् ।
पद्मोत्पल-समङ्गाभिः शृतं मोच-रसेन च ॥ ८३ ॥

शारिवा-यष्टि-लोध्रैर् वा प्रसवैर् वा वटादि-जैः ।
स-क्षौद्र-शर्करं पाने भोजने गुद-सेचने ॥ ८४ ॥

तद्-वद् रसादयो ऽन्-अम्लाः साज्याः पानान्नयोर् हिताः ।
काश्मर्य-फल-यूषश् च किञ्-चिद्-अम्लः स-शर्करः ॥ ८५ ॥

पयस्य् अर्धोदके छागे ह्रीवेरोत्पल-नागरैः ।
पेया रक्तातिसार-घ्नी पृश्निपर्णी-रसान्विता ॥ ८६ ॥

प्राग्-भक्तं नव-नीतं वा लिह्यान् मधु-सिता-युतम् ।
बलिन्य् अस्रे ऽस्रम् एवाजं मार्गं वा घृत-भर्जितम् ॥ ८७ ॥

क्षीरानु-पानं क्षीराशी त्र्य्-अहं क्षीरोद्भवं घृतम् ।
कपिञ्जल-रसाशी वा लिहन्न् आरोग्यम् अश्नुते ॥ ८८ ॥

पीत्वा शतावरी-कल्कं क्षीरेण क्षीर-भोजनः ।
रक्तातीसारं हन्त्य् आशु तया वा साधितं घृतम् ॥ ८९ ॥

लाक्षा-नागर-वैदेही-कटुका-दार्वि-वल्कलैः ।
सर्पिः सेन्द्रयवैः सिद्धं पेया-मण्डावचारितम् ॥ ९० ॥

अतीसारं जयेच् छीघ्रं त्रि-दोषम् अपि दारुणम् ।
कृष्ण-मृच्-छङ्ख-यष्ट्य्-आह्व-क्षौद्रासृक्-तण्डुलोदकम् ॥ ९१ ॥

जयत्य् अस्रं प्रियङ्गुश् च तण्डुलाम्बु-मधु-प्लुता ।
कल्कस् तिलानां कृष्णानां शर्करा-पाञ्चभागिकः ॥ ९२ ॥

९.९२dv शर्करा-भाग-संयुतः आजेन पयसा पीतः सद्यो रक्तं नियच्छति ।
पीत्वा स-शर्करा-क्षौद्रं चन्दनं तण्डुलाम्बुना ॥ ९३ ॥

दाह-तृष्णा-प्रमोहेभ्यो रक्त-स्रावाच् च मुच्यते ।
गुदस्य दाहे पाके वा सेक-लेपा हिता हिमाः ॥ ९४ ॥

९.९४av दाह-तृष्णा-प्रमेहेभ्यो ९.९४dv सेका लेपा हिता हिमाः अल्पाल्पं बहु-शो रक्तं स-शूलम् उपवेश्यते ।
यदा विबद्धो वायुश् च कृच्छ्राच् चरति वा न वा ॥ ९५ ॥

पिच्छा-वस्तिं तदा तस्य पूर्वोक्तम् उपकल्पयेत् ।
पल्लवान् जर्जरी-कृत्य शिंशिपा-कोविदारयोः ॥ ९६ ॥

पचेद् यवांश् च स क्वाथे घृत-क्षीर-समन्वितः ।
पिच्छा-स्रुतौ गुद-भ्रंशे प्रवाहण-रुजासु वा ॥ ९७ ॥

पिच्छा-वस्तिः प्रयोक्तव्यः क्षत-क्षीण-बलावहः ।
प्रपौण्डरीक-सिद्धेन सर्पिषा चानुवासनम् ॥ ९८ ॥

रक्तं विट्-सहितं पूर्वं पश्चाद् वा यो ऽतिसार्यते ।
शतावरी-घृतं तस्य लेहार्थम् उपकल्पयेत् ॥ ९९ ॥

शर्करार्धांशकं लीढं नव-नीतं नवोद्धृतम् ।
क्षौद्र-पादं जयेच् छीघ्रं तं विकारं हिताशिनः ॥ १०० ॥

न्यग्रोधोदुम्बराश्वत्थ-शुङ्गान् आपोथ्य वासयेत् ।
अहो-रात्रं जले तप्ते घृतं तेनाम्भसा पचेत् ॥ १०१ ॥

तद् अर्ध-शर्करा-युक्तं लेहयेत् क्षौद्र-पादिकम् ।
अधो वा यदि वाप्य् उर्ध्वं यस्य रक्तं प्रवर्तते ॥ १०२ ॥

९.१०२cv अधो वा यदि वात्य्-उर्ध्वं श्लेष्मातीसारे वातोक्तं विशेषाद् आम-पाचनम् ।
कर्तव्यम् अनुबन्धे ऽस्य पिबेत् पक्त्वाग्नि-दीपनम् ॥ १०३ ॥

बिल्व-कर्कटिका-मुस्त-प्राणदा-विश्व-भेषजम् ।
वचा-विडङ्ग-भूतीक-धानकामरदारु वा ॥ १०४ ॥

९.१०४dv -धान्यकामरदारु वा अथ-वा पिप्पली-मूल-पिप्पली-द्वय-चित्रकम् ।
पाठाग्नि-वत्सक-ग्रन्थि-तिक्ता-शुण्ठी-वचाभयाः ॥ १०५ ॥

९.१०५bv -पिप्पली-द्वय-चित्रकान् क्वथिता यदि वा पिष्टाः श्लेष्मातीसार-भेषजम् ।
सौवर्चल-वचा-व्योष-हिङ्गु-प्रतिविषाभयाः ॥ १०६ ॥

पिबेच् छ्लेष्मातिसारार्तश् चूर्णिताः कोष्ण-वारिणा ।
मध्यं लीढ्वा कपित्थस्य स-व्योष-क्षौद्र-शर्करम् ॥ १०७ ॥

९.१०७dv स-क्षौद्रं व्योष-शर्करम् कट्फलं मधु-युक्तं वा मुच्यते जठरामयात् ।
कणां मधु-युतां लीढ्वा तक्रं पीत्वा स-चित्रकम् ॥ १०८ ॥

भुक्त्वा वा बाल-बिल्वानि व्यपोहत्य् उदरामयम् ।
पाठा-मोच-रसाम्भोद-धातकी-बिल्व-नागरम् ॥ १०९ ॥

सु-कृच्छ्रम् अप्य् अतीसारं गुड-तक्रेण नाशयेत् ।
यवानी-पिप्पली-मूल-चातुर्जातक-नागरैः ॥ ११० ॥

मरिचाग्नि-जलाजाजी-धान्य-सौवर्चलैः समैः ।
वृषाम्ल-धातकी-कृष्णा-बिल्व-दाडिम-दीप्यकैः ॥ १११ ॥

९.१११च्च् वृक्षाम्ल-धातकी-कृष्णा- ९.१११द्च् -बिल्व-दाडिम-तिन्दुकैः त्रि-गुणैः षड्-गुण-सितैः कपित्थाष्ट-गुणैः कृतः ।
चूर्णो ऽतीसार-ग्रहणी-क्षय-गुल्म-गलामयान् ॥ ११२ ॥

९.११२av त्रि-गुणैः षड्-गुण-सिते ९.११२bv कपित्थे ऽष्ट-गुणे कृतः ९.११२dv -क्षय-गुल्मोदरामयान् कास-श्वासाग्नि-सादार्शः-पीनसा-रोचकाञ् जयेत् ।
कर्षोन्मिता तवक्षीरी चातुर्जातं द्वि-कार्षिकम् ॥ ११३ ॥

९.११३cv कर्षोन्मितं तवक्षीरी- ९.११३dv -चातुर्जातं द्वि-कार्षिकम् यवानी-धान्यकाजाजी-ग्रन्थि-व्योषं पलांशकम् ।
पलानि दाडिमाद् अष्टौ सितायाश् चैकतः कृतः ॥ ११४ ॥

९.११४av यवानी-धान्यकाजाजि ९.११४bv ग्रन्थि-व्योषं पलांशकम् गुणैः कपित्थाष्टक-वच् चूर्णो ऽयं दाडिमाष्टकः ।
भोज्यो वातातिसारोक्तैर् यथावस्थं खलादिभिः ॥ ११५ ॥

स-विडङ्गः स-मरिचः स-कपित्थः स-नागरः ।
चाङ्गेरी-तक्र-कोलाम्लः खलः श्लेष्मातिसार-जित् ॥ ११६ ॥

क्षीणे श्लेष्मणि पूर्वोक्तम् अम्लं लाक्षादि षट्-पलम् ।
पुराणं वा घृतं दद्याद् यवागू-मण्ड-मिश्रितम् ॥ ११७ ॥

कट्फलं मधुकं लोध्रं त्वग्-दाडिम-फलस्य च ।
वात-पित्तातिसार-घ्नं पिबेत् तण्डुल-वारिणा ॥ ११७+१ ॥

मुस्तं सातिविषा दार्वी वचा शुण्ठी च तत्-समम् ।
कषायं क्षौद्र-संयुक्तं श्लेष्म-वातातिसारिणे ॥ ११७+२ ॥

पीतदारु वचा लोध्रं कलिङ्ग-फल-नागरम् ।
दाडिमाम्बु-युतं दद्यात् पित्त-श्लेष्मातिसारिणे ॥ ११७+३ ॥

वात-श्लेष्म-विबन्धे वा स्रवत्य् अति कफे ऽपि वा ।
शूले प्रवाहिकायां वा पिच्छा-वस्तिः प्रशस्यते ॥ ११८ ॥

९.११८av वात-श्लेष्म-विबन्धे च वचा-बिल्व-कणा-कुष्ठ-शताह्वा-लवणान्वितः ।
बिल्व-तैलेन तैलेन वचाद्यैः साधितेन वा ॥ ११९ ॥

बहु-शः कफ-वातार्ते कोष्णेनान्वासनं हितम् ।
क्षीणे कफे गुदे दीर्घ-कालातीसार-दुर्-बले ॥ १२० ॥

अनिलः प्रबलो ऽवश्यं स्व-स्थान-स्थः प्रजायते ।
स बली सहसा हन्यात् तस्मात् तं त्वरया जयेत् ॥ १२१ ॥

वायोर् अन्-अन्तरं पित्तं पित्तस्यान्-अन्तरं कफम् ।
जयेत् पूर्वं त्रयाणां वा भवेद् यो बल-वत्-तमः ॥ १२२ ॥

भी-शोकाभ्याम् अपि चलः शीघ्रं कुप्यत्य् अतस् तयोः ।
कार्या क्रिया वात-हरा हर्षणाश्वासनानि च ॥ १२३ ॥

यस्योच्चाराद् विना मूत्रं पवनो वा प्रवर्तते ।
दीप्ताग्नेर् लघु-कोष्ठस्य शान्तस् तस्योदरामयः ॥ १२४ ॥



अध्याय 10[सम्पाद्यताम्]
ग्रहणीम् आश्रितं दोषम् अ-जीर्ण-वद् उपाचरेत् ।
अतीसारोक्त-विधिना तस्यामं च विपाचयेत् ॥ १ ॥

अन्न-काले यवाग्व्-आदि पञ्च-कोलादिभिर् युतम् ।
वितरेत् पटु-लघ्व्-अन्नं पुनर् योगांश् च दीपनान् ॥ २ ॥

दद्यात् सातिविषां पेयाम् आमे साम्लां स-नागराम् ।
पाने ऽतीसार-विहितं वारि तक्रं सुरादि च ॥ ३ ॥

ग्रहणी-दोषिणां तक्रं दीपन-ग्राहि-लाघवात् ।
पथ्यं मधुर-पाकि-त्वान् न च पित्त-प्रदूषणम् ॥ ४ ॥

कषायोष्ण-विकाशि-त्वाद् रूक्ष-त्वाच् च कफे हितम् ।
वाते स्वाद्व्-अम्ल-सान्द्र-त्वात् सद्यस्कम् अ-विदाहि तत् ॥ ५ ॥

१०.५av कषायोष्ण-विकाषि-त्वाद् चतुर्णां प्रस्थम् अम्लानां त्र्य्-ऊषणाच् च पल-त्रयम् ।
लवणानां च चत्वारि शर्करायाः पलाष्टकम् ॥ ६ ॥

तच् चूर्णं शाक-सूपान्न-रागादिष्व् अवचारयेत् ।
कासा-जीर्णा-रुचि-श्वास-हृत्-पाण्डु-प्लीह-गुल्म-नुत् ॥ ७ ॥

१०.७dv -हृत्-पार्श्वामय-शूल-नुत् १०.७dv -हृत्-पाण्ड्व्-आमय-शूल-नुत् नागरातिविषा-मुस्तं पाक्यम् आम-हरं पिबेत् ।
उष्णाम्बुना वा तत्-कल्कं नागरं वाथ-वाभयाम् ॥ ८ ॥

स-सैन्धवं वचादिं वा तद्-वन् मदिरयाथ-वा ।
वर्चस्य् आमे स-प्रवाहे पिबेद् वा दाडिमाम्बुना ॥ ९ ॥

विडेन लवणं पिष्टं बिल्व-चित्रक-नागरम् ।
सामे कफानिले कोष्ठ-रुक्-करे कोष्ण-वारिणा ॥ १० ॥

कलिङ्ग-हिङ्ग्व्-अतिविषा-वचा-सौवर्चलाभयम् ।
छर्दि-हृद्-रोग-शूलेषु पेयम् उष्णेन वारिणा ॥ ११ ॥

पथ्या-सौवर्चलाजाजी-चूर्णं मरिच-संयुतम् ।
पिप्पलीं नागरं पाठां शारिवां बृहती-द्वयम् ॥ १२ ॥

चित्रकं कौटजं क्षारं तथा लवण-पञ्चकम् ।
चूर्णी-कृतं दधि-सुरा-तन्-मण्डोष्णाम्बु-काञ्जिकैः ॥ १३ ॥

पिबेद् अग्नि-विवृद्ध्य्-अर्थं कोष्ठ-वात-हरं परम् ।
पटूनि पञ्च द्वौ क्षारौ मरिचं पञ्च-कोलकम् ॥ १४ ॥

दीप्यकं हिङ्गु गुटिका बीजपूर-रसे कृता ।
कोल-दाडिम-तोये वा परं पाचन-दीपनी ॥ १५ ॥

तालीश-पत्त्र-चविका-मरिचानां पलं पलम् ।
कृष्णा-तन्-मूलयोर् द्वे द्वे पले शुण्ठी-पल-त्रयम् ॥ १६ ॥

चतुर्-जातम् उशीरं च कर्षांशं श्लक्ष्ण-चूर्णितम् ।
गुडेन वटकान् कृत्वा त्रि-गुणेन सदा भजेत् ॥ १७ ॥

मद्य-यूष-रसारिष्ट-मस्तु-पेया-पयो-ऽनुपः ।
वात-श्लेष्मात्मनां छर्दि-ग्रहणी-पार्श्व-हृद्-रुजाम् ॥ १८ ॥

ज्वर-श्वयथु-पाण्डु-त्व-गुल्म-पानात्ययार्शसाम् ।
प्रसेक-पीनस-श्वास-कासानां च निवृत्तये ॥ १९ ॥

अभयां नागर-स्थाने दद्यात् तत्रैव विड्-ग्रहे ।
छर्द्य्-आदिषु च पैत्तेषु चतुर्-गुण-सितान्विताः ॥ २० ॥

१०.२०bv दद्याद् अत्रैव विड्-ग्रहे पक्वेन वटकाः कार्या गुडेन सितयापि वा ।
परं हि वह्नि-संपर्काल् लघिमानं भजन्ति ते ॥ २१ ॥

अथैनं परिपक्वामं मारुत-ग्रहणी-गदम् ।
दीपनीय-युतं सर्पिः पाययेद् अल्प-शो भिषक् ॥ २२ ॥

१०.२२av अथैनं परिपक्वाम- १०.२२bv -मारुत-ग्रहणी-गदम् किञ्-चित्-संधुक्षिते त्व् अग्नौ सक्त-विण्-मूत्र-मारुतम् ।
द्व्य्-अहं त्र्य्-अहं वा संस्नेह्य स्विन्नाभ्यक्तं निरूहयेत् ॥ २३ ॥

तत एरण्ड-तैलेन सर्पिषा तैल्वकेन वा ।
स-क्षारेणानिले शान्ते स्रस्त-दोषं विरेचयेत् ॥ २४ ॥

शुद्ध-रूक्षाशयं बद्ध-वर्चस्कं चानुवासयेत् ।
दीपनीयाम्ल-वात-घ्न-सिद्ध-तैलेन तं ततः ॥ २५ ॥

निरूढं च विरिक्तं च सम्यक् चाप्य् अनुवासितम् ।
लघ्व्-अन्न-प्रतिसंयुक्तं सर्पिर् अभ्यासयेत् पुनः ॥ २६ ॥

१०.२६bv सम्यग् वाप्य् अनुवासितम् पञ्च-मूलाभया-व्योष-पिप्पली-मूल-सैन्धवैः ।
रास्ना-क्षार-द्वयाजाजी-विडङ्ग-शठिभिर् घृतम् ॥ २७ ॥

शुक्तेन मातुलुङ्गस्य स्व-रसेनार्द्रकस्य च ।
शुष्क-मूलक-कोलाम्ल-चुक्रिका-दाडिमस्य च ॥ २८ ॥

तक्र-मस्तु-सुरा-मण्ड-सौवीरक-तुषोदकैः ।
काञ्जिकेन च तत् पक्वम् अग्नि-दीप्ति-करं परम् ॥ २९ ॥

शूल-गुल्मोदर-श्वास-कासानिल-कफापहम् ।
स-बीजपूरक-रसं सिद्धं वा पाययेद् घृतम् ॥ ३० ॥

तैलम् अभ्यञ्जनार्थं च सिद्धम् एभिश् चलापहम् ।
एतेषाम् औषधानां वा पिबेच् चूर्णं सुखाम्बुना ॥ ३१ ॥

वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते ।
अग्नेर् निर्वापकं पित्तं रेकेण वमनेन वा ॥ ३२ ॥

हत्वा तिक्त-लघु-ग्राहि-दीपनैर् अ-विदाहिभिः ।
अन्नैः संधुक्षयेद् अग्निं चूर्णैः स्नेहैश् च तिक्तकैः ॥ ३३ ॥

पटोल-निम्ब-त्रायन्ती-तिक्ता-तिक्तक-पर्पटम् ।
कुटज-त्वक्-फलं मूर्वा मधु-शिग्रु-फलं वचा ॥ ३४ ॥

दार्वी-त्वक्-पद्मकोशीर-यवानी-मुस्त-चन्दनम् ।
सौराष्ट्र्य्-अतिविषा-व्योष-त्वग्-एला-पत्त्र-दारु च ॥ ३५ ॥

चूर्णितं मधुना लेह्यं पेयं मद्यैर् जलेन वा ।
हृत्-पाण्डु-ग्रहणी-रोग-गुल्म-शूला-रुचि-ज्वरान् ॥ ३६ ॥

कामलां संनिपातं च मुख-रोगांश् च नाशयेत् ।
भूनिम्ब-कटुका-मुस्ता-त्र्य्-ऊषणेन्द्रयवान् समान् ॥ ३७ ॥

द्वौ चित्रकाद् वत्सक-त्वग्-भागान् षो-डश चूर्णयेत् ।
गुड-शीताम्बुना पीतं ग्रहणी-दोष-गुल्म-नुत् ॥ ३८ ॥

कामला-ज्वर-पाण्डु-त्व-मेहा-रुच्य्-अतिसार-जित् ।
नागरातिविषा-मुस्ता-पाठा-बिल्वं रसाञ्जनम् ॥ ३९ ॥

१०.३९bv -मेहा-रुच्य्-अतिसार-नुत् कुटज-त्वक्-फलं तिक्ता धातकी च कृतं रजः ।
क्षौद्र-तण्डुल-वारिभ्यां पैत्तिके ग्रहणी-गदे ॥ ४० ॥

प्रवाहिकार्शो-गुद-रुग्-रक्तोत्थानेषु चेष्यते ।
चन्दनं पद्मकोशीरं पाठां मूर्वां कुटन्नटम् ॥ ४१ ॥

षड्ग्रन्था-शारिवास्फोता-सप्तपर्णाटरूषकान् ।
पटोलोदुम्बराश्वत्थ-वट-प्लक्ष-कपीतनान् ॥ ४२ ॥

१०.४२dv -वट-प्लक्ष-कपीतनम् कटुकां रोहिणीं मुस्तां निम्बं च द्वि-पलांशकान् ।
द्रोणे ऽपां साधयेत् तेन पचेत् सर्पिः पिचून्मितैः ॥ ४३ ॥

किराततिक्तेन्द्रयव-वीरा-मागधिकोत्पलैः ।
पित्त-ग्रहण्यां तत् पेयं कुष्ठोक्तं तिक्तकं च यत् ॥ ४४ ॥

ग्रहण्यां श्लेष्म-दुष्टायां तीक्ष्णैः प्रच्छर्दने कृते ।
कट्व्-अम्ल-लवण-क्षारैः क्रमाद् अग्निं विवर्धयेत् ॥ ४५ ॥

पञ्च-कोलाभया-धान्य-पाठा-गन्ध-पलाशकैः ।
बीजपूर-प्रगाढैश् च सिद्धैः पेयादि कल्पयेत् ॥ ४६ ॥

द्रोणं मधूक-पुष्पाणां विडङ्गं च ततो ऽर्धतः ।
चित्रकस्य ततो ऽर्धं च तथा भल्लातकाढकम् ॥ ४७ ॥

मञ्जिष्ठाष्ट-पलं चैतज् जल-द्रोण-त्रये पचेत् ।
द्रोण-शेषं शृतं शीतं मध्व्-अर्धाढक-संयुतम् ॥ ४८ ॥

एला-मृणालागुरुभिश् चन्दनेन च रूषिते ।
कुम्भे मासं स्थितं जातम् आसवं तं प्रयोजयेत् ॥ ४९ ॥

१०.४९cv कुम्भे मास-स्थितं जातम् ग्रहणीं दीपयत्य् एष बृंहणः पित्त-रक्त-नुत् ।
शोष-कुष्ठ-किलासानां प्रमेहाणां च नाशनः ॥ ५० ॥

१०.५०bv बृंहणो रक्त-पित्त-नुत् मधूक-पुष्प-स्व-रसं शृतम् अर्ध-क्षयी-कृतम् ।
क्षौद्र-पाद-युतं शीतं पूर्व-वत् संनिधापयेत् ॥ ५१ ॥

१०.५१av मधूक-पुष्प-कुडवं तत् पिबन् ग्रहणी-दोषान् जयेत् सर्वान् हिताशनः ।
तद्-वद् द्राक्षेक्षु-खर्जूर-स्व-रसान् आसुतान् पिबेत् ॥ ५२ ॥

हिङ्गु-तिक्ता-वचा-माद्री-पाठेन्द्रयव-गोक्षुरम् ।
पञ्च-कोलं च कर्षांशं पलांशं पटु-पञ्चकम् ॥ ५३ ॥

घृत-तैल-द्वि-कुडवे दध्नः प्रस्थ-द्वये च तत् ।
आपोथ्य क्वाथयेद् अग्नौ मृदाव् अनुगते रसे ॥ ५४ ॥

अन्तर्-धूमं ततो दग्ध्वा चूर्णी-कृत्य घृताप्लुतम् ।
पिबेत् पाणि-तलं तस्मिञ् जीर्णे स्यान् मधुराशनः ॥ ५५ ॥

वात-श्लेष्मामयान् सर्वान् हन्याद् विष-गरांश् च सः ।
भूनिम्बं रोहिणीं तिक्तां पटोलं निम्ब-पर्पटम् ॥ ५६ ॥

दग्ध्वा माहिष-मूत्रेण पिबेद् अग्नि-विवर्धनम् ।
द्वे हरिद्रे वचा कुष्ठं चित्रकः कटु-रोहिणी ॥ ५७ ॥

मुस्ता च च्छाग-मूत्रेण सिद्धः क्षारो ऽग्नि-वर्धनः ।
चतुः-पलं सुधा-काण्डात् त्रि-पलं लवण-त्रयात् ॥ ५८ ॥

१०.५८dv त्रि-फला-लवणानि च वार्ताक-कुडवं चार्काद् अष्टौ द्वे चित्रकात् पले ।
दग्ध्वा रसेन वार्ताकाद् गुटिका भोजनोत्तराः ॥ ५९ ॥

१०.५९av वार्ताकात् कुडवं चार्काद् भुक्तम् अन्नं पचन्त्य् आशु कास-श्वासार्शसां हिताः ।
विषूचिका-प्रतिश्याय-हृद्-रोग-शमनाश् च ताः ॥ ६० ॥

मातुलुङ्ग-शठी-रास्ना-कटु-त्रय-हरीतकि ।
स्वर्जिका-याव-शूकाख्यौ क्षारौ पञ्च-पटूनि च ॥ ६१ ॥

१०.६१bv -कटु-त्रय-हरीतकीः सुखाम्बु-पीतं तच्-चूर्णं बल-वर्णाग्नि-वर्धनम् ।
श्लैष्मिके ग्रहणी-दोषे स-वाते तैर् घृतं पचेत् ॥ ६२ ॥

धान्वन्तरं षट्-पलं च भल्लातक-घृताभयम् ।
विड-काचोष-लवण-स्वर्जिका-याव-शूक-जान् ॥ ६३ ॥

सप्तलां कण्टकारीं च चित्रकं चैकतो दहेत् ।
सप्त-कृत्वः स्रुतस्यास्य क्षारस्यार्धाढके पचेत् ॥ ६४ ॥

आढकं सर्पिषः पेयं तद् अग्नि-बल-वृद्धये ।
निचये पञ्च कर्माणि युञ्ज्याच् चैतद् यथा-बलम् ॥ ६५ ॥

प्रसेके श्लैष्मिके ऽल्पाग्नेर् दीपनं रूक्ष-तिक्तकम् ।
योज्यं कृशस्य व्यत्यासात् स्निग्ध-रूक्षं कफोदये ॥ ६६ ॥

क्षीण-क्षाम-शरीरस्य दीपनं स्नेह-संयुतम् ।
दीपनं बहु-पित्तस्य तिक्तं मधुरकैर् युतम् ॥ ६७ ॥

स्नेहो ऽम्ल-लवणैर् युक्तो बहु-वातस्य शस्यते ।
स्नेहम् एव परं विद्याद् दुर्-बलानल-दीपनम् ॥ ६८ ॥

नालं स्नेह-समिद्धस्य शमायान्नं सु-गुर्व् अपि ।
यो ऽल्पाग्नि-त्वात् कफे क्षीणे वर्चः पक्वम् अपि श्लथम् ॥ ६९ ॥

मुञ्चेत् पट्व्-औषध-युतं स पिबेद् अल्प-शो घृतम् ।
तेन स्व-मार्गम् आनीतः स्व-कर्मणि नियोजितः ॥ ७० ॥

समानो दीपयत्य् अग्निम् अग्नेः संधुक्षको हि सः ।
पुरीषं यश् च कृच्छ्रेण कठिन-त्वाद् विमुञ्चति ॥ ७१ ॥

१०.७१bv अग्नेः संधुक्षको ह्य् असौ स घृतं लवणैर् युक्तं नरो ऽन्नावग्रहं पिबेत् ।
रौक्ष्यान् मन्दे ऽनले सर्पिस् तैलं वा दीपनैः पिबेत् ॥ ७२ ॥

क्षार-चूर्णासवारिष्टन् मन्दे स्नेहाति-पानतः ।
उदावर्तात् तु योक्तव्या निरूह-स्नेह-वस्तयः ॥ ७३ ॥

१०.७३cv उदावर्तात् प्रयोक्तव्या दोषाति-वृद्ध्या मन्दे ऽग्नौ संशुद्धो ऽन्न-विधिं चरेत् ।
व्याधि-मुक्तस्य मन्दे ऽग्नौ सर्पिर् एव तु दीपनम् ॥ ७४ ॥

१०.७४bv संशुद्धो ऽन्न-विधिं भजेत् अध्वोपवास-क्षाम-त्वैर् यवाग्वा पाययेद् घृतम् ।
अन्नावपीडितं बल्यं दीपनं बृंहणं च तत् ॥ ७५ ॥

दीर्घ-काल-प्रसङ्गात् तु क्षाम-क्षीण-कृशान् नरान् ।
प्रसहानां रसैः साम्लैर् भोजयेत् पिशिताशिनाम् ॥ ७६ ॥

लघूष्ण-कटु-शोधि-त्वाद् दीपयन्त्य् आशु ते ऽनलम् ।
मांसोपचित-मांस-त्वात् परं च बल-वर्धनाः ॥ ७७ ॥

१०.७७av लघूष्ण-कटु-शोधि-त्वैर् स्नेहासव-सुरारिष्ट-चूर्ण-क्वाथ-हिताशनैः ।
सम्यक्-प्रयुक्तैर् देहस्य बलम् अग्नेश् च वर्धते ॥ ७८ ॥

दीप्तो यथैव स्थाणुश् च बाह्यो ऽग्निः सार-दारुभिः ।
स-स्नेहैर् जायते तद्-वद् आहारैः कोष्ठ-गो ऽनलः ॥ ७९ ॥

ना-भोजनेन कायाग्निर् दीप्यते नाति-भोजनात् ।
यथा निर्-इन्धनो वह्निर् अल्पो वातीन्धनावृतः ॥ ८० ॥

१०.८०dv अल्पो वातीन्धनान्वितः यदा क्षीणे कफे पित्तं स्व-स्थाने पवनानुगम् ।
प्रवृद्धं वर्धयत्य् अग्निं तदासौ सानिलो ऽनलः ॥ ८१ ॥

पक्त्वान्नम् आशु धातूंश् च सर्वान् ओजश् च संक्षिपन् ।
मारयेत् स्यात् स ना स्वस्थो भुक्ते जीर्णे तु ताम्यति ॥ ८२ ॥

१०.८२cv मारयेत् तं स ना स्वस्थो तृट्-कास-दाह-मूर्छाद्या व्याधयो ऽत्य्-अग्नि-संभवाः ।
तम् अत्य्-अग्निं गुरु-स्निग्ध-मन्द-सान्द्र-हिम-स्थिरैः ॥ ८३ ॥

अन्न-पानैर् नयेच् छान्तिं दीप्तम् अग्निम् इवाम्बुभिः ।
मुहुर् मुहुर् अ-जीर्णे ऽपि भोज्यान्य् अस्योपहारयेत् ॥ ८४ ॥

१०.८४dv भोज्यान्य् अस्योपकल्पयेत् निर्-इन्धनो ऽन्तरं लब्ध्वा यथैनं न विपादयेत् ।
कृशरां पायसं स्निग्धं पैष्टिकं गुड-वैकृतम् ॥ ८५ ॥

१०.८५bv तथैनं न विपादयेत् अश्नीयाद् औदकानूप-पिशितानि भृतानि च ।
मत्स्यान् विशेषतः श्लक्ष्णान् स्थिर-तोय-चराश् च ये ॥ ८६ ॥

आविकं सु-भृतं मांसम् अद्याद् अत्य्-अग्नि-वारणम् ।
पयः सह-मधूच्छिष्टं घृतं वा तृषितः पिबेत् ॥ ८७ ॥

गोधूम-चूर्णं पयसा बहु-सर्पिः-परिप्लुतम् ।
आनूप-रस-युक्तान् वा स्नेहांस् तैल-विवर्जितान् ॥ ८८ ॥

श्यामा-त्रिवृद्-विपक्वं वा पयो दद्याद् विरेचनम् ।
अ-सकृत् पित्त-हरणं पायस-प्रतिभोजनम् ॥ ८९ ॥

यत् किञ्-चिद् गुरु मेद्यं च श्लेष्म-कारि च भोजनम् ।
सर्वं तद् अत्य्-अग्नि-हितं भुक्त्वा च स्वपनं दिवा ॥ ९० ॥

आहारम् अग्निः पचति दोषान् आहार-वर्जितः ।
धातून् क्षीणेषु दोषेषु जीवितं धातु-संक्षये ॥ ९१ ॥

एतत् प्रकृत्यैव विरुद्धम् अन्नं संयोग-संस्कार-वशेन चेदम् ।
इत्य्-आदि अ-विज्ञाय यथेष्ट-चेष्टाश् चरन्ति यत् साग्नि-बलस्य शक्तिः ॥ ९२ ॥

तस्माद् अग्निं पालयेत् सर्व-यत्नैस् तस्मिन् नष्टे याति ना नाशम् एव ।
दोषैर् ग्रस्ते ग्रस्यते रोग-संघैर् युक्ते तु स्यान् नी-रुजो दीर्घ-जीवी ॥ ९३ ॥



अध्याय 11[सम्पाद्यताम्]
लिङ्गाग्र-सुषिरे सम्यग् योन्यां वा संप्रवेशयेत् ।
मूत्र-दुःख-हरं मुख्यं कर्पूरं परिसंक्षिपेत् ॥ ०+१ ॥

कृच्छ्रे वात-घ्न-तैलाक्तम् अधो नाभेः समीर-जे ।
सु-स्निग्धैः स्वेदयेद् अङ्गं पिण्ड-सेकावगाहनैः ॥ १ ॥

दश-मूल-बलैरण्ड-यवाभीरु-पुनर्नवैः ।
कुलत्थ-कोल-पत्तूर-वृश्चीवोपलभेदकैः ॥ २ ॥

तैल-सर्पिर्-वराहर्क्ष-वसाः क्वथित-कल्कितैः ।
स-पञ्च-लवणाः सिद्धाः पीताः शूल-हराः परम् ॥ ३ ॥

द्रव्याण्य् एतानि पानान्ने तथा पिण्डोपनाहने ।
सह तैलफलैर् युञ्ज्यात् साम्लानि स्नेह-वन्ति च ॥ ४ ॥

सौवर्चलाढ्यां मदिरां पिबेन् मूत्र-रुजापहाम् ।
पैत्ते युञ्जीत शिशिरं सेक-लेपावगाहनम् ॥ ५ ॥

पिबेद् वरीं गोक्षुरकं विदारीं स-कसेरुकाम् ।
तृणाख्यं पञ्च-मूलं च पाक्यं स-मधु-शर्करम् ॥ ६ ॥

वृषकं त्रपुसैर्वारु-लट्वा-बीजानि कुङ्कुमम् ।
द्राक्षाम्भोभिः पिबन् सर्वान् मूत्राघातान् अपोहति ॥ ७ ॥

एर्वारु-बीज-यष्ट्य्-आह्व-दार्वीर् वा तण्डुलाम्बुना ।
तोयेन कल्कं द्राक्षायाः पिबेत् पर्युषितेन वा ॥ ८ ॥

कफ-जे वमनं स्वेदं तीक्ष्णोष्ण-कटु-भोजनम् ।
यवानां विकृतीः क्षारं कालशेयं च शीलयेत् ॥ ९ ॥

पिबेन् मद्येन सूक्ष्मैलां धात्री-फल-रसेन वा ।
सारसास्थि-श्वदंष्ट्रैला-व्योषं वा मधु-मूत्र-वत् ॥ १० ॥

स्व-रसं कण्टकार्या वा पाययेन् माक्षिकान्वितम् ।
शितिवारक-बीजं वा तक्रेण श्लक्ष्ण-चूर्णितम् ॥ ११ ॥

धव-सप्ताह्व-कुटज-गुडूची-चतुरङ्गुलम् ।
केम्बुकैला-करञ्जं च पाक्यं स-मधु साधिताम् ॥ १२ ॥

११.१२cv कटुकैला-करञ्जं च तैर् वा पेयां प्रवालं वा चूर्णितं तण्डुलाम्बुना ।
स-तैलं पाटला-क्षारं सप्त-कृत्वो ऽथ-वा स्रुतम् ॥ १३ ॥

पाटली-याव-शूकाभ्यां पारिभद्रात् तिलाद् अपि ।
क्षारोदकेन मदिरां त्वग्-एलोषण-संयुताम् ॥ १४ ॥

पिबेद् गुडोपदंशान् वा लिह्याद् एतान् पृथक् पृथक् ।
संनिपातात्मके सर्वं यथावस्थम् इदं हितम् ॥ १५ ॥

अश्मन्य् अप्य् अ-चिरोत्थाने वात-वस्त्य्-आदिकेषु च ।
अश्मरी दारुणो व्याधिर् अन्तक-प्रतिमो मतः ॥ १६ ॥

११.१६bv वात-वस्त्य्-आदिकेष्व् अपि तरुणो भेषजैः साध्यः प्रवृद्धश् छेदम् अर्हति ।
तस्य पूर्वेषु रूपेषु स्नेहादि-क्रम इष्यते ॥ १७ ॥

पाषाणभेदो वसुको वशिरो ऽश्मन्तको वरी ।
कपोतवङ्कातिबला-भल्लूकोशीर-कच्छकम् ॥ १८ ॥

११.१८dv -भल्लूकोशीर-कन्तकम् वृक्षादनी शाक-फलं व्याघ्र्यौ गुण्ठस् त्रिकण्टकः ।
यवाः कुलत्थाः कोलानि वरुणः कतकात् फलम् ॥ १९ ॥

ऊषकादि-प्रतीवापम् एषां क्वाथे शृतं घृतम् ।
भिनत्ति वात-संभूतां तत् पीतं शीघ्रम् अश्मरीम् ॥ २० ॥

गन्धर्वहस्त-बृहती-व्याघ्री-गोक्षुरकेक्षुरात् ।
मूल-कल्कं पिबेद् दध्ना मधुरेणाश्म-भेदनम् ॥ २१ ॥

कुशः काशः शरो गुण्ठ इत्कटो मोरटो ऽश्मभित् ।
दर्भो विदारी वाराही शालि-मूलं त्रिकण्टकः ॥ २२ ॥

भल्लूकः पाटली पाठा पत्तूरः स-कुरण्टकः ।
पुनर्नवे शिरीषश् च तेषां क्वाथे पचेद् घृतम् ॥ २३ ॥

पिष्टेन त्रपुसादीनां बीजेनेन्दीवरेण च ।
मधुकेन शिला-जेन तत् पित्ताश्मरि-भेदनम् ॥ २४ ॥

वरुणादिः समीर-घ्नौ गणाव् एला हरेणुका ।
गुग्गुलुर् मरिचं कुष्ठं चित्रकः स-सुराह्वयः ॥ २५ ॥

तैः कल्कितैः कृताव् आपम् ऊषकादि-गणेन च ।
भिनत्ति कफ-जाम् आशु साधितं घृतम् अश्मरीम् ॥ २६ ॥

क्षार-क्षीर-यवाग्व्-आदि द्रव्यैः स्वैः स्वैश् च कल्पयेत् ।
पिचुकाङ्कोल्ल-कतक-शाकेन्दीवर-जैः फलैः ॥ २७ ॥

पीतम् उष्णाम्बु स-गुडं शर्करा-पातनं परम् ।
क्रौञ्चोष्ट्र-रासभास्थीनि श्वदंष्ट्रा तालपत्त्रिका ॥ २८ ॥

११.२८av पीतम् उष्णाम्बु स-घृतं अजमोदा कदम्बस्य मूलं विश्वस्य चौषधम् ।
पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा ॥ २९ ॥

११.२९bv मूलं बिल्वस्य चौषधम् नृत्यकुण्डक-बीजानां चूर्णं माक्षिक-संयुतम् ।
अवि-क्षीरेण सप्ताहं पीतम् अश्मरि-पातनः ॥ ३० ॥

११.३०av नृत्यकुण्डल-बीजानां ११.३०av मर्कटकस्य बीजानां क्वाथश् च शिग्रु-मूलोत्थः कद्-उष्णो ऽश्मरी-पातनः ।
तिलापामार्ग-कदली-पलाश-यव-संभवः ॥ ३१ ॥

क्षारः पेयो ऽवि-मूत्रेण शर्करास्व् अश्मरीषु च ।
कपोतवङ्का-मूलं वा पिबेद् एकं सुरादिभिः ॥ ३२ ॥

तत्-सिद्धं वा पिबेत् क्षीरं वेदनाभिर् उपद्रुतः ।
हरीतक्य्-अस्थि-सिद्धं वा साधितं वा पुनर्नवैः ॥ ३३ ॥

क्षीरान्न-भुग् बर्हि-शिखा-मूलं वा तण्डुलाम्बुना ।
मूत्राघातेषु विभजेद् अतः शेषेष्व् अपि क्रियाम् ॥ ३४ ॥

बृहत्य्-आदि-गणे सिद्धं द्वि-गुणी-कृत-गोक्षुरे ।
तोयं पयो वा सर्पिर् वा सर्व-मूत्र-विकार-जित् ॥ ३५ ॥

देवदारुं घनं मूर्वां यष्टीमधु हरीतकीम् ।
मूत्राघातेषु सर्वेषु सुरा-क्षीर-जलैः पिबेत् ॥ ३६ ॥

रसं वा धन्वयासस्य कषायं ककुभस्य वा ।
सुखाम्भसा वा त्रि-फलां पिष्टां सैन्धव-संयुताम् ॥ ३७ ॥

व्याघ्री-गोक्षुरक-क्वाथे यवागूं वा स-फाणिताम् ।
क्वाथे वीरतरादेर् वा ताम्र-चूड-रसे ऽपि वा ॥ ३८ ॥

अद्याद् वीरतराद्येन भावितं वा शिला-जतु ।
मद्यं वा निगदं पीत्वा रथेनाश्वेन वा व्रजेत् ॥ ३९ ॥

११.३९cv मद्यं वा निर्-गदं पीत्वा शीघ्र-वेगेन संक्षोभात् तथास्य च्यवते ऽश्मरी ।
सर्व-था चोपयोक्तव्यो वर्गो वीरतरादिकः ॥ ४० ॥

रेकार्थं तैल्वकं सर्पिर् वस्ति-कर्म च शीलयेत् ।
विशेषाद् उत्तरान् वस्तीञ् छुक्राश्मर्यां तु शोधिते ॥ ४१ ॥

११.४१dv छुक्राश्मर्यां च शोधिते तैर् मूत्र-मार्गे बल-वान् शुक्राशय-विशुद्धये ।
पुमान् सु-तृप्तो वृष्याणां मांसानां कुक्कुटस्य च ॥ ४२ ॥

कामं स-कामः सेवेत प्रमदा मद-दायिनीः ।
सिद्धैर् उपक्रमैर् एभिर् न चेच् छान्तिस् तदा भिषक् ॥ ४३ ॥

११.४३dv न चेच् छान्तिस् ततो भिषक् इति राजानम् आपृच्छ्य शस्त्रं साध्व् अवचारयेत् ।
अ-क्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ॥ ४४ ॥

निश्चितस्यापि वैद्यस्य बहु-शः सिद्ध-कर्मणः ।
अथातुरम् उपस्निग्ध-शुद्धम् ईषच् च कर्शितम् ॥ ४५ ॥

११.४५cv अथातुरम् उपस्निग्धं ११.४५dv -शुद्धम् ईषच् च कर्षितम् ११.४५dv शुद्धम् ईषच् च कर्शितम् अभ्यक्त-स्विन्न-वपुषम् अ-भुक्तं कृत-मङ्गलम् ।
आ-जानु-फलक-स्थस्य नरस्याङ्के व्यपाश्रितम् ॥ ४६ ॥

पूर्वेण कायेनोत्तानं निषण्णं वस्त्र-चुम्भले ।
ततो ऽस्याकुञ्चिते जानु-कूर्परे वाससा दृढम् ॥ ४७ ॥

सहाश्रय-मनुष्येण बद्धस्याश्वासितस्य च ।
नाभेः समन्ताद् अभ्यज्याद् अधस् तस्याश् च वामतः ॥ ४८ ॥

मृदित्वा मुष्टिनाक्रामेद् यावद् अश्मर्य् अधो-गता ।
तैलाक्ते वर्धित-नखे तर्जनी-मध्यमे ततः ॥ ४९ ॥

अ-दक्षिणे गुदे ऽङ्गुल्यौ प्रणिधायानु-सेवनि ।
आसाद्य बल-यत्नाभ्याम् अश्मरीं गुद-मेढ्रयोः ॥ ५० ॥

११.५०bv प्रणिधायानु-सेवनीम् कृत्वान्तरे तथा वस्तिं निर्-वलीकम् अन्-आयतम् ।
उत्पीडयेद् अङ्गुलीभ्यां यावद् ग्रन्थिर् इवोन्नतम् ॥ ५१ ॥

शल्यं स्यात् सेवनीं मुक्त्वा यव-मात्रेण पाटयेत् ।
अश्म-मानेन न यथा भिद्यते सा तथाहरेत् ॥ ५२ ॥

समग्रं सर्प-वक्त्रेण स्त्रीणां वस्तिस् तु पार्श्व-गः ।
गर्भाशयाश्रयस् तासां शस्त्रम् उत्सङ्ग-वत् ततः ॥ ५३ ॥

न्यसेद् अतो ऽन्य-था ह्य् आसां मूत्र-स्रावी व्रणो भवेत् ।
मूत्र-प्रसेक-क्षणनान् नरस्याप्य् अपि चैक-धा ॥ ५४ ॥

वस्ति-भेदो ऽश्मरी-हेतुः सिद्धिं याति न तु द्वि-धा ।
वि-शल्यम् उष्ण-पानीय-द्रोण्यां तम् अवगाहयेत् ॥ ५५ ॥

तथा न पूर्यते ऽस्रेण वस्तिः पूर्णे तु पीडयेत् ।
मेढ्रान्तः क्षीरि-वृक्षाम्बु मूत्र-संशुद्धये ततः ॥ ५६ ॥

११.५६cv मेढ्रतः क्षीरि-वृक्षाम्बु ११.५६cv मेढ्रे ऽन्तः क्षीरि-वृक्षाम्बु कुर्याद् गुडस्य सौहित्यं मध्व्-आज्याक्त-व्रणः पिबेत् ।
द्वौ कालौ स-घृतां कोष्णां यवागूं मूत्र-शोधनैः ॥ ५७ ॥

त्र्य्-अहं दशाहं पयसा गुडाढ्येनाल्पम् ओदनम् ।
भुञ्जीतोर्ध्वं फलाम्लैश् च रसैर् जाङ्गल-चारिणाम् ॥ ५८ ॥

क्षीरि-वृक्ष-कषायेण व्रणं प्रक्षाल्य लेपयेत् ।
प्रपौण्डरीक-मञ्जिष्ठा-यष्ट्य्-आह्व-नयनौषधैः ॥ ५९ ॥

व्रणाभ्यङ्गे पचेत् तैलम् एभिर् एव निशान्वितैः ।
दशाहं स्वेदयेच् चैनं स्व-मार्गं सप्त-रात्रतः ॥ ६० ॥

११.६०cv दशाहं स्वेदयेच् चैव ११.६०cv दशाहं स्वेदयेच् चैवं मूत्रे त्व् अ-गच्छति दहेद् अश्मरी-व्रणम् अग्निना ।
स्व-मार्ग-प्रतिपत्तौ तु स्वादु-प्रायैर् उपाचरेत् ॥ ६१ ॥

तं वस्तिभिर् न चारोहेद् वर्षं रूढ-व्रणो ऽपि सः ।
नग-नागाश्व-वृक्ष-स्त्री-रथान् नाप्सु प्लवेत च ॥ ६२ ॥

मूत्र-शुक्र-वहौ वस्ति-वृषणौ सेवनीं गुदम् ।
मूत्र-प्रसेकं योनिं च शस्त्रेणाष्टौ विवर्जयेत् ॥ ६३ ॥



अध्याय 12[सम्पाद्यताम्]
मेहिनो बलिनः कुर्याद् आदौ वमन-रेचने ।
स्निग्धस्य सर्षपारिष्ट-निकुम्भाक्ष-करञ्ज-जैः ॥ १ ॥

तैलस् त्रिकण्टकाद्येन यथा-स्वं साधितेन वा ।
स्नेहेन मुस्त-देवाह्व-नागर-प्रतिवाप-वत् ॥ २ ॥

सुरसादि-कषायेण दद्याद् आस्थापनं ततः ।
न्यग्रोधादेस् तु पित्तार्तं रसैः शुद्धं च तर्पयेत् ॥ ३ ॥

१२.३cv न्यग्रोधादेस् तु पित्तार्ते मूत्र-ग्रह-रुजा-गुल्म-क्षयाद्यास् त्व् अपतर्पणात् ।
ततो ऽनुबन्ध-रक्षार्थं शमनानि प्रयोजयेत् ॥ ४ ॥

अ-संशोध्यस्य तान्य् एव सर्व-मेहेषु पाययेत् ।
धात्री-रस-प्लुतां प्राह्णे हरिद्रां माक्षिकान्विताम् ॥ ५ ॥

दार्वी-सुराह्व-त्रि-फला-मुस्ता वा क्वथिता जले ।
चित्रक-त्रि-फला-दार्वी-कलिङ्गान् वा स-माक्षिकान् ॥ ६ ॥

मधु-युक्तं गुडूच्या वा रसम् आमलकस्य वा ॥ ७अब् ॥
लोध्राभया-तोयद-कट्फलानां पाठा-विडङ्गार्जुन-धन्वनानाम् ॥ ७च्द् ॥
गायत्रि-दार्वी-कृमिहृद्-धवानां कफे त्रयः क्षौद्र-युताः कषायाः ॥ ७एf ॥
उशीर-लोध्रार्जुन-चन्दनानां पटोल-निम्बामलकामृतानाम् ।
लोध्राम्बु-कालीयक-धातकीनां पित्ते त्रयः क्षौद्र-युताः कषायाः ॥ ८ ॥

यथा-स्वम् एभिः पानान्नं यव-गोधूम-भावनाः ॥ ९अब् ॥
१२.९bv यव-गोधूम-भावनाम् १२.९bv यव-गोधूम-भावनम् वातोल्बणेषु स्नेहांश् च प्रमेहेषु प्रकल्पयेत् ।
अपूप-सक्तु-वाट्यादिर् यवानां विकृतिर् हिता ॥ १० ॥

गजाश्व-गुद-मुक्तानाम् अथ-वा वेणु-जन्मनाम् ।
तृण-धान्यानि मुद्गाद्याः शालिर् जीर्णः स-षष्टिकः ॥ ११ ॥

श्री-कुक्कुटो ऽम्लः खलकस् तिल-सर्षप-किट्ट-जः ।
कपित्थं तिन्दुकं जम्बूस् तत्-कृता राग-षाडवाः ॥ १२ ॥

तिक्तं शाकं मधु श्रेष्ठा भक्ष्याः शुष्काः स-सक्तवः ।
धन्व-मांसानि शूल्यानि परिशुष्काण्य् अयस्-कृतिः ॥ १३ ॥

मध्व्-अरिष्टासवा जीर्णाः सीधुः पक्व-रसोद्भवः ।
तथासनादि-साराम्बु दर्भाम्भो माक्षिकोदकम् ॥ १४ ॥

वासितेषु वरा-क्वाथे शर्वरीं शोषितेष्व् अहः ।
यवेषु सु-कृतान् सक्तून् स-क्षौद्रान् सीधुना पिबेत् ॥ १५ ॥

शाल-सप्ताह्व-कम्पिल्ल-वृक्षकाक्ष-कपित्थ-जम् ।
रोहीतकं च कुसुमं मधुनाद्यात् सु-चूर्णितम् ॥ १६ ॥

कफ-पित्त-प्रमेहेषु पिबेद् धात्री-रसेन वा ।
त्रिकण्टक-निशा-लोध्र-सोमवल्क-वचार्जुनैः ॥ १७ ॥

पद्मकाश्मन्तकारिष्ट-चन्दनागुरु-दीप्यकैः ।
पटोल-मुस्त-मञ्जिष्ठा-माद्री-भल्लातकैः पचेत् ॥ १८ ॥

तैलं वात-कफे पित्ते घृतं मिश्रेषु मिश्रकम् ।
दश-मूल-शठी-दन्ती-सुराह्वं द्वि-पुनर्नवम् ॥ १९ ॥

मूलं स्नुग्-अर्कयोः पथ्यां भूकदम्बम् अरुष्करम् ।
करञ्जौ वरुणान् मूलं पिप्पल्याः पौष्करं च यत् ॥ २० ॥

१२.२०cv करञ्ज-वरुणान् मूलं पृथग् दश-पलं प्रस्थान् यव-कोल-कुलत्थतः ।
त्रींश् चाष्ट-गुणिते तोये विपचेत् पाद-वर्तिना ॥ २१ ॥

तेन द्वि-पिप्पली-चव्य-वचा-निचुल-रोहिषैः ।
त्रिवृद्-विडङ्ग-कम्पिल्ल-भार्गी-विश्वैश् च साधयेत् ॥ २२ ॥

१२.२२dv -भार्गी-बिल्वैश् च साधयेत् प्रस्थं घृताज् जयेत् सर्वांस् तन् मेहान् पिटिका विषम् ।
पाण्डु-विद्रधि-गुल्मार्शः-शोष-शोफ-गरोदरम् ॥ २३ ॥

श्वासं कासं वमिं वृद्धिं प्लीहानं वात-शोणितम् ।
कुष्ठोन्मादाव् अपस्मारं धान्वन्तरम् इदं घृतम् ॥ २४ ॥

लोध्र-मूर्वा-शठी-वेल्ल-भार्गी-नत-नख-प्लवान् ।
कलिङ्ग-कुष्ठ-क्रमुक-प्रियङ्ग्व्-अतिविषाग्निकान् ॥ २५ ॥

द्वे विशाले चतुर्-जातं भूनिम्बं कटु-रोहिणीम् ।
यवानीं पौष्करं पाठां ग्रन्थिं चव्यं फल-त्रयम् ॥ २६ ॥

कर्षांशम् अम्बु-कलशे पाद-शेषे स्रुते हिमे ।
द्वौ प्रस्थौ माक्षिकात् क्षिप्त्वा रक्षेत् पक्षम् उपेक्षया ॥ २७ ॥

लोध्रासवो ऽयं मेहार्शः-श्वित्र-कुष्ठा-रुचि-कृमीन् ।
पाण्डु-त्वं ग्रहणी-दोषं स्थूल-तां च नियच्छति ॥ २८ ॥

साधयेद् असनादीनां पलानां विंशतिं पृथक् ।
द्वि-वहे ऽपां क्षिपेत् तत्र पाद-स्थे द्वे शते गुडात् ॥ २९ ॥

क्षौद्राढकार्धं पलिकं वत्सकादिं च कल्कितम् ।
तत् क्षौद्र-पिप्पली-चूर्ण-प्रदिग्धे घृत-भाजने ॥ ३० ॥

१२.३०bv वत्सकादि च कल्कितम् स्थितं दृढे जतु-सृते यव-राशौ निधापयेत् ।
खदिराङ्गार-तप्तानि बहु-शो ऽत्र निमज्जयेत् ॥ ३१ ॥

तनूनि तीक्ष्ण-लोहस्य पत्त्राण्य् आ-लोह-संक्षयात् ।
अयस्-कृतिः स्थिता पीता पूर्वस्माद् अधिका गुणैः ॥ ३२ ॥

रूक्षम् उद्वर्तनं गाढं व्यायामो निशि जागरः ।
यच् चान्यच् छ्लेष्म-मेदो-घ्नं बहिर् अन्तश् च तद् धितम् ॥ ३३ ॥

सु-भावितां सार-जलैस् तुलां पीत्वा शिलोद्भवात् ।
साराम्बुनैव भुञ्जानः शालीञ् जाङ्गल-जै रसैः ॥ ३४ ॥

१२.३४dv शालिं जाङ्गल-जै रसैः सर्वान् अभिभवेन् मेहान् सु-बहूपद्रवान् अपि ।
गण्ड-मालार्बुद-ग्रन्थि-स्थौल्य-कुष्ठ-भगन्दरान् ॥ ३५ ॥

कृमि-श्लीपद-शोफांश् च परं चैतद् रसायनम् ।
अ-धनश् छत्त्र-पाद-त्र-रहितो मुनि-वर्तनः ॥ ३६ ॥

चन्दनम् उत्पलं द्राक्षा उशीरं च पुनर्नवा ।
यष्टीमधुक-श्रीखण्डं त्रि-फलोत्पल-शारिवा ॥ ३६.१+१ ॥

शमी वंश-फलं लोध्रं त्रि-जातं नागकेसरम् ।
पद्मकं च कणा-चूर्णं तत्-तुल्या शर्करा शुभा ॥ ३६.१+२ ॥

एतच् चूर्णं पिबेत् प्रातस् तण्डुलोदक-वारिणा ।
प्रमेहे रक्त-पित्ते च कृच्छ्र-दोषे च दारुणे ॥ ३६.१+३ ॥

योजनानां शतं यायात् खनेद् वा सलिलाशयान् ।
गो-शकृन्-मूत्र-वृत्तिर् वा गोभिर् एव सह भ्रमेत् ॥ ३७ ॥

बृंहयेद् औषधाहारैर् अ-मेदो-मूत्रलैः कृशम् ।
शराविकाद्याः पिटिकाः शोफ-वत् समुपाचरेत् ॥ ३८ ॥

अ-पक्वा व्रण-वत् पक्वास् तासां प्राग्-रूपम् एव च ।
क्षीरि-वृक्षाम्बु पानाय बस्त-मूत्रं च शस्यते ॥ ३९ ॥

तीक्ष्णं च शोधनं प्रायो दुर्-विरेच्या हि मेहिनः ।
तैलम् एलादिना कुर्याद् गणेन व्रण-रोपणम् ॥ ४० ॥

उद्वर्तने कषायं तु वर्गेणारग्वधादिना ।
परिषेको ऽसनाद्येन पानान्ने वत्सकादिना ॥ ४१ ॥

१२.४१cv परिषेके ऽसनाद्येन पाठा-चित्रक-शार्ङ्गष्टा-शारिवा-कण्टकारिकाः ।
सप्ताह्वं कौटजं मूलं सोमवल्कं नृपद्रुमम् ॥ ४२ ॥

संचूर्ण्य मधुना लिह्यात् तद्-वच् चूर्णं नवायसम् ।
मधु-मेहि-त्वम् आपन्नो भिषग्भिः परिवर्जितः ॥ ४३ ॥

शिला-जतु-तुलाम् अद्यात् प्रमेहार्तः पुनर्-नवः ॥ ४३ऊ̆अब् ॥

अध्याय 13[सम्पाद्यताम्]
विद्रधिं सर्वम् एवामं शोफ-वत् समुपाचरेत् ।
प्रततं च हरेद् रक्तं पक्वे तु व्रण-वत् क्रिया ॥ १ ॥

पञ्च-मूल-जलैर् धौतं वातिकं लवणोत्तरैः ।
भद्रादि-वर्ग-यष्ट्य्-आह्व-तिलैर् आलेपयेद् व्रणम् ॥ २ ॥

वैरेचनिक-युक्तेन त्रैवृतेन विशोध्य च ।
विदारी-वर्ग-सिद्धेन त्रैवृतेनैव रोपयेत् ॥ ३ ॥

क्षालितं क्षीरि-तोयेन लिम्पेद् यष्ट्य्-अमृता-तिलैः ।
पैत्तं घृतेन सिद्धेन मञ्जिष्ठोशीर-पद्मकैः ॥ ४ ॥

पयस्या-द्वि-निशा-श्रेष्ठा-यष्टी-दुग्धैश् च रोपयेत् ।
न्यग्रोधादि-प्रवाल-त्वक्-फलैर् वा कफ-जं पुनः ॥ ५ ॥

आरग्वधादिना धौतं सक्तु-कुम्भ-निशा-तिलैः ।
लिम्पेत् कुलत्थिका-दन्ती -त्रिवृच्-छ्यामाग्नि-तिल्वकैः ॥ ६ ॥

१३.६av आरग्वधाम्बुना धौतं स-सैन्धवैः स-गो-मूत्रैस् तैलं कुर्वीत रोपणम् ।
रक्तागन्तूद्भवे कार्या पित्त-विद्रधि-वत् क्रिया ॥ ७ ॥

वरुणादि-गण-क्वाथम् अ-पक्वे ऽभ्यन्तरोत्थिते ।
ऊषकादि-प्रतीवापं पूर्वाह्णे विद्रधौ पिबेत् ॥ ८ ॥

१३.८bv अ-पक्वे ऽभ्यन्तर-स्थिते घृतं विरेचन-द्रव्यैः सिद्धं ताभ्यां च पाययेत् ।
निरूहं स्नेह-वस्तिं च ताभ्याम् एव प्रकल्पयेत् ॥ ९ ॥

पान-भोजन-लेपेषु मधु-शिग्रुः प्रयोजितः ।
दत्तावापो यथा-दोषम् अ-पक्वं हन्ति विद्रधिम् ॥ १० ॥

त्रायन्ती-त्रि-फला-निम्ब-कटुका-मधुकं समम् ।
त्रिवृत्-पटोल-मूलाभ्यां चत्वारो ऽंशाः पृथक् पृथक् ॥ ११ ॥

मसूरान् निस्-तुषाद् अष्टौ तत्-क्वाथः स-घृतो जयेत् ।
विद्रधि-गुल्म-वीसर्प-दाह-मोह-मद-ज्वरान् ॥ १२ ॥

तृण्-मूर्छा-छर्दि-हृद्-रोग-पित्तासृक्-कुष्ठ-कामलाः ।
कुडवं त्रायमाणायाः साध्यम् अष्ट-गुणे ऽम्भसि ॥ १३ ॥

कुडवं तद्-रसाद् धात्री-स्व-रसात् क्षीरतो घृतात् ।
कर्षांशं कल्कितं तिक्ता-त्रायन्ती-धन्वयासकम् ॥ १४ ॥

मुस्ता-तामलकी-वीरा-जीवन्ती-चन्दनोत्पलम् ।
पचेद् एक-त्र संयोज्य तद् घृतं पूर्व-वद् गुणैः ॥ १५ ॥

द्राक्षा मधूकं खर्जूरं विदारी स-शतावरी ।
परूषकाणि त्रि-फला तत्-क्वाथे पाचयेद् घृतम् ॥ १६ ॥

क्षीरेक्षु-धात्री-निर्यास-प्राणदा-कल्क-संयुतम् ।
तच् छीतं शर्करा-क्षौद्र-पादिकं पूर्व-वद् गुणैः ॥ १७ ॥

१३.१७av क्षीरेक्षु-धात्री-निर्यासे १३.१७bv प्राणदा-कल्क-संयुतम् हरेच् छृङ्गादिभिर् असृक् सिरया वा यथान्तिकम् ।
विद्रधिं पच्यमानं च कोष्ठ-स्थं बहिर्-उन्नतम् ॥ १८ ॥

ज्ञात्वोपनाहयेत् शूले स्थिते तत्रैव पिण्डिते ।
तत्-पार्श्व-पीडनात् सुप्तौ दाहादिष्व् अल्पकेषु च ॥ १९ ॥

पक्वः स्याद् विद्रधिं भित्त्वा व्रण-वत् तम् उपाचरेत् ।
अन्तर्-भागस्य चाप्य् एतच् चिह्नं पक्वस्य विद्रदेः ॥ २० ॥

पक्वः स्रोतांसि संपूर्य स यात्य् ऊर्ध्वम् अधो ऽथ-वा ।
स्वयम्-प्रवृत्तं तं दोषम् उपेक्षेत हिताशिनः ॥ २१ ॥

१३.२१bv स यात्य् ऊर्ध्वम् अधो ऽपि वा दशाहं द्वा-दशाहं वा रक्षन् भिषग् उपद्रवात् ।
अ-सम्यग् वहति क्लेदे वरुणादिं सुखाम्भसा ॥ २२ ॥

१३.२२bv रक्षेद् भिषग् उपद्रवात् पाययेन् मधु-शिग्रुं वा यवागूं तेन वा कृताम् ।
यव-कोल-कुलत्थोत्थ-यूषैर् अन्नं च शस्यते ॥ २३ ॥

ऊर्ध्वं दशाहात् त्रायन्ती-सर्पिषा तैल्वकेन वा ।
शोधयेद् बलतः शुद्धः स-क्षौद्रं तिक्तकं पिबेत् ॥ २४ ॥

सर्व-शो गुल्म-वच् चैनं यथा-दोषम् उपाचरेत् ।
सर्वावस्थासु सर्वासु गुग्गुलुं विद्रधीषु च ॥ २५ ॥

१३.२५cv सर्वावस्थासु सर्वेषु कषायैर् यौगिकैर् युञ्ज्यात् स्वैः स्वैस् तद्-वच् छिला-जतु ।
पाकं च वारयेद् यत्नात् सिद्धिः पक्वे हि दैविकी ॥ २६ ॥

अपि चाशु विदाहि-त्वाद् विद्रधिः सो ऽभिधीयते ।
सति चालोचयेन् मेहे प्रमेहाणां चिकित्सितम् ॥ २७ ॥

शौभाञ्जनक-निर्यूहो हिङ्गु-सैन्धव-संयुतः ।
अ-चिराद् विद्रधिं हन्ति प्रातः प्रातर् निषेवितः ॥ २७+१ ॥

कटु-त्रिकं तिक्तक-रोहिणी घनं किराततिक्तो ऽथ शतक्रतोर् यवाः ।
स-सप्तपर्णातिविषा दुरालभा पटोल-मूलं सह त्रायमाणया ॥ २७+२ ॥

गुडूची-चव्यं स-विडङ्ग-निम्बं प्रियङ्गु-नीलोत्पल-लोध्रम् अञ्जनम् ।
स-धातकी-मोच-रसं फल-त्रिकं स-नागरं बिल्व-कपित्थ-शारिवाः ॥ २७+३ ॥

समाः स्युर् एते द्वि-गुणं तु चित्रकं द्विर् अष्ट-भागं कुटज-त्वचं स्यात् ।
सु-सूक्ष्म-पिष्टं शिशिराम्बु-योजितं पिबेन् मनुष्यो ऽर्ध-पलं गुडान्वितम् ॥ २७+४ ॥

बुभुक्षिते स्यान् मृदु भोजनं हितं शशैः स-लावैर् अथ-वा ऽपि तित्तिरैः ।
निहन्ति गुल्मान् कफ-पित्त-संभवान् विराजते शारद-पूर्ण-चन्द्र-वत् ॥ २७+५ ॥

अ-जीर्ण-कासं क्षय-पाण्डु-ते तथा ज्वरातिसार-ग्रहणी-गदापचीः ।
प्रमेह-मूत्र-क्षय-वर्ध्म-विद्रधीञ् जयेत् प्रयुक्तः स-गुडः कटु-त्रिकः ॥ २७+६ ॥
भूनिम्बार्ध-पलं निशा-पल-युक्तं दार्वी-पले द्वे तथा ॥ २७+७अ ॥
दार्व्य्-अर्धेन पुनर्नवां कुरु तथा दार्व्या समः प्रग्रहः ॥ २७+७ब् ॥
सार्धं दुःस्पर्शतः पलं तु कटुका योज्या तद्-अर्धेन वा ॥ २७+७च् ॥
अश्वाह्वं निशया समानम् अमृता-पादाधिकं स्यात् पलम् ॥ २७+७द् ॥
एतद् वत्सक-सप्त-कर्ष-सहितं सु-श्लक्ष्ण-चूर्णी-कृतं ॥ २७+८अ ॥
वासायाः स्व-रसेन पञ्च चतुरस् त्रीन् वा पिबेद् वासरान् ॥ २७+८ब् ॥
भूयस् तद् गुड-वारिणा प्रति-दिनं पेयं पुरः-स्थे रवौ ॥ २७+८च् ॥
एतद् विद्रधि-रोगिणां नि-रुज-कृच् चूर्णं तु गुह्योत्तमम् ॥ २७+८द् ॥
ना-पुत्राय न चा-भ्रात्रे ना-शिष्याया-हितैषिणे ।
आरोग्य-शास्त्र-सर्व-स्वं देयम् एतत् कथञ्-च-न ॥ २७+९ ॥

स्तन-जे व्रण-वत् सर्वं न त्व् एनम् उपनाहयेत् ।
पाटयेत् पालयन् स्तन्य-वाहिनीः कृष्ण-चूचुकौ ॥ २८ ॥

सर्वास्व् आमाद्य्-अवस्थासु निर्दुहीत च तत् स्तनम् ।
शोधयेत् त्रि-वृता स्निग्धं वृद्धौ स्नेहैश् चलात्मके ॥ २९ ॥

कौशाम्र-तिल्वकैरण्ड-सु-कुमारक-मिश्रकैः ।
ततो ऽनिल-घ्न-निर्यूह-कल्क-स्नेहैर् निरूहयेत् ॥ ३० ॥

रसेन भोजितं यष्टी-तैलेनान्वासयेद् अनु ।
स्वेद-प्रलेपा वात-घ्नाः पक्वे भित्त्वा व्रण-क्रियाम् ॥ ३१ ॥

पित्त-रक्तोद्भवे वृद्धाव् आम-पक्वे यथा-यथम् ।
शोफ-व्रण-क्रियां कुर्यात् प्रततं च हरेद् असृक् ॥ ३२ ॥

गो-मूत्रेण पिबेत् कल्कं श्लैष्मिके पीतदारु-जम् ।
विम्लापनाद् ऋते चास्य श्लेष्म-ग्रन्थि-क्रमो हितः ॥ ३३ ॥

१३.३३cv विम्लापनाद् ऋते चात्र पक्वे च पाटिते तैलम् इष्यते व्रण-शोधनम् ।
सुमनो-ऽरुष्कराङ्कोल्ल-सप्तपर्णेषु साधितम् ॥ ३४ ॥

पटोल-निम्ब-रजनी-विडङ्ग-कुटजेषु च ।
मेदो-जं मूत्र-पिष्टेन सु-स्विन्नं सुरसादिना ॥ ३५ ॥

शिरो-विरेक-द्रव्यैर् वा वर्जयन् फल-सेवनीम् ।
दारयेद् वृद्धि-पत्त्रेण सम्यङ् मेदसि सूद्धृते ॥ ३६ ॥

१३.३६dv सम्यङ् मेदसि चोद्धृते व्रणं माक्षिक-कासीस-सैन्धव-प्रतिसारितम् ।
सीव्येद् अभ्यञ्जनं चास्य योज्यं मेदो-विशुद्धये ॥ ३७ ॥

मनःशिलैला-सुमनो-ग्रन्थि-भल्लातकैः कृतम् ।
तैलम् आ-व्रण-संधानात् स्नेह-स्वेदौ च शीलयेत् ॥ ३८ ॥

मूत्र-जं स्वेदितं स्निग्धैर् वस्त्र-पट्टेन वेष्टितम् ।
विध्येद् अधस्-तात् सेवन्याः स्रावयेच् च यथोदरम् ॥ ३९ ॥

व्रणं च स्थगिका-बद्धं रोपयेद् अन्त्र-हेतुके ।
फल-कोशम् अ-संप्राप्ते चिकित्सा वात-वृद्धि-वत् ॥ ४० ॥

पचेत् पुनर्नव-तुलां तथा दश-पलाः पृथक् ।
दश-मूल-पयस्याश्वगन्धैरण्ड-शतावरीः ॥ ४१ ॥

द्वि-दर्भ-शर-काशेक्षु-मूल-पोटगलान्विताः ।
वहे ऽपाम् अष्ट-भाग-स्थे तत्र त्रिंशत्-पलं गुडात् ॥ ४२ ॥

प्रस्थम् एरण्ड-तैलस्य द्वौ घृतात् पयसस् तथा ।
आवपेद् द्वि-पलांशं च कृष्णा-तन्-मूल-सैन्धवम् ॥ ४३ ॥

यष्टीमधुक-मृद्वीका-यवानी-नागराणि च ।
तत्-सिद्धं सु-कुमाराख्यं सु-कुमारं रसायनम् ॥ ४४ ॥

वातातपाध्व-यानादि-परिहार्येष्व् अ-यन्त्रणम् ।
प्रयोज्यं सु-कुमाराणाम् ईश्वराणाम् सुखात्मनाम् ॥ ४५ ॥

नृणां स्त्री-वृन्द-भर्तॄणाम् अ-लक्ष्मी-कलि-नाशनम् ।
सर्व-कालोपयोगेन कान्ति-लावण्य-पुष्टि-दम् ॥ ४६ ॥

वर्ध्म-विद्रधि-गुल्मार्शो-योनि-मेढ्रानिलार्तिषु ।
शोफोदर-खुड-प्लीह-विड्-विबन्धेषु चोत्तमम् ॥ ४७ ॥

रास्ना-यष्ट्य्-अमृतैरण्ड-बला-गोक्षुर-साधितः ।
क्वाथो ऽन्त्र-वृद्धिं हन्त्य् आशु रुबु-तैलेन मिश्रितः ॥ ४७+१ ॥

यायाद् वर्ध्म न चेच् छान्तिं स्नेह-रेकानुवासनैः ।
वस्ति-कर्म पुरः कृत्वा वङ्क्षण-स्थं ततो दहेत् ॥ ४८ ॥

अग्निना मार्ग-रोधार्थं मरुतो ऽर्धेन्दु-वक्रया ।
अङ्गुष्ठस्योपरि स्नाव पीतं तन्तु-समं च यत् ॥ ४९ ॥

उत्क्षिप्य सूच्या तत् तिर्यग् दहेच् छित्त्वा यतो गदः ।
ततो ऽन्य-पार्श्वे ऽन्ये त्व् आहुर् दहेद् वानामिकाङ्गुलेः ॥ ५० ॥

गुल्मे ऽन्यैर् वात-कफ-जे प्लीह्नि चायं विधिः स्मृतः ।
कनिष्ठिकानामिकयोर् विश्वाच्यां च यतो गदः ॥ ५१ ॥

मूलं बिल्व-कपित्थयोः अरलुकस्याग्नेर् बृहत्योर् द्वयोः ॥ ५१+१अ ॥
श्यामा-पूति-करञ्ज-शिग्रुक-तरोर् विश्वौषधारुष्करम् ॥ ५१+१ब् ॥
कृष्णा-ग्रन्थिक-वेल्ल-पञ्च-लवण-क्षाराजमोदान्वितं ॥ ५१+१च् ॥
पीतं काञ्जिक-तोय-...-मथितैश् चूर्णी-कृतं वर्ध्म-जित् ॥ ५१+१द् ॥
अजाजी-कुष्ठ-गोमेद-हपुषा-बदराणि च ।
आरनालेन लेपः स्याद् वर्ध्म-जित् परम् औषधम् ॥ ५१+२ ॥

अवि-क्षीरेण गोधूम-चूर्णं कन्दुरुकस्य च ।
प्रलेपनं सुखोष्णं स्याद् वर्ध्म-जित् परम् औषधम् ॥ ५१+३ ॥

मृत-मात्रे तु वै काके विशस्तेन प्रलेपयेत् ।
मुहूर्तं वर्ध्म मेधावी तत्-क्षणाद् अ-रुजो भवेत् ॥ ५१+४ ॥



अध्याय 14[सम्पाद्यताम्]
गुल्मं बद्ध-शकृद्-वातं वातिकं तीव्र-वेदनम् ।
रूक्ष-शीतोद्भवं तैलैः साधयेद् वात-रोगिकैः ॥ १ ॥

पानान्नान्वासनाभ्यङ्गैः स्निग्धस्य स्वेदम् आचरेत् ।
आनाह-वेदना-स्तम्भ-विबन्धेषु विशेषतः ॥ २ ॥

स्रोतसां मार्दवं कृत्वा जित्वा मारुतम् उल्बणम् ।
भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्मम् अपोहति ॥ ३ ॥

स्नेह-पानं हितं गुल्मे विशेषेणोर्ध्व-नाभि-जे ।
पक्वाशय-गते वस्तिर् उभयं जठराश्रये ॥ ४ ॥

दीप्ते ऽग्नौ वातिके गुल्मे विबन्धे ऽनिल-वर्चसोः ।
बृंहणान्य् अन्न-पानानि स्निग्धोष्णानि प्रदापयेत् ॥ ५ ॥

पुनः पुनः स्नेह-पानं निरूहाः सानुवासनाः ।
प्रयोज्या वात-जे गुल्मे कफ-पित्तानुरक्षिणः ॥ ६ ॥

१४.६dv कफ-पित्तानुरक्षिणा वस्ति-कर्म परं विद्याद् गुल्म-घ्नं तद् धि मारुतम् ।
स्व-स्थाने प्रथमं जित्वा सद्यो गुल्मम् अपोहति ॥ ७ ॥

तस्माद् अभीक्ष्ण-शो गुल्मा निरूहैः सानुवासनैः ।
प्रयुज्यमानैः शाम्यन्ति वात-पित्त-कफात्मकाः ॥ ८ ॥

हिङ्गु-सौवर्चल-व्योष-विड-दाडिम-दीप्यकैः ।
पुष्कराजाजी-धान्याम्ल-वेतस-क्षार-चित्रकैः ॥ ९ ॥

शठी-वचाजगन्धैला-सुरसैर् दधि-संयुतैः ।
शूलानाह-हरं सर्पिः साधयेद् वात-गुल्मिनाम् ॥ १० ॥

हपुषोषण-पृथ्वीका-पञ्च-कोलक-दीप्यकैः ।
साजाजी-सैन्धवैर् दध्ना दुग्धेन च रसेन च ॥ ११ ॥

दाडिमान् मूलकात् कोलात् पचेत् सर्पिर् निहन्ति तत् ।
वात-गुल्मोदरानाह-पार्श्व-हृत्-कोष्ठ-वेदनाः ॥ १२ ॥

योन्य्-अर्शो-ग्रहणी-दोष-कास-श्वासा-रुचि-ज्वरान् ।
दश-मूलं बलां कालां सुषवीं द्वौ पुनर्नवौ ॥ १३ ॥

१४.१३cv दश-मूलं बलां कालीं पौष्करैरण्ड-रास्नाश्वगन्धा-भार्ग्य्-अमृता-शठीः ।
पचेद् गन्ध-पलाशं च द्रोणे ऽपां द्वि-पलोन्मितम् ॥ १४ ॥

यवैः कोलैः कुलत्थैश् च माषैश् च प्रास्थिकैः सह ।
क्वाथे ऽस्मिन् दधि-पात्रे च घृत-प्रस्थं विपाचयेत् ॥ १५ ॥

स्व-रसैर् दाडिमाम्रात-मातुलुङ्गोद्भवैर् युतम् ।
तथा तुषाम्बु-धान्याम्ल-शुक्तैः श्लक्ष्णैश् च कल्कितैः ॥ १६ ॥

भार्गी-तुम्बुरु-षड्ग्रन्था-ग्रन्थि-रास्नाग्नि-धान्यकैः ।
यवानक-यवान्य्-अम्ल-वेतसासित-जीरकैः ॥ १७ ॥

अजाजी-हिङ्गु-हपुषा-कारवी-वृषकोषकैः ।
निकुम्भ-कुम्भ-मूर्वेभ-पिप्पली-वेल्ल-दाडिमैः ॥ १८ ॥

श्वदंष्ट्रा-त्रपुसैर्वारु-बीज-हिंस्राश्मभेदकैः ।
मिशि-द्वि-क्षार-सुरस-शारिवा-नीलिनी-फलैः ॥ १९ ॥

त्रि-कटु-त्रि-पटूपेतैर् दाधिकं तद् व्यपोहति ।
रोगान् आशु-तरान् पूर्वान् कष्टान् अपि च शीलितम् ॥ २० ॥

अपस्मार-गदोन्माद-मूत्राघातानिलामयान् ।
त्र्य्-ऊषण-त्रि-फला-धान्य-चविका-वेल्ल-चित्रकैः ॥ २१ ॥

१४.२१av अपस्मार-गरोन्माद- कल्की-कृतैर् घृतं पक्वं स-क्षीरं वात-गुल्म-नुत् ।
तुलां लशुन-कन्दानां पृथक् पञ्च-पलांशकम् ॥ २२ ॥

पञ्च-मूलं महच् चाम्बु-भारार्धे तद् विपाचयेत् ।
पाद-शेषं तद्-अर्धेन दाडिम-स्व-रसं सुराम् ॥ २३ ॥

धान्याम्लं दधि चादाय पिष्टांश् चार्ध-पलांशकान् ।
त्र्य्-ऊषण-त्रि-फला-हिङ्गु-यवानी-चव्य-दीप्यकान् ॥ २४ ॥

साम्ल-वेतस-सिन्धूत्थ-देवदारून् पचेद् घृतात् ।
तैः प्रस्थं तत् परं सर्व-वात-गुल्म-विकार-जित् ॥ २५ ॥

१४.२५av साम्ल-वेतस-सिन्धूत्थं १४.२५bv देवदारु पचेद् घृतात् षट्-पलं वा पिबेत् सर्पिर् यद् उक्तं राज-यक्ष्मणि ।
प्रसन्नया वा क्षीरार्थः सुरया दाडिमेन वा ॥ २६ ॥

घृते मारुत-गुल्म-घ्नः कार्यो दध्नः सरेण वा ।
वात-गुल्मे कफो वृद्धो हत्वाग्निम् अ-रुचिं यदि ॥ २७ ॥

हृल्-लासं गौरवं तन्द्रां जनयेद् उल्लिखेत् तु तम् ।
शूलानाह-विबन्धेषु ज्ञात्वा स-स्नेहम् आशयम् ॥ २८ ॥

निर्यूह-चूर्ण-वटकाः प्रयोज्या घृत-भेषजैः ।
कोल-दाडिम-घर्माम्बु-तक्र-मद्याम्ल-काञ्जिकैह् ॥ २९ ॥

मण्डेन वा पिबेत् प्रातश् चूर्णान्य् अन्नस्य वा पुरः ।
चूर्णानि मातुलुङ्गस्य भावितान्य् अ-सकृद् रसे ॥ ३० ॥

कुर्वीत कार्मुक-तरान् वटकान् कफ-वातयोः ॥ ३१अब् ॥
हिङ्गु-वचा-विजया-पशुगन्धा-दाडिम-दीप्यक-धान्यक-पाठाः ॥ ३१च्द् ॥
पुष्कर-मूल-शठी-हपुषाग्नि-क्षार-युग-त्रि-पटु-त्रि-कटूनि ॥ ३१एf ॥
साजाजि-चव्यं सह-तिन्तिडीकं स-वेतसाम्लं विनिहन्ति चूर्णं ।
हृत्-पार्श्व-वस्ति-त्रिक-योनि-पायु-शूलानि वाय्व्-आम-कफोद्भवानि ॥ ३२ ॥

कृच्छ्रान् गुल्मान् वात-विण्-मूत्र-सङ्गं कण्ठे बन्धं हृद्-ग्रहं पाण्डु-रोगम् ।
अन्ना-श्रद्धा-प्लीह-दुर्-नाम-हिध्मा-वर्ध्माध्मान-श्वास-कासाग्नि-सादान् ॥ ३३ ॥

लवण-यवानी-दीप्यक-कण-नागरम् उत्तरोत्तरं वृद्धम् ।
सर्व-समांश-हरीतकी- चूर्णं वैश्वानरः साक्षात् ॥ ३४ ॥

१४.३४cv सर्व-समांशं हरीतकी- १४.३४cv सर्व-समांशा विजया- १४.३४dv चूर्णो वैश्वानरः साक्षात् त्रि-कटुकम् अजमोदा सैन्धवं जीरके द्वे ॥ ३५अ ॥
सम-धरण-घृतानाम् अष्टमो हिङ्गु-भागः ॥ ३५ब् ॥
प्रथम-कवड-भोज्यः सर्पिषा संप्रयुक्तो ॥ ३५च् ॥
१४.३५cv प्रथम-कवड-भोज्यः सर्पिषा चूर्णको ऽयं जनयति जठराग्निं वात-गुल्मं निहन्ति ॥ ३५द् ॥
१४.३५dv जनयति भृशम् अग्निं वात-गुल्मं निहन्ति हिङ्गूग्रा-विड-शुण्ठ्य्-अजाजि-विजया-वाट्याभिधानामयैश् ॥ ३६अ ॥
चूर्णः कुम्भ-निकुम्भ-मूल-सहितैर् भागोत्तरं वर्धितैः ॥ ३६ब् ॥
पीतः कोष्ण-जलेन कोष्ठ-ज-रुजो गुल्मोदरादीन् अयं ॥ ३६च् ॥
शार्दूलः प्रसभं प्रमथ्य हरति व्याधीन् मृगौघान् इव ॥ ३६द् ॥
सिन्धूत्थ-पथ्या-कण-दीप्यकानां ॥ ३७अ ॥
चूर्णानि तोयैः पिबतां कवोष्णैः ॥ ३७ब् ॥
प्रयाति नाशं कफ-वात-जन्मा ॥ ३७च् ॥
नाराच-निर्भिन्न इवामयौघः ॥ ३७द् ॥
पूतीक-पत्त्र-गज-चिर्भट-चव्य-वह्नि- ॥ ३८अ ॥
-व्योषं च संस्तर-चितं लवणोपधानम् ॥ ३८ब् ॥
दग्ध्वा विचूर्ण्य दधि-मस्तु-युतं प्रयोज्यं ॥ ३८च् ॥
गुल्मोदर-श्वयथु-पाण्डु-गुदोद्भवेषु ॥ ३८द् ॥
१४.३८dv गुल्मोदर-श्वयथु-पाण्डु-गदोद्भवेषु हिङ्गु-त्रि-गुणं सैन्धवम् अस्मात् त्रि-गुणं च तैलम् ऐरण्डम् ॥ ३९अब् ॥
तत् त्रि-गुण-लशुन-रसं गुल्मोदर-वर्ध्म-शूल-घ्नम् ।
मातुलुङ्ग-रसो हिङ्गु दाडिमं विड-सैन्धवम् ॥ ४० ॥

सुरा-मण्डेन पातव्यं वात-गुल्म-रुजापहम् ।
शुण्ठ्याः कर्षं गुडस्य द्वौ धौतात् कृष्ण-तिलात् पलम् ॥ ४१ ॥

१४.४१bv वात-गुल्म-ज्वरापहम् खादन्न् एक-त्र संचूर्ण्य कोष्ण-क्षीरानुपो जयेत् ।
वात-हृद्-रोग-गुल्मार्शो-योनि-शूल-शकृद्-ग्रहान् ॥ ४२ ॥

पिबेद् एरण्ड-तैलं तु वात-गुल्मी प्रसन्नया ।
श्लेष्मण्य् अनु-बले वायौ पित्ते तु पयसा सह ॥ ४३ ॥

विवृद्धं यदि वा पित्तं संतापं वात-गुल्मिनः ।
कुर्याद् विरेचनीयो ऽसौ स-स्नेहैर् आनुलोमिकैः ॥ ४४ ॥

तापानुवृत्ताव् एवं च रक्तं तस्यावसेचयेत् ।
साधयेच् छुद्ध-शुष्कस्य लशुनस्य चतुः-पलम् ॥ ४५ ॥

क्षीरोदके ऽष्ट-गुणिते क्षीर-शेषं च पाचयेत् ।
वात-गुल्मम् उदावर्तं गृध्रसीं विषम-ज्वरम् ॥ ४६ ॥

हृद्-रोगं विद्रधिं शोषं साधयत्य् आशु तत् पयः ।
तैलं प्रसन्ना गो-मूत्रम् आरनालं यवाग्र-जः ॥ ४७ ॥

१४.४७bv नाशयत्य् आशु तत् पयः गुल्मं जठरम् आनाहं पीतम् एक-त्र साधयेत् ।
चित्रक-ग्रन्थिकैरण्ड-शुण्ठी-क्वाथः परं हितः ॥ ४८ ॥

शूलानाह-विबन्धेषु स-हिङ्गु-विड-सैन्धवैः ।
पुष्करैरण्डयोर् मूलं यव-धन्वयवासकम् ॥ ४९ ॥

जलेन क्वथितं पीतं कोष्ठ-दाह-रुजापहम् ।
वाट्याह्वैरण्ड-दर्भाणां मूलं दारु महौषधम् ॥ ५० ॥

पीतं निःक्वाथ्य तोयेन कोष्ठ-पृष्ठांस-शूल-जित् ।
शिला-जं पयसान्-अल्प-पञ्च-मूल-शृतेन वा ॥ ५१ ॥

१४.५१bv कोष्ठ-पृष्ट्य्-अंस-शूल-जित् वात-गुल्मी पिबेद् वाट्यम् उदावर्ते तु भोजयेत् ।
स्निग्धं पैप्पलिकैर् यूषैर् मूलकानां रसेन वा ॥ ५२ ॥

बद्ध-विण्-मारुतो ऽश्नीयात् क्षीरेणोष्णेन यावकम् ।
कुल्माषान् वा बहु-स्नेहान् भक्षयेल् लवणोत्तरान् ॥ ५३ ॥

नीलिनी-त्रिवृता-दन्ती-पथ्या-कम्पिल्लकैः सह ।
स-मलाय घृतं देयं स-विड-क्षार-नागरम् ॥ ५४ ॥

नीलिनीं त्रि-फलां रास्नां बलां कटुक-रोहिणीम् ।
पचेद् विडङ्गं व्याघ्रीं च पालिकानि जलाढके ॥ ५५ ॥

रसे ऽष्ट-भाग-शेषे तु घृत-प्रस्थं विपाचयेत् ।
दध्नः प्रस्थेन संयोज्य सुधा-क्षीर-पलेन च ॥ ५६ ॥

ततो घृत-पलं दद्याद् यवागू-मण्ड-मिश्रितम् ।
जीर्णे सम्यग्-विरिक्तं च भोजयेद् रस-भोजनम् ॥ ५७ ॥

गुल्म-कुष्ठोदर-व्यङ्ग-शोफ-पाण्ड्व्-आमय-ज्वरान् ।
श्वित्रं प्लीहानम् उन्मादं हन्त्य् एतन् नीलिनी-घृतम् ॥ ५८ ॥

कुक्कुटाश् च मयूराश् च तित्तिरि-क्रौञ्च-वर्तकाः ।
शालयो मदिरा सर्पिर् वात-गुल्म-चिकित्सितम् ॥ ५९ ॥

मितम् उष्णं द्रवं स्निग्धं भोजनं वात-गुल्मिनाम् ।
स-मण्डा वारुणी पानं तप्तं वा धान्यकैर् जलम् ॥ ६० ॥

स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम् ।
द्राक्षाभया-गुड-रसं कम्पिल्लं वा मधु-द्रुतम् ॥ ६१ ॥

१४.६१dv कम्पिल्लं वा मधु-द्रवम् कल्पोक्तं रक्त-पित्तोक्तं गुल्मे रूक्षोष्ण-जे पुनः ।
परं संशमनं सर्पिस् तिक्तं वासा-घृतं शृतम् ॥ ६२ ॥

तृणाख्य-पञ्चक-क्वाथे जीवनीय-गणेन वा ।
शृतं तेनैव वा क्षीरं न्यग्रोधादि-गणेन वा ॥ ६३ ॥

तत्रापि स्रंसनं युञ्ज्याच् छीघ्रम् आत्ययिके भिषक् ।
वैरेचनिक-सिद्धेन सर्पिषा पयसापि वा ॥ ६४ ॥

रसेनामलकेक्षूणां घृत-प्रस्थं विपाचयेत् ।
पथ्या-पादं पिबेत् सर्पिस् तत् सिद्धं पित्त-गुल्म-नुत् ॥ ६५ ॥

पिबेद् वा तैल्वकं सर्पिर् यच् चोक्तं पित्त-विद्रधौ ।
द्राक्षां पयस्यां मधुकं चन्दनं पद्मकं मधु ॥ ६६ ॥

पिबेत् तण्डुल-तोयेन पित्त-गुल्मोपशान्तये ।
द्वि-पलं त्रायमाणाया जल-द्वि-प्रस्थ-साधितम् ॥ ६७ ॥

अष्ट-भाग-स्थितं पूतं कोष्णं क्षीर-समम् पिबेत् ।
पिबेद् उपरि तस्योष्णं क्षीरम् एव यथा-बलम् ॥ ६८ ॥

तेन निर्हृत-दोषस्य गुल्मः शाम्यति पैत्तिकः ।
दाहे ऽभ्यङ्गो घृतैः शीतैः साज्यैर् लेपो हिमौषधैः ॥ ६९ ॥

स्पर्शः सरो-रुहां पत्त्रैः पात्रैश् च प्रचलज्-जलैः ।
विदाह-पूर्व-रूपेषु शूले वह्नेश् च मार्दवे ॥ ७० ॥

बहु-शो ऽपहरेद् रक्तं पित्त-गुल्मे विशेषतः ।
छिन्न-मूला विदह्यन्ते न गुल्मा यान्ति च क्षयम् ॥ ७१ ॥

रक्तं हि व्य्-अम्ल-तां याति तच् च नास्ति न चास्ति रुक् ।
हृत-दोषं परिम्लानं जाङ्गलैस् तर्पितं रसैः ॥ ७२ ॥

समाश्वस्तं स-शेषार्तिं सर्पिर् अभ्यासयेत् पुनः ।
रक्त-पित्ताति-वृद्ध-त्वात् क्रियाम् अन्-उपलभ्य वा ॥ ७३ ॥

गुल्मे पाकोन्-मुखे सर्वा पित्त-विद्रधि-वत् क्रिया ।
शालिर् गव्याज-पयसी पटोली जाङ्गलं घृतम् ॥ ७४ ॥

धात्री परूषकं द्राक्षा खर्जूरं दाडिमं सिता ।
भोज्यं पाने ऽम्बु बलया बृहत्य्-आद्यैश् च साधितम् ॥ ७५ ॥

श्लेष्म-जे वामयेत् पूर्वम् अ-वम्यम् उपवासयेत् ।
तिक्तोष्ण-कटु-संसर्ग्या वह्निं संधुक्षयेत् ततः ॥ ७६ ॥

१४.७६av कफ-जे वामयेत् पूर्वम् हिङ्ग्व्-आदिभिश् च द्वि-गुण-क्षार-हिङ्ग्व्-अम्ल-वेतसैः ।
निगूढं यदि वोन्नद्धं स्तिमितं कठिनं स्थिरम् ॥ ७७ ॥

आनाहादि-युतं गुल्मं संस्वेद्य विनयेद् अनु ।
घृतं स-क्षार-कटुकं पातव्यं कफ-गुल्मिनाम् ॥ ७८ ॥

१४.७८bv संशोध्य विनयेद् अनु स-व्योष-क्षार-लवणं स-हिङ्गु-विड-दाडिमम् ।
कफ-गुल्मं जयत्य् आशु दश-मूल-शृतं घृतम् ॥ ७९ ॥

भल्लातकानां द्वि-पलं पञ्च-मूलं पलोन्मितम् ।
अल्पं तोयाढके साध्यं पाद-शेषेण तेन च ॥ ८० ॥

तुल्यं घृतं तुल्य-पयो विपचेद् अक्ष-संमितैः ।
विडङ्ग-हिङ्गु-सिन्धूत्थ-याव-शूक-शठी-विडैः ॥ ८१ ॥

स-द्वीपि-रास्ना-यष्ट्य्-आह्व-षड्ग्रन्था-कण-नागरैः ।
एतद् भल्लातक-घृतं कफ-गुल्म-हरं परम् ॥ ८२ ॥

प्लीह-पाण्ड्व्-आमय-श्वास-ग्रहणी-रोग-कास-जित् ।
ततो ऽस्य गुल्मे देहे च समस्ते स्वेदम् आचरेत् ॥ ८३ ॥

१४.८३bv -ग्रहणी-रोग-कास-नुत् सर्व-त्र गुल्मे प्रथमं स्नेह-स्वेदोपपादिते ।
या क्रिया क्रियते याति सा सिद्धिं न विरूक्षिते ॥ ८४ ॥

स्निग्ध-स्विन्न-शरीरस्य गुल्मे शैथिल्यम् आगते ।
यथोक्तां घटिकां न्यस्येद् गृहीते ऽपनयेच् च ताम् ॥ ८५ ॥

वस्त्रान्तरं ततः कृत्वा भिन्द्याद् गुल्मं प्रमाण-वित् ।
वि-मार्गाज-पदादर्शैर् यथा-लाभं प्रपीडयेत् ॥ ८६ ॥

प्रमृज्याद् गुल्मम् एवैकं न त्व् अन्त्र-हृदयं स्पृशेत् ।
तिलैरण्डातसी-बीज-सर्षपैः परिलिप्य च ॥ ८७ ॥

१४.८७dv -सर्षपैः परिलिप्य वा श्लेष्म-गुल्मम् अयः-पात्रैः सुखोष्णैः स्वेदयेत् ततः ।
एवं च विसृतं स्थानात् कफ-गुल्मं विरेचनैः ॥ ८८ ॥

स-स्नेहैर् वस्तिभिश् चैनं शोधयेद् दाशमूलिकैः ।
पिप्पल्य्-आमलक-द्राक्षा-श्यामाद्यैः पालिकैः पचेत् ॥ ८९ ॥

एरण्ड-तैल-हविषोः प्रस्थौ पयसि षड्-गुणे ।
सिद्धो ऽयं मिश्रकः स्नेहो गुल्मिनां स्रंसनं हितम् ॥ ९० ॥

वृद्धि-विद्रधि-शूलेषु वात-व्याधिषु चामृतम् ।
पिबेद् वा नीलिनी-सर्पिर् मात्रया द्वि-पलीनया ॥ ९१ ॥

१४.९१dv मात्रया द्वि-पलीकया तथैव सु-कुमाराख्यं घृतान्य् औदरिकाणि वा ।
द्रोणे ऽम्भसः पचेद् दन्त्याः पलानां पञ्च-विंशतिम् ॥ ९२ ॥

चित्रकस्य तथा पथ्यास् तावतीस् तद्-रसे स्रुते ।
द्वि-प्रस्थे साधयेत् पूते क्षिपेद् दन्ती-समं गुडम् ॥ ९३ ॥

१४.९३bv तावतीस् तद्-रसे शृते तैलात् पलानि चत्वारि त्रिवृतायश् च चूर्णतः ।
कणा-कर्षौ तथा शुण्ठ्याः सिद्धे लेहे तु शीतले ॥ ९४ ॥

मधु तैल-समं दद्याच् चतुर्-जाताच् चतुर्थिकाम् ।
अतो हरीतकीम् एकां सावलेह-पलाम् अदन् ॥ ९५ ॥

सुखं विरिच्यते स्निग्धो दोष-प्रस्थम् अन्-आमयः ।
गुल्म-हृद्-रोग-दुर्-नाम-शोफानाह-गरोदरान् ॥ ९६ ॥

कुष्ठोत्क्लेशा-रुचि-प्लीह-ग्रहणी-विषम-ज्वरान् ।
घ्नन्ति दन्ती-हरीतक्यः पाण्डु-तां च स-कामलाम् ॥ ९७ ॥

१४.९७dv पाण्डु-तां च स-कामलान् सुधा-क्षीर-द्रवं चूर्णं त्रि-वृतायाः सु-भावितम् ।
कार्षिकं मधु-सर्पिर्भ्यां लीढ्वा साधु विरिच्यते ॥ ९८ ॥

कुष्ठ-श्यामा-त्रिवृद्-दन्ती-विजया-क्षार-गुग्गुलून् ।
गो-मूत्रेण पिबेद् एकं तेन गुग्गुलुम् एव वा ॥ ९९ ॥

निरूहान् कल्प-सिद्ध्य्-उक्तान् योजयेद् गुल्म-नाशनान् ।
कृत-मूलं महा-वास्तुं कठिनं स्तिमितं गुरुम् ॥ १०० ॥

गूढ-मांसं जयेद् गुल्मं क्षारारिष्टाग्नि-कर्मभिः ।
एकान्तरम् द्व्य्-अन्तरं वा विश्रमय्याथ-वा त्र्य्-अहम् ॥ १०१ ॥

शरीर-दोष-बलयोर् वर्धन-क्षपणोद्यतः ।
अर्शो-ऽश्मरी-ग्रहण्य्-उक्ताः क्षारा योज्याः कफोल्बणे ॥ १०२ ॥

देवदारु-त्रिवृद्-दन्ती-कटुका-पञ्च-कोलकम् ।
स्वर्जिका-याव-शूकाख्यौ श्रेष्ठा-पाठोपकुञ्चिकाः ॥ १०३ ॥

कुष्ठं सर्पसुगन्धां च द्व्य्-अक्षांशं पटु-पञ्चकम् ।
पालिकं चूर्णितं तैल-वसा-दधि-घृताप्लुतम् ॥ १०४ ॥

घटस्यान्तः पचेत् पक्वम् अग्नि-वर्णे घटे च तम् ।
क्षारं गृहीत्वा क्षीराज्य-तक्र-मद्यादिभिः पिबेत् ॥ १०५ ॥

गुल्मोदावर्त-वर्ध्मार्शो-जठर-ग्रहणी-कृमीन् ।
अपस्मार-गरोन्माद-योनि-शुक्रामयाश्मरीः ॥ १०६ ॥

क्षारा-गदो ऽयं शमयेद् विषं चाखु-भुजङ्ग-जम् ।
श्लेष्माणं मधुरं स्निग्धं रस-क्षीर-घृताशिनः ॥ १०७ ॥

छित्त्वा भित्त्वाशयात् क्षारः क्षार-त्वात् क्षारयत्य् अधः ।
मन्दे ऽग्नाव् अ-रुचौ सात्म्यैर् मद्यैः स-स्नेहम् अश्नताम् ॥ १०८ ॥

१४.१०८av छित्त्वा छित्त्वाशयात् क्षारः १४.१०८av छित्त्वा भित्त्वाशयं क्षारः १४.१०८bv क्षार-त्वात् पातयत्य् अधः योजयेद् आसवारिष्टान् निगदान् मार्ग-शुद्धये ।
शालयः षष्टिका जीर्णाः कुलत्था जाङ्गलं पलम् ॥ १०९ ॥

चिरिबिल्वाग्नि-तर्कारी-यवानी-वरुणाङ्कुराः ।
शिग्रुस् तरुण-बिल्वानि बालं शुष्कं च मूलकम् ॥ ११० ॥

१४.११०cv शिग्रोस् तरुण-मूलानि बीजपूरक-हिङ्ग्व्-अम्ल-वेतस-क्षार-दाडिमम् ।
व्योषं तक्रं घृतं तैलं भक्तं पानं तु वारुणी ॥ १११ ॥

धान्याम्लं मस्तु तक्रं च यवानी-विड-चूर्णितम् ।
पञ्च-मूल-शृतं वारि जीर्णं मार्द्वीकम् एव वा ॥ ११२ ॥

पिप्पली-पिप्पली-मूल-चित्रकाजाजी-सैन्धवैः ।
सुरा गुल्मं जयत्य् आशु जगलश् च विमिश्रितः ॥ ११३ ॥

१४.११३dv जाङ्गलश् च विमिश्रितः वमनैर् लङ्घनैः स्वेदैः सर्पिः-पानैर् विरेचनैः ।
वस्ति-क्षारासवारिष्ट-गुटिका-पथ्य-भोजनैः ॥ ११४ ॥

१४.११४cv वस्ति-क्षारासवारिष्टैर् १४.११४dv -गुल्मिका-पथ्य-भोजनैः १४.११४dv गौल्मिकैः पथ्य-भोजनैः श्लैष्मिको बद्ध-मूल-त्वाद् यदि गुल्मो न शाम्यति ।
तस्य दाहं हृते रक्ते कुर्याद् अन्ते शरादिभिः ॥ ११५ ॥

अथ गुल्मं स-पर्य्-अन्तं वाससान्तरितं भिषक् ।
नाभि-वस्त्य्-अन्त्र-हृदयं रोम-राजीं च वर्जयन् ॥ ११६ ॥

नाति-गाढं परिमृशेच् छरेण ज्वलताथ-वा ।
लोहेनारणिकोत्थेन दारुणा तैन्दुकेन वा ॥ ११७ ॥

ततो ऽग्नि-वेगे शमिते शीतैर् व्रण इव क्रिया ।
आमान्वये तु पेयाद्यैः संधुक्ष्याग्निं विलङ्घिते ॥ ११८ ॥

स्वं स्वं कुर्यात् क्रमं मिश्रं मिश्र-दोषे च काल-वित् ।
गत-प्रसव-कालायै नार्यै गुल्मे ऽस्र-संभवे ॥ ११९ ॥

स्निग्ध-स्विन्न-शरीरायै दद्यात् स्नेह-विरेचनम् ।
तिल-क्वाथे घृत-गुड-व्योष-भार्गी-रजो-ऽन्वितः ॥ १२० ॥

पानं रक्त-भवे गुल्मे नष्टे पुष्पे च योषितः ।
भार्गी-कृष्णा-करञ्ज-त्वग्-ग्रन्थिकामरदारु-जम् ॥ १२१ ॥

चूर्णं तिलानां क्वाथेन पीतं गुल्म-रुजापहम् ।
पलाश-क्षार-पात्रे द्वे द्वे पात्रे तैल-सर्पिषोः ॥ १२२ ॥

गुल्म-शैथिल्य-जननीं पक्त्वा मात्रां प्रयोजयेत् ।
न प्रभिद्येत यद्य् एवं दद्याद् योनि-विरेचनम् ॥ १२३ ॥

क्षारेण युक्तं पललं सुधा-क्षीरेण वा ततः ।
ताभ्यां वा भावितान् दद्याद् योनौ कटुक-मत्स्यकान् ॥ १२४ ॥

वराह-मत्स्य-पित्ताभ्यां नक्तकान् वा सु-भावितान् ।
किण्वं वा स-गुड-क्षारं दद्याद् योनौ विशुद्धये ॥ १२५ ॥

रक्त-पित्त-हरं क्षारं लेहयेन् मधु-सर्पिषा ।
लशुनं मदिरां तीक्ष्णां मत्स्यांश् चास्यै प्रयोजयेत् ॥ १२६ ॥

वस्तिं स-क्षीर-गो-मूत्रं स-क्षारं दाशमूलिकम् ।
अ-वर्तमाने रुधिरे हितं गुल्म-प्रभेदनम् ॥ १२७ ॥

१४.१२७av वस्तिं स-क्षौद्र-गो-मुत्रं यमकाभ्यक्त-देहायाः प्रवृत्ते समुपेक्षणम् ।
रसौदनस् तथाहारः पानं च तरुणी सुरा ॥ १२८ ॥

रुधिरे ऽति-प्रवृत्ते तु रक्त-पित्त-हराः क्रियाः ।
कार्या वात-रुग्-आर्तायाः सर्वा वात-हराः पुनः ॥ १२९ ॥

आनाहादाव् उदावर्त-बलास-घ्न्यो यथा-यथम् ॥ १२९ऊ̆अब् ॥

अध्याय 15[सम्पाद्यताम्]
दोषाति-मात्रोपचयात् स्रोतो-मार्ग-निरोधनात् ।
संभवत्य् उदरं तस्मान् नित्यम् एनं विरेचयेत् ॥ १ ॥

१५.१bv स्रोतो-मार्ग-विघातनात् पाययेत् तैलम् ऐरण्डं स-मूत्रं स-पयो ऽपि वा ।
मासं द्वौ वाथ-वा गव्यं मूत्रं माहिषम् एव वा ॥ २ ॥

१५.२cv मासं द्वौ वा तथा गव्यं पिबेद् गो-क्षीर-भुक् स्याद् वा करभी-क्षीर-वर्तनः ।
दाहानाहाति-तृण्-मूर्छा-परीतस् तु विशेषतः ॥ ३ ॥

रूक्षाणां बहु-वातानां दोष-संशुद्धि-काङ्क्षिणाम् ।
स्नेहनीयानि सर्पींषि जठर-घ्नानि योजयेत् ॥ ४ ॥

षट्-पलं दश-मूलाम्बु-मस्तु-द्व्य्-आढक-साधितम् ।
नागर-त्रि-पलं प्रस्थं घृत-तैलात् तथाढकम् ॥ ५ ॥

१५.५cv नागरं त्रि-पलं प्रस्थं मस्तुनः साधयित्वैतत् पिबेत् सर्वोदरापहम् ।
कफ-मारुत-संभूते गुल्मे च परमं हितम् ॥ ६ ॥

चतुर्-गुणे जले मूत्रे द्वि-गुणे चित्रकात् पले ।
कल्के सिद्धं घृत-प्रस्थं स-क्षारं जठरी पिबेत् ॥ ७ ॥

यव-कोल-कुलत्थानां पञ्च-मूलस्य चाम्भसा ।
सुरा-सौवीरकाभ्यां च सिद्धं वा पाययेद् घृतम् ॥ ८ ॥

एभिः स्निग्धाय संजाते बले शान्ते च मारुते ।
स्रस्ते दोषाशये दद्यात् कल्प-दृष्टं विरेचनम् ॥ ९ ॥

पटोल-मूलं त्रि-फलां निशां वेल्लं च कार्षिकम् ।
कम्पिल्ल-नीलिनी-कुम्भ-भागान् द्वि-त्रि-चतुर्-गुणान् ॥ १० ॥

पिबेत् संचूर्ण्य मूत्रेण पेया-पूर्वं ततो रसैः ।
विरिक्तो जाङ्गलैर् अद्यात् ततः षड्-दिवसं पयः ॥ ११ ॥

शृतं पिबेद् व्योष-युतं पीतम् एवं पुनः पुनः ।
हन्ति सर्वोदराण्य् एतच् चूर्णं जातोदकान्य् अपि ॥ १२ ॥

गवाक्षीं शङ्खिनीं दन्तीं तिल्वकस्य त्वचं वचाम् ।
पिबेत् कर्कन्धु-मृद्वीका-कोलाम्भो-मूत्र-सीधुभिः ॥ १३ ॥

यवानी हपुषा धान्यं शतपुष्पोपकुञ्चिका ।
कारवी पिप्पली-मूलम् अजगन्धा शठी वचा ॥ १४ ॥

चित्रको ऽजाजिकं व्योषं स्वर्णक्षीरी फल-त्रयम् ।
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवण-पञ्चकम् ॥ १५ ॥

विडङ्गं च समांशानि दन्त्या भाग-त्रयं तथा ।
त्रिवृद्-विशाले द्वि-गुणे सातला च चतुर्-गुणा ॥ १६ ॥

एष नारायणो नाम चूर्णो रोग-गणापहः ।
नैनं प्राप्याभिवर्धन्ते रोगा विष्णुम् इवासुराः ॥ १७ ॥

१५.१७cv नैनं प्राप्यातिवर्तन्ते तक्रेणोदरिभिः पेयो गुल्मिभिर् बदराम्बुना ।
आनाह-वाते सुरया वात-रोगे प्रसन्नया ॥ १८ ॥

दधि-मण्डेन विट्-सङ्गे दाडिमाम्भोभिर् अर्शसैः ।
परिकर्ते स-वृक्षाम्लैर् उष्णाम्बुभिर् अ-जीर्णके ॥ १९ ॥

भगन्दरे पाण्डु-रोगे कासे श्वासे गल-ग्रहे ।
हृद्-रोगे ग्रहणी-दोषे कुष्ठे मन्दे ऽनले ज्वरे ॥ २० ॥

दंष्ट्रा-विषे मूल-विषे स-गरे कृत्रिमे दोषे ।
यथार्हं स्निग्ध-कोष्ठेन पेयम् एतद् विरेचनम् ॥ २१ ॥

हपुषां काञ्चनक्षीरीं त्रि-फलां नीलिनी-फलम् ।
त्रायन्तीं रोहिणीं तिक्तां सातलां त्रिवृतां वचाम् ॥ २२ ॥

सैन्धवं काल-लवणं पिप्पलीं चेति चूर्णयेत् ।
दाडिम-त्रि-फला-मांस-रस-मूत्र-सुखोदकैः ॥ २३ ॥

पेयो ऽयं सर्व-गुल्मेषु प्लीह्नि सर्वोदरेषु च ।
श्वित्रे कुष्ठेष्व् अ-जरके सदने विषमे ऽनले ॥ २४ ॥

शोफार्शः-पाण्डु-रोगेषु कामलायां हलीमके ।
वात-पित्त-कफांश् चाशु विरेकेण प्रसाधयेत् ॥ २५ ॥

नीलिनीं निचुलं व्योषं क्षारौ लवण-पञ्चकम् ।
चित्रकं च पिबेच् चूर्णं सर्पिषोदर-गुल्म-नुत् ॥ २६ ॥

पूर्व-वच् च पिबेद् दुग्धं क्षामः शुद्धो ऽन्तरान्तरा ।
कारभं गव्यम् आजं वा दद्याद् आत्ययिके गदे ॥ २७ ॥

स्नेहान् एव विरेकार्थे दुर्-बलेभ्यो विशेषतः ।
हरीतकी-सूक्ष्म-रजः-प्रस्थ-युक्तं घृताढकम् ॥ २८ ॥

१५.२८av स्नेहम् एव विरेकार्थे अग्नौ विलाप्य मथितं खजेन यव-पल्लके ।
निधापयेत् ततो मासाद् उद्धृतं गालितं पचेत् ॥ २९ ॥

हरीतकीनां क्वाथेन दध्ना चाम्लेन संयुतम् ।
उदरं गरं अष्ठीलाम् आनाहं गुल्म-विद्रधी ॥ ३० ॥

हन्त्य् एतत् कुष्ठम् उन्मादम् अपस्मारं च पानतः ।
स्नुक्-क्षीर-युक्ताद् गो-क्षीराच् छृत-शीतात् खजाहतात् ॥ ३१ ॥

यज् जातम् आज्यं स्नुक्-क्षीर-सिद्धं तच् च तथा-गुणम् ।
क्षीर-द्रोणं सुधा-क्षीर-प्रस्थार्ध-सहितं दधि ॥ ३२ ॥

१५.३२dv -प्रस्थार्धेन युतं दधि जातं मथित्वा तत्-सर्पिस् त्रिवृत्-सिद्धं च तद्-गुणम् ।
तथा सिद्धं घृत-प्रस्थं पयस्य् अष्ट-गुणे पिबेत् ॥ ३३ ॥

१५.३३dv पयस्य् अष्ट-गुणे पचेत् स्नुक्-क्षीर-पल-कल्केन त्रिवृता-षट्-पलेन च ।
एषां चानु पिबेत् पेयां रसं स्वादु पयो ऽथ-वा ॥ ३४ ॥

घृते जीर्णे विरिक्तश् च कोष्णं नागर-साधितम् ।
पिबेद् अम्बु ततः पेयां ततो यूषं कुलत्थ-जम् ॥ ३५ ॥

पिबेद् रूक्षस् त्र्य्-अहं त्व् एवं भूयो वा प्रतिभोजितः ।
पुनः पुनः पिबेत् सर्पिर् आनुपूर्व्यानयैव च ॥ ३६ ॥

घृतान्य् एतानि सिद्धानि विदध्यात् कुशलो भिषक् ।
गुल्मानां गर-दोषाणाम् उदराणां च शान्तये ॥ ३७ ॥

पीलु-कल्कोपसिद्धं वा घृतम् आनाह-भेदनम् ।
तैल्वकं नीलिनी-सर्पिः स्नेहं वा मिश्रकं पिबेत् ॥ ३८ ॥

हृत-दोषः क्रमाद् अश्नन् लघु-शाल्य्-ओदन-प्रति ।
उपयुञ्जीत जठरी दोष-शोष-निवृत्तये ॥ ३९ ॥

हरीतकी-सहस्रं वा गो-मूत्रेण पयो-ऽनुपः ।
सहस्रं पिप्पलीनां वा स्नुक्-क्षीरेण सु-भावितम् ॥ ४० ॥

पिप्पली-वर्धमानं वा क्षीराशी वा शिला-जतु ।
तद्-वद् वा गुग्गुलुं क्षीरं तुल्यार्द्रक-रसं तथा ॥ ४१ ॥

१५.४१av पिप्पलीं वर्धमानं वा चित्रकामरदारुभ्यां कल्कं क्षीरेण वा पिबेत् ।
मासं युक्तस् तथा हस्ति-पिप्पली-विश्व-भेषजम् ॥ ४२ ॥

विडङ्गं चित्रको दन्ती चव्यं व्योषं च तैः पयः ।
कल्कैः कोल-समैः पीत्वा प्रवृद्धम् उदरं जयेत् ॥ ४३ ॥

भोज्यं भुञ्जीत वा मासं स्नुही-क्षीर-घृतान्वितम् ।
उत्कारिकां वा स्नुक्-क्षीर-पीत-पथ्या-कणा-कृताम् ॥ ४४ ॥

पार्श्व-शूलम् उपस्तम्भं हृद्-ग्रहं च समीरणः ।
यदि कुर्यात् ततस् तैलं बिल्व-क्षारान्वितम् पिबेत् ॥ ४५ ॥

पक्वं वा टुण्टुक-बला-पलाश-तिल-नाल-जैः ।
क्षारैः कदल्य्-अपामार्ग-तर्कारी-जैः प्र्ठक्-कृतैः ॥ ४६ ॥

कफे वातेन पित्ते वा ताभ्यां वाप्य् आवृते ऽनिले ।
बलिनः स्वौषध-युतं तैलम् एरण्ड-जं हितम् ॥ ४७ ॥

देवदारु-पलाशार्क-हस्ति-पिप्पलि-शिग्रुकैः ।
साश्वकर्णैः स-गो-मूत्रैः प्रदिह्याद् उदरं बहिः ॥ ४८ ॥

वृश्चिकाली-वचा-शुण्ठी-पञ्च-मूल-पुनर्नवात् ।
वर्षाभू-धान्य-कुष्ठाच् च क्वाथैर् मूत्रैश् च सेचयेत् ॥ ४९ ॥

विरिक्त-म्लानम् उदरं स्वेदितं शाल्वणादिभिः ।
वाससा वेष्टयेद् एवं वायुर् नाध्मापयेत् पुनः ॥ ५० ॥

१५.५०bv स्वेदितं शाल्वलादिभिः सु-विरिक्तस्य यस्य स्याद् आध्मानं पुनर् एव तम् ।
सु-स्निग्धैर् अम्ल-लवणैर् निरूहैः समुपाचरेत् ॥ ५१ ॥

सोपस्तम्भो ऽपि वा वायुर् आध्मापयति यं नरम् ।
तीक्ष्णाः स-क्षार-गो-मूत्राः शस्यन्ते तस्य वस्तयः ॥ ५२ ॥

इति सामान्यतः प्रोक्ताः सिद्धा जठरिणां क्रियाः ।
वातोदरे ऽथ बलिनं विदार्य्-आदि-शृतं घृतम् ॥ ५३ ॥

१५.५३av इति सामान्यतः प्रोक्ता १५.५३bv सिद्धा जठरिणां क्रिया पाययेत ततः स्निग्धं स्वेदिताङ्गं विरेचयेत् ।
बहु-शस् तैल्वकेनैनं सर्पिषा मिश्रकेण वा ॥ ५४ ॥

कृते संसर्जने क्षीरं बलार्थम् अवचारयेत् ।
प्राग् उत्क्लेशान् निवर्त्यं च बले लब्धे क्रमात् पयः ॥ ५५ ॥

१५.५५cv प्राग् उत्क्लेशान् निवर्तेत यूषै रसैर् वा मन्दाम्ल-लवणैर् एधितानलम् ।
सोदावर्तं पुनः स्निग्ध-स्विन्नम् आस्थापयेत् ततः ॥ ५६ ॥

तीक्ष्णाधो-भाग-युक्तेन दश-मूलिक-वस्तिना ।
तिलोरुबूक-तैलेन वात-घ्नाम्ल-शृतेन च ॥ ५७ ॥

१५.५७bv दश-मूलेन वस्तिना स्फुरणाक्षेप-संध्य्-अस्थि-पार्श्व-पृष्ठ-त्रिकार्तिषु ।
रूक्षं बद्ध-शकृद्-वातं दीप्ताग्निम् अनुवासयेत् ॥ ५८ ॥

अ-विरेच्यस्य शमना वस्ति-क्षीर-घृतादयः ।
बलिनं स्वादु-सिद्धेन पैत्ते संस्नेह्य सर्पिषा ॥ ५९ ॥

श्यामा-त्रिभण्डी-त्रि-फला-विपक्वेन विरेचयेत् ।
सिता-मधु-घृताढ्येन निरूहो ऽस्य ततो हितः ॥ ६० ॥

न्यग्रोधादि-कषायेण स्नेह-वस्तिश् च तच्-छृतः ।
दुर्-बलं त्व् अनुवास्यादौ शोधयेत् क्षीर-वस्तिभिः ॥ ६१ ॥

जाते चाग्नि-बले स्निग्धं भूयो भूयो विरेचयेत् ।
क्षीरेण स-त्रिवृत्-कल्केनोरुबूक-शृतेन वा ॥ ६२ ॥

१५.६२av जाते त्व् अग्नि-बले स्निग्धं १५.६२dv ंनोरुबूक-शृतेन तम् सातला-त्रायमाणाभ्यां शृतेनारग्वधेन वा ।
स-कफे वा स-मूत्रेण स-तिक्ताज्येन सानिले ॥ ६३ ॥

१५.६३av सप्तला-त्रायमाणाभ्यां पयसान्य-तमेनैषां विदार्य्-आदि-शृतेन वा ।
भुञ्जीत जठरं चास्य पायसेनोपनाहयेत् ॥ ६४ ॥

पुनः क्षीरं पुनर् वस्तिं पुनर् एव विरेचनम् ।
क्रमेण ध्रुवम् आतिष्ठन् यत्तः पित्तोदरं जयेत् ॥ ६५ ॥

१५.६५dv यतः पित्तोदरं जयेत् वत्सकादि-विपक्वेन कफे संस्नेह्य सर्पिषा ।
स्विन्नं स्नुक्-क्षीर-सिद्धेन बल-वन्तं विरेचितम् ॥ ६६ ॥

संसर्जयेत् कटु-क्षार-युक्तैर् अन्नैः कफापहैः ।
मूत्र-त्र्य्-ऊषण-तैलाढ्यो निरूहो ऽस्य ततो हितः ॥ ६७ ॥

मुष्ककादि-कषायेण स्नेह-वस्तिश् च तच्-छृतः ।
भोजनं व्योष-दुग्धेन कौलत्थेन रसेन वा ॥ ६८ ॥

स्तैमित्या-रुचि-हृल्-लासे मन्दे ऽग्नौ मद्य-पाय च ।
दद्याद् अरिष्टान् क्षारांश् च कफ-स्त्यान-स्थिरोदरे ॥ ६९ ॥

१५.६९av स्तैमित्या-रुचि-हृल्-लासैर् १५.६९dv कफे स्त्याने स्थिरोदरे हिङ्गूपकुल्ये त्रि-फलां देवदारु निशा-द्वयम् ।
भल्लातकं शिग्रु-फलं कटुकां तिक्तकं वचां ॥ ७० ॥

शुण्ठीं माद्रीं घनं कुष्ठं सरलं पटु-पञ्चकम् ।
दाहयेज् जर्जरी-कृत्य दधि-स्नेह-चतुष्क-वत् ॥ ७१ ॥

अन्तर्-धूमं ततः क्षाराद् बिडाल-पदकं पिबेत् ।
मदिरा-दधि-मण्डोष्ण-जलारिष्ट-सुरासवैः ॥ ७२ ॥

१५.७२dv -जलारिष्ट-सुधासवैः उदरं गुल्मम् अष्ठीलां तूण्यौ शोफं विषूचिकाम् ।
प्लीह-हृद्-रोग-गुद-जान् उदावर्तं च नाशयेत् ॥ ७३ ॥

जयेद् अरिष्ट-गो-मूत्र-चूर्णायस्-कृति-पानतः ।
स-क्षार-तैल-पानैश् च दुर्-बलस्य कफोदरम् ॥ ७४ ॥

उपनाह्यं स-सिद्धार्थ-किण्वैर् बीजैश् च मूलकात् ।
कल्कितैर् उदरं स्वेदम् अभीक्ष्णं चात्र योजयेत् ॥ ७५ ॥

१५.७५cv कल्कितैर् उदर-स्वेदम् संनिपातोदरे कुर्यान् नाति-क्षीण-बलानले ।
दोषोद्रेकानुरोधेन प्रत्याख्याय क्रियाम् इमाम् ॥ ७६ ॥

दन्ती-द्रवन्ती-फल-जं तैलं पाने च शस्यते ।
क्रिया-निवृत्ते जठरे त्रि-दोषे तु विशेषतः ॥ ७७ ॥

दद्याद् आपृच्छ्य तज्-ज्ञातीन् पातुं मद्येन कल्कितम् ।
मूलं काकादनी-गुञ्जा-करवीरक-संभवम् ॥ ७८ ॥

पान-भोजन-संयुक्तं दद्याद् वा स्थावरं विषम् ।
यस्मिन् वा कुपितः सर्पो विमुञ्चति फले विषम् ॥ ७९ ॥

तेनास्य दोष-संघातः स्थिरो लीनो वि-मार्ग-गः ।
बहिः प्रवर्तते भिन्नो विषेणाशु प्रमाथिना ॥ ८० ॥

तथा व्रजत्य् अ-गद-तां शरीरान्तरम् एव वा ।
हृत-दोषं तु शीताम्बु-स्नातं तं पाययेत् पयः ॥ ८१ ॥

पेयां वा त्रिवृतः शाकं माण्डूक्या वास्तुकस्य वा ।
काल-शाकं यवाख्यं वा खादेत् स्व-रस-साधितम् ॥ ८२ ॥

निर्-अम्ल-लवण-स्नेहं स्विन्ना-स्विन्नम् अन्-अन्न-भुक् ।
मासम् एकं ततश् चैव तृषितः स्व-रसं पिबेत् ॥ ८३ ॥

१५.८३cv मासम् एकं ततश् चैवं एवं विनिर्हृते शाकैर् दोषे मासात् परं ततः ।
दुर्-बलाय प्रयुञ्जीत प्राण-भृत् कारभं पयः ॥ ८४ ॥

प्लीहोदरे यथा-दोषं स्निग्धस्य स्वेदितस्य च ।
सिरां भुक्त-वतो दध्ना वाम-बाहौ विमोक्षयेत् ॥ ८५ ॥

लब्धे बले च भूयो ऽपि स्नेह-पीतं विशोधितम् ।
समुद्र-शुक्ति-जं क्षारं पयसा पाययेत् तथा ॥ ८६ ॥

अम्ल-स्रुतं विड-कणा-चूर्णाढ्यं नक्तमाल-जम् ।
शौभाञ्जनस्य वा क्वाथं सैन्धवाग्नि-कणान्वितम् ॥ ८७ ॥

हिङ्ग्व्-आदि-चूर्णं क्षाराज्यं युञ्जीत च यथा-बलम् ।
पिप्पली-नागरं दन्ती-समांशं द्वि-गुणाभयम् ॥ ८८ ॥

१५.८८dv -समांशं द्वि-गुणाभया विडार्धांश-युतं चूर्णम् इदम् उष्णाम्बुना पिबेत् ।
विडङ्गं चित्रकं सक्तून् स-घृतान् सैन्धवं वचाम् ॥ ८९ ॥

दग्ध्वा कपाले पयसा गुल्म-प्लीहापहं पिबेत् ।
तैलोन्मिश्रैर् बदरक-पत्त्रैः संमर्दितैः समुपनद्धः ॥ ९० ॥

मुसलेन पीडितो ऽनु च याति प्लीहा पयो-भुजो नाशम् ।
रोहीतक-लताः कॢप्ताः खण्ड-शः साभया जले ॥ ९१ ॥

मूत्रे वासुनुयात् तच् च सप्त-रात्र-स्थितं पिबेत् ।
कामला-प्लीह-गुल्मार्शः-कृमि-मेहोदरापहम् ॥ ९२ ॥

१५.९२av मूत्रे वासुनुयात् तत् तु रोहीतक-त्वचः कृत्वा पलानां पञ्च-विंशतिम् ।
कोल-द्वि-प्रस्थ-संयुक्तं कषायम् उपकल्पयेत् ॥ ९३ ॥

पालिकैः पञ्च-कोलैस् तु तैः समस्तैश् च तुल्यया ।
रोहीतक-त्वचा पिष्टैर् घृत-प्रस्थं विपाचयेत् ॥ ९४ ॥

प्लीहाभिवृद्धिं शमयत्य् एतद् आशु प्रयोजितम् ।
कदल्यास् तिल-नालानां क्षारेण क्षुरकस्य च ॥ ९५ ॥

१५.९५av प्लीहाभिवृद्धिं शमयेद् १५.९५अच् प्लीहाति-वृद्धिं शमयत्य् १५.९५dv क्षारेणेक्षुरकस्य च तैलं पक्वं जयेत् पानात् प्लीहानं कफ-वात-जम् ।
अ-शान्तौ गुल्म-विधिना योजयेद् अग्नि-कर्म च ॥ ९६ ॥

अ-प्राप्त-पिच्छा-सलिले प्लीह्नि वात-कफोल्बणे ।
पैत्तिके जीवनीयानि सर्पींषि क्षीर-वस्तयः ॥ ९७ ॥

रक्तावसेकः संशुद्धिः क्षीर-पानं च शस्यते ।
यकृति प्लीह-वत् कर्म दक्षिणे तु भुजे सिराम् ॥ ९८ ॥

स्विन्नाय बद्धोदरिणे मूत्र-तीक्ष्णौषधान्वितम् ।
स-तैल-लवणं दद्यान् निरूहं सानुवासनम् ॥ ९९ ॥

परिस्रंसीनि चान्नानि तीक्ष्णं चास्मै विरेचनम् ।
उदावर्त-हरं कर्म कार्यं यच् चानिलापहम् ॥ १०० ॥

छिद्रोदरम् ऋते स्वेदाच् छ्लेष्मोदर-वद् आचरेत् ।
जातं जातं जलं स्राव्यम् एवं तद् यापयेद् भिषक् ॥ १०१ ॥

अपां दोष-हराण्य् आदौ योजयेद् उदकोदरे ।
मूत्र-युक्तानि तीक्ष्णानि विविध-क्षार-वन्ति च ॥ १०२ ॥

दीपनीयैः कफ-घ्नैश् च तम् आहारैर् उपाचरेत् ।
क्षारं छाग-करीषाणां स्रुतं मूत्रे ऽग्निना पचेत् ॥ १०३ ॥

घनी-भवति तस्मिंश् च कर्षांशं चूर्णितं क्षिपेत् ।
पिप्पली पिप्पली-मूलं शुण्ठी लवण-पञ्चकम् ॥ १०४ ॥

निकुम्भ-कुम्भ-त्रि-फला-स्वर्णक्षीरी-विषाणिकाः ।
स्वर्जिका-क्षार-षड्ग्रन्था-सातला-यव-शूक-जम् ॥ १०५ ॥

कोलाभा गुटिकाः कृत्वा ततः सौवीरकाप्लुताः ।
पिबेद् अ-जरके शोफे प्रवृद्धे चोदकोदरे ॥ १०६ ॥

१५.१०६dv प्रवृद्धे च दकोदरे इत्य् औषधैर् अ-प्रशमे त्रिषु बद्धोदरादिषु ।
प्रयुञ्जीत भिषक् शस्त्रम् आर्त-बन्धु-नृपार्थितः ॥ १०७ ॥

स्निग्ध-स्विन्न-तनोर् नाभेर् अधो बद्ध-क्षतान्त्रयोः ।
पाटयेद् उदरं मुक्त्वा वामतश् चतुर्-अङ्गुलात् ॥ १०८ ॥

चतुर्-अङ्गुल-मानं तु निष्कास्यान्त्राणि तेन च ।
निरीक्ष्यापनयेद् वाल-मल-लेपोपलादिकम् ॥ १०९ ॥

छिद्रे तु शल्यम् उद्धृत्य विशोध्यान्त्र-परिस्रवम् ।
मर्कोटैर् दंशयेच् छिद्रं तेषु लग्नेषु चाहरेत् ॥ ११० ॥

१५.११०bv विशोध्यान्त्रं परिस्रवम् कायं मूर्ध्नो ऽनु चान्त्राणि यथा-स्थानं निवेशयेत् ।
अक्तानि मधु-सर्पिर्भ्याम् अथ सीव्येद् बहिर् व्रणम् ॥ १११ ॥

१५.१११bv यथा-स्थानं विवेशयेत् ततः कृष्ण-मृदालिप्य बध्नीयाद् यष्टि-मिश्रया ।
निवात-स्थः पयो-वृत्तिः स्नेह-द्रोण्यां वसेत् ततः ॥ ११२ ॥

स-जले जठरे तैलैर् अभ्यक्तस्यानिलापहैः ।
स्विन्नस्योष्णाम्बुना-कक्षम् उदरे पट्ट-वेष्टिते ॥ ११३ ॥

१५.११३dv उदरे परिवेष्टिते बद्ध-च्छिद्रोदित-स्थाने विध्येद् अङ्गुल-मात्रकम् ।
निधाय तस्मिन् नाडीं च स्रावयेद् अर्धम् अम्भसः ॥ ११४ ॥

अथास्य नाडीम् आकृष्य तैलेन लवणेन च ।
व्रणम् अभ्यज्य बद्ध्वा च वेष्टयेद् वाससोदरम् ॥ ११५ ॥

तृतीये ऽह्नि चतुर्थे वा यावद् आ-षो-डशं दिनम् ।
तस्य विश्रम्य विश्रम्य स्रावयेद् अल्प-शो जलम् ॥ ११६ ॥

१५.११६bv यावद् वा-दिन-षो-डश विवेष्टयेद् गाढ-तरं जठरं वाससा श्लथम् ।
निःस्रुते लङ्घितः पेयाम् अ-स्नेह-लवणां पिबेत् ॥ ११७ ॥

१५.११७bv जठरं च श्लथा-श्लथम् स्यात् क्षीर-वृत्तिः षण्-मासांश् त्रीन् पेयां पयसा पिबेत् ।
त्रींश् चान्यान् पयसैवाद्यात् फलाम्लेन रसेन वा ॥ ११८ ॥

अल्प-शो ऽ-स्नेह-लवणं जीर्णं श्यामाक-कोद्रवम् ।
प्रयतो वत्सरेणैवं विजयेत जलोदरम् ॥ ११९ ॥

वर्ज्येषु यन्त्रितो दिष्टे नात्य्-अ-दिष्टे जितेन्द्रियः ।
सर्वम् एवोदरं प्रायो दोष-संघात-जं यतः ॥ १२० ॥

अतो वातादि-शमनी क्रिया सर्व-त्र शस्यते ।
वह्निर् मन्द-त्वम् आयाति दोषैः कुक्षौ प्रपूरिते ॥ १२१ ॥

१५.१२१bv क्रिया सर्वा प्रशस्यते तस्माद् भोज्यानि भोज्यानि दीपनानि लघूनि च ।
स-पञ्च-मूलान्य् अल्पाम्ल-पटु-स्नेह-कटूनि च ॥ १२२ ॥

भावितानां गवां मूत्रे षष्टिकानां च तण्डुलैः ।
यवागूं पयसा सिद्धां प्र-कामं भोजयेन् नरम् ॥ १२३ ॥

पिबेद् इक्षु-रसं चानु जठराणां निवृत्तये ।
स्वं स्वं स्थानं व्रजन्त्य् एषां वात-पित्त-कफास् तथा ॥ १२४ ॥

अत्य्-अर्थोष्णाम्ल-लवणं रूक्षं ग्राहि हिमं गुरु ।
गुडं तैल-कृतं शाकं वारि पानावगाहयोः ॥ १२५ ॥

१५.१२५av अत्य्-अर्थोष्णाम्बु-लवणं आयासाध्व-दिवा-स्वप्न-यानानि च परित्यजेत् ।
नात्य्-अच्छ-सान्द्र-मधुरं तक्रं पाने प्रशस्यते ॥ १२६ ॥

स-कणा-लवणं वाते पित्ते सोषण-शर्करम् ।
यवानी-सैन्धवाजाजी-मधु-व्योषैः कफोदरे ॥ १२७ ॥

त्र्य्-ऊषण-क्षार-लवणैः संयुतं निचयोदरे ।
मधु-तैल-वचा-शुण्ठी-शताह्वा-कुष्ठ-सैन्धवैः ॥ १२८ ॥

१५.१२८cv मधु-तैल-वरा-शुण्ठी- १५.१२८cv मधु-तैल-वसा-शुण्ठी- प्लीह्नि बद्धे तु हपुषा-यवानी-पट्व्-अजाजिभिः ।
स-कृष्णा-माक्षिकं छिद्रे व्योष-वत् सलिलोदरे ॥ १२९ ॥

गौरवा-रोचकानाह-मन्द-वह्न्य्-अतिसारिणाम् ।
तक्रं वात-कफार्तानाम् अमृत-त्वाय कल्पते ॥ १३० ॥

प्रयोगाणां च सर्वेषाम् अनु क्षीरं प्रयोजयेत् ।
स्थैर्य-कृत् सर्व-धातूनां बल्यं दोषानुबन्ध-हृत् ॥ १३१ ॥

भेषजापचिताङ्गानां क्षीरम् एवामृतायते ॥ १३१ऊ̆अब् ॥

अध्याय 16[सम्पाद्यताम्]
पाण्ड्व्-आमयी पिबेत् सर्पिर् आदौ कल्याणकाह्वयम् ।
पञ्च-गव्यं महा-तिक्तं शृतं वारग्वधादिना ॥ १ ॥

१६.१av पाण्डु-रोगी पिबेत् सर्पिर् दाडिमात् कुडवो धान्यात् कुडवार्धं पलं पलम् ।
चित्रकाच् छृङ्गवेराच् च पिप्पल्य्-अर्ध-पलं च तैः ॥ २ ॥

कल्कितैर् विंशति-पलं घृतस्य सलिलाढके ।
सिद्धं हृत्-पाण्डु-गुल्मार्शः-प्लीह-वात-कफार्ति-नुत् ॥ ३ ॥

दीपनं श्वास-कास-घ्नं मूढ-वातानुलोमनम् ।
दुःख-प्रसविनीनां च वन्ध्यानां च प्रशस्यते ॥ ४ ॥

स्नेहितं वामयेत् तीक्ष्णैः पुनः स्निग्धं च शोधयेत् ।
पयसा मूत्र-युक्तेन बहु-शः केवलेन वा ॥ ५ ॥

दन्ती-फल-रसे कोष्णे काश्मर्याञ्जलिम् आसुतम् ।
द्राक्षाञ्जलिं वा मृदितं तत् पिबेत् पाण्डु-रोग-जित् ॥ ६ ॥

१६.६av दन्ती-पल-रसे कोष्णे मूत्रेण पिष्टां पथ्यां वा तत्-सिद्धं वा फल-त्रयम् ।
स्वर्णक्षीरी-त्रिवृच्-छ्यामा-भद्रदारु-महौषधम् ॥ ७ ॥

गो-मूत्राञ्जलिना पिष्टं शृतं तेनैव वा पिबेत् ।
साधितं क्षीरम् एभिर् वा पिबेद् दोषानुलोमनम् ॥ ८ ॥

मूत्रे स्थितं वा सप्ताहं पयसायो-रजः पिबेत् ।
जीर्णे क्षीरेण भुञ्जीत रसेन मधुरेण वा ॥ ९ ॥

शुद्धश् चोभयतो लिह्यात् पथ्यां मधु-घृत-द्रुताम् ।
विशाला-कटुका-मुस्ता-कुष्ठ-दारु-कलिङ्गकाः ॥ १० ॥

१६.१०bv पथ्या मधु-घृत-द्रुताः १६.१०cv विशालां कटुकां मुस्तां १६.१०dv कुष्ठं दारु-कलिङ्गकाः कर्षांशा द्वि-पिचुर् मूर्वा कर्षार्धांशा घुणप्रिया ।
पीत्वा तच् चूर्णम् अम्भोभिः सुखैर् लिह्यात् ततो मधु ॥ ११ ॥

पाण्डु-रोगं ज्वरं दाहं कासं श्वासम् अ-रोचकम् ।
गुल्मानाहाम-वातांश् च रक्त-पित्तं च तज् जयेत् ॥ १२ ॥

वासा-गुडूची-त्रि-फला-कट्वी-भूनिम्ब-निम्ब-जः ।
क्वाथः क्षौद्र-युतो हन्ति पाण्डु-पित्तास्र-कामलाः ॥ १३ ॥

व्योषाग्नि-वेल्ल-त्रि-फला-मुस्तैस् तुल्यम् अयो-रजः ।
चूर्णितं तक्र-मध्व्-आज्य-कोष्णाम्भोभिः प्रयोजितम् ॥ १४ ॥

कामला-पाण्डु-हृद्-रोग-कुष्ठार्शो-मेह-नाशनम् ।
गुड-नागर-मण्डूर-तिलांशान् मानतः समान् ॥ १५ ॥

पिप्पली-द्वि-गुणान् दद्याद् गुटिकां पाण्डु-रोगिणे ।
ताप्यं दार्व्यास् त्वचं चव्यं ग्रन्थिकं देवदारु च ॥ १६ ॥

व्योषादि-नवकं चैतच् चूर्णयेद् द्वि-गुणं ततः ।
मण्डूरं चाञ्जन-निभं सर्वतो ऽष्ट-गुणे ऽथ तत् ॥ १७ ॥

१६.१७av व्योषादि-नवकं चेति पृथग् विपक्वे गो-मूत्रे वटकी-करण-क्षमे ।
प्रक्षिप्य वटकान् कुर्यात् तान् खादेत् तक्र-भोजनः ॥ १८ ॥

एते मण्डूर-वटकाः प्राण-दाः पाण्डु-रोगिणाम् ।
कुष्ठान्य् अ-जरकं शोफम् ऊरु-स्तम्भम् अ-रोचकम् ॥ १९ ॥

अर्शांसि कामलां मेहान् प्लीहानं शमयन्ति च ।
ताप्याद्रि-जतु-रौप्यायो-मलाः पञ्च-पलाः पृथक् ॥ २० ॥

चित्रक-त्रि-फला-व्योष-विडङ्गैः पालिकैः सह ।
शर्कराष्ट-पलोन्मिश्राश् चूर्णिता मधुना द्रुताः ॥ २१ ॥

१६.२१dv चूर्णिता मधुना युताः १६.२१dv चूर्णिताः स-मधु-द्रुताः पाण्डु-रोगं विषं कासं यक्ष्माणं विषमं ज्वरम् ।
कुष्ठान्य् अ-जरकं मेहं शोफं श्वासम् अ-रोचकम् ॥ २२ ॥

विशेषाद् धन्त्य् अपस्मारं कामलां गुद-जानि च ।
कौटज-त्रि-फला-निम्ब-पटोल-घन-नागरैः ॥ २३ ॥

भावितानि दशाहानि रसैर् द्वि-त्रि-गुणानि वा ।
शिला-जतु-पलान्य् अष्टौ तावती सित-शर्करा ॥ २४ ॥

त्वक्क्षीरी-पिप्पली-धात्री-कर्कटाख्याः पलोन्मिताः ।
निदिग्ध्याः फल-मूलाभ्यां पलं युक्त्या त्रि-जातकम् ॥ २५ ॥

१६.२५cv निदिग्धा-फल-मूलाभ्यां मधु-त्रि-पल-संयुक्तान् कुर्याद् अक्ष-समान् गुडान् ।
दाडिमाम्बु-पयः-पक्षि-रस-तोय-सुरासवान् ॥ २६ ॥

१६.२६av मधु-त्रि-पल-संयुक्तं तान् भक्षयित्वानुपिबेन् निर्-अन्नो भुक्त एव वा ।
पाण्डु-कुष्ठ-ज्वर-प्लीह-तमकार्शो-भगन्दरम् ॥ २७ ॥

हृन्-मूत्र-पूति-शुक्राग्नि-दोष-शोष-गरोदरम् ।
कासासृग्-दर-पित्तासृक्-शोफ-गुल्म-गलामयान् ॥ २८ ॥

मेह-वर्ध्म-भ्रमान् हन्युः सर्व-दोष-हराः शिवाः ।
द्राक्षा-प्रस्थं कणा-प्रस्थं शर्करार्ध-तुलां तथा ॥ २९ ॥

द्वि-पलं मधुकं शुण्ठीं त्वक्क्षीरीं च विचूर्णितम् ।
धात्री-फल-रस-द्रोणे तत् क्षिप्त्वा लेह-वत् पचेत् ॥ ३० ॥

शीतान् मधु-प्रस्थ-युताद् लिह्यात् पाणि-तलं ततः ।
हलीमकं पाण्डु-रोगं कामलां च नियच्छति ॥ ३१ ॥

कनीयः-पञ्च-मूलाम्बु शस्यते पान-भोजने ।
पाण्डूनां कामलार्तानां मृद्वीकामलकाद् रसः ॥ ३२ ॥

इति सामान्यतः प्रोक्तं पाण्डु-रोगे भिषग्-जितम् ।
विकल्प्य योज्यं विदुषा पृथग् दोष-बलं प्रति ॥ ३३ ॥

१६.३३bv पाण्डु-रोग-भिषग्-जितम् स्नेह-प्रायं पवन-जे तिक्त-शीतं तु पैत्तिके ।
श्लैष्मिके कटु-रूक्षोष्णं विमिश्रं सांनिपातिके ॥ ३४ ॥

१६.३४cv श्लैष्मिके कटु-तीक्ष्णोष्णं १६.३४dv विमिश्रं संनिपात-जे मृदं निर्यापयेत् कायात् तीक्ष्णैः संशोधनैः पुरः ।
बलाधानानि सर्पींषि शुद्धे कोष्ठे तु योजयेत् ॥ ३५ ॥

१६.३५av मृदं निर्वापयेत् कायात् १६.३५dv शुद्धे कोष्ठे नियोजयेत् व्योष-बिल्व-द्वि-रजनी-त्रि-फला-द्वि-पुनर्नवम् ।
मुस्तान्य् अयो-रजः पाठा विडङ्गं देवदारु च ॥ ३६ ॥

वृश्चिकाली च भार्गी च स-क्षीरैस् तैः शृतं घृतम् ।
सर्वान् प्रशमयत्य् आशु विकारान् मृत्तिका-कृतान् ॥ ३७ ॥

तद्-वत् केसर-यष्ट्य्-आह्व-पिप्पली-क्षीर-शाद्वलैः ।
मृद्-द्वेषणाय तल्-लौल्ये वितरेद् भावितां मृदम् ॥ ३८ ॥

वेल्लाग्नि-निम्ब-प्रसवैः पाठया मूर्वयाथ-वा ।
मृद्-भेद-भिन्न-दोषानुगमाद् योज्यं च भेषजम् ॥ ३९ ॥

कामलायां तु पित्त-घ्नं पाण्डु-रोगा-विरोधि यत् ।
पथ्या-शत-रसे पथ्या-वृन्तार्ध-शत-कल्कितः ॥ ४० ॥

प्रस्थः सिद्धो घृताद् गुल्म-कामला-पाण्डु-रोग-नुत् ।
आरग्वधं रसेनेक्षोर् विदार्य्-आमलकस्य वा ॥ ४१ ॥

स-त्र्य्-ऊषणं बिल्व-मात्रं पाययेत् कामलापहम् ।
पिबेन् निकुम्भ-कल्कं वा द्वि-गुडं शीत-वारिणा ॥ ४२ ॥

१६.४२dv द्वि-गुणं शीत-वारिणा कुम्भस्य चूर्णं स-क्षौद्रं त्रैफलेन रसेन वा ।
त्रि-फलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम् ॥ ४३ ॥

प्रातः प्रातर् मधु-युतं कामलार्ताय योजयेत् ।
निशा-गैरिक-धात्रीभिः कामलापहम् अञ्जनम् ॥ ४४ ॥

१६.४४cv शिला-गैरिक-धात्रीभिः तिल-पिष्ट-निभं यस् तु कामला-वान् सृजेन् मलम् ।
कफ-रुद्ध-पथं तस्य पित्तं कफ-हरैर् जयेत् ॥ ४५ ॥

रूक्ष-शीत-गुरु-स्वादु-व्यायाम-बल-निग्रहैः ।
कफ-संमूर्छितो वायुर् यदा पित्तं बहिः क्षिपेत् ॥ ४६ ॥

हारिद्र-नेत्र-मूत्र-त्वक् श्वेत-वर्चास् तदा नरः ।
भवेत् साटोप-विष्टम्भो गुरुणा हृदयेन च ॥ ४७ ॥

दौर्बल्याल्पाग्नि-पार्श्वार्ति-हिध्मा-श्वासा-रुचि-ज्वरैः ।
क्रमेणाल्पे ऽनुषज्येत पित्ते शाखा-समाश्रिते ॥ ४८ ॥

रसैस् तं रूक्ष-कट्व्-अम्लैः शिखि-तित्तिरि-दक्ष-जैः ।
शुष्क-मूलक-जैर् यूषैः कुलत्थोत्थैश् च भोजयेत् ॥ ४९ ॥

भृशाम्ल-तीक्ष्ण-कटुक-लवणोष्णं च शस्यते ।
स-बीजपूरक-रसं लिह्याद् व्योषं तथाशयम् ॥ ५० ॥

स्वं पित्तम् एति तेनास्य शकृद् अप्य् अनुरज्यते ।
वायुश् च याति प्रशमं सहाटोपाद्य्-उपद्रवैः ॥ ५१ ॥

निवृत्तोपद्रवस्यास्य कार्यः कामलिको विधिः ।
गो-मूत्रेण पिबेत् कुम्भ-कामलायां शिला-जतु ॥ ५२ ॥

मासं माक्षिक-धातुं वा किट्टं वाथ हिरण्य-जम् ।
गुडूची-स्व-रस-क्षीर-साधितेन हलीमकी ॥ ५३ ॥

महिषी-हविषा स्निग्धः पिबेद् धात्री-रसेन तु ।
त्रिवृतां तद्-विरिक्तो ऽद्यात् स्वादु पित्तानिलापहम् ॥ ५४ ॥

द्राक्षा-लेहं च पूर्वोक्तं सर्पींषि मधुराणि च ।
यापनान् क्षीर-वस्तींश् च शीलयेत् सानुवासनान् ॥ ५५ ॥

मार्द्वीकारिष्ट-योगांश् च पिबेद् युक्त्याग्नि-वृद्धये ।
कासिकं चाभया-लेहं पिप्पलीं मधुकं बलाम् ॥ ५६ ॥

१६.५६cv कासिकं वाभया-लेहं पयसा च प्रयुञ्जीत यथा-दोषं यथा-बलम् ।
पाण्डु-रोगेषु कुशलः शोफोक्तं च क्रिया-क्रमम् ॥ ५७ ॥

अयस्-तिल-त्र्य्-ऊषण-कोल-भागैः सर्वैः समं माक्षिक-धातु-चूर्णम् ।
तैर् मोदकः क्षौद्र-युतो ऽनु-तक्रः पाण्ड्व्-आमये दूर-गते ऽपि शस्तः ॥ ५७+१ ॥



अध्याय 17[सम्पाद्यताम्]
सर्व-त्र सर्वाङ्ग-सरे दोष-जे श्वयथौ पुरा ।
सामे विशोषितो भुक्त्वा लघु कोष्णाम्भसा पिबेत् ॥ १ ॥

नागरातिविषा-दारु-विडङ्गेन्द्रयवोषणम् ।
अथ-वा विजया-शुण्ठी-देवदारु-पुनर्नवम् ॥ २ ॥

नवायसं वा दोषाढ्यः शुद्ध्यै मूत्र-हरीतकीः ।
वरा-क्वाथेन कटुका-कुम्भायस्-त्र्य्-ऊषणानि च ॥ ३ ॥

१७.३bv शुद्ध्यै मूत्र-हरीतकीम् अथ-वा गुग्गुलुं तद्-वज् जतु वा शैल-संभवम् ।
मन्दाग्निः शीलयेद् आम-गुरु-भिन्न-विबन्ध-विट् ॥ ४ ॥

तक्रं सौवर्चल-व्योष-क्षौद्र-युक्तं गुडाभयाम् ।
तक्रानु-पानाम् अथ-वा तद्-वद् वा गुड-नागरम् ॥ ५ ॥

आर्द्रकं वा सम-गुडं प्रकुञ्चार्ध-विवर्धितम् ।
परं पञ्च-पलं मासं यूष-क्षीर-रसाशनः ॥ ६ ॥

गुल्मोदरार्शः-श्वयथु-प्रमेहाञ् छ्वास-प्रतिश्यालसका-विपाकान् ।
स-कामला-शोष-मनो-विकारान् कासं कफं चैव जयेत् प्रयोगः ॥ ७ ॥

घृतम् आर्द्रक-नागरस्य कल्क-स्व-रसाभ्यां पयसा च साधयित्वा ।
श्वयथु-क्षवथूदराग्नि-सादैर् अभिभूतो ऽपि पिबन् भवत्य् अ-रोगः ॥ ८ ॥

रसस् तथैवार्द्रक-नागरस्य पेयो ऽथ जीर्णे पयसान्नम् अद्यात् ।
शिलाह्वयं वा त्रि-फला-रसेन हन्यात् त्रि-दोषं श्वयथुं प्रसह्य ॥ ८+१ ॥

पुनर्नवा-निम्ब-पटोल-शुण्ठी- तिक्तामृता-दार्व्य्-अभया-कषायः ।
सर्वाङ्ग-शोफोदर-कास-शूल-श्वासान्वितं पाण्डु-गदं च हन्ति ॥ ८+२ ॥

निर्-आमो बद्ध-शमलः पिबेच् छ्वयथु-पीडितः ।
त्रि-कटु-त्रिवृता-दन्ती-चित्रकैः साधितं पयः ॥ ९ ॥

मूत्रं गोर् वा महिष्या वा स-क्षीरं क्षीर-भोजनः ।
सप्ताहं मासं अथ-वा स्याद् उष्ट्र-क्षीर-वर्तनः ॥ १० ॥

१७.१०dv स्याद् उष्ट्री-क्षीर-वर्तनः यवानकं यव-क्षारं यवानीं पञ्च-कोलकम् ।
मरिचं दाडिमं पाठां धानकाम् अम्ल-वेतसम् ॥ ११ ॥

बाल-बिल्वं च कर्षांशं साधयेत् सलिलाढके ।
तेन पक्वो घृत-प्रस्थः शोफार्शो-गुल्म-मेह-हा ॥ १२ ॥

दध्नश् चित्रक-गर्भाद् वा घृतं तत्-तक्र-संयुतम् ।
पक्वं स-चित्रकं तद्-वद् गुणैर् युञ्ज्याच् च काल-वित् ॥ १३ ॥

धान्वन्तरं महा-तिक्तं कल्याणम् अभया-घृतम् ।
दश-मूल-कषायस्य कंसे पथ्या-शतं पचेत् ॥ १४ ॥

दत्त्वा गुड-तुलां तस्मिन् लेहे दद्याद् विचूर्णितम् ।
त्रि-जातकं त्रि-कटुकं किञ्-चिच् च यव-शूक-जम् ॥ १५ ॥

प्रस्थार्धं च हिमे क्षौद्रात् तन् निहन्त्य् उपयोजितम् ॥ १६अब् ॥
प्रवृद्ध-शोफ-ज्वर-मेह-गुल्म-कार्श्याम-वाताम्लक-रक्त-पित्तम् ॥ १६च्द् ॥
वैवर्ण्य-मूत्रानिल-शुक्र-दोष-श्वासा-रुचि-प्लीह-गरोदरं च ॥ १६एf ॥
पुराण-यव-शाल्य्-अन्नं दश-मूलाम्बु-साधितम् ॥ १७अब् ॥
अल्पम् अल्प-पटु-स्नेहं भोजनं श्वयथोर् हितम् ।
क्षार-व्योषान्वितैर् मौद्गैः कौलत्थैः स-कणै रसैः ॥ १८ ॥

१७.१८bv भोजनं श्वयथौ हितम् तथा जाङ्गल-जैः कूर्म-गोधा-शल्यक-जैर् अपि ।
अन्-अम्लं मथितं पाने मद्यान्य् औषध-वन्ति च ॥ १९ ॥

अजाजी-शठी-जिवन्ती-कारवी-पौष्कराग्निकैः ।
बिल्व-मध्य-यव-क्षार-वृक्षाम्लैर् बदरोन्मितैः ॥ २० ॥

कृता पेयाज्य-तैलाभ्यां युक्ति-भृष्टा परं हिता ।
शोफातीसार-हृद्-रोग-गुल्मार्शो-ऽल्पाग्नि-मेहिनाम् ॥ २१ ॥

गुणैस् तद्-वच् च पाठायाः पञ्च-कोलेन साधिता ।
शैलेय-कुष्ठ-स्थौणेय-रेणुकागुरु-पद्मकैः ॥ २२ ॥

श्रीवेष्टक-नख-स्पृक्का-देवदारु-प्रियङ्गुभिः ।
मांसी-मागधिका-वन्य-धान्य-ध्यामक-वालकैः ॥ २३ ॥

चतुर्-जातक-तालीश-मुस्ता-गन्ध-पलाशकैः ।
कुर्याद् अभ्यञ्जनं तैलं लेपं स्नानाय तूदकम् ॥ २४ ॥

स्नानं वा निम्ब-वर्षाभू-नक्तमालार्क-वारिणा ।
एकाङ्ग-शोफे वर्षाभू-करवीरक-किंशुकैः ॥ २५ ॥

विशाला-त्रि-फला-लोध्र-नलिका-देवदारुभिः ।
हिंस्रा-कोशातकी-माद्री-तालपर्णी-जयन्तिभिः ॥ २६ ॥

स्थूल-काकादनी-शाल-नाकुली-वृषपर्णिभिः ।
वृद्ध्यर्द्धि-हस्तिकर्णैश् च सुखोष्णैर् लेपनं हितम् ॥ २७ ॥

अथानिलोत्थे श्वयथौ मासार्धं त्रिवृतं पिबेत् ।
तैलम् एरण्ड-जं वात-विड्-विबन्धे तद् एव तु ॥ २८ ॥

प्राग्-भक्तं पयसा युक्तं रसैर् वा कारयेत् तथा ।
स्वेदाभ्यङ्गान् समीर-घ्नान् लेपम् एकाङ्ग-गे पुनः ॥ २९ ॥

मातुलुङ्गाग्निमन्थेन शुण्ठी-हिंस्रामराह्वयैः ।
पैत्ते तिक्तं पिबेत् सर्पिर् न्यग्रोधाद्येन वा शृतम् ॥ ३० ॥

क्षीरं तृड्-दाह-मोहेषु लेपाभ्यङ्गाश् च शीतलाः ।
पटोल-मूल-त्रायन्ती-यष्ट्य्-आह्व-कटुकाभयाः ॥ ३१ ॥

१७.३१cv पटोल-मूर्वा-त्रायन्ती- दारु दार्वी हिमं दन्ती विशाला निचुलं कणा ।
तैः क्वाथः स-घृतः पीतो हन्त्य् अन्तस्-ताप-तृड्-भ्रमान् ॥ ३२ ॥

१७.३२cv तत्-क्वाथः स-घृतः पीतो स-संनिपात-वीसर्प-शोफ-दाह-विष-ज्वरान् ।
आरग्वधादिना सिद्धं तैलं श्लेष्मोद्भवे पिबेत् ॥ ३३ ॥

१७.३३bv -शोफ-दाह-मद-ज्वरान् स्रोतो-विबन्धे मन्दे ऽग्नाव् अ-रुचौ स्तिमिताशयः ।
क्षार-चूर्णासवारिष्ट-मूत्र-तक्राणि शीलयेत् ॥ ३४ ॥

कृष्णा-पुराण-पिण्याक-शिग्रु-त्वक्-सिकतातसीः ।
प्रलेपोन्मर्दने युञ्ज्यात् सुखोष्णा मूत्र-कल्किताः ॥ ३५ ॥

स्नानं मूत्राम्भसी सिद्धे कुष्ठ-तर्कारि-चित्रकैः ।
कुलत्थ-नागराभ्यां वा चण्डागुरु विलेपने ॥ ३६ ॥

कालाजशृङ्गी-सरल-बस्तगन्धा-हयाह्वयाः ।
एकैषीका च लेपः स्याच् छ्वयथाव् एक-गात्र-गे ॥ ३७ ॥

यष्टी-दुग्ध-तिलैर् लेपो नव-नीतेन संयुतः ।
शोफम् आरुष्करं हन्ति वृन्तैः शाल-दलस्य वा ॥ ३७+१ ॥

यथा-दोषं यथासन्नं शुद्धिं रक्तावसेचनम् ।
कुर्वीत मिश्र-दोषे तु दोषोद्रेक-बलात् क्रियाम् ॥ ३८ ॥

अजाजि-पाठा-घन-पञ्च-कोल-व्याघ्री-रजन्यः सुख-तोय-पीताः ।
शोफं त्रि-दोषं चिर-जं प्रवृद्धं निघ्नन्ति भूनिम्ब-महौषधे च ॥ ३९ ॥

अमृता-द्वितयं शिवातिका सुरकाष्ठं स-पुरं स-गो-जलम् ।
श्वयथूदर-कुष्ठ-पाण्डु-ता-कृमि-मेहोर्ध्व-कफानिलापहम् ॥ ४० ॥

इति निजम् अधिकृत्य पथ्यम् उक्तं क्षत-जनिते क्षत-जं विशोधनीयम् ।
स्रुति-हिम-घृत-लेप-सेक-रेकैर् विष-जनिते विष-जिच् च शोफ इष्टम् ॥ ४१ ॥

ग्राम्याब्-जानूपं पिशितम् अ-बलं शुष्क-शाकं तिलान्नं ॥ ४२अ ॥
गौडं पिष्टान्नं दधि स-लवणं विज्जलं मद्यम् अम्लम् ॥ ४२ब् ॥
१७.४२bv गौडं पिष्टान्नं दधि स-लवणं निर्-जलं मद्यम् अम्लम् धाना वल्लूरं समशनम् अथो गुर्व् अ-सात्म्यं विदाहि ॥ ४२च् ॥
स्वप्नं चा-रात्रौ श्वयथु-गद-वान् वर्जयेन् मैथुनं च ॥ ४२द् ॥

अध्याय 18[सम्पाद्यताम्]
आदाव् एव विसर्पेषु हितं लङ्घन-रूक्षणम् ।
रक्तावसेको वमनं विरेकः स्नेहनं न तु ॥ १ ॥

प्रच्छर्दनं विसर्प-घ्नं स-यष्टीन्द्रयवं फलम् ।
पटोल-पिप्पली-निम्ब-पल्लवैर् वा समन्वितम् ॥ २ ॥

रसेन युक्तं त्रायन्त्या द्राक्षायास् त्रैफलेन वा ।
विरेचनं त्रिवृच्-चूर्णं पयसा सर्पिषाथ-वा ॥ ३ ॥

योज्यं कोष्ठ-गते दोषे विशेषेण विशोधनम् ।
अ-विशोध्यस्य दोषे ऽल्पे शमनं चन्दनोत्पलम् ॥ ४ ॥

मुस्त-निम्ब-पटोलं वा पटोलादिकम् एव वा ।
शारिवामलकोशीर-मुस्तं वा क्वथितं जले ॥ ५ ॥

दुरालभां पर्पटकं गुडूचीं विश्व-भेषजम् ।
पाक्यं शीत-कषायं वा तृष्णा-विसर्प-वान् पिबेत् ॥ ६ ॥

दार्वी-पटोल-कटुका-मसूर-त्रि-फलास् तथा ।
स-निम्ब-यष्टी-त्रायन्तीः क्वथिता घृत-मूर्छिताः ॥ ७ ॥

अमृत-वृष-पटोलं मुस्तकं सप्तपर्णं ॥ ७+१अ ॥
खदिरम् असित-वेत्रं निम्ब-पत्त्रं हरिद्रे ॥ ७+१ब् ॥
विविध-विष-विसर्पान् कुष्ठ-विस्फोट-कण्डूर् ॥ ७+१च् ॥
अपनयति मसूरीं शीत-पित्तं ज्वरं च ॥ ७+१द् ॥
शाखा-दुष्टे तु रुधिरे रक्तम् एवादितो हरेत् ।
त्वङ्-मांस-स्नायु-संक्लेदो रक्त-क्लेदाद् धि जायते ॥ ८ ॥

निर्-आमे श्लेष्मणि क्षीणे वात-पित्तोत्तरे हितम् ।
घृतं तिक्तं महा-तिक्तं शृतं वा त्रायमाणया ॥ ९ ॥

निर्हृते ऽस्रे विशुद्धे ऽन्तर्-दोषे त्वङ्-मांस-संधि-गे ।
बहिः-क्रियाः प्रदेहाद्याः सद्यो विसर्प-शान्तये ॥ १० ॥

शताह्वा-मुस्त-वाराही-वंशार्तगल-धान्यकम् ।
सुराह्वा कृष्णगन्धा च कुष्ठं चालेपनं चले ॥ ११ ॥

१८.११dv कुष्ठं वालेपनं चले न्यग्रोधादि-गणः पित्ते तथा पद्मोत्पलादिकम् ।
न्यग्रोध-पादास् तरुणाः कदली-गर्भ-संयुताः ॥ १२ ॥

बिस-ग्रन्थिश् च लेपः स्याच् छत-धौत-घृताप्लुतः ।
पद्मिनी-कर्दमः शीतः पिष्टं मौक्तिकम् एव वा ॥ १३ ॥

शङ्खः प्रवालं शुक्तिर् वा गैरिकं वा घृतान्वितम् ।
त्रि-फला-पद्मकोशीर-समङ्गा-करवीरकम् ॥ १४ ॥

१८.१४dv -समङ्गा-करवीर-जम् नल-मूलान्य् अनन्ता च लेपः श्लेष्म-विसर्प-हा ।
धव-सप्ताह्व-खदिर-देवदारु-कुरण्टकम् ॥ १५ ॥

स-मुस्तारग्वधं लेपो वर्गो वा वरुणादिकः ।
आरग्वधस्य पत्त्राणि त्वचः श्लेष्मातकोद्भवाः ॥ १६ ॥

इन्द्राणि-शाकं काकाह्वा शिरीष-कुसुमानि च ।
सेक-व्रणाभ्यङ्ग-हविर्-लेप-चूर्णान् यथा-यथम् ॥ १७ ॥

१८.१७av इन्द्राणि-शाक-काकाह्वा- १८.१७bv -शिरीष-कुसुमानि च एतैर् एवौषधैः कुर्याद् वायौ लेपा घृताधिकाः ।
कफ-स्थान-गते सामे पित्त-स्थान-गते ऽथ-वा ॥ १८ ॥

अ-शीतोष्णा हिता रूक्षा रक्त-पित्ते घृतान्विताः ।
अत्य्-अर्थ-शीतास् तनवस् तनु-वस्त्रान्तरा-स्थिताः ॥ १९ ॥

१८.१९dv तनु-वस्त्रान्तर-स्थिताः योज्याः क्षणे क्षणे ऽन्ये ऽन्ये मन्द-वीर्यास् त एव च ।
संसृष्ट-दोषे संसृष्टम् एतत् कर्म प्रशस्यते ॥ २० ॥

शत-धौत-घृतेनाग्निं प्रदिह्यात् केवलेन वा ।
सेचयेद् घृत-मण्डेन शीतेन मधुकाम्बुना ॥ २१ ॥

सिताम्भसाम्भो-द-जलैः क्षीरेणेक्षु-रसेन वा ।
पान-लेपन-सेकेषु महा-तिक्तं परं हितम् ॥ २२ ॥

१८.२२av सिताम्भसाम्भो-ज-जलैः ग्रन्थ्य्-आख्ये रक्त-पित्त-घ्नं कृत्वा सम्यग् यथोदितम् ।
कफानिल-घ्नं कर्मेष्टं पिण्ड-स्वेदोपनाहनम् ॥ २३ ॥

ग्रन्थि-विसर्प-शूले तु तैलेनोष्णेन सेचयेत् ।
दश-मूल-विपक्वेन तद्-वन् मूत्रैर् जलेन वा ॥ २४ ॥

सुखोष्णया प्रदिह्याद् वा पिष्टया कृष्णगन्धया ।
नक्तमाल-त्वचा शुष्क-मूलकैः कलिनाथ-वा ॥ २५ ॥

दन्ती चित्रक-मूल-त्वक् सौधार्क-पयसी गुडः ।
भल्लातकास्थि कासीसं लेपो भिन्द्याच् छिलाम् अपि ॥ २६ ॥

१८.२६bv स्नुह्य्-अर्क-पयसी गुडः बहिर्-मार्गाश्रितं ग्रन्थिं किं पुनः कफ-संभवम् ।
दीर्घ-काल-स्थितं ग्रन्थिम् एभिर् भिन्द्याच् च भेषजैः ॥ २७ ॥

मूलकानां कुलत्थानां यूषैः स-क्षार-दाडिमैः ।
गोधूमान्नैर् यवान्नैर् वा स-सीधु-मधु-शार्करैः ॥ २८ ॥

१८.२८cv गोधूमान्नैर् यवान्नैश् च १८.२८dv स-सीधु-मधु-शर्करैः स-क्षौद्रैर् वारुणी-मण्डैर् मातुलुङ्ग-रसान्वितैः ।
त्रि-फलायाः प्रयोगैश् च पिप्पल्याः क्षौद्र-संयुतैः ॥ २९ ॥

१८.२९dv पिप्पली-क्षौद्र-संयुतैः देवदारु-गुडूच्योश् च प्रयोगैर् गिरिजस्य च ।
मुस्त-भल्लात-सक्तूनां प्रयोगैर् माक्षिकस्य च ॥ ३० ॥

धूमैर् विरेकैः शिरसः पूर्वोक्तैर् गुल्म-भेदनैः ।
तप्तायो-हेम-लवण-पाषाणादि-प्रपीडनैः ॥ ३१ ॥

आभिः क्रियाभिः सिद्धाभिर् विविधाभिर् बले स्थितः ।
ग्रन्थिः पाषाण-कठिनो यदि नैवोपशाम्यति ॥ ३२ ॥

अथास्य दाहः क्षारेण शरैर् हेम्नापि वा हितः ।
पाकिभिः पाचयित्वा वा पाटयित्वा तम् उद्धरेत् ॥ ३३ ॥

१८.३३cv पाकिभिः पाचयित्वा च मोक्षयेद् बहु-शश् चास्य रक्तम् उत्क्लेशम् आगतम् ।
पुनश् चापहृते रक्ते वात-श्लेष्म-जिद् औषधम् ॥ ३४ ॥

प्रक्लिन्ने दाह-पाकाभ्यां बाह्यान्तर् व्रण-वत् क्रिया ।
दार्वी-विडङ्ग-कम्पिल्लैः सिद्धं तैलं व्रणे हितम् ॥ ३५ ॥

दूर्वा-स्व-रस-सिद्धं तु कफ-पित्तोत्तरे घृतम् ।
एकतः सर्व-कर्माणि रक्त-मोक्षणम् एकतः ॥ ३६ ॥

विसर्पो न ह्य् अ-संसृष्टः स ऽस्र-पित्तेन जायते ।
रक्तम् एवाश्रयश् चास्य बहु-शो ऽस्रं हरेद् अतः ॥ ३७ ॥

न घृतं बहु-दोषाय देयं यन् न विरेचनम् ।
तेन दोषो ह्य् उपस्तब्धस् त्वग्-रक्त-पिशितं पचेत् ॥ ३८ ॥



अध्याय 19[सम्पाद्यताम्]
कुष्ठिनं स्नेह-पानेन पूर्वं सर्वम् उपाचरेत् ।
तत्र वातोत्तरे तैलं घृतं वा साधितं हितम् ॥ १ ॥

दश-मूलामृतैरण्ड-शार्ङ्गष्टा-मेषशृङ्गिभिः ।
पटोल-निम्ब-कटुका-दार्वी-पाठा-दुरालभाः ॥ २ ॥

पर्पटं त्रायमाणां च पलांशं पाचयेद् अपाम् ।
द्व्य्-आढके ऽष्टांश-शेषेण तेन कर्षोन्मितैस् तथा ॥ ३ ॥

त्रायन्ती-मुस्त-भूनिम्ब-कलिङ्ग-कण-चन्दनैः ।
सर्पिषो द्वा-दश-पलं पचेत् तत् तिक्तकं जयेत् ॥ ४ ॥

पित्त-कुष्ठ-परीसर्प-पिटिका-दाह-तृड्-भ्रमान् ।
कण्डू-पाण्ड्व्-आमयान् गण्डान् दुष्ट-नाडी-व्रणापचीः ॥ ५ ॥

विस्फोट-विद्रधी-गुल्म-शोफोन्माद-मदान् अपि ।
हृद्-रोग-तिमिर-व्यङ्ग-ग्रहणी-श्वित्र-कामलाः ॥ ६ ॥

भगन्दरम् अपस्मारम् उदरं प्रदरं गरम् ।
अर्शो-ऽस्र-पित्तम् अन्यांश् च सु-कृच्छ्रान् पित्त-जान् गदान् ॥ ७ ॥

स-प्रच्छदः पर्पटकः शम्याकः कटुका वचा ।
त्रि-फला पद्मकं पाठा रजन्यौ शारिवे कणे ॥ ८ ॥

निम्ब-चन्दन-यष्ट्य्-आह्व-विशालेन्द्रयवामृताः ।
किराततिक्तकं सेव्यं वृषो मूर्वा शतावरी ॥ ९ ॥

पटोलातिविषा-मुस्ता-त्रायन्ती-धन्वयासकम् ।
तैर् जले ऽष्ट-गुणे सर्पिर् द्वि-गुणामलकी-रसे ॥ १० ॥

सिद्धं तिक्तान् महा-तिक्तं गुणैर् अभ्यधिकं मतम् ।
कफोत्तरे घृतं सिद्धं निम्ब-सप्ताह्व-चित्रकैः ॥ ११ ॥

कुष्ठोषण-वचा-शाल-प्रियाल-चतुरङ्गुलैः ।
सर्वेषु चारुष्कर-जं तौबरं सार्षपं पिबेत् ॥ १२ ॥

स्नेहं घृतं वा कृमिजित्-पथ्या-भल्लातकैः शृतम् ।
आरग्वधस्य मूलेन शत-कृत्वः शृतं घृतम् ॥ १३ ॥

१९.१३bv -पथ्या-भल्लातक-शृतम् १९.१३dv सप्त-कृत्वः शृतं घृतम् पिबन् कुष्ठं जयत्य् आशु भजन् स-खदिरं जलम् ।
एभिर् एव यथा-स्वं च स्नेहैर् अभ्यञ्जनं हितम् ॥ १४ ॥

१९.१४av पिबेत् कुष्ठं जयत्य् आशु स्निग्धस्य शोधनं योज्यं विसर्पे यद् उदाहृतम् ।
ललाट-हस्त-पादेषु सिराश् चास्य विमोक्षयेत् ॥ १५ ॥

प्रच्छानम् अल्पके कुष्ठे शृङ्गाद्याश् च यथा-यथम् ।
स्नेहैर् आप्याययेच् चैनं कुष्ठ-घ्नैर् अन्तरान्तरा ॥ १६ ॥

मुक्त-रक्त-विरिक्तस्य रिक्त-कोष्ठस्य कुष्ठिनः ।
प्रभञ्जनस् तथा ह्य् अस्य न स्याद् देह-प्रभञ्जनः ॥ १७ ॥

वासामृता-निम्ब-वरा-पटोल-व्याघ्री-करञ्जोदक-कल्क-पक्वम् ।
सर्पिर् विसर्प-ज्वर-कामलास्र-कुष्ठापहं वज्रकम् आमनन्ति ॥ १८ ॥

त्रि-फला-त्रि-कटु-द्वि-कण्टकारी-कटुका-कुम्भ-निकुम्भ-राजवृक्षैः ।
स-वचातिविषाग्निकैः स-पाठैः पिचु-भागैर् नव-वज्र-दुग्ध-मुष्ट्या ॥ १९ ॥

पिष्टैः सिद्धं सर्पिषः प्रस्थम् एभिः क्रूरे कोष्ठे स्नेहनं रेचनं च ।
कुष्ठ-श्वित्र-प्लीह-वर्ध्माश्म-गुल्मान् हन्यात् कृच्छ्रांस् तन् महा-वज्रकाख्यम् ॥ २० ॥
दन्त्य्-आढकम् अपां द्रोणे पक्त्वा तेन घृतं पचेत् ।
धामार्गव-पले पीतं तद् ऊर्ध्वाधो विशुद्धि-कृत् ॥ २१ ॥

आवर्तकी-तुलां द्रोणे पचेद् अष्टांश-शेषितम् ।
तन्-मूलैस् तत्र निर्यूहे घृत-प्रस्थं विपाचयेत् ॥ २२ ॥

पीत्वा तद् एक-दिवसान्तरितं सु-जीर्णे भुञ्जीत कोद्रवम् अ-संस्कृत-काञ्जिकेन ।
कुष्ठं किलासम् अपचीं च विजेतुम् इच्छन् इच्छन् प्रजां च विपुलां ग्रहणं स्मृतिं च ॥
२३ ॥

१९.२३bv भुञ्जीत कोद्रव-सु-संस्कृत-काञ्जिकेन यतेर् लेलीतक-वसा क्षौद्र-जाती-रसान्विता ।
कुष्ठ-घ्नी सम-सर्पिर् वा स-गायत्र्य्-असनोदका ॥ २४ ॥

शालयो यव-गोधूमाः कोरदूषाः प्रियङ्गवः ।
मुद्गा मसूरास् तुबरी तिक्त-शाकानि जाङ्गलम् ॥ २५ ॥

वरा-पटोल-खदिर-निम्बारुष्कर-योजितम् ।
मद्यान्य् औषध-गर्भाणि मथितं चेन्दुराजि-मत् ॥ २६ ॥

अन्न-पानं हितं कुष्ठे न त्व् अम्ल-लवणोषणम् ।
दधि-दुग्ध-गुडानूप-तिल-माषांस् त्यजेत्-तराम् ॥ २७ ॥

पटोल-मूल-त्रि-फला-विशालाः पृथक्-त्रि-भागापचित-त्रि-शाणाः ।
स्युस् त्रायमाणा कटु-रोहिणी च भागार्धिके नागर-पाद-युक्ते ॥ २८ ॥

एतत् पलं जर्जरितं विपक्वं जले पिबेद् दोष-विशोधनाय ।
जीर्णे रसैर् धन्व-मृग-द्वि-जानां पुराण-शाल्य्-ओदनम् आददीत ॥ २९ ॥

कुष्ठं किलासं ग्रहणी-प्रदोषम् अर्शांसि कृच्छ्राणि हलीमकं च ।
षड्-रात्र-योगेन निहन्ति चैतद् हृद्-वस्ति-शूलं विषम-ज्वरं च ॥ ३० ॥

१९.३०cv षड्-रात्र-योगेन निहन्ति चैष विडङ्ग-सारामलकाभयानां पल-त्रयं त्रीणि पलानि कुम्भात् ।
गुडस्य च द्वा-दश मासम् एष जितात्मनां हन्त्य् उपयुज्य्मानः ॥ ३१ ॥

कुष्ठ-श्वित्र-श्वास-कासोदरार्शो-मेह-प्लीह-ग्रन्थि-रुग्-जन्तु-गुल्मान् ।
सिद्धं योगं प्राह यक्षो मुमुक्षोर् भिक्षोः प्राणान् माणिभद्रः किलेमम् ॥ ३२ ॥

भूनिम्ब-निम्ब-त्रि-फला-पद्मकातिविषा-कणाः ।
मूर्वा-पटोली-द्वि-निशा-पाठा-तिक्तेन्द्रवारुणीः ॥ ३३ ॥

स-कलिङ्ग-वचास् तुल्या द्वि-गुणाश् च यथोत्तरम् ।
लिह्याद् दन्ती-त्रिवृद्-ब्राह्मीस् चूर्णिता मधु-सर्पिषा ॥ ३४ ॥

कुष्ठ-मेह-प्रसुप्तीनां परमं स्यात् तद् औषधम् ।
वरा-विडङ्ग-कृष्णा वा लिह्यात् तैलाज्य-माक्षिकैः ॥ ३५ ॥

१९.३५av कुष्ठ-मेह-प्रतप्तानां काकोदुम्बरिका-वेल्ल-निम्बाब्द-व्योष-कल्क-वान् ।
हन्ति वृक्षक-निर्यूहः पानात् सर्वांस् त्वग्-आमयान् ॥ ३६ ॥

१९.३६dv पानात् सर्व-त्वग्-आमयान् कुटजाग्नि-निम्ब-नृपतरु-खदिरासन-सप्तपर्ण-निर्यूहे ।
सिद्धा मधु-घृत-युक्ताः कुष्ठ-घ्नीर् भक्षयेद् अभयाः ॥ ३७ ॥

दार्वी-खदिर-निम्बानां त्वक्-क्वाथः कुष्ठ-सूदनः ॥ ३७ऊ̆अब् ॥
निशोत्तमा-निम्ब-पटोल-मूल-तिक्ता-वचा-लोहितयष्टिकाभिः ।
कृतः कषायः कफ-पित्त-कुष्ठं सु-सेवितो धर्म इवोच्छिनत्ति ॥ ३८ ॥

एभिर् एव च शृतं घृतम् उख्यं भेषजैर् जयति मारुत-कुष्ठम् ।
कल्पयेत् खदिर-निम्ब-गुडूची-देवदारु-रजनीः पृथग् एवम् ॥ ३९ ॥

पाठा-दार्वी-वह्नि-घुणेष्टा-कटुकाभिर् ॥ ४०अ ॥
मूत्रं युक्तं शक्रयवैश् चोष्ण-जलं वा ॥ ४०ब् ॥
कुष्ठी पीत्वा मासम् अ-रुक् स्याद् गुद-कीली ॥ ४०च् ॥
मेही शोफी पाण्डुर-जीर्णी कृमि-मांश् च ॥ ४०द् ॥
लाक्षा-दन्ती-मधुरस-वरा-द्वीपि-पाठा-विडङ्ग- ॥ ४१अ ॥
१९.४१av लाक्षा-दन्ती-मधुरस-वरा-द्वीपि-पाठा-विडङ्गं -प्रत्यक्पुष्पी-त्रि-कटु-रजनी-सप्तपर्णाटरूषम् ॥ ४१ब् ॥
१९.४१bv प्रत्यक्पुष्पी-त्रि-कटु-रजनी-सप्तपर्णाटरूषम् रक्ता निम्बं सुरतरु कृतं पञ्च-मूल्यौ च चूर्णं ॥ ४१च् ॥
पीत्वा मासं जयति हित-भुग् गव्य-मूत्रेण कुष्ठम् ॥ ४१द् ॥
निशा-कणा-नागर-वेल्ल-तौबरं स-वह्नि-ताप्यं क्रम-शो विवर्धितम् ।
गवाम्बु-पीतं वटकी-कृतं तथा निहन्ति कुष्ठानि स-दारुणान्य् अपि ॥ ४२ ॥

त्रि-कटूत्तमा-तिलारुष्कराज्य-माक्षिक-सितोपला-विहिता ।
गुटिका रसायनं कुष्ठ-जिच् च वृष्या च सप्त-समा ॥ ४३ ॥

१९.४३cv गुटिका रसायनं स्यात् १९.४३च्च् ंठ-हृच् च वृष्या च सप्त-समा १९.४३dv कुष्ठ-जिच् च वृष्या च सप्त-समा चन्द्रशकलाग्नि-रजनी-विडङ्ग-तुबरास्थ्य्-अरुष्कर-त्रि-फलाभिः ।
वटका गुडांश-कॢप्ताः समस्त-कुष्ठानि नाशयन्त्य् अभ्यस्ताः ॥ ४४ ॥

विडङ्ग-भल्लातक-वाकुचीनां स-द्वीपि-वाराहि-हरीतकीनाम् ।
स-लाङ्गली-कृष्ण-तिलोपकुल्या गुडेन पिण्डी विनिहन्ति कुष्ठम् ॥ ४५ ॥

शशाङ्कलेखा स-विडङ्ग-सारा स-पिप्पलीका स-हुताश-मूला ।
सायो-मला सामलका स-तैला कुष्ठानि कृच्छ्राणि निहन्ति लीढा ॥ ४६ ॥

१९.४६av शशाङ्कलेखा स-विडङ्ग-मूला पथ्या-तिल-गुडैः पिण्डी कुष्ठं सारुष्करैर् जयेत् ।
गुडारुष्कर-जन्तुघ्न-सोमराजी-कृताथ-वा ॥ ४७ ॥

विडङ्गाद्रि-जतु-क्षौद्र-सर्पिष्-मत् खादिरं रजः ।
किटिभ-श्वित्र-दद्रू-घ्नं खादेन् मित-हिताशनः ॥ ४८ ॥

सिता-तैल-कृमिघ्नानि धात्र्य्-अयो-मल-पिप्पलीः ।
लिहानः सर्व-कुष्ठानि जयत्य् अति-गुरूण्य् अपि ॥ ४९ ॥

मुस्तं व्योषं त्रि-फला मञ्जिष्ठा दारु पञ्च-मूले द्वे ।
सप्तच्छद-निम्ब-त्वक् स-विशाला चित्रको मूर्वा ॥ ५० ॥

चूर्णं तर्पण-भागैर् नवभिः संयोजितं स-मध्व्-अंशम् ।
नित्यं कुष्ठ-निबर्हणम् एतत् प्रायोगिकं खादन् ॥ ५१ ॥

श्वयथुं स-पाण्डु-रोगं श्वित्रं ग्रहणी-प्रदोषम् अर्शांसि ।
वर्ध्म-भगन्दर-पिटिका-कण्डू-कोठापचीर् हन्ति ॥ ५२ ॥

रसायन-प्रयोगेण तुबरास्थीनि शीलयेत् ।
भल्लातकं वाकुचिकां वह्नि-मूलं शिलाह्वयम् ॥ ५३ ॥

इति दोषे विजिते ऽन्तस्-त्वक्-स्थे शमनं बहिः प्रलेपादि हितम् ।
तीक्ष्णालेपोत्क्लिष्टं कुष्ठं हि विवृद्धिम् एति मलिने देहे ॥ ५४ ॥

स्थिर-कठिन-मण्डलानां कुष्ठानां पोटलैर् हितः स्वेदः ।
स्विन्नोत्सन्नं कुष्ठं शस्त्रैर् लिखितं प्रलेपनैर् लिम्पेत् ॥ ५५ ॥

येषु न शस्त्रं क्रमते स्पर्शेन्द्रिय-नाशनेषु कुष्ठेषु ।
तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य ॥ ५६ ॥

लेपो ऽति-कठिन-परुषे सुप्ते कुष्ठे स्थिरे पुराणे च ।
पीता-गदस्य कार्यो विषैः स-मन्त्रो ऽ-गदैश् चानु ॥ ५७ ॥

१९.५७dv विषैः स-मन्त्रा-गदैश् चानु स्तब्धानि सुप्त-सुप्तान्य् अ-स्वेदन-कण्डुलानि कुष्ठानि ।
घृष्टानि शुष्क-गो-मय-फेनक-शस्त्रैः प्रदेह्यानि ॥ ५८ ॥

मुस्ता त्रि-फला मदनं करञ्ज आरग्वधः कलिङ्ग-यवाः ।
सप्ताह्व-कुष्ठ-फलिनी-दार्व्यः सिद्धार्थकं स्नानम् ॥ ५९ ॥

एष कषायो वमनं विरेचनं वर्णकस् तथोद्घर्षः ।
त्वग्-दोष-कुष्ठ-शोफ-प्रबाधनः पाण्डु-रोग-घ्नः ॥ ६० ॥

करवीर-निम्ब-कुटजाच् छम्याकाच् चित्रकाच् च मूलानाम् ।
मूत्रे दर्वी-लेपी क्वाथो लेपेन कुष्ठ-घ्नः ॥ ६१ ॥

श्वेत-करवीर-मूलं कुटज-करञ्जात् फलं त्वचो दार्व्याः ।
सुमनः-प्रवाल-युक्तो लेपः कुष्ठापहः सिद्धः ॥ ६२ ॥

शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्ष-पत्त्राणि ।
पिष्टा च काकमाची चतुर्-विधः कुष्ठ-हा लेपः ॥ ६३ ॥

व्योष-सर्षप-निशा-गृह-धूमैर् याव-शूक-पटु-चित्रक-कुष्ठैः ।
कोल-मात्र-गुटिकार्ध-विषांशा श्वित्र-कुष्ठ-हरणो वर-लेपः ॥ ६४ ॥

निम्बं हरिद्रे सुरसं पटोलं कुष्ठाश्वगन्धे सुरदारु शिग्रुः ।
स-सर्षपं तुम्बुरु-धान्य-वन्यं चण्डा च चूर्णानि समानि कुर्यात् ॥ ६५ ॥

तैस् तक्र-पिष्टैः प्रथमं शरीरं तैलाक्तम् उद्वर्तयितुं यतेत ।
तथास्य कण्डूः पिटिकाः स-कोठाः कुष्ठानि शोफाश् च शमं व्रजन्ति ॥ ६६ ॥

१९.६६cv तेनास्य कण्डूः पिटिकाः स-कोठाः मुस्तामृतासङ्ग-कटङ्कटेरी-कासीस-कम्पिल्लक-कुष्ठ-लोध्राः ।
गन्धोपलः सर्ज-रसो विडङ्गं मनःशिलाले करवीरक-त्वक् ॥ ६७ ॥

तैलाक्त-गात्रस्य कृतानि चूर्णान्य् एतानि दद्याद् अवचूर्णनार्थम् ।
दद्रूः स-कण्डूः किटिभानि पामा विचर्चिका चेति तथा न सन्ति ॥ ६८ ॥

स्नुग्-गण्डे सर्षपात् कल्कः कुकूलानल-पाचितः ।
लेपाद् विचर्चिकां हन्ति राग-वेग इव त्रपाम् ॥ ६९ ॥

मनःशिलाले मरिचानि तैलम् आर्कं पयः कुष्ठ-हरः प्रदेहः ।
तथा करञ्ज-प्रपुनाट-बीजं कुष्ठान्वितं गो-सलिलेन पिष्टम् ॥ ७० ॥

गुग्गुलु-मरिच-विडङ्गैः सर्षप-कासीस-सर्ज-रस-मुस्तैः ।
श्रीवेष्ट-कालगन्धैर् मनःशिला-कुष्ठ-कम्पिल्लैः ॥ ७१ ॥

उभय-हरिद्रा-सहितैश् चाक्रिक-तैलेन मिश्रितैर् एभिः ।
दिन-कर-कराभितप्तैः कुष्ठं घृष्टं च नष्टं च ॥ ७२ ॥

मरिचं तमाल-पत्त्रं कुष्ठं स-मनःशिलं स-कासीसम् ।
तैलेन युक्तम् उषितं सप्ताहं भाजने ताम्रे ॥ ७३ ॥

तेनालिप्तं सिध्मं सप्ताहाद् घर्म-सेविनो ऽपैति ।
मासान् नवं किलासं स्नानेन विना विशुद्धस्य ॥ ७४ ॥

मयूरक-क्षार-जले सप्त-कृत्वः परिस्रुते ।
सिद्धं ज्योतिष्मती-तैलम् अभ्यङ्गात् सिध्म-नाशनम् ॥ ७५ ॥

वायसजङ्घा-मूलं वमनी-पत्त्राणि मूलकाद् बीजम् ।
तक्रेण भौम-वारे लेपः सिध्मापहः सिद्धः ॥ ७६ ॥

जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकं पयस् तुत्थम् ।
एष घृत-तैल-पाकः सिद्धः सिद्धे च सर्ज-रसः ॥ ७७ ॥

देयः स-मधूच्छिष्टो विपादिका तेन नश्यति ह्य् अक्ता ।
चर्मैक-कुष्ठ-किटिभं कुष्ठं शाम्यत्य् अलसकं च ॥ ७८ ॥

मूलं सप्ताह्वात् त्वक् शिरीषाश्वमाराद् अर्कान् मालत्याश् चित्रकास्फोत-निम्बात् ।
बीजं कारञ्जं सार्षपं प्रापुनाटम् श्रेष्ठा जन्तुघ्नं त्र्य्-ऊषणं द्वे हरिद्रे ॥ ७९ ॥

तैलं तैलं साधितं तैः स-मूत्रैस् त्वग्-दोषाणां दुष्ट-नाडी-व्रणानाम् ।
अभ्यङ्गेन श्लेष्म-वातोद्भवानां नाशायालं वज्रकं वज्र-तुल्यम् ॥ ८० ॥

एरण्ड-तार्क्ष्य-घन-नीप-कदम्ब-भार्गी- ॥ ८१अ ॥
-कम्पिल्ल-वेल्ल-फलिनी-सुरवारुणीभिः ॥ ८१ब् ॥
निर्गुण्ड्य्-अरुष्कर-सुराह्व-सुवर्णदुग्धा- ॥ ८१च् ॥
-श्रीवेष्ट-गुग्गुलु-शिला-पटु-ताल-विश्वैः ॥ ८१द् ॥
तुल्य-स्नुग्-अर्क-दुग्धं सिद्धं तैलं स्मृतं महा-वज्रम् ।
अतिशयित-वज्रक-गुणं श्वित्रार्शो-ग्रन्थि-माला-घ्नम् ॥ ८२ ॥

कुष्ठाश्वमार-भृङ्गार्क-मूत्र-स्नुक्-क्षीर-सैन्धवैः ।
तैलं सिद्धं विषापहम् अभ्यङ्गात् कुष्ठ-जित् परम् ॥ ८३ ॥

सिद्धं सिक्थक-सिन्दूर-पुर-तुत्थक-तार्क्ष्य-जैः ।
कच्छूं विचर्चिकां चाशु कटु-तैलं निबर्हति ॥ ८४ ॥

१९.८४bv -पुर-तुत्थक-तार्क्ष्यकैः १९.८४cv पामां विचर्चिकां चाशु १९.८४dv कटु-तैलं नियच्छति लाक्षा व्योषं प्रापुनाटं च बीजं स-श्रीवेष्टं कुष्ठ-सिद्धार्थकाश् च ।
तक्रोन्मिश्रः स्याद् धरिद्रा च लेपो दद्रूषूक्तो मूलकोत्थं च बीजम् ॥ ८५ ॥

चित्रक-शोभाञ्जनकौ गुडूच्य्-अपामार्ग-देवदारूणि ।
खदिरो धवश् च लेपः श्यामा दन्ती द्रवन्ती च ॥ ८६ ॥

लाक्षा-रसाञ्जनैलाः पुनर्नवा चेति कुष्ठिनां लेपाः ।
दधि-मण्ड-युताः पादैः षट् प्रोक्ता मारुत-कफ-घ्नाः ॥ ८७ ॥

जल-वाप्य-लोह-केसर-पत्त्र-प्लव-चन्दन-मृणालानि ।
भागोत्तराणि सिद्धं प्रलेपनं पित्त-कफ-कुष्ठे ॥ ८८ ॥

तिक्त-घृतैर् धौत-घृतैर् अभ्यङ्गो दह्यमान-कुष्ठेषु ।
तैलैश् चन्दन-मधुक-प्रपौण्डरीकोत्पल-युतैश् च ॥ ८९ ॥

क्लेदे प्रपतति चाङ्गे दाहे विस्फोटके च चर्म-दले ।
शीताः प्रदेह-सेका व्यधन-विरेकौ घृतं तिक्तम् ॥ ९० ॥

खदिर-वृष-निम्ब-कुटजाः श्रेष्ठा-कृमिजित्-पटोल-मधुपर्ण्यः ।
अन्तर् बहिः प्रयुक्ताः कृमि-कुष्ठ-नुदः स-गो-मुत्राः ॥ ९१ ॥

प्रलेपोद्वर्तन-स्नान-पान-भोजन-कर्मणि ।
शीलितं खादिरं वारि सर्व-त्वग्-दोष-नाशनम् ॥ ९१+१ ॥

वातोत्तरेषु सर्पिर् वमनं श्लेष्मोत्तरेषु कुष्ठेषु ।
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे ॥ ९२ ॥

१९.९२dv रक्तस्य विरेचनं चाग्र्यम् ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्र-दोषाणाम् ।
संशोधिताशयानां सद्यः सिद्धिर् भवति तेषाम् ॥ ९३ ॥

दोषे हृते ऽपनीते रक्ते बाह्यान्तरे कृते शमने ।
स्नेहे च काल-युक्ते न कुष्ठम् अतिवर्तते साध्यम् ॥ ९४ ॥

बहु-दोषः संशोध्यः कुष्ठी बहु-शो ऽनुरक्षता प्राणान् ।
दोषे ह्य् अति-मात्र-हृते वायुर् हन्याद् अ-बलम् आशु ॥ ९५ ॥

पक्षात् पक्षाच् छर्दनान्य् अभ्युपेयान् मासान् मासाच् छोधनान्य् अप्य् अधस्-तात् ।
शुद्धिर् मूर्ध्नि स्यात् त्रि-रात्रात् त्रि-रात्रात् षष्ठे षष्ठे मास्य् असृङ्-मोक्षणं च ॥ ९६ ॥

१९.९६dv षष्ठे षष्ठे मास्य् असृङ्-मोक्षणानि यो दुर्-वान्तो दुर्-विरिक्तो ऽथ-वा स्यात् ॥ ९७अ ॥
कुष्ठी दोषैर् उद्धतैर् व्याप्यते ऽसौ ॥ ९७ब् ॥
निः-संदेहं यात्य् अ-साध्य-त्वम् एवं ॥ ९७च् ॥
तस्मात् कृत्स्नान् निर्हरेद् अस्य दोषान् ॥ ९७द् ॥
व्रत-दम-यम-सेवा-त्याग-शीलाभियोगो ॥ ९८अ ॥
द्वि-ज-सुर-गुरु-पूजा सर्व-सत्-त्वेषु मैत्री ॥ ९८ब् ॥
शिव-शिव-सुत-तारा-भास्-कराराधनानि ॥ ९८च् ॥
१९.९८cv जिन-जिन-सुत-तारा-भास्-कराराधनानि प्रकटित-मल-पापं कुष्ठम् उन्मूलयन्ति ॥ ९८द् ॥

अध्याय 20[सम्पाद्यताम्]
कुष्ठाद् अपि बीभत्सं यच् छीघ्र-तरं च यात्य् अ-साध्य-त्वम् ।
श्वित्रम् अतस् तच्-छान्त्यै यतेत दीप्ते यथा भवने ॥ १ ॥

संशोधनं विशेषात् प्रयोजयेत् पूर्वम् एव देहस्य ।
श्वित्रे स्रंसनम् अग्र्यं मलयू-रस इष्यते स-गुडः ॥ २ ॥

तं पीत्वाभ्यक्त-तनुर् यथा-बलं सूर्य-पाद-संतापम् ।
सेवेत विरिक्त-तनुर् त्र्य्-अहं पिपासुः पिबेत् पेयाम् ॥ ३ ॥

श्वित्रे ऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान् भिन्द्यात् ।
स्फोटेषु निःस्रुतेषु प्रातः प्रातः पिबेत् त्रि-दिनम् ॥ ४ ॥

२०.४dv प्रातः प्रातः पिबेत् पक्षम् मलयूम् असनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य ।
पालाशं वा क्षारं यथा-बलं फाणितोपेतम् ॥ ५ ॥

फल्ग्व्-अक्ष-वृक्ष-वल्कल-निर्यूहेणेन्दुराजिका-कल्कम् ।
पीत्वोष्ण-स्थितस्य जाते स्फोटे तक्रेण भोजनं निर्-लवणम् ॥ ६ ॥

गव्यं मूत्रं चित्रक-व्योष-युक्तं सर्पिः-कुम्भे स्थापितं क्षौद्र-मिश्रम् ।
पक्षाद् ऊर्ध्वं श्वित्रिणा पेयम् एतत् कार्यं चास्मै कुष्ठ-दिष्टं विधानम् ॥ ७ ॥

२०.७cv पक्षाद् ऊर्ध्वं श्वित्रिभिः पेयम् एतत् मार्कवम् अथ-वा स्वादेद् भृष्टं तैलेन लोह-पात्र-स्थम् ।
बीजक-शृतं च दुग्धं तद् अनु पिबेच् छ्वित्र-नाशाय ॥ ८ ॥

पूतीकार्क-व्याधिघात-स्नुहीनां मूत्रे पिष्टाः पल्लवा जाति-जाश् च ।
घ्नन्त्य् आलेपाच् छ्वित्र-दुर्-नाम-दद्रू-पामा-कोठान् दुष्ट-नाडी-व्रणांश् च ॥ ९ ॥

द्वैपं दग्धं चर्म मातङ्ग-जं वा श्वित्रे लेपस् तैल-युक्तो वरिष्ठः ।
पूतिः कीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रम् एको ऽपि हन्ति ॥ १० ॥

२०.१०dv क्षारेणाक्तः श्वित्रम् एको निहन्ति रात्रौ गो-मूत्रे वासितान् जर्जराङ्गान् अह्नि च्छायायां शोषयेत् स्फोट-हेतून् ।
एवं वारांस् त्रींस् तैस् ततः श्लक्ष्ण-पिष्टैः स्नुह्याः क्षीरेण श्वित्र-नाशाय लेपः ॥ ११ ॥
अक्ष-तैल-द्रुता लेपः कृष्ण-सर्पोद्भवा मषी ।
शिखि-पित्तं तथा दग्धं ह्रीवेरं वा तद्-आप्लुतम् ॥ १२ ॥

२०.१२av अक्ष-तैल-कृतो लेपः २०.१२av अक्ष-तैल-द्रुतो लेपः कुडवो ऽवल्गुज-बीजाद् धरिताल-चतुर्-भाग-संमिश्रः ।
मूत्रेण गवां पिष्टः स-वर्ण-करणं परं श्वित्रे ॥ १३ ॥

क्षारे सु-दग्धे गज-लिण्ड-जे च गजस्य मूत्रेण परिस्रुते च ।
द्रोण-प्रमाणे दश-भाग-युक्तं दत्त्वा पचेद् बीजम् अवल्गुजानाम् ॥ १४ ॥

२०.१४av क्षारे सु-दग्धे गज-लिण्ड-जे वा २०.१४bv गजस्य मूत्रे च परिस्रुते च श्वित्रं जयेच् चिक्कण-तां गतेन तेन प्रलिम्पन् बहु-शः प्रघृष्टं ।
कुष्ठं मषं वा तिल-कालकं वा यद् वा व्रणे स्याद् अधि-मांस-जातम् ॥ १५ ॥

भल्लातकं द्वीपि-सुधार्क-मूलं गुञ्जा-फलं त्र्य्-ऊषण-शङ्ख-चूर्णम् ।
तुत्थं स-कुष्ठं लवणानि पञ्च क्षार-द्वयं लाङ्गलिकां च पक्त्वा ॥ १६ ॥

२०.१६av भल्लातक-द्वीपि-सुधार्क-मूल- २०.१६bv -गुञ्जा-फल-त्र्य्-ऊषण-शङ्ख-चूर्णम् स्नुग्-अर्क-दुग्धे घनम् आयस-स्थं शलाकया तद् विदधीत लेपम् ।
कुष्ठे किलासे तिल-कालकेषु मषेषु दुर्-नामसु चर्म-कीले ॥ १७ ॥

शुद्ध्या शोणित-मोक्षैर् विरूक्षणैर् भक्षणैश् च सक्तूनाम् ।
श्वित्रं कस्य-चिद् एव प्रशाम्यति क्षीण-पापस्य ॥ १८ ॥

स्निग्ध-स्विन्ने गुड-क्षीर-मत्स्याद्यैः कृमिणोदरे ।
उत्क्लेशित-कृमि-कफे शर्वरीं तां सुखोषिते ॥ १९ ॥

सुरसादि-गणं मूत्रे क्वाथयित्वार्ध-वारिणि ।
तं कषायं कणा-गाल-कृमिजित्-कल्क-योजितम् ॥ २० ॥

स-तैल-स्वर्जिका-क्षारं युञ्ज्याद् वस्तिं ततो ऽहनि ।
तस्मिन्न् एव निरूढं तं पाययेत विरेचनम् ॥ २१ ॥

त्रिवृत्-कल्कं फल-कणा-कषायालोडितं ततः ।
ऊर्ध्वाधः-शोधिते कुर्यात् पञ्च-कोल-युतं क्रमम् ॥ २२ ॥

कटु-तिक्त-कषायाणां कषायैः परिषेचनम् ।
काले विडङ्ग-तैलेन ततस् तम् अनुवासयेत् ॥ २३ ॥

२०.२३bv कषायैः परिषेचयेत् शिरो-रोग-निषेधोक्तम् आचरेन् मूर्ध-गेष्व् अनु ।
उद्रिक्त-तिक्त-कटुकम् अल्प-स्नेहं च भोजनम् ॥ २४ ॥

२०.२४dv अल्प-स्नेहं च भोजयेत् विडङ्ग-कृष्णा-मरिच-पिप्पली-मूल-शिग्रुभिः ।
पिबेत् स-स्वर्जिका-क्षारैर् यवागूं तक्र-साधिताम् ॥ २५ ॥

२०.२५av विडङ्ग-कृष्णा-मधुक- २०.२५cv पिबेत् स-स्वर्जिका-क्षारां रसं शिरीष-किणिही-पारिभद्रक-केम्बुकात् ।
पलाश-बीज-पत्तूर-पूतिकाद् वा पृथक् पिबेत् ॥ २६ ॥

स-क्षौद्रं सुरसादीन् वा लिह्यात् क्षौद्र-युतान् पृथक् ।
शत-कृत्वो ऽश्व-विट्-चूर्णं विडङ्ग-क्वाथ-भावितम् ॥ २७ ॥

कृमि-मान् मधुना लिह्याद् भावितं वा वरा-रसैः ।
शिरो-गतेषु कृमिषु चूर्णं प्रधमनं च तत् ॥ २८ ॥

आखुकर्णी-किसलयैः सु-पिष्टैः पिष्ट-मिश्रितैः ।
पक्त्वा पूपलिकां खादेद् धान्याम्लं च पिबेद् अनु ॥ २९ ॥

२०.२९av आखुपर्णी-किसलयैः स-पञ्च-कोल-लवणम् अ-सान्द्रं तक्रम् एव वा ।
नीप-मार्कव-निर्गुण्डी-पल्लवेष्व् अप्य् अयं विधिः ॥ ३० ॥

२०.३०cv निम्बापामार्ग-निर्गुण्डी- विडङ्ग-चूर्ण-मिश्रैर् वा पिष्टैर् भक्ष्यान् प्रकल्पयेत् ।
विडङ्ग-तण्डुलैर् युक्तम् अर्धांशैर् आतपे स्थितम् ॥ ३१ ॥

२०.३१dv अर्धांशैर् आतप-स्थितम् दिनम् आरुष्करं तैलं पाने वस्तौ च योजयेत् ।
सुराह्व-सरल-स्नेहं पृथग् एवं च कल्पयेत् ॥ ३२ ॥

पुरीष-जेषु सु-तरां दद्याद् वस्ति-विरेचने ।
शिरो-विरेकं वमनं शमनं कफ-जन्मसु ॥ ३३ ॥

रक्त-जानां प्रतीकारं कुर्यात् कुष्ठ-चिकित्सितात् ।
इन्द्र-लुप्त-विधिश् चात्र विधेयो रोम-भोजिषु ॥ ३४ ॥

क्षीराणि मांसानि घृतं गुडं च दधीनि शाकानि च पर्ण-वन्ति ।
समासतो ऽम्लान् मधुरान् रसांश् च कृमीञ् जिहासुः परिवर्जयेत ॥ ३५ ॥



अध्याय 21[सम्पाद्यताम्]
केवलं निर्-उपस्तम्भम् आदौ स्नेहैर् उपाचरेत् ।
वायुं सर्पिर्-वसा-मज्ज-तैल-पानैर् नरं ततः ॥ १ ॥

स्नेह-क्लान्तं समाश्वास्य पयोभिः स्नेहयेत् पुनः ।
यूषैर् ग्राम्यौदकानूप-रसैर् वा स्नेह-संयुतैः ॥ २ ॥

पायसैः कृशरैः साम्ल-लवणैः सानुवासनैः ।
नावनैस् तर्पणैश् चान्नैः सु-स्निग्धैः स्वेदयेत् ततः ॥ ३ ॥

स्व्-अभ्यक्तं स्नेह-संयुक्तैः शङ्कराद्यैः पुनः पुनः ।
स्नेहाक्तं स्विन्नम् अङ्गं तु वक्रं स्तब्धं स-वेदनम् ॥ ४ ॥

२१.४cv स्नेहाक्त-स्विन्नम् अङ्गं तु यथेष्टम् आनामयितुं सुखम् एव हि शक्यते ।
शुष्काण्य् अपि हि काष्ठानि स्नेह-स्वेदोपपादनैः ॥ ५ ॥

२१.५dv स्नेह-स्वेदोपनाहनैः शक्यं कर्मण्य-तां नेतुं किम् उ गात्राणि जीवताम् ।
हर्ष-तोद-रुग्-आयाम-शोफ-स्तम्भ-ग्रहादयः ॥ ६ ॥

स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते ।
स्नेहश् च धातून् संशुष्कान् पुष्णात्य् आशूपयोजितः ॥ ७ ॥

२१.७dv पुष्णात्य् आशु प्रयोजितः बलम् अग्नि-बलं पुष्टिं प्राणांश् चास्याभिवर्धयेत् ।
अ-सकृत् तं पुनः स्नेहैः स्वेदैश् च प्रतिपादयेत् ॥ ८ ॥

२१.८bv प्राणं चास्याभिवर्धयेत् तथा स्नेह-मृदौ कोष्ठे न तिष्ठन्त्य् अनिलामयाः ।
यद्य् एतेन स-दोष-त्वात् कर्मणा न प्रशाम्यति ॥ ९ ॥

मृदुभिः स्नेह-संयुक्तैर् भेषजैस् तं विशोधयेत् ।
घृतं तिल्वक-सिद्धं वा सातला-सिद्धम् एव वा ॥ १० ॥

पयसैरण्ड-तैलं वा पिबेद् दोष-हरं शिवम् ।
स्निग्धाम्ल-लवणोष्णाद्यैर् आहारैर् हि मलश् चितः ॥ ११ ॥

स्रोतो बद्ध्वानिलं रुन्ध्यात् तस्मात् तम् अनुलोमयेत् ।
दुर्-बलो यो ऽ-विरेच्यः स्यात् तं निरूहैर् उपाचरेत् ॥ १२ ॥

२१.१२av स्रोतो रुद्ध्वानिलं रुन्ध्यात् दीपनैः पाचनीयैर् वा भोज्यैर् वा तद्-युतैर् नरम् ।
संशुद्धस्योत्थिते चाग्नौ स्नेह-स्वेदौ पुनर् हितौ ॥ १३ ॥

आमाशय-गते वायौ वमित-प्रतिभोजिते ।
सुखाम्बुना षड्-धरणं वचादिं वा प्रयोजयेत् ॥ १४ ॥

२१.१४cv सुखाम्बुना षट्-चरणं संधुक्षिते ऽग्नौ परतो विधिः केवल-वातिकः ।
मत्स्यान् नाभि-प्रदेश-स्थे सिद्धान् बिल्व-शलाटुभिः ॥ १५ ॥

वस्ति-कर्म त्व् अधो नाभेः शस्यते चावपीडकः ।
कोष्ठ-गे क्षार-चूर्णाद्या हिताः पाचन-दीपनाः ॥ १६ ॥

हृत्-स्थे पयः स्थिरा-सिद्धं शिरो-वस्तिः शिरो-गते ।
स्नैहिकं नावनं धूमः श्रोत्रादीनां च तर्पणम् ॥ १७ ॥

स्वेदाभ्यङ्ग-निवातानि हृद्यं चान्नं त्वग्-आश्रिते ।
शीताः प्रदेहा रक्त-स्थे विरेको रक्त-मोक्षणम् ॥ १८ ॥

२१.१८av स्वेदाभ्यङ्गानि शस्तानि विरेको मांस-मेदः-स्थे निरूहः शमनानि च ।
बाह्याभ्यन्तरतः स्नेहैर् अस्थि-मज्ज-गतं जयेत् ॥ १९ ॥

प्रहर्षो ऽन्नं च शुक्र-स्थे बल-शुक्र-करं हितम् ।
विबद्ध-मार्गं दृष्ट्वा तु शुक्रं दद्याद् विरेचनम् ॥ २० ॥

२१.२०bv बल्यं शुक्र-करं हितम् विरिक्तं प्रतिभुक्तं च पूर्वोक्तां कारयेत् क्रियाम् ।
गर्भे शुष्के तु वातेन बालानां च विशुष्यताम् ॥ २१ ॥

२१.२१av विरिक्त-प्रतिभुक्तस्य सिता-काश्मर्य-मधुकैः सिद्धम् उत्थापने पयः ।
स्नाव-संधि-सिरा-प्राप्ते स्नेह-दाहोपनाहनम् ॥ २२ ॥

तैलं संकुचिते ऽभ्यङ्गो माष-सैन्धव-साधितम् ।
आगार-धूम-लवण-तैलैर् लेपः स्रुते ऽसृजि ॥ २३ ॥

सुप्ते ऽङ्गे वेष्ट-युक्ते तु कर्तव्यम् उपनाहनम् ।
अथापतानकेनार्तम् अ-स्रस्ताक्षम् अ-वेपनम् ॥ २४ ॥

अ-स्तब्ध-मेढ्रम् अ-स्वेदं बहिर्-आयाम-वर्जितम् ।
अ-खट्वाघातिनं चैनं त्वरितं समुपाचरेत् ॥ २५ ॥

तत्र प्राग् एव सु-स्निग्ध-स्विन्नाङ्गे तीक्ष्ण-नावनम् ।
स्रोतो-विशुद्धये युञ्ज्याद् अच्छ-पानं ततो घृतम् ॥ २६ ॥

विदार्य्-आदि-गण-क्वाथ-दधि-क्षीर-रसैः शृतम् ।
नाति-मात्रं तथा वायुर् व्याप्नोति सहसैव वा ॥ २७ ॥

कुलत्थ-यव-कोलानि भद्रदार्व्-आदिकं गणम् ।
निःक्वाथ्यानूप-मांसं च तेनाम्लैः पयसापि च ॥ २८ ॥

स्वादु-स्कन्ध-प्रतीवापं महा-स्नेहं विपाचयेत् ।
सेकाभ्यङ्गावगाहान्न-पान-नस्यानुवासनैः ॥ २९ ॥

स हन्ति वातं ते ते च स्नेह-स्वेदाः सु-योजिताः ।
वेगान्तरेषु मूर्धानम् अ-सकृच् चास्य रेचयेत् ॥ ३० ॥

अवपीडैः प्रधमनैस् तीक्ष्णैः श्लेष्म-निबर्हणैः ।
श्वसनासु विमुक्तासु तथा संज्ञां स विन्दति ॥ ३१ ॥

सौवर्चलाभया-व्योष-सिद्धं सर्पिश् चले ऽधिके ॥ ३१ऊ̆अब् ॥
पलाष्टकं तिल्वकतो वरायाः प्रस्थं पलांशं गुरु-पञ्च-मूलम् ।
सैरण्ड-सिंही-त्रिवृतं घटे ऽपां पक्त्वा पचेत् पाद-शृतेन तेन ॥ ३२ ॥

दध्नः पात्रे याव-शूकात् त्रि-बिल्वैः सर्पिः-प्रस्थं हन्ति तत् सेव्यमानम् ।
दुष्टान् वातान् एक-सर्वाङ्ग-संस्थान् योनि-व्यापद्-गुल्म-वर्ध्मोदरं च ॥ ३३ ॥

२१.३३av दध्नः पात्रे याव-शूक-त्रि-बिल्वैः विधिस् तिल्वक-वज् ज्ञेयो रम्यकाशोकयोर् अपि ॥ ३४अब् ॥
२१.३४bv शम्याकाशोकयोर् अपि चिकित्सितम् इदं कुर्याच् छुद्ध-वातापतानके ।
संसृष्ट-दोषे संसृष्टं चूर्णयित्वा कफान्विते ॥ ३५ ॥

तुम्बुरूण्य् अभया हिङ्गु पौष्करं लवण-त्रयम् ।
यव-क्वाथाम्बुना पेयं हृत्-पार्श्वार्त्य्-अपतन्त्रके ॥ ३६ ॥

हिङ्गु सौवर्चलं शुण्ठी दाडिमं साम्ल-वेतसम् ।
पिबेद् वा श्लेष्म-पवन-हृद्-रोगोक्तं च शस्यते ॥ ३७ ॥

आयामयोर् अर्दित-वद् बाह्याभ्यन्तरयोः क्रिया ।
तैल-द्रोण्यां च शयनम् आन्तरो ऽत्र सु-दुस्-तरः ॥ ३८ ॥

वि-वर्ण-दन्त-वदनः स्रस्ताङ्गो नष्ट-चेतनः ।
प्रस्विद्यंश् च धनुः-ष्कम्भी दश-रात्रं न जीवति ॥ ३९ ॥

२१.३९cv प्रस्विद्यंश् च धनुः-स्तम्भी वेगेष्व् अतो अन्य-था जीवेन् मन्देषु विनतो जडः ।
खञ्जः कुणिः पक्ष-हतः पङ्गुलो विकलो ऽथ-वा ॥ ४० ॥

२१.४०dv पङ्गुलो विकलो ऽपि वा हनु-स्रंसे हनू स्निग्ध-स्विन्नौ स्व-स्थानम् आनयेत् ।
उन्नामयेच् च कुशलश् चिबुकं विवृत्ते मुखे ॥ ४१ ॥

नामयेत् संवृते शेषम् एकायाम-वद् आचरेत् ।
जिह्वा-स्तम्भे यथावस्थं कार्यं वात-चिकित्सितम् ॥ ४२ ॥

वाग्-ग्रहे कोष्ण-तोयेन वेतसाम्लं पिबेन् नरः ।
मातुलुङ्ग-रसं तद्-वद् धिङ्गु-सौवर्चलान्वितम् ॥ ४२+१ ॥

अर्दिते नावनं मूर्ध्नि तैलं श्रोत्राक्षि-तर्पणम् ।
स-शोफे वमनं दाह-राग-युक्ते सिरा-व्यधः ॥ ४३ ॥

नव-नीतेन संयुक्तां खादेन् माषेण्डरीं नरः ।
दुर्-वारम् अर्दितं हन्ति सप्ताहान् नात्र संशयः ॥ ४३+१ ॥

स्नेहनं स्नेह-संयुक्तं पक्षाघाते विरेचनम् ।
अव-बाहौ हितं नस्यं स्नेहश् चोत्तर-भक्तिकः ॥ ४४ ॥

माष-बला-शुक-शिम्बी-कट्तृण-रास्नाश्वगन्धोरुबूकाणाम् ।
क्वाथो नस्य-निपीतो रामठ-लवणान्वितः कोष्णः ॥ ४४.१+१ ॥

अपनयति पक्ष-वातं मन्या-स्तम्भं स-कर्ण-नाद-रुजम् ।
दुर्-जयम् अर्दित-वातं सप्ताहाज् जयति चावश्यम् ॥ ४४.१+२ ॥

गुडमञ्जर्या खपुरं वृषभी-मूलं च शिशिर-जल-पिष्टम् ।
नावन-विधौ प्रयोजितम् अव-बाहुक-गल-रुजार्ति-हरम् ॥ ४४+१ ॥

दश-मूल-बला-माष-क्वाथं तैलाज्य-मिश्रितम् ।
सायं भुक्त्वा पिबेन् नस्यं विश्वाच्याम् अव-बाहुके ॥ ४४+२ ॥

ऊरु-स्तम्भे तु न स्नेहो न च संशोधनं हितम् ।
श्लेष्माम-मेदो-बाहुल्याद् युक्त्या तत्-क्षपणान्य् अतः ॥ ४५ ॥

२१.४५av ऊरु-स्तम्भे न च स्नेहो कुर्याद् रूक्षोपचारश् च यव-श्यामाक-कोद्रवाः ।
शाकैर् अ-लवणैः शस्ताः किञ्-चित्-तैलैर् जलैः शृतैः ॥ ४६ ॥

जाङ्गलैर् अ-घृतैर् मांसैर् मध्व्-अम्भो-ऽरिष्ट-पायिनः ।
वत्सकादिर् हरिद्रादिर् वचादिर् वा स-सैन्धवः ॥ ४७ ॥

आढ्य-वाते सुखाम्भोभिः पेयः षड्-धरणो ऽथ-वा ।
लिह्यात् क्षौद्रेण वा श्रेष्ठा-चव्य-तिक्ता-कणा-घनात् ॥ ४८ ॥

२१.४८av आम-वाते सुखाम्भोभिः २१.४८bv पेयः षट्-चरणो ऽथ-वा २१.४८dv -चव्य-तिक्ता-कणा-घनान् चित्रकेन्द्रयवाः पाठा कटुकातिविषा निशा ।
वात-व्याधि-प्रशमनो योगः षड्-धरणाह्वयः ॥ ४८.१+१ ॥

कल्कं स-मधु वा चव्य-पथ्याग्नि-सुरदारु-जम् ।
मूत्रैर् वा शीलयेत् पथ्यां गुग्गुलुं गिरिसंभवम् ॥ ४९ ॥

व्योषाग्नि-मुस्त-त्रि-फला-विडङ्गैर् गुग्गुलुं समम् ।
खादन् सर्वाञ् जयेद् व्याधीन् मेदः-श्लेष्माम-वात-जान् ॥ ५० ॥

शाम्यत्य् एवं कफाक्रान्तः स-मेदस्कः प्रभञ्जनः ।
क्षार-मूत्रान्वितान् स्वेदान् सेकान् उद्वर्तनानि च ॥ ५१ ॥

कुर्याद् दिह्याच् च मूत्राढ्यैः करञ्ज-फल-सर्षपैः ।
मूलैर् वाप्य् अर्क-तर्कारी-निम्ब-जैः स-सुराह्वयैः ॥ ५२ ॥

स-क्षौद्र-सर्षपा-पक्व-लोष्ट-वल्मीक-मृत्तिकैः ।
कफ-क्षयार्थं व्यायामे सह्ये चैनं प्रवर्तयेत् ॥ ५३ ॥

स्थलान्य् उल्लङ्घयेन् नारीः शक्तितः परिशीलयेत् ।
स्थिर-तोयं सरः क्षेमं प्रति-स्रोतो नदीं तरेत् ॥ ५४ ॥

श्लेष्म-मेदः-क्षये चात्र स्नेहादीन् अवचारयेत् ।
स्थान-दूष्यादि चालोच्य कार्या शेषेष्व् अपि क्रिया ॥ ५५ ॥

२१.५५cv स्थानं दूष्यादि चालोच्य बृहन्-निम्ब-तरोर् मूलं वारिणा परिपेषितम् ।
संपीतं नाशयेत् क्षिप्रम् अ-साध्याम् अपि गृध्रसीम् ॥ ५५.१+१ ॥

तूणी-प्रतूण्योर् लवनं स-घृतं क्षार-हिङ्गु वा ।
रक्तावसेचनं कुर्याद् अभीक्ष्णं वात-कण्टके ॥ ५५.१+२ ॥

पिबेद् एरण्ड-तैलं वा दहेत् सूचीभिर् एव वा ।
साज्यैः सक्तुभिर् अभ्यक्तौ न चा-क्षीर-समन्वितैः ॥ ५५.१+३ ॥

शाल्मली-त्वग्-विलिप्तौ वा पादौ संतापम् उद्गतः ॥ ५५.१+४अब् ॥
सहचरं सुरदारु स-नागरं क्वथितम् अम्भसि तैल-विमिश्रितम् ।
पवन-पीडित-देह-गतिः पिबन् द्रुत-विलम्बित-गो भवतीच्छया ॥ ५६ ॥

रास्ना-महौषध-द्वीपि-पिप्पली-शठि-पौष्करम् ।
पिष्ट्वा विपाचयेत् सर्पिर् वात-रोग-हरं परम् ॥ ५७ ॥

निम्बामृता-वृष-पटोल-निदिग्धिकानां भागान् पृथक् दश पलान् विपचेद् घटे ऽपाम् ।
अष्टांश-शेषित-रसेन पुनश् च तेन प्रस्थं घृतस्य विपचेत् पिचु-भाग-कल्कैः ॥ ५८ ॥

२१.५८av निम्बामृता-वृष-पटोल-करञ्जकानां पाठा-विडङ्ग-सुरदारु-गजोपकुल्या-द्वि-क्षार-नागर-निशा-मिशि-चव्य-कुष्ठैः ।
तेजोवती-मरिच-वत्सक-दीप्यकाग्नि-रोहिण्य्-अरुष्कर-वचा-कण-मूल-युक्तैः ॥ ५९ ॥

मञ्जिष्ठयातिविषया विषया यवान्या संशुद्ध-गुग्गुलु-पलैर् अपि पञ्च-संख्यैः ।
तत् सेवितं विधमति प्रबलं समीरं संध्य्-अस्थि-मज्ज-गतम् अप्य् अथ कुष्ठम् ईदृक् ॥ ६० ॥

२१.६०cv तत् सेवितं प्रधमति प्रबलं समीरं नाडी-व्रणार्बुद-भगन्दर-गण्ड-माला-जत्रूर्ध्व-सर्व-गद-गुल्म-गुदोत्थ-मेहान् ।
यक्ष्मा-रुचि-श्वसन-पीनस-कास-शोफ-हृत्-पाण्डु-रोग-मद-विद्रधि-वात-रक्तम् ॥ ६१ ॥
२१.६१dv -हृत्-पार्श्व-रोग-मद-विद्रधि-वात-रक्तम् रास्नाटरूष-सुरदार्व्-अमृता-शतावर्य्-एरण्ड-पुष्कर-धमासक-शुण्ठि-पथ्याः ।
निघ्नन्ति वात-ज-रुजं खलु स-श्वदंष्ट्राः शैलेय-शठ्य्-अतिविषाः क्वथिताः प्रयुक्ता ॥
६१+१ ॥

बला-बिल्व-शृते क्षीरे घृत-मण्डं विपाचयेत् ।
तस्य शुक्तिः प्रकुञ्चो वा नस्यं वाते शिरो-गते ॥ ६२ ॥

तद्-वत् सिद्धा वसा नक्र-मत्स्य-कूर्म-चुलूक-जा ।
विशेषेण प्रयोक्तव्या केवले मातरिश्वनि ॥ ६३ ॥

जीर्णं पिण्याकं पञ्च-मूलं पृथक् च क्वाथ्यं क्वाथाभ्याम् एकतस् तैलम् आभ्याम् ।
क्षीराद् अष्टांशं पाचयेत् तेन पानाद् वाता नश्येयुः श्लेष्म-युक्ता विशेषात् ॥ ६४ ॥

प्रसारिणी-तुला-क्वाथे तैल-प्रस्थं पयः-समम् ।
द्वि-मेदा-मिशि-मञ्जिष्ठा-कुष्ठ-रास्ना-कु-चन्दनैः ॥ ६५ ॥

जीवकर्षभ-काकोली-युगलामरदारुभिः ।
कल्कितैर् विपचेत् सर्व-मारुतामय-नाशनम् ॥ ६६ ॥

स-मूल-शाखस्य सहाचरस्य तुलां समेतां दश-मूलतश् च ।
पलानि पञ्चाशद् अभीरुतश् च पादावशेषं विपचेद् वहे ऽपाम् ॥ ६७ ॥

तत्र सेव्य-नख-कुष्ठ-हिमैला-स्पृक्-प्रियङ्गु-नलिकाम्बु-शिला-जैः ।
लोहिता-नलद-लोह-सुराह्वैः कोपना-मिशि-तुरुष्क-नतैश् च ॥ ६८ ॥

तुल्य-क्षीरं पालिकैस् तैल-पात्रं सिद्धं कृच्छ्राञ् छीलितं हन्ति वातान् ।
कम्पाक्षेप-स्तम्भ-शोषादि-युक्तान् गुल्मोन्मादौ पीनसं योनि-रोगान् ॥ ६९ ॥

२१.६९av तुल्यं क्षीरं पालिकैस् तैल-पात्रं सहचर-तुलायास् तु रसे तैलाढकं पचेत् ।
मूल-कल्काद् दश-पलं पयो दत्त्वा चतुर्-गुणम् ॥ ७० ॥

अथ-वा नत-षड्ग्रन्था-स्थिरा-कुष्ठ-सुराह्वयात् ।
सैला-नलद-शैलेय-शताह्वा-रक्त-चन्दनात् ॥ ७१ ॥

२१.७१bv -स्थिरा-कुष्ठ-सुराह्वयान् २१.७१dv -शताह्वा-रक्त-चन्दनान् सिद्धे ऽस्मिञ् छर्करा-चूर्णाद् अष्टा-दश-पलं क्षिपेत् ।
भेडस्य संमतं तैलं तत् कृच्छ्रान् अनिलामयान् ॥ ७२ ॥

वात-कुण्डलिकोन्माद-गुल्म-वर्ध्मादिकाञ् जयेत् ।
बला-शतं छिन्नरुहा-पादं रास्नाष्ट-भागिकम् ॥ ७३ ॥

जलाढक-शते पक्त्वा शत-भाग-स्थिते रसे ।
दधि-मस्त्व्-इक्षु-निर्यास-शुक्तैस् तैलाढकं समैः ॥ ७४ ॥

पचेत् साज-पयो-ऽर्धांशं कल्कैर् एभिः पलोन्मितैः ।
शठी-सरलदार्व्-एला-मञ्जिष्ठागुरु-चन्दनैः ॥ ७५ ॥

पद्मकातिबला-मुस्ता-शूर्पपर्णी-हरेणुभिः ।
यष्ट्य्-आह्व-सुरस-व्याघ्रनखर्षभक-जीवकैः ॥ ७६ ॥

पलाश-रस-कस्तूरी-नलिका-जाति-कोशकैः ।
स्पृक्का-कुङ्कुम-शैलेय-जाती-कटुफलाम्बुभिः ॥ ७७ ॥

२१.७७dv -जातिका-कट्फलाम्बुभिः त्वक्-कुन्दुरुक-कर्पूर-तुरुष्क-श्रीनिवासकैः ।
लवङ्ग-नख-कङ्कोल-कुष्ठ-मांसी-प्रियङ्गुभिः ॥ ७८ ॥

स्थौणेय-तगर-ध्याम-वचा-मदनक-प्लवैः ।
स-नागकेसरैः सिद्धे दद्याच् चात्रावतारिते ॥ ७९ ॥

२१.७९bv -वचा-मदन-पल्लवैः पत्त्र-कल्कं ततः पूतं विधिना तत् प्रयोजितम् ।
कासं श्वासं ज्वरं छर्दिं मूर्छां गुल्म-क्षत-क्षयान् ॥ ८० ॥

प्लीह-शोषाव् अपस्मारम् अ-लक्ष्मीं च प्रणाशयेत् ।
बला-तैलम् इदं श्रेष्ठं वात-व्याधि-विनाशनम् ॥ ८१ ॥

पाने नस्ये ऽन्वासने ऽभ्यञ्जने च स्नेहाः काले सम्यग् एते प्रयुक्ताः ।
दुष्टान् वातान् आशु शान्तिं नयेयुर् वन्ध्या नारीः पुत्र-भाजश् च कुर्युः ॥ ८२ ॥

२१.८२dv वन्ध्या नारीः पुत्र-भाजः प्रकुर्युः स्नेह-स्वेदैर् द्रुतः श्लेष्मा यदा पक्वाशये स्थितः ।
पित्तं वा दर्शयेद् रूपं वस्तिभिस् तं विनिर्जयेत् ॥ ८३ ॥

२१.८३bv यदा पक्वाशयं स्थितः

अध्याय 22[सम्पाद्यताम्]
वात-शोणितिनो रक्तं स्निग्धस्य बहु-शो हरेत् ।
अल्पाल्पं पालयन् वायुं यथा-दोषं यथा-बलम् ॥ १ ॥

रुग्-राग-तोद-दाहेषु जलौकोभिर् विनिर्हरेत् ।
शृङ्ग-तुम्बैश् चिमिचिमा-कण्डू-रुग्-दूयनान्वितम् ॥ २ ॥

प्रच्छानेन सिराभिर् वा देशाद् देशान्तरं व्रजत् ।
अङ्ग-ग्लानौ तु न स्राव्यं रूक्षे वातोत्तरे च यत् ॥ ३ ॥

२२.३cv अङ्ग-म्लानौ तु न स्राव्यं २२.३dv रूक्षं वातोत्तरं च यत् गम्भीरं श्वयथुं स्तम्भं कम्पं स्नायु-सिरामयान् ।
ग्लानिम् अन्यांश् च वातोत्थान् कुर्याद् वायुर् असृक्-क्षयात् ॥ ४ ॥

विरेच्यः स्नेहयित्वा तु स्नेह-युक्तैर् विरेचनैः ।
वातोत्तरे वात-रक्ते पुराणं पाययेद् घृतम् ॥ ५ ॥

श्रावणी-क्षीर-काकोली-क्षीरिणी-जीवकैः समैः ।
सिद्धं सर्षभकैः सर्पिः स-क्षीरं वात-रक्त-नुत् ॥ ६ ॥

द्राक्षा-मधूक-वारिभ्यां सिद्धं वा स-सितोपलम् ।
घृतं पिबेत् तथा क्षीरं गुडूची-स्व-रसे शृतम् ॥ ७ ॥

तैलं पयः शर्करां च पाययेद् वा सु-मूर्छितम् ।
बला-शतावरी-रास्ना-दश-मूलैः स-पीलुभिः ॥ ८ ॥

श्यामैरण्ड-स्थिराभिश् च वातार्ति-घ्नं शृतं पयः ।
धारोष्णं मूत्र-युक्तं वा क्षीरं दोषानुलोमनम् ॥ ९ ॥

पैत्ते पक्त्वा वरी-तिक्ता-पटोल-त्रि-फलामृताः ।
पिबेद् घृतं वा क्षीरं वा स्वादु-तिक्तक-साधितम् ॥ १० ॥

क्षीरेणैरण्ड-तैलं च प्रयोगेण पिबेन् नरः ।
बहु-दोषो विरेकार्थं जीर्णे क्षीरौदनाशनः ॥ ११ ॥

कषायम् अभयानां वा पाययेद् घृत-भर्जितम् ।
क्षीरानु-पानं त्रिवृता-चूर्णं द्राक्षा-रसेन वा ॥ १२ ॥

निर्हरेद् वा मलं तस्य स-घृतैः क्षीर-वस्तिभिः ।
न हि वस्ति-समं किञ्-चिद् वात-रक्त-चिकित्सितम् ॥ १३ ॥

विशेषात् पायु-पार्श्वोरु-पर्वास्थि-जठरार्तिषु ।
मुस्ता-धात्री-हरिद्राणां पिबेत् क्वाथं कफोल्बणे ॥ १४ ॥

२२.१४cv मुस्त-द्राक्षा-हरिद्राणां स-क्षौद्रं त्रि-फलाया वा गुडूचीं वा यथा तथा ।
यथार्ह-स्नेह-पीतं च वामितं मृदु रूक्षयेत् ॥ १५ ॥

२२.१५bv गुडूचीं वा यथा-बलम् २२.१५bv गुडूचीं वा यथा-यथम् त्रि-फला-व्योष-पत्त्रैला-त्वक्क्षीरी-चित्रकं वचाम् ।
विडङ्गं पिप्पली-मूलं रोमशां वृषकं त्वचम् ॥ १६ ॥

२२.१६dv रोमशं वृषकं त्वचम् ऋद्धिं लाङ्गलिकीं चव्यं सम-भागानि पेषयेत् ।
कल्ये लिप्त्वायसीं पात्रीं मध्याह्ने भक्षयेद् इदम् ॥ १७ ॥

वातास्रे सर्व-दोषे ऽपि परं शूलान्विते हितम् ।
कोकिलाक्षक-निर्यूहः पीतस् तच् छाक-भोजिना ॥ १८ ॥

२२.१८dv पीतस् तच् छाक-भक्षिणा कृपाभ्यास इव क्रोधं वात-रक्तं नियच्छति ।
पञ्च-मूलस्य धात्र्या वा रसैर् लेलीतकीं वसाम् ॥ १९ ॥

खुडं सु-रूढम् अप्य् अङ्गे ब्रह्म-चारी पिबन् जयेत् ।
इत्य् आभ्यन्तरम् उद्दिष्टं कर्म बाह्यम् अतः परम् ॥ २० ॥

त्रि-फलाष्ट-पलं क्वाथ्य पाद-शेषं जलाढके ।
षो-डशैव पलान्य् अत्र प्रक्षिपेच् छुद्ध-गुग्गुलोः ॥ २०.१+१ ॥

ततस् तस्मिन् घनी-भूते कल्की-कृत्य द्वि-कार्षिकाः ।
पथ्या-विडङ्ग-कटुका गुडूची पल-संमिता ॥ २०.१+२ ॥

कर्षांशे त्रिवृता दन्ती खादेद् इष्टानु-पानतः ।
विविधम् अपि वात-रक्तं स्रुत-शुष्क-स्फुटितम् अपि हन्ति ॥ २०.१+३ ॥

व्रण-कास-कुष्ठ-गुल्म-श्वयथूदर-पाण्डु-मेहम् अर्शांसि ।
अभिभूय जरा-दोषं करोति कैशोरकं कायम् ॥ २०.१+४ ॥

आरनालाढके तैलं पाद-सर्ज-रसं शृतम् ।
प्रभूते खजितं तोये ज्वर-दाहार्ति-नुत् परम् ॥ २१ ॥

स-मधूच्छिष्ट-मञ्जिष्ठं स-सर्ज-रस-शारिवम् ।
पिण्ड-तैलं तद् अभ्यङ्गाद् वात-रक्त-रुजापहम् ॥ २२ ॥

दश-मूल-शृतं क्षीरं सद्यः शूल-निवारणम् ।
परिषेको ऽनिल-प्राये तद्-वत् कोष्णेन सर्पिषा ॥ २३ ॥

स्नेहैर् मधुर-सिद्धैर् वा चतुर्भिः परिषेचयेत् ।
स्तम्भाक्षेपक-शूलार्तं कोष्णैर् दाहे तु शीतलैः ॥ २४ ॥

तद्-वद् गव्याविक-च्छागैः क्षीरैस् तैल-विमिश्रितैः ।
निःक्वाथैर् जीवनीयानां पञ्च-मूलस्य वा लघोः ॥ २५ ॥

द्राक्षेक्षु-रस-मद्यानि दधि-मस्त्व्-अम्ल-काञ्जिकम् ।
सेकार्थं तण्डुल-क्षौद्र-शर्कराम्भश् च शस्यते ॥ २६ ॥

प्रियाः प्रियं-वदाः नार्याश् चन्दनार्द्र-कर-स्तनाः ।
स्पर्श-शीताः सुख-स्पर्शा घ्नन्ति दाहं रुजं क्लमम् ॥ २७ ॥

स-रागे स-रुजे दाहे रक्तं हृत्वा प्रलेपयेत् ।
प्रपौण्डरीक-मञ्जिष्ठा-दार्वी-मधुक-चन्दनैः ॥ २८ ॥

सितोपलैरका-सक्तु-मसूरोशीर-पद्मकैः ।
लेपो रुग्-दाह-वीसर्प-राग-शोफ-निबर्हणः ॥ २९ ॥

२२.२९av स-सितोपल-कासेक्षु- २२.२९bv -मसूरैरक-सक्तुभिः वात-घ्नैः साधितः स्निग्धः कृशरो मुद्ग-पायसः ।
तिल-सर्षप-पिण्डैश् च शूल-घ्नम् उपनाहनम् ॥ ३० ॥

२२.३०cv तिल-सर्षप-पिण्डश् च औदक-प्रसहानूप-वेसवाराः सु-संस्कृताः ।
जीवनीयौषधैः स्नेह-युक्ताः स्युर् उपनाहने ॥ ३१ ॥

२२.३१cv जीवनीयौषध-स्नेह- स्तम्भ-तोद-रुग्-आयाम-शोफाङ्ग-ग्रह-नाशनाः ।
जीवनीयौषधैः सिद्धा स-पयस्का वसापि वा ॥ ३२ ॥

घृतं सहचरान् मूलं जीवन्ती छागलं पयः ।
लेपः पिष्टास् तिलास् तद्-वद् भृष्टाः पयसि निर्वृताः ॥ ३३ ॥

क्षीर-पिष्ट-क्षुमां लेपम् एरण्डस्य फलानि वा ।
कुर्याच् छूल-निवृत्त्य्-अर्थं शताह्वां वानिले ऽधिके ॥ ३४ ॥

२२.३४av क्षीर-पिष्टाम् उमां लेपम् मूत्र-क्षार-सुरा-पक्वं घृतम् अभ्यञ्जने हितम् ।
सिद्धं स-मधु शुक्तं वा सेकाभ्यङ्गे कफोत्तरे ॥ ३५ ॥

२२.३५av मुस्त-क्षार-सिता-पक्वं २२.३५dv सेकाभ्यङ्गः कफोत्तरे गृह-धूमो वचा कुष्ठं शताह्वा रजनी-द्वयम् ।
प्रलेपः शूल-नुद् वात-रक्ते वात-कफोत्तरे ॥ ३६ ॥

मधु-शिग्रोर् हितं तद्-वद् बीजं धान्याम्ल-संयुतम् ।
मुहूर्त-लिप्तम् अम्लैश् च सिञ्चेद् वात-कफोत्तरे ॥ ३७ ॥

उत्तानं लेपनाभ्यङ्ग-परिषेकावगाहनैः ।
विरेकास्थापन-स्नेह-पानैर् गम्भीरम् आचरेत् ॥ ३८ ॥

वात-श्लेष्मोत्तरे कोष्णा लेपाद्यास् तत्र शीतलैः ।
विदाह-शोफ-रुक्-कण्डू-विवृद्धिः स्तम्भनाद् भवेत् ॥ ३९ ॥

पित्त-रक्तोत्तरे वात-रक्ते लेपादयो हिमाः ।
उष्णैः प्लोषोष-रुग्-राग-स्वेदावदरणोद्भवः ॥ ४० ॥

मधुयष्ट्याः पल-शतं कषाये पाद-शेषिते ।
तैलाढकं सम-क्षीरं पचेत् कल्कैः पलोन्मितैः ॥ ४१ ॥

स्थिरा-तामलकी-दूर्वा-पयस्याभीरु-चन्दनैः ।
लोह-हंसपदी-मांसी-द्वि-मेदा-मधुपर्णिभिः ॥ ४२ ॥

काकोली-क्षीर-काकोली-शतपुष्पर्द्धि-पद्मकैः ।
जीवकर्षभ-जीवन्ती-त्वक्-पत्त्र-नख-वालकैः ॥ ४३ ॥

प्रपौण्डरीक-मञ्जिष्ठा-शारिवैन्द्री-वितुन्नकैः ।
चतुष्-प्रयोगं वातासृक्-पित्त-दाह-ज्वरार्ति-नुत् ॥ ४४ ॥

२२.४४cv चतुष्-प्रयोगात् तद् धन्ति २२.४४dv तैलं मारुत-शोणितम् सोपद्रवं साङ्ग-शूलं सर्व-गात्रानुगं तथा ।
वातासृक्-पित्त-दाहार्ति-ज्वर-घ्नं बल-वर्ण-कृत् ॥ ४४+१ ॥

बला-कषाय-कल्काभ्यां तैलं क्षीर-समं पचेत् ।
सहस्र-शत-पाकं तद् वातासृग्-वात-रोग-नुत् ॥ ४५ ॥

रसायनं मुख्य-तमम् इन्द्रियाणां प्रसादनम् ।
जीवनं बृंहणं स्वर्यं शुक्रासृग्-दोष-नाशनम् ॥ ४६ ॥

कुपिते मार्ग-संरोधान् मेदसो वा कफस्य वा ।
अति-वृद्ध्यानिले शस्तं नादौ स्नेहन-बृंहणम् ॥ ४७ ॥

कृत्वा तत्राढ्य-वातोक्तं वात-शोणितिकं ततः ।
भेषजं स्नेहनं कुर्याद् यच् च रक्त-प्रसादनम् ॥ ४८ ॥

प्राणादि-कोपे युग-पद् यथोद्दिष्टं यथामयम् ।
यथासन्नं च भैषज्यं विकल्प्यं स्याद् यथा-बलम् ॥ ४९ ॥

नीते निर्-आम-तां सामे स्वेद-लङ्घन-पाचनैः ।
रूक्षैश् चालेप-सेकाद्यैः कुर्यात् केवल-वात-नुत् ॥ ५० ॥

शोषाक्षेपण-संकोच-स्तम्भ-स्वपन-कम्पनम् ।
हनु-स्रंसो ऽर्दितं खाञ्ज्यं पाङ्गुल्यं खुड-वात-ता ॥ ५१ ॥

संधि-च्युतिः पक्ष-वधो मेदो-मज्जास्थि-गा गदाः ।
एते स्थानस्य गाम्भीर्यात् सिध्येयुर् यत्नतो नवाः ॥ ५२ ॥

तस्माज् जयेन् नवान् एतान् बलिनो निर्-उपद्रवान् ।
वायौ पित्तावृते शीताम् उष्णां च बहु-शः क्रियाम् ॥ ५३ ॥

व्यत्यासाद् योजयेत् सर्पिर् जीवनीयं च पाययेत् ।
धन्व-मांसं यवाः शालिर् विरेकः क्षीर-वान् मृदुः ॥ ५४ ॥

स-क्षीरा वस्तयः क्षीरं पञ्च-मूल-बला-शृतम् ।
काले ऽनुवासनं तैलैर् मधुरौषध-साधितैः ॥ ५५ ॥

२२.५५cv काले ऽनुवासनं तैलं २२.५५dv मधुरौषध-साधितम् यष्टीमधु-बला-तैल-घृत-क्षीरैश् च सेचनम् ।
पञ्च-मूल-कषायेण वारिणा शीतलेन वा ॥ ५६ ॥

२२.५६dv वारिणा शीतलेन च कफावृते यवान्नानि जाङ्गला मृग-पक्षिणः ।
स्वेदास् तीक्ष्णा निरूहाश् च वमनं स-विरेचनम् ॥ ५७ ॥

पुराण-सर्पिस् तैलं च तिल-सर्षप-जं हितम् ।
संसृष्टे कफ-पित्ताभ्यां पित्तम् आदौ विनिर्जयेत् ॥ ५८ ॥

कारयेद् रक्त-संसृष्टे वात-शोणितिकीं क्रियाम् ।
स्वेदाभ्यङ्ग-रसाः क्षीरं स्नेहो मांसावृते हितम् ॥ ५९ ॥

२२.५९dv स्नेहो मांसावृते हितः प्रमेह-मेदो-वात-घ्नम् आढ्य-वाते भिषग्-जितम् ।
महा-स्नेहो ऽस्थि-मज्ज-स्थे पूर्वोक्तं रेतसावृते ॥ ६० ॥

अन्नावृते पाचनीयं वमनं दीपनं लघु ।
मूत्रावृते मूत्रलानि स्वेदाश् चोत्तर-वस्तयः ॥ ६१ ॥

२२.६१dv स्वेदा उत्तर-वस्तयः एरण्ड-तैलं वर्चः-स्थे वस्ति-स्नेहाश् च भेदिनः ।
कफ-पित्ता-विरुद्धं यद् यच् च वातानुलोमनम् ॥ ६२ ॥

सर्व-स्थानावृते ऽप्य् आशु तत् कार्यं मातरिश्वनि ।
अन्-अभिष्यन्दि च स्निग्धं स्रोतसां शुद्धि-कारणम् ॥ ६३ ॥

२२.६३av सर्व-स्थानावृते चाशु २२.६३av सर्व-स्थानावृते त्व् आशु यापना वस्तयः प्रायो मधुराः सानुवासनाः ।
प्रसमीक्ष्य बलाधिक्यं मृदु कार्यं विरेचनम् ॥ ६४ ॥

२२.६४dv मृदु काय-विरेचनम् रसायनानां सर्वेषाम् उपयोगः प्रशस्यते ।
शिलाह्वस्य विशेषेण पयसा शुद्ध-गुग्गुलोः ॥ ६५ ॥

लेहो वा भार्गवस् तद्-वद् एका-दश-सिताशितः ।
अपाने त्व् आवृते सर्वं दीपनं ग्राहि भेषजम् ॥ ६६ ॥

२२.६६bv एका-दश-सितासितः वातानुलोमनं कार्यं मूत्राशय-विशोधनम् ।
इति संक्षेपतः प्रोक्तम् आवृतानां चिकित्सितम् ॥ ६७ ॥

प्राणादीनां भिषक् कुर्याद् वितर्क्य स्वयम् एव तत् ।
उदानं योजयेद् ऊर्ध्वम् अपानं चानुलोमयेत् ॥ ६८ ॥

समानं शमयेद् विद्वांस् त्रि-धा व्यानं तु योजयेत् ।
प्राणो रक्ष्यश् चतुर्भ्यो ऽपि तत्-स्थितौ देह-संस्थितिः ॥ ६९ ॥

२२.६९bv त्रि-धा व्यानं च योजयेत् स्वं स्वं स्थानं नयेद् एवं वृतान् वातान् वि-मार्ग-गान् ।
सर्वं चावरणम् पित्त-रक्त-संसर्ग-वर्जितम् ॥ ७० ॥

रसायन-विधानेन लशुनो हन्ति शीलितः ।
पित्तावृते पित्त-हरं मरुतश् चानुलोमनम् ॥ ७१ ॥

रक्तावृते ऽपि तद्-वच् च खुडोक्तं यच् च भेषजम् ।
रक्त-पित्तानिल-हरं विविधं च रसायनम् ॥ ७२ ॥

यथा-निदानं निर्दिष्टम् इति सम्यक् चिकित्सितम् ।
आयुर्-वेद-फलं स्थानम् एतत् सद्यो ऽर्ति-नाशनात् ॥ ७३ ॥

२२.७३dv एतत् सद्यो ऽर्ति-नाशनम्

चिकित्सितं हितं पथ्यं प्रायश्चित्तं भिषग्-जितम् ।
भेषजं शमनं शस्तं पर्यायैः स्मृतम् औषधम् ॥ ७४ ॥

प्रवेश पटलं

वार्ताः


श्री भवानी अष्टकम

 ॥**अन्नकूट महोत्सव की ह्रदय से हार्दिक शुभकामनाएं*

*श्री भ [ ... ]

अधिकम् पठतु
भगवान धनवंतरि कौन

कार्तिक कृष्ण पक्ष की त्रयोदशी तिथि के दिन भगवान धन्वन्त [ ... ]

अधिकम् पठतु
सप्तशती विवेचन

|| सप्तशती विवेचन ||
मेरुतंत्र में व्यास द्वारा कथित तीनो च [ ... ]

अधिकम् पठतु
धनतेरस २०१७ विशेष

धनतेरस 2017 :-
यह पर्व प्रति वर्ष कार्तिक मास के कृष्णपक्ष की  [ ... ]

अधिकम् पठतु
दीपावली के अचूक मंत्र...

🌻🌻दीपावली के अचूक मन्त्र 🌻🌻
दीपावली कि रात्रि जागरण कि  [ ... ]

अधिकम् पठतु
धनतेरस की हार्दिक शुभकामनाएं- जानें धनतेरस पूजन वि...

©*धनतेरस पूजन विधि*
( घर में धन धान्य वृद्धि और सुख शांति के  [ ... ]

अधिकम् पठतु
उपमालङ्कारः

उपमालङ्कारस्तु एकः अर्थालङ्कारः वर्तते । 'उपमा कालिदासस [ ... ]

अधिकम् पठतु
रावणः

रावणः ( ( शृणु) (/ˈrɑːvənəhə/)) (हिन्दी: रावन, आङ्ग्ल: Ravan) रामायणस्य म [ ... ]

अधिकम् पठतु
शारदा देवी मंदिर

शारदा देवी मंदिर मध्य प्रदेश के सतना ज़िले में मैहर शहर म [ ... ]

अधिकम् पठतु
विंध्यवासिनी का इतिहास...

🔱जय माँ विंध्यवासिनी🔱* *विंध्यवासिनी का इतिहास* *भगवती  [ ... ]

अधिकम् पठतु
हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
ऐतरेयोपनिषत्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता  [ ... ]

अधिकम् पठतु
आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

Swaha आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

स्वाहा का म [ ... ]

अधिकम् पठतु
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवसर...

Importance of rakhi
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवस [ ... ]

अधिकम् पठतु
अन्य लेख