अष्टांगहृदय निदानस्थान

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 
अध्याय 01
रोगः पाप्मा ज्वरो व्याधिर् विकारो दुःखम् आमयः ।
यक्ष्मातङ्क-गदाबाधाः शब्दाः पर्याय-वाचिनः ॥ १ ॥

निदानं पूर्व-रूपाणि रूपाण्य् उपशयस् तथा ।
संप्राप्तिश् चेति विज्ञानं रोगाणां पञ्च-धा स्मृतम् ॥ २ ॥

निमित्त-हेत्व्-आयतन-प्रत्ययोत्थान-कारणैः ।
निदानम् आहुः पर्यायैः प्राग्-रूपं येन लक्ष्यते ॥ ३ ॥

उत्पित्सुर् आमयो दोष-विशेषेणान्-अधिष्ठितः ।
लिङ्गम् अ-व्यक्तम् अल्प-त्वाद् व्याधीनां तद् यथा-यथम् ॥ ४ ॥

तद् एव व्यक्त-तां यातं रूपम् इत्य् अभिधीयते ।
संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नम् आकृतिः ॥ ५ ॥

हेतु-व्याधि-विपर्यस्त-विपर्यस्तार्थ-कारिणाम् ।
औषधान्न-विहाराणाम् उपयोगं सुखावहम् ॥ ६ ॥

विद्याद् उपशयं व्याधेः स हि सात्म्यम् इति स्मृतः ।
विपरीतो ऽन्-उपशयो व्याध्य्-अ-सात्म्याभिसंज्ञितः ॥ ७ ॥

यथा-दुष्टेन दोषेण यथा चानुविसर्पता ।
निर्वृत्तिर् आमयस्यासौ संप्राप्तिर् जातिर् आगतिः ॥ ८ ॥

संख्या-विकल्प-प्राधान्य-बल-काल-विशेषतः ।
सा भिद्यते यथात्रैव वक्ष्यन्ते ऽष्टौ ज्वरा इति ॥ ९ ॥

दोषाणां समवेतानां विकल्पो ऽंशांश-कल्पना ।
स्वातन्त्र्य-पारतन्त्र्याभ्यां व्याधेः प्राधान्यम् आदिशेत् ॥ १० ॥

हेत्व्-आदि-कार्त्स्न्यावयवैर् बला-बल-विशेषणम् ।
नक्तन्-दिनर्तु-भुक्तांशैर् व्याधि-कालो यथा-मलम् ॥ ११ ॥

इति प्रोक्तो निदानार्थस् तं व्यासेनोपदेक्ष्यति ।
सर्वेषाम् एव रोगाणां निदानं कुपिता मलाः ॥ १२ ॥

१.१२av इति प्रोक्तो निदानार्थः १.१२bv तं व्यासेनोपदेक्ष्यते १.१२bv तं व्यासेनोपदिश्यते १.१२bv स व्यासेनोपदेक्ष्यति १.१२bv स व्यासेनोपदेक्ष्यते १.१२bv स व्यासेनोपदिश्यते तत्-प्रकोपस्य तु प्रोक्तं विविधा-हित-सेवनम् ।
अ-हितं त्रि-विधो योगस् त्रयाणां प्राग् उदाहृतः ॥ १३ ॥

१.१३cv अ-हितस् त्रि-विधो योगस् तिक्तोषण-कषायाल्प-रूक्ष-प्रमित-भोजनैः ।
धारणोदीरण-निशा-जागरात्य्-उच्च-भाषणैः ॥ १४ ॥

क्रियाति-योग-भी-शोक-चिन्ता-व्यायाम-मैथुनैः ।
ग्रीष्माहो-रात्रि-भुक्तान्ते प्रकुप्यति समीरणः ॥ १५ ॥

पित्तं कट्व्-अम्ल-तीक्ष्णोष्ण-पटु-क्रोध-विदाहिभिः ।
शरन्-मध्याह्न-रात्र्य्-अर्ध-विदाह-समयेषु च ॥ १६ ॥

१.१६dv -निदाघ-समयेषु च स्वाद्व्-अम्ल-लवण-स्निग्ध-गुर्व्-अभिष्यन्दि-शीतलैः ।
आस्या-स्वप्न-सुखा-जीर्ण-दिवा-स्वप्नाति-बृंहणैः ॥ १७ ॥

१.१७cv अति-स्वप्न-सुखा-जीर्ण- प्रच्छर्दनाद्य-योगेन भुक्त-मात्र-वसन्तयोः ।
पूर्वाह्णे पूर्व-रात्रे च श्लेष्मा द्वन्द्वं तु संकरात् ॥ १८ ॥

मिश्री-भावात् समस्तानां संनिपातस् तथा पुनः ।
संकीर्णा-जीर्ण-विषम-विरुद्धाध्यशनादिभिः ॥ १९ ॥

व्यापन्न-मद्य-पानीय-शुष्क-शाकाम-मूलकैः ।
पिण्याक-मृद्-यव-सुरा-पूति-शुष्क-कृशामिषैः ॥ २० ॥

दोष-त्रय-करैस् तैस् तैस् तथान्न-परिवर्तनात् ।
ऋतोर् दुष्टात् पुरो-वाताद् ग्रहावेशाद् विषाद् गरात् ॥ २१ ॥

१.२१bv तथान्न-परिवर्ततः १.२१bv तथान्न-परिवृत्तितः दुष्टान्नात् पर्वताश्लेषाद् ग्रहैर् जन्मर्क्ष-पीडनात् ।
मिथ्या-योगाच् च विविधात् पापानां च निषेवणात् ॥ २२ ॥

१.२२av दुष्टामात् पर्वताश्लेषाद् स्त्रीणां प्रसव-वैषम्यात् तथा मिथ्योपचारतः ।
प्रति-रोगम् इति क्रुद्धा रोगाधिष्ठान-गामिनीः ॥ २३ ॥

रसायनीः प्रपद्याशु दोषा देहे विकुर्वते ॥ २३ऊ̆अब् ॥

अध्याय 02

ज्वरो रोग-पतिः पाप्मा मृत्युर् ओजो-ऽशनो ऽन्तकः ।
क्रोधो दक्षाध्वर-ध्वंसी रुद्रोर्ध्व-नयनोद्भवः ॥ १ ॥

२.१bv मृत्युस् तेजो-ऽशनो ऽन्तकः जन्मान्तयोर् मोह-मयः संतापात्मापचार-जः ।
विविधैर् नामभिः क्रूरो नाना-योनिषु वर्तते ॥ २ ॥

स जायते ऽष्ट-धा दोषैः पृथङ् मिश्रैः समागतैः ।
आगन्तुश् च मलास् तत्र स्वैः स्वैर् दुष्टाः प्रदूषणैः ॥ ३ ॥

आमाशयं प्रविश्यामम् अनुगम्य पिधाय च ।
स्रोतांसि पक्ति-स्थानाच् च निरस्य ज्वलनं बहिः ॥ ४ ॥

सह तेनाभिसर्पन्तस् तपन्तः सकलं वपुः ।
कुर्वन्तो गात्रम् अत्य्-उष्णं ज्वरं निर्वर्तयन्ति ते ॥ ५ ॥

२.५cv कुर्वन्तो गात्रम् आ-शुष्कं स्रोतो-विबन्धात् प्रायेण ततः स्वेदो न जायते ।
तस्य प्राग्-रूपम् आलस्यम् अ-रतिर् गात्र-गौरवम् ॥ ६ ॥

आस्य-वैरस्यम् अ-रुचि-जृम्भा सास्राकुलाक्षि-ता ।
अङ्ग-मर्दो ऽ-विपाको ऽल्प-प्राण-ता बहु-निद्र-ता ॥ ७ ॥

२.७bv -जृम्भा सास्राकुलाक्ष-ता रोम-हर्षो विनमनं पिण्डिकोद्वेष्टनं क्लमः ।
हितोपदेशेष्व् अ-क्षान्तिः प्रीतिर् अम्ल-पटूषणे ॥ ८ ॥

द्वेषः स्वादुषु भक्ष्येषु तथा बालेषु तृड् भृशम् ।
शब्दाग्नि-शीत-वाताम्बु-च्छायोष्णेष्व् अ-निमित्ततः ॥ ९ ॥

इच्छा द्वेषश् च तद् अनु ज्वरस्य व्यक्त-ता भवेत् ।
आगमापगम-क्षोभ-मृदु-ता-वेदनोष्मणाम् ॥ १० ॥

वैषम्यं तत्र तत्राङ्गे तास् ताः स्युर् वेदनाश् चलाः ।
पादयोः सुप्त-ता स्तम्भः पिण्डिकोद्वेष्टनं शमः ॥ ११ ॥

२.११dv पिण्डिकोद्वेष्टनं क्लमः विश्लेष इव संधीनां साद ऊर्वोः कटी-ग्रहः ।
पृष्ठं क्षोदम् इवाप्नोति निष्पीड्यत इवोदरम् ॥ १२ ॥

छिद्यन्त इव चास्थीनि पार्श्व-गानि विशेषतः ।
हृदयस्य ग्रहस् तोदः प्राजनेनेव वक्षसः ॥ १३ ॥

स्कन्धयोर् मथनं बाह्वोर् भेदः पीडनम् अंसयोः ।
अ-शक्तिर् भक्षणे हन्वोर् जृम्भणं कर्णयोः स्वनः ॥ १४ ॥

निस्तोदः शङ्खयोर् मूर्ध्नि वेदना वि-रसास्य-ता ।
कषायास्य-त्वम् अथ-वा मलानाम् अ-प्रवर्तनम् ॥ १५ ॥

रूक्षारुण-त्वग्-आस्याक्षि-नख-मूत्र-पुरीष-ता ।
प्रसेका-रोचका-श्रद्धा-विपाका-स्वेद-जागराः ॥ १६ ॥

कण्ठौष्ठ-शोषस् तृट् शुष्कौ छर्दि-कासौ विषादि-ता ।
हर्षो रोमाङ्ग-दन्तेषु वेपथुः क्षवथोर् ग्रहः ॥ १७ ॥

२.१७dv श्वयथुः क्षवथोर् ग्रहः भ्रमः प्रलापो घर्मेच्छा विनामश् चानिल-ज्वरे ।
युग-पद् व्याप्तिर् अङ्गानां प्रलापः कटु-वक्त्र-ता ॥ १८ ॥

नासास्य-पाकः शीतेच्छा भ्रमो मूर्छा मदो ऽ-रतिः ।
विट्-स्रंसः पित्त-वमनं रक्त-ष्ठीवनम् अम्लकः ॥ १९ ॥

रक्त-कोठोद्गमः पीत-हरित-त्वं त्वग्-आदिषु ।
स्वेदो निःश्वास-वैगन्ध्यम् अति-तृष्णा च पित्त-जे ॥ २० ॥

विशेषाद् अ-रुचिर् जाड्यं स्रोतो-रोधो ऽल्प-वेग-ता ।
प्रसेको मुख-माधुर्यं हृल्-लेप-श्वास-पीनसाः ॥ २१ ॥

हृल्-लासश् छर्दनं कासः स्तम्भः श्वैत्यं त्वग्-आदिषु ।
अङ्गेषु शीत-पिटिकास् तन्द्रोदर्दः कफोद्भवे ॥ २२ ॥

काले यथा-स्वं सर्वेषां प्रवृत्तिर् वृद्धिर् एव वा ॥ २३अब् ॥
निदानोक्तान्-उपशयो विपरीतोपशायि-ता ॥ २३च्द् ॥
यथा-स्वं लिङ्ग-संसर्गे ज्वरः संसर्ग-जो ऽपि च ॥ २३एf ॥
शिरो-ऽर्ति-मूर्छा-वमि-दाह-मोह-कण्ठास्य-शोषा-रति-पर्व-भेदाः ।
उन्निद्र-ता-तृड्-भ्रम-रोम-हर्षा जृम्भाति-वाक्-त्वं च चलात् स-पित्तात् ॥ २४ ॥

ताप-हान्य्-अ-रुचि-पर्व-शिरो-रुक्-पीनस-श्वसन-कास-विबन्धाः ।
शीत-जाड्य-तिमिर-भ्रम-तन्द्राः श्लेष्म-वात-जनित-ज्वर-लिङ्गम् ॥ २५ ॥

शीत-स्तम्भ-स्वेद-दाहा-व्यवस्था तृष्णा-कास-श्लेष्म-पित्त-प्रवृत्तिः ।
मोहस् तन्द्रा लिप्त-तिक्तास्य-ता च ज्ञेयं रूपं श्लेष्म-पित्त-ज्वरस्य ॥ २६ ॥

२.२६bv तृष्णा कासः श्लेष्म-पित्त-प्रवृत्तिः सर्व-जो लक्षणैः सर्वैर् दाहो ऽत्र च मुहुर् मुहुः ।
तद्-वच् छीतं महा-निद्रा दिवा जागरणं निशि ॥ २७ ॥

सदा वा नैव वा निद्रा महा-स्वेदो ऽति नैव वा ।
गीत-नर्तन-हास्यादि-विकृतेहा-प्रवर्तनम् ॥ २८ ॥

२.२८bv महान् स्वेदो ऽति नैव वा साश्रुणी कलुषे रक्ते भुग्ने लुलित-पक्ष्मणी ।
अक्षिणी पिण्डिका-पार्श्व-मूर्ध-पर्वास्थि-रुग्-भ्रमः ॥ २९ ॥

स-स्वनौ स-रुजौ कर्णौ कण्ठः शूकैर् इवाचितः ।
परिदग्धा खरा जिह्वा गुरु-स्रस्ताङ्ग-संधि-ता ॥ ३० ॥

२.३०dv गुरुः स्रस्ताङ्ग-संधि-ता रक्त-पित्त-कफ-ष्ठीवो लोलनं शिरसो ऽति-रुक् ।
कोठानां श्याव-रक्तानां मण्डलानां च दर्शनम् ॥ ३१ ॥

२.३१bv लोलनं शिरसो ऽति-तृट् हृद्-व्यथा मल-संसङ्गः प्रवृत्तिर् वाल्प-शो ऽति वा ।
स्निग्धास्य-ता बल-भ्रंशः स्वर-सादः प्रलापि-ता ॥ ३२ ॥

२.३२av हृद्-व्यथा मल-संसर्गः दोष-पाकश् चिरात् तन्द्रा प्रततं कण्ठ-कूजनम् ।
संनिपातम् अभिन्यासं तं ब्रूयाच् च हृतौजसम् ॥ ३३ ॥

२.३३dv तं ब्रूयाच् च हतौजसम् वायुना कफ-रुद्धेन पित्तम् अन्तः प्रपीडितम् ।
व्यवायि-त्वाच् च सूक्ष्म-त्वाद् बहिर्-मार्गं प्रवर्तते ॥ ३३+१ ॥

तेन हारिद्र-नेत्र-त्वं संनिपातोद्भवे ज्वरे ॥ ३३+२अब् ॥
दोषे विबद्धे नष्टे ऽग्नौ सर्व-संपूर्ण-लक्षणः ।
अ-साध्यः सो ऽन्य-था कृच्छ्रो भवेद् वैकल्य-दो ऽपि वा ॥ ३४ ॥

अन्यच् च संनिपातोत्थो यत्र पित्तं पृथक् स्थितम् ।
त्वचि कोष्ठे ऽथ-वा दाहं विदधाति पुरो ऽनु वा ॥ ३५ ॥

२.३५av अन्यश् च संनिपातोत्थो तद्-वद् वात-कफौ शीतं दाहादिर् दुस्-तरस् तयोः ।
शीतादौ तत्र पित्तेन कफे स्यन्दित-शोषिते ॥ ३६ ॥

शीते शान्ते ऽम्लको मूर्छा मदस् तृष्णा च जायते ।
दाहादौ पुनर् अन्ते स्युस् तन्द्रा-ष्ठीव-वमि-क्लमाः ॥ ३७ ॥

आगन्तुर् अभिघाताभिषङ्ग-शापाभिचारतः ।
चतुर्-धात्र क्षत-च्छेद-दाहाद्यैर् अभिघात-जः ॥ ३८ ॥

श्रमाच् च तस्मिन् पवनः प्रायो रक्तं प्रदूषयन् ।
स-व्यथा-शोफ-वैवर्ण्यं स-रुजं कुरुते ज्वरम् ॥ ३९ ॥

ग्रहावेशौषधि-विष-क्रोध-भी-शोक-काम-जः ।
अभिषङ्गाद् ग्रहेणास्मिन्न् अ-कस्माद् धास-रोदने ॥ ४० ॥

ओषधि-गन्ध-जे मूर्छा शिरो-रुग् वमथुः क्षवः ।
विषान् मूर्छातिसारास्य-श्याव-ता-दाह-हृद्-गदाः ॥ ४१ ॥

२.४१bv शिरो-रुक् श्वयथुः क्षवः २.४१bv शिरो-रुग् वेपथुः क्षवः २.४१dv -श्याव-ता-दाह-हृद्-ग्रहाः क्रोधात् कम्पः शिरो-रुक् च प्रलापो भय-शोक-जे ।
कामाद् भ्रमो ऽ-रुचिर् दाहो ह्री-निद्रा-धी-धृति-क्षयः ॥ ४२ ॥

२.४२dv भी-निद्रा-धी-धृति-क्षयः ग्रहादौ संनिपातस्य भयादौ मरुतस् त्रये ।
कोपः कोपे ऽपि पित्तस्य यौ तु शापाभिचार-जौ ॥ ४३ ॥

२.४३cv कोपः कोपे तु पित्तस्य २.४३cv कोपः क्रोधे तु पित्तस्य संनिपात-ज्वरौ घोरौ ताव् अ-सह्य-तमौ मतौ ।
तत्राभिचारिकैर् मन्त्रैर् हूयमानस्य तप्यते ॥ ४४ ॥

२.४४bv ताव् अ-साध्य-तमौ मतौ पूर्वं चेतस् ततो देहस् ततो विस्फोट-तृड्-भ्रमैः ।
स-दाह-मूर्छैर् ग्रस्तस्य प्रत्य्-अहं वर्धते ज्वरः ॥ ४५ ॥

इति ज्वरो ऽष्ट-धा दृष्टः समासाद् विविधस् तु सः ।
शारीरो मानसः सौम्यस् तीक्ष्णो ऽन्तर्-बहिर्-आश्रयः ॥ ४६ ॥

प्राकृतो वैकृतः साध्यो ऽ-साध्यः सामो निर्-आमकः ।
पूर्वं शरीरे शारीरे तापो मनसि मानसे ॥ ४७ ॥

पवने योग-वाहि-त्वाच् छीतं श्लेष्म-युते भवेत् ।
दाहः पित्त-युते मिश्रं मिश्रे ऽन्तः-संश्रये पुनः ॥ ४८ ॥

ज्वरे ऽधिकं विकाराः स्युर् अन्तः क्षोभो मल-ग्रहः ।
बहिर् एव बहिर्-वेगे तापो ऽपि च सु-साध्य-ता ॥ ४९ ॥

वर्षा-शरद्-वसन्तेषु वाताद्यैः प्राकृतः क्रमात् ।
वैकृतो ऽन्यः स दुः-साध्यः प्रायश् च प्राकृतो ऽनिलात् ॥ ५० ॥

वर्षासु मारुतो दुष्टः पित्त-श्लेष्मान्वितो ज्वरम् ।
कुर्यात् पित्तं च शरदि तस्य चानु-बलं कफः ॥ ५१ ॥

२.५१dv तस्य चानु-बलः कफः तत्-प्रकृत्या विसर्गाच् च तत्र नान्-अशनाद् भयम् ।
कफो वसन्ते तम् अपि वात-पित्तं भवेद् अनु ॥ ५२ ॥

२.५२av तत्-प्रकृत्या विसर्गस्य बल-वत्स्व् अल्प-दोषेषु ज्वरः साध्यो ऽन्-उपद्रवः ।
सर्व-था विकृति-ज्ञाने प्राग् अ-साध्य उदाहृतः ॥ ५३ ॥

ज्वरोपद्रव-तीक्ष्ण-त्वम् अ-ग्लानिर् बहु-मूत्र-ता ।
न प्रवृत्तिर् न विड् जीर्णा न क्षुत् साम-ज्वराकृतिः ॥ ५४ ॥

ज्वर-वेगो ऽधिकं तृष्णा प्रलापः श्वसनं भ्रमः ।
मल-प्रवृत्तिर् उत्क्लेशः पच्यमानस्य लक्षणम् ॥ ५५ ॥

२.५५av ज्वर-वेगो ऽधिकस् तृष्णा जीर्ण-ताम-विपर्यासात् सप्त-रात्रं च लङ्घनात् ।
ज्वरः पञ्च-विधः प्रोक्तो मल-काल-बला-बलात् ॥ ५६ ॥

प्राय-शः संनिपातेन भूयसा तूपदिश्यते ।
संततः सततो ऽन्ये-द्युस् तृतीयक-चतुर्थकौ ॥ ५७ ॥

२.५७av प्रायः स संनिपातेन धातु-मूत्र-शकृद्-वाहि-स्रोतसां व्यापिनो मलाः ।
तापयन्तस् तनुं सर्वां तुल्य-दूष्यादि-वर्धिताः ॥ ५८ ॥

बलिनो गुरवः स्तब्धा विशेषेण रसाश्रिताः ।
संततं निष्-प्रति-द्वन्द्वा ज्वरं कुर्युः सु-दुः-सहम् ॥ ५९ ॥

मलं ज्वरोष्मा धातून् वा स शीघ्रं क्षपयेत् ततः ।
सर्वाकारं रसादीनां शुद्ध्या-शुद्ध्यापि वा क्रमात् ॥ ६० ॥

२.६०av मलाञ् ज्वरोष्मा धातून् वा वात-पित्त-कफैः सप्त दश द्वा-दश वासरान् ।
प्रायो ऽनुयाति मर्यादां मोक्षाय च वधाय च ॥ ६१ ॥

२.६१dv विमोक्षाय वधाय वा इत्य् अग्निवेशस्य मतं हारीतस्य पुनः स्मृतिः ।
द्वि-गुणा सप्तमी यावन् नवम्य् एका-दशी तथा ॥ ६२ ॥

एषा त्रि-दोष-मर्यादा मोक्षाय च वधाय च ।
शुद्ध्य्-अ-शुद्धौ ज्वरः कालं दीर्घम् अप्य् अनुवर्तते ॥ ६३ ॥

२.६३cv शुद्ध्य्-अ-शुद्ध्योर् ज्वरः कालं कृशानां व्याधि-मुक्तानां मिथ्याहारादि-सेविनाम् ।
अल्पो ऽपि दोषो दूष्यादेर् लब्ध्वान्य-तमतो बलम् ॥ ६४ ॥

स-विपक्षो ज्वरं कुर्याद् विषमं क्षय-वृद्धि-भाक् ।
दोषः प्रवर्तते तेषां स्वे काले ज्वरयन् बली ॥ ६५ ॥

२.६५dv स्व-काले ज्वरयन् बली निवर्तते पुनश् चैष प्रत्य्-अनीक-बला-बलः ।
क्षीणे दोषे ज्वरः सूक्ष्मो रसादिष्व् एव लीयते ॥ ६६ ॥

लीन-त्वात् कार्श्य-वैवर्ण्य-जाड्यादीन् आदधाति सः ।
आसन्न-विवृतास्य-त्वात् स्रोतसां रस-वाहिनाम् ॥ ६७ ॥

आशु सर्वस्य वपुषो व्याप्तिर् दोषेण जायते ।
संततः सततस् तेन विपरीतो विपर्ययात् ॥ ६८ ॥

विषमो विषमारम्भ-क्रिया-कालो ऽनुषङ्ग-वान् ।
दोषो रक्ताश्रयः प्रायः करोति सततं ज्वरम् ॥ ६९ ॥

अहो-रात्रस्य स द्विः स्यात् सकृद् अन्ये-द्युर् आश्रितः ।
तस्मिन् मांस-वहा नाडीर् मेदो-नाडीस् तृतीयके ॥ ७० ॥

२.७०cv अस्मिन् मांस-वहा नाडीर् ग्राही पित्तानिलान् मूर्ध्नस् त्रिकस्य कफ-पित्ततः ।
स-पृष्ठस्यानिल-कफात् स चैकाहान्तरः स्मृतः ॥ ७१ ॥

२.७१dv स वैकाहान्तरः स्मृतः चतुर्थको मले मेदो-मज्जास्थ्य्-अन्य-तम-स्थिते ।
मज्ज-स्थ एवेत्य् अपरे प्रभावं स तु दर्शयेत् ॥ ७२ ॥

द्वि-धा कफेन जङ्घाभ्यां स पूर्वं शिरसो ऽनिलात् ।
अस्थि-मज्जोभय-गते चतुर्थक-विपर्ययः ॥ ७३ ॥

२.७३dv चातुर्थिक-विपर्ययः त्रि-धा द्व्य्-अहं ज्वरयति दिनम् एकं तु मुञ्चति ।
बला-बलेन दोषाणाम् अन्न-चेष्टादि-जन्मना ॥ ७४ ॥

२.७४av त्र्य्-अहाद् द्व्य्-अहं ज्वरयति २.७४bv दिनम् एकं विमुञ्चति ज्वरः स्यान् मनसस् तद्-वत् कर्मणश् च तदा तदा ।
दोष-दूष्यर्त्व्-अहो-रात्र-प्रभृतीनां बलाज् ज्वरः ॥ ७५ ॥

मनसो विषयाणां च कालं तं तं प्रपद्यते ।
धातून् प्रक्षोभयन् दोषो मोक्ष-काले विलीयते ॥ ७६ ॥

ततो नरः श्वसन् स्विद्यन् कूजन् वमति चेष्टते ।
वेपते प्रलपत्य् उष्णैः शीतैश् चाङ्गैर् हत-प्रभः ॥ ७७ ॥

वि-संज्ञो ज्वर-वेगार्तः स-क्रोध इव वीक्षते ।
स-दोष-शब्दं च शकृद् द्रवं सृजति वेग-वत् ॥ ७८ ॥

देहो लघुर् व्यपगत-क्लम-मोह-तापः पाको मुखे करण-सौष्ठवम् अ-व्यथ-त्वम् । स्वेदः क्षवः प्रकृति-योगि मनो ऽन्न-लिप्सा कण्डूश् च मूर्ध्नि विगत-ज्वर-लक्षणानि ॥
७९ ॥



अध्याय 03
भृशोष्ण-तीक्ष्ण-कट्व्-अम्ल-लवणादि-विदाहिभिः ।
कोद्रवोद्दालकैश् चान्नैस् तद्-युक्तैर् अति-सेवितैः ॥ १ ॥

कुपितं पित्तलैः पित्तं द्रवं रक्तं च मूर्छिते ।
ते मिथस् तुल्य-रूप-त्वम् आगम्य व्याप्नुतस् तनुम् ॥ २ ॥

पित्तं रक्तस्य विकृतेः संसर्गाद् दूषणाद् अपि ।
गन्ध-वर्णानुवृत्तेश् च रक्तेन व्यपदिश्यते ॥ ३ ॥

३.३av पित्तं रक्तस्य विकृतिः प्रभवत्य् असृजः स्थानात् प्लीहतो यकृतश् च तत् ।
शिरो-गुरु-त्वम् अ-रुचिः शीतेच्छा धूमको ऽम्लकः ॥ ४ ॥

छर्दिश् छर्दित-बैभत्स्यं कासः श्वासो भ्रमः क्लमः ।
लोह-लोहित-मत्स्याम-गन्धास्य-त्वं स्वर-क्षयः ॥ ५ ॥

रक्त-हारिद्र-हरित-वर्ण-ता नयनादिषु ।
नील-लोहित-पीतानां वर्णानाम् अ-विवेचनम् ॥ ६ ॥

स्वप्ने तद्-वर्ण-दर्शि-त्वं भवत्य् अस्मिन् भविष्यति ।
ऊर्ध्वं नासाक्षि-कर्णास्यैर् मेढ्र-योनि-गुदैर् अधः ॥ ७ ॥

कुपितं रोम-कूपैश् च समस्तैस् तत् प्रवर्तते ।
ऊर्ध्वं साध्यं कफाद् यस्मात् तद् विरेचन-साधनम् ॥ ८ ॥

बह्व्-औषधं च पित्तस्य विरेको हि वरौषधम् ।
अनुबन्धी कफो यश् च तत्र तस्यापि शुद्धि-कृत् ॥ ९ ॥

कषायाः स्वादवो ऽप्य् अस्य विशुद्ध-श्लेष्मणो हिताः ।
किम् उ तिक्ताः कषाया वा ये निसर्गात् कफापहाः ॥ १० ॥

अधो याप्यं चलाद् यस्मात् तत् प्रच्छर्दन-साधनम् ।
अल्पौषधं च पित्तस्य वमनं न वरौषधम् ॥ ११ ॥

अनुबन्धी चलो यश् च शान्तये ऽपि न तस्य तत् ।
कषायाश् च हितास् तस्य मधुरा एव केवलम् ॥ १२ ॥

कफ-मारुत-संसृष्टम् अ-साध्यम् उभयायनम् ।
अ-शक्य-प्रातिलोम्य-त्वाद् अ-भावाद् औषधस्य च ॥ १३ ॥

न हि संशोधनं किञ्-चिद् अस्त्य् अस्य प्रतिलोम-गम् ।
शोधनं प्रतिलोमं च रक्त-पित्ते भिषग्-जितम् ॥ १४ ॥

३.१४bv अस्त्य् अस्य प्रतिलोमनम् ३.१४bv अस्त्य् अस्य प्रतिलोमकम् एवम् एवोपशमनं सर्व-शो नास्य विद्यते ।
संसृष्टेषु हि दोषेषु सर्व-जिच् छमनं हितम् ॥ १५ ॥

तत्र दोषानुगमनं सिरास्र इव लक्षयेत् ।
उपद्रवांश् च विकृति-ज्ञानतस् तेषु चाधिकम् ॥ १६ ॥

आशु-कारी यतः कासस् तम् एवातः प्रवक्ष्यति ।
पञ्च कासाः स्मृता वात-पित्त-श्लेष्म-क्षत-क्षयैः ॥ १७ ॥

३.१७bv तम् एवातः प्रचक्ष्यते ३.१७bv तम् एवातः प्रचक्षते क्षयायोपेक्षिताः सर्वे बलिनश् चोत्तरोत्तरम् ।
तेषां भविष्यतां रूपं कण्ठे कण्डूर् अ-रोचकः ॥ १८ ॥

३.१८bv बलिनश् च यथोत्तरम् शूक-पूर्णाभ-कण्ठ-त्वं तत्राधो विहतो ऽनिलः ।
ऊर्ध्वं प्रवृत्तः प्राप्योरस् तस्मिन् कण्ठे च संसजन् ॥ १९ ॥

शिरः-स्रोतांसि संपूर्य ततो ऽङ्गान्य् उत्क्षिपन्न् इव ।
क्षिपन्न् इवाक्षिणी पृष्ठम् उरः पार्श्वे च पीडयन् ॥ २० ॥

प्रवर्तते स वक्त्रेण भिन्न-कांस्योपम-ध्वनिः ।
हेतु-भेदात् प्रतीघात-भेदो वायोः स-रंहसः ॥ २१ ॥

यद् रुजा-शब्द-वैषम्यं कासानां जायते ततः ।
कुपितो वातलैर् वातः शुष्कोरः-कण्ठ-वक्त्र-ताम् ॥ २२ ॥

३.२२cv कुपितो वातलैर् वायुः हृत्-पार्श्वोरः-शिरः-शूलं मोह-क्षोभ-स्वर-क्षयान् ।
करोति शुष्कं कासं च महा-वेग-रुजा-स्वनम् ॥ २३ ॥

३.२३cv करोति शुष्क-कासं च सो ऽङ्ग-हर्षी कफं शुष्कं कृच्छ्रान् मुक्त्वाल्प-तां व्रजेत् ।
पित्तात् पीताक्षि-कफ-ता तिक्तास्य-त्वं ज्वरो भ्रमः ॥ २४ ॥

पित्तासृग्-वमनं तृष्णा वैस्वर्यं धूमको ऽम्लकः ।
प्रततं कास-वेगेन ज्योतिषाम् इव दर्शनम् ॥ २५ ॥

३.२५bv वैस्वर्यं धूमको मदः कफाद् उरो ऽल्प-रुङ् मूर्ध-हृदयं स्तिमितं गुरु ।
कण्ठोपलेपः सदनं पीनस-च्छर्द्य्-अ-रोचकाः ॥ २६ ॥

३.२६cv कण्ठास्य-लेपः सदनं रोम-हर्षो घन-स्निग्ध-श्वेत-श्लेष्म-प्रवर्तनम् ।
युद्धाद्यैः साहसैस् तैस् तैः सेवितैर् अ-यथा-बलम् ॥ २७ ॥

उरस्य् अन्तः-क्षते वायुः पित्तेनानुगतो बली ।
कुपितः कुरुते कासं कफं तेन स-शोणितम् ॥ २८ ॥

पीतं श्यावं च शुष्कं च ग्रथितं कुथितं बहु ।
ष्ठीवेत् कण्ठेन रुजता विभिन्नेनेव चोरसा ॥ २९ ॥

३.२९av पीतं श्यामं च शुष्कं च सूचीभिर् इव तीक्ष्णाभिस् तुद्यमानेन शूलिना ।
पर्व-भेद-ज्वर-श्वास-तृष्णा-वैस्वर्य-कम्प-वान् ॥ ३० ॥

पारावत इवाकूजन् पार्श्व-शूली ततो ऽस्य च ।
क्रमाद् वीर्यं रुचिः पक्ता बलं वर्णश् च हीयते ॥ ३१ ॥

क्षीणस्य सासृङ्-मूत्र-त्वं स्याच् च पृष्ठ-कटी-ग्रहः ।
वायु-प्रधानाः कुपिता धातवो राज-यक्ष्मिणः ॥ ३२ ॥

कुर्वन्ति यक्ष्मायतनैः कासं ष्ठीवेत् कफं ततः ।
पूति-पूयोपमं पीतं विस्रं हरित-लोहितम् ॥ ३३ ॥

लुच्येते इव पार्श्वे च हृदयं पततीव च ।
अ-कस्माद् उष्ण-शीतेच्छा बह्व्-आशि-त्वं बल-क्षयः ॥ ३४ ॥

३.३४av लुप्येते इव पार्श्वे च स्निग्ध-प्रसन्न-वक्त्र-त्वं श्री-मद्-दर्शन-नेत्र-ता ।
ततो ऽस्य क्षय-रूपाणि सर्वाण्य् आविर्-भवन्ति च ॥ ३५ ॥

३.३५bv श्री-मद्-दशन-नेत्र-ता इत्य् एष क्षय-जः कासः क्षीणानां देह-नाशनः ।
याप्यो वा बलिनां तद्-वत् क्षत-जो ऽभिनवौ तु तौ ॥ ३६ ॥

सिध्येताम् अपि सानाथ्यात् साध्या दोषैः पृथक् त्रयः ।
मिश्रा याप्या द्वयात् सर्वे जरसा स्थविरस्य च ॥ ३७ ॥

३.३७av सिध्येताम् अपि सामर्थ्यात् कासाच् छ्वास-क्षय-च्छर्दि-स्वर-सादादयो गदाः ।
भवन्त्य् उपेक्षया यस्मात् तस्मात् तं त्वरया जयेत् ॥ ३८ ॥



अध्याय 04
कास-वृद्ध्या भवेच् छ्वासः पूर्वैर् वा दोष-कोपनैः ।
आमातीसार-वमथु-विष-पाण्डु-ज्वरैर् अपि ॥ १ ॥

रजो-धूमानिलैर् मर्म-घाताद् अति-हिमाम्बुना ।
क्षुद्रकस् तमकश् छिन्नो महान् ऊर्ध्वश् च पञ्चमः ॥ २ ॥

कफोपरुद्ध-गमनः पवनो विष्वग्-आस्थितः ।
प्राणोदकान्न-वाहीनि दुष्टः स्रोतांसि दूषयन् ॥ ३ ॥

उरः-स्थः कुरुते श्वासम् आमाशय-समुद्भवम् ।
प्राग्-रूपं तस्य हृत्-पार्श्व-शूलं प्राण-विलोम-ता ॥ ४ ॥

आनाहः शङ्ख-भेदश् च तत्रायासाति-भोजनैः ।
प्रेरितः प्रेरयेत् क्षुद्रं स्वयं संशमनं मरुत् ॥ ५ ॥

प्रतिलोमं सिरा गच्छन्न् उदीर्य पवनः कफम् ।
परिगृह्य शिरो-ग्रीवम् उरः पार्श्वे च पीडयन् ॥ ६ ॥

कासं घुर्घुरकं मोहम् अ-रुचिम् पीनसं तृषम् ।
करोति तीव्र-वेगं च श्वासं प्राणोपतापिनम् ॥ ७ ॥

प्रताम्येत् तस्य वेगेन निष्ठ्यूतान्ते क्षणं सुखी ।
कृच्छ्राच् छयानः श्वसिति निषण्णः स्वास्थ्यम् ऋच्छति ॥ ८ ॥

उच्छ्रिताक्षो ललाटेन स्विद्यता भृशम् अर्ति-मान् ।
विशुष्कास्यो मुहुः-श्वासी काङ्क्षत्य् उष्णं स-वेपथुः ॥ ९ ॥

मेघाम्बु-शीत-प्राग्-वातैः श्लेष्मलैश् च विवर्धते ।
स याप्यस् तमको साध्यो नवो वा बलिनो भवेत् ॥ १० ॥

ज्वर-मूर्छा-युतः शीतैः शाम्येत् प्रतमकस् तु सः ।
छिन्नाच् छ्वसिति विच्छिन्नं मर्म-च्छेद-रुजार्दितः ॥ ११ ॥

स-स्वेद-मूर्छः सानाहो वस्ति-दाह-निरोध-वान् ।
अधो-दृग् विप्लुताक्षश् च मुह्यन् रक्तैक-लोचनः ॥ १२ ॥

शुष्कास्यः प्रलपन् दीनो नष्ट-च्छायो वि-चेतनः ।
महता महता दीनो नादेन श्वसिति क्रथन् ॥ १३ ॥

४.१३cv महतो महता दीनो उद्धूयमानः संरब्धो मत्तर्षभ इवा-निशम् ।
प्रणष्ट-ज्ञान-विज्ञानो विभ्रान्त-नयनाननः ॥ १४ ॥

वक्षः समाक्षिपन् बद्ध-मूत्र-वर्चा विशीर्ण-वाक् ।
शुष्क-कण्ठो मुहुर् मुह्यन् कर्ण-शङ्ख-शिरो-ऽति-रुक् ॥ १५ ॥

दीर्घम् ऊर्ध्वं श्वसित्य् ऊर्ध्वान् न च प्रत्याहरत्य् अधः ।
श्लेष्मावृत-मुख-स्रोताः क्रुद्ध-गन्ध-वहार्दितः ॥ १६ ॥

ऊर्ध्व-दृग् वीक्षते भ्रान्तम् अक्षिणी परितः क्षिपन् ।
मर्मसु च्छिद्यमानेषु परिदेवी निरुद्ध-वाक् ॥ १७ ॥

एते सिध्येयुर् अ-व्यक्ता व्यक्ताः प्राण-हरा ध्रुवम् ।
श्वासैक-हेतु-प्राग्-रूप-संख्या-प्रकृति-संश्रयाः ॥ १८ ॥

४.१८dv -संख्या-प्रकृति-संश्रया हिध्मा भक्तोद्भवा क्षुद्रा यमला महतीति च ।
गम्भीरा च मरुत् तत्र त्वरया-युक्ति-सेवितैः ॥ १९ ॥

रूक्ष-तीक्ष्ण-खरा-सात्म्यैर् अन्न-पानैः प्रपीडितः ।
करोति हिध्माम् अ-रुजां मन्द-शब्दां क्षवानुगाम् ॥ २० ॥

शमं सात्म्यान्न-पानेन या प्रयाति च सान्न-जा ।
आयासात् पवनः क्षुद्रः क्षुद्रां हिध्मां प्रवर्तयेत् ॥ २१ ॥

४.२१cv आयासात् पवनः क्रुद्धः जत्रु-मूल-प्रविसृताम् अल्प-वेगां मृदुं च सा ।
वृद्धिम् आयास्यतो याति भुक्त-मात्रे च मार्दवम् ॥ २२ ॥

चिरेण यमलैर् वेगैर् आहारे या प्रवर्तते ।
परिणामोन्-मुखे वृद्धिं परिणामे च गच्छति ॥ २३ ॥

कम्पयन्ती शिरो-ग्रीवम् आध्मातस्याति-तृष्यतः ।
प्रलाप-च्छर्द्य्-अतीसार-नेत्र-विप्लुति-जृम्भिणः ॥ २४ ॥

४.२४av कम्पयन्ती शिरो-ग्रीवाम् यमला वेगिनी हिध्मा परिणाम-वती च सा ।
स्तब्ध-भ्रू-शङ्ख-युग्मस्य सास्र-विप्लुत-चक्षुषः ॥ २५ ॥

४.२५cv ध्वस्त-भ्रू-शङ्ख-युग्मस्य ४.२५dv साश्रु-विप्लुत-चक्षुषः स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मुष्णती ।
रुन्धती मार्गम् अन्नस्य कुर्वती मर्म-घट्टनम् ॥ २६ ॥

पृष्ठतो नमनं शोषं महा-हिध्मा प्रवर्तते ।
महा-मूला महा-शब्दा महा-वेगा महा-बला ॥ २७ ॥

पक्वाशयाद् वा नाभेर् वा पूर्व-वद् या प्रवर्तते ।
तद्-रूपा सा मुहुः कुर्याज् जृम्भाम् अङ्ग-प्रसारणम् ॥ २८ ॥

गम्भीरेणानुनादेन गम्भीरा तासु साधयेत् ।
आद्ये द्वे वर्जयेद् अन्त्ये सर्व-लिङ्गां च वेगिनीम् ॥ २९ ॥

सर्वाश् च संचितामस्य स्थविरस्य व्यवायिनः ।
व्याधिभिः क्षीण-देहस्य भक्त-च्छेद-क्षतस्य वा ॥ ३० ॥

सर्वे ऽपि रोगा नाशाय न त्व् एवं शीघ्र-कारिणः ।
हिध्मा-श्वासौ यथा तौ हि मृत्यु-काले कृतालयौ ॥ ३१ ॥



अध्याय 05
अनेक-रोगानुगतो बहु-रोग-पुरो-गमः ।
राज-यक्ष्मा क्षयः शोषो रोग-राड् इति च स्मृतः ॥ १ ॥

नक्षत्राणां द्वि-जानां च राज्ञो ऽभूद् यद् अयं पुरा ।
यच् च राजा च यक्ष्मा च राज-यक्ष्मा ततो मतः ॥ २ ॥

देहौषध-क्षय-कृतेः क्षयस् तत्-संभवाच् च सः ।
रसादि-शोषणाच् छोषो रोग-राट् तेषु राजनात् ॥ ३ ॥

५.३dv रोग-राट् रोग-राजनात् साहसं वेग-संरोधः शुक्रौजः-स्नेह-संक्षयः ।
अन्न-पान-विधि-त्यागश् चत्वारस् तस्य हेतवः ॥ ४ ॥

तैर् उदीर्णो ऽनिलः पित्तं कफं चोदीर्य सर्वतः ।
शरीर-संधीन् आविश्य तान् सिराश् च प्रपीडयन् ॥ ५ ॥

मुखानि स्रोतसां रुद्ध्वा तथैवातिविवृत्य वा ।
सर्पन्न् ऊर्ध्वम् अधस् तिर्यग् यथा-स्वं जनयेद् गदान् ॥ ६ ॥

रूपं भविष्यतस् तस्य प्रतिश्यायो भृशं क्षवः ।
प्रसेको मुख-माधुर्यं सदनं वह्नि-देहयोः ॥ ७ ॥

स्थाल्य्-अमत्रान्न-पानादौ शुचाव् अप्य् अ-शुचीक्षणम् ।
मक्षिका-तृण-केशादि-पातः प्रायो ऽन्न-पानयोः ॥ ८ ॥

हृल्-लासश् छर्दिर् अ-रुचिर् अश्नतो ऽपि बल-क्षयः ।
पाण्योर् अवेक्षा पादास्य-शोफो ऽक्ष्णोर् अति-शुक्ल-ता ॥ ९ ॥

बाह्वोः प्रमाण-जिज्ञासा काये बैभत्स्य-दर्शनम् ।
स्त्री-मद्य-मांस-प्रिय-ता घृणि-त्वं मूर्ध-गुण्ठनम् ॥ १० ॥

नख-केशाति-वृद्धिश् च स्वप्ने चाभिभवो भवेत् ।
पतङ्ग-कृकलासाहि-कपि-श्वापद-पक्षिभिः ॥ ११ ॥

५.११dv -कपि-श्वापद-पत्त्रिभिः केशास्थि-तुष-भस्मादि-राशौ समधिरोहणम् ।
शून्यानां ग्राम-देशानां दर्शनं शुष्यतो ऽम्भसो ॥ १२ ॥

ज्योतिर् गिरीणां पततां ज्वलतां च मही-रुहाम् ।
पीनस-श्वास-कासांस-मूर्ध-स्वर-रुजो ऽ-रुचिः ॥ १३ ॥

ऊर्ध्वं विड्-भ्रंश-संशोषाव् अधश् छर्दिश् च कोष्ठ-गे ।
तिर्यक्-स्थे पार्श्व-रुग्-दोषे संधि-गे भवति ज्वरः ॥ १४ ॥

५.१४av ऊर्ध्वं विट्-स्रंस-संशोषाव् ५.१४bv अधश् छर्दिस् तु कोष्ठ-गे रूपाण्य् एका-दशैतानि जायन्ते राज-यक्ष्मिणः ।
तेषाम् उपद्रवान् विद्यात् कण्ठोद्ध्वंसम् उरो-रुजम् ॥ १५ ॥

जृम्भाङ्ग-मर्द-निष्ठीव-वह्नि-सादास्य-पूति-ताः ।
तत्र वाताच् छिरः-पार्श्व-शूलम् अंसाङ्ग-मर्दनम् ॥ १६ ॥

कण्ठोद्ध्वंसः स्वर-भ्रंशः पित्तात् पादांस-पाणिषु ।
दाहो ऽतीसारो ऽसृक्-छर्दिर् मुख-गन्धो ज्वरो मदः ॥ १७ ॥

कफाद् अ-रोचकश् छर्दिः कासो मूर्धाङ्ग-गौरवम् ।
प्रसेकः पीनसः श्वासः स्वर-सादो ऽल्प-वह्नि-ता ॥ १८ ॥

५.१८dv स्वर-भेदो ऽल्प-वह्नि-ता दोषैर् मन्दानल-त्वेन सोपलेपैः कफोल्बणैः ।
स्रोतो-मुखेषु रुद्धेषु धातूष्मस्व् अल्पकेषु च ॥ १९ ॥

विदह्यमानः स्व-स्थाने रसस् तांस् तान् उपद्रवान् ।
कुर्याद् अ-गच्छन् मांसादीन् असृक् चोर्ध्वं प्रधावति ॥ २० ॥

पच्यते कोष्ठ एवान्नम् अन्न-पक्त्रैव चास्य यत् ।
प्रायो ऽस्मान् मल-तां यातं नैवालं धातु-पुष्टये ॥ २१ ॥

रसो ऽप्य् अस्य न रक्ताय मांसाय कुत एव तु ।
उपस्तब्धः स शकृता केवलं वर्तते क्षयी ॥ २२ ॥

५.२२cv उपष्टब्धः स शकृता लिङ्गेष्व् अल्पेष्व् अपि क्षीणं व्याध्य्-औषध-बला-क्षमम् ।
वर्जयेत् साधयेद् एव सर्वेष्व् अपि ततो ऽन्य-था ॥ २३ ॥

५.२३cv वर्जयेत् साधयेद् एवं क्षीण-मांस-बलं जह्यात् पूर्व-लिङ्गैर् उपद्रुतम् ।
प्रत्याख्याय नरं चाशु द्रव्य-वन्तम् उपाचरेत् ॥ २३+१ ॥

दोषैर् व्यस्तैः समस्तैश् च क्षयात् षष्ठश् च मेदसा ।
स्वर-भेदो भवेत् तत्र क्षामो रूक्षश् चलः स्वरः ॥ २४ ॥

५.२४bv क्षयात् षष्ठश् च मेदसः शूक-पूर्णाभ-कण्ठ-त्वं स्निग्धोष्णोपशयो ऽनिलात् ।
पित्तात् तालु-गले दाहः शोष उक्तावसूयनम् ॥ २५ ॥

लिम्पन्न् इव कफात् कण्ठं मन्दः खुरखुरायते ।
स्वरो विबद्धः सर्वैस् तु सर्व-लिङ्गः क्षयात् कषेत् ॥ २६ ॥

धूमायतीव चात्य्-अर्थं मेदसा श्लेष्म-लक्षणः ।
कृच्छ्र-लक्ष्याक्षरश् चात्र सर्वैर् अन्त्यं च वर्जयेत् ॥ २७ ॥

अ-रोचको भवेद् दोषैर् जिह्वा-हृदय-संश्रयैः ।
संनिपातेन मनसः संतापेन च पञ्चमः ॥ २८ ॥

५.२८bv जिह्वा-हृदय-संश्रितैः कषाय-तिक्त-मधुरं वातादिषु मुखं क्रमात् ।
सर्वोत्थे वि-रसं शोक-क्रोधादिषु यथा-मलम् ॥ २९ ॥

छर्दिर् दोषैः पृथक् सर्वैर् द्विष्टैर् अर्थैश् च पञ्चमी ।
उदानो विकृतो दोषान् सर्वास्व् अप्य् ऊर्ध्वम् अस्यति ॥ ३० ॥

तासूत्क्लेशास्य-लावण्य-प्रसेका-रुचयो ऽग्र-गाः ।
नाभि-पृष्ठं रुजन् वायुः पार्श्वे चाहारम् उत्क्षिपेत् ॥ ३१ ॥

ततो विच्छिन्नम् अल्पाल्पं कषायं फेनिलं वमेत् ।
शब्दोद्गार-युतं कृष्णम् अच्छं कृच्छ्रेण वेग-वत् ॥ ३२ ॥

कासास्य-शोष-हृन्-मूर्ध-स्वर-पीडा-क्लमान्वितः ।
पित्तात् क्षारोदक-निभं धूम्रं हरित-पीतकम् ॥ ३३ ॥

सासृग् अम्लं कटूष्णं च तृण्-मूर्छा-ताप-दाह-वत् ।
कफात् स्निग्धं घनं शीतं श्लेष्म-तन्तु-गवाक्षितम् ॥ ३४ ॥

५.३४bv तृण्-मूर्छा-ताप-दाह-वान् मधुरं लवणं भूरि प्रसक्तं रोम-हर्षणम् ।
मुख-श्वयथु-माधुर्य-तन्द्रा-हृल्-लास-कास-वान् ॥ ३५ ॥

सर्व-लिङ्गा मलैः सर्वै रिष्टोक्ता या च तां त्यजेत् ।
पूत्य्-अ-मेध्या-शुचि-द्विष्ट-दर्शन-श्रवणादिभिः ॥ ३६ ॥

तप्ते चित्ते हृदि क्लिष्टे छर्दिर् द्विष्टार्थ-योग-जा ।
वातादीन् एव विमृशेत् कृमि-तृणाम-दौर्हृदे ॥ ३७ ॥

शूल-वेपथु-हृल्-लासैर् विशेषात् कृमि-जां वदेत् ।
कृमि-हृद्-रोग-लिङ्गैश् च स्मृताः पञ्च तु हृद्-गदाः ॥ ३८ ॥

तेषां गुल्म-निदानोक्तैः समुत्थानैश् च संभवः ।
वातेन शूल्यते ऽत्य्-अर्थं तुद्यते स्फुटतीव च ॥ ३९ ॥

५.३९bv समुत्थानैः समुद्भवः भिद्यते शुष्यति स्तब्धं हृदयं शून्य-ता द्रवः ।
अ-कस्माद् दीन-ता शोको भयं शब्दा-सहिष्णु-ता ॥ ४० ॥

५.४०bv हृदयं शून्य-ता-द्रवम् वेपथुर् वेष्टनं मोहः श्वास-रोधो ऽल्प-निद्र-ता ।
पित्तात् तृष्णा भ्रमो मूर्छा दाहः स्वेदो ऽम्लकः क्लमः ॥ ४१ ॥

छर्दनं चाम्ल-पित्तस्य धूमकः पीत-ता ज्वरः ।
श्लेष्मणा हृदयं स्तब्धं भारिकं साश्म-गर्भ-वत् ॥ ४२ ॥

५.४२bv तमकः पीत-ता ज्वरः कासाग्नि-साद-निष्ठीव-निद्रालस्या-रुचि-ज्वराः ।
सर्व-लिङ्गस् त्रिभिर् दोषैः कृमिभिः श्याव-नेत्र-ता ॥ ४३ ॥

५.४३cv सर्व-लिङ्गं त्रिभिर् दोषैः तमः-प्रवेशो हृल्-लासः शोषः कण्डूः कफ-स्रुतिः ।
हृदयं प्रततं चात्र क्रकचेनेव दार्यते ॥ ४४ ॥

चिकित्सेद् आमयं घोरं तं शीघ्रं शीघ्र-कारिणम् ।
वातात् पित्तात् कफात् तृष्णा संनिपाताद् रस-क्षयात् ॥ ४५ ॥

षष्ठी स्याद् उपसर्गाच् च वात-पित्ते तु कारणम् ।
सर्वासु तत्-प्रकोपो हि सौम्य-धातु-प्रशोषणात् ॥ ४६ ॥

सर्व-देह-भ्रमोत्कम्प-ताप-तृड्-दाह-मोह-कृत् ।
जिह्वा-मूल-गल-क्लोम-तालु-तोय-वहाः सिराः ॥ ४७ ॥

संशोष्य तृष्णा जायन्ते तासां सामान्य-लक्षणम् ।
मुख-शोषो जला-तृप्तिर् अन्न-द्वेषः स्वर-क्षयः ॥ ४८ ॥

कण्ठौष्ठ-जिह्वा-कार्कश्यं जिह्वा-निष्क्रमणं क्लमः ।
प्रलापश् चित्त-विभ्रंशस् तृड्-ग्रहोक्तास् तथामयाः ॥ ४९ ॥

मारुतात् क्षाम-ता दैन्यं शङ्ख-तोदः शिरो-भ्रमः ।
गन्धा-ज्ञानास्य-वैरस्य-श्रुति-निद्रा-बल-क्षयाः ॥ ५० ॥

५.५०cv गन्धा-ज्ञानास्य-वैरस्यं ५.५०dv -श्रुति-निद्रा-बल-क्षयः ५.५०dv श्रुति-निद्रा-बल-क्षयः शीताम्बु-पानाद् वृद्धिश् च पित्तान् मूर्छास्य-तिक्त-ता ।
रक्तेक्षण-त्वं प्रततं शोषो दाहो ऽति-धूमकः ॥ ५१ ॥

कफो रुणद्धि कुपितस् तोय-वाहिषु मारुतम् ।
स्रोतःसु स कफस् तेन पङ्क-वच् छोष्यते ततः ॥ ५२ ॥

शूकैर् इवाचितः कण्ठो निद्रा मधुर-वक्त्र-ता ।
आध्मानं शिरसो जाड्यं स्तैमित्य-च्छर्द्य्-अ-रोचकाः ॥ ५३ ॥

आलस्यम् अ-विपाकश् च सर्वैः स्यात् सर्व-लक्षणा ।
आमोद्भवा च भक्तस्य संरोधाद् वात-पित्त-जा ॥ ५४ ॥

उष्ण-क्लान्तस्य सहसा शीताम्भो भजतस् तृषम् ।
ऊष्मा रुद्धो गतः कोष्ठं यां कुर्यात् पित्त-जैव सा ॥ ५५ ॥

या च पानाति-पानोत्था तीक्ष्णाग्नेः स्नेह-जा च या ।
स्निग्ध-गुर्व्-अम्ल-लवण-भोजनेन कफोद्भवा ॥ ५६ ॥

५.५६bv तीक्ष्णाग्नि-स्नेह-जा च या तृष्णा रस-क्षयोक्तेन लक्षणेन क्षयात्मिका ।
शोष-मेह-ज्वराद्य्-अन्य-दीर्घ-रोगोपसर्गतः ॥ ५७ ॥

५.५७cv शोष-मोह-ज्वराद्य्-अन्य- या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता ॥ ५७ऊ̆अब् ॥

अध्याय 06

तीक्ष्णोष्ण-रूक्ष-सूक्ष्माम्लं व्यवाय्य् आशु-करं लघु ।
विकाषि विशदं मद्यम् ओजसो ऽस्माद् विपर्ययः ॥ १ ॥

६.१av तीक्ष्णोष्ण-रूक्ष-सूक्ष्माम्ल- ६.१bv -व्यवाय्य् आशु-करं लघु ६.१cv विकाशि विशदं मद्यम् तीक्ष्णादयो विषे ऽप्य् उक्ताश् चित्तोपप्लाविनो गुणाः ।
जीवितान्ताय जायन्ते विषे तूत्कर्ष-वृत्तितः ॥ २ ॥

तीक्ष्णादिभिर् गुणैर् मद्यं मन्दादीन् ओजसो गुणान् ।
दशभिर् दश संक्षोभ्य चेतो नयति वि-क्रियाम् ॥ ३ ॥

आद्ये मदे द्वितीये तु प्रमादायतने स्थितः ।
दुर्-विकल्प-हतो मूढः सुखम् इत्य् अधिमुच्यते ॥ ४ ॥

६.४av आद्ये मदे द्वितीये च ६.४av आद्ये मदे द्वितीये स ६.४dv सुखम् इत्य् अभिमुच्यते ६.४dv सुखम् इत्य् अभिमन्यते ६.४dv सुखम् इत्य् अवमन्यते मध्यमोत्तमयोः संधिं प्राप्य राजस-तामसः ।
निर्-अङ्कुश इव व्यालो न किञ्-चिन् नाचरेज् जडः ॥ ५ ॥

६.५dv न किं किं वाचरेज् जडः इयं भूमिर् अ-वद्यानां दौःशील्यस्येदम् आस्पदम् ।
एको ऽयं बहु-मार्गाय दुर्-गतेर् देशिकः परम् ॥ ६ ॥

६.६av इयं भूमिर् अ-विद्यानां निश्-चेष्टः शव-वच् छेते तृतीये तु मदे स्थितः ।
मरणाद् अपि पापात्मा गतः पाप-तरां दशाम् ॥ ७ ॥

धर्मा-धर्मं सुखं दुःखम् अर्थान्-अर्थं हिता-हितम् ।
यद् आसक्तो न जानाति कथं तच् छीलयेद् बुधः ॥ ८ ॥

मद्ये मोहो भयं शोकः क्रोधो मृत्युश् च संश्रिताः ।
सोन्माद-मद-मूर्छायाः सापस्मारापतानकाः ॥ ९ ॥

यत्रैकः स्मृति-विभ्रंशस् तत्र सर्वम् अ-साधु यत् ।
अ-युक्ति-युक्तम् अन्नं हि व्याधये मरणाय वा ॥ १० ॥

मद्यं त्रि-वर्ग-धी-धैर्य-लज्जादेर् अपि नाशनम् ।
नातिमाद्यन्ति बलिनः कृताहारा महाशनाः ॥ ११ ॥

स्निग्धाः सत्-त्व-वयो-युक्ता मद्य-नित्यास् तद्-अन्वयाः ।
मेदः-कफाधिका मन्द-वात-पित्ता दृढाग्नयः ॥ १२ ॥

विपर्यये ऽतिमाद्यन्ति विश्रब्धाः कुपिताश् च ये ।
मद्येन चाम्ल-रूक्षेण सा-जीर्णे बहुनाति च ॥ १३ ॥

६.१३dv सा-जीर्णे बहुनापि च वातात् पित्तात् कफात् सर्वैश् चत्वारः स्युर् मदात्ययाः ।
सर्वे ऽपि सर्वैर् जायन्ते व्यपदेशस् तु भूयसा ॥ १४ ॥

सामान्यं लक्षणं तेषां प्रमोहो हृदय-व्यथा ।
विड्-भेदः प्रततं तृष्णा सौम्याग्नेयो ज्वरो ऽ-रुचिः ॥ १५ ॥

६.१५bv प्रमोहो हृदये व्यथा शिरः-पार्श्वास्थि-रुक्-कम्पो मर्म-भेदस् त्रिक-ग्रहः ।
उरो-विबन्धस् तिमिरं कासः श्वासः प्रजागरः ॥ १६ ॥

६.१६av शिरः-पार्श्वास्थि-रुक्-स्तम्भो स्वेदो ऽति-मात्रं विष्टम्भः श्वयथुश् चित्त-विभ्रमः ।
प्रलापश् छर्दिर् उत्क्लेशो भ्रमो दुः-स्वप्न-दर्शनम् ॥ १७ ॥

विशेषाज् जागर-श्वास-कम्प-मूर्ध-रुजो ऽनिलात् ।
स्वप्ने भ्रमत्य् उत्पतति प्रेतैश् च सह भाषते ॥ १८ ॥

पित्ताद् दाह-ज्वर-स्वेद-मोहातीसार-तृड्-भ्रमाः ।
देहो हरित-हारिद्रो रक्त-नेत्र-कपोल-ता ॥ १९ ॥

श्लेष्मणा छर्दि-हृल्-लास-निद्रोदर्दाङ्ग-गौरवम् ।
सर्व-जे सर्व-लिङ्ग-त्वं मुक्त्वा मद्यं पिबेत् तु यः ॥ २० ॥

६.२०av श्लेष्मणश् छर्दि-हृल्-लास- सहसान्-उचितं वान्यत् तस्य ध्वंसक-विक्षयौ ।
भवेतां मारुतात् कष्टौ दुर्-बलस्य विशेषतः ॥ २१ ॥

६.२१av सहसान्-उचितं चान्यत् ६.२१bv तस्य ध्वंसक-विट्-क्षयौ ध्वंसके श्लेष्म-निष्ठीवः कण्ठ-शोषो ऽति-निद्र-ता ।
शब्दा-सह-त्वं तन्द्रा च विक्षये ऽङ्ग-शिरो-ऽति-रुक् ॥ २२ ॥

६.२२dv विट्-क्षये ऽङ्ग-शिरो-ऽति-रुक् हृत्-कण्ठ-रोगः संमोहः कासस् तृष्णा वमिर् ज्वरः ।
निवृत्तो यस् तु मद्येभ्यो जितात्मा बुद्धि-पूर्व-कृत् ॥ २३ ॥

६.२३av हृत्-कण्ठ-रोधः संमोहः विकारैः स्पृश्यते जातु न स शारीर-मानसैः ।
रजो-मोहा-हिताहार-परस्य स्युस् त्रयो गदाः ॥ २४ ॥

रसासृक्-चेतना-वाहि-स्रोतो-रोध-समुद्भवाः ।
मद-मूर्छाय-संन्यासा यथोत्तर-बलोत्तराः ॥ २५ ॥

मदो ऽत्र दोषैः सर्वैश् च रक्त-मद्य-विषैर् अपि ।
सक्तान्-अल्प-द्रुताभाषश् चलः स्खलित-चेष्टितः ॥ २६ ॥

रूक्ष-श्यावारुण-तनुर् मदे वातोद्भवे भवेत् ।
पित्तेन क्रोधनो रक्त-पीताभः कलह-प्रियः ॥ २७ ॥

६.२७bv मदे वात-कृते भवेत् स्व्-अल्प-संबद्ध-वाक् पाण्डुः कफाद् ध्यान-परो ऽलसः ।
सर्वात्मा संनिपातेन रक्तात् स्तब्धाङ्ग-दृष्टि-ता ॥ २८ ॥

६.२८av स्व्-अल्पा-संबद्ध-वाक् पाण्डुः पित्त-लिङ्गं च मद्येन विकृतेह-स्वराङ्ग-ता ।
विषे कम्पो ऽति-निद्रा च सर्वेभ्यो ऽभ्यधिकस् तु सः ॥ २९ ॥

६.२९cv विषात् कम्पो ऽति-निद्रा च ६.२९dv सर्वेभ्यो ऽभ्यधिकश् च सः लक्षयेल् लक्षणोत्कर्षाद् वातादीन् शोणितादिषु ।
अरुणं कृष्ण-नीलं वा खं पश्यन् प्रविशेत् तमः ॥ ३० ॥

शीघ्रं च प्रतिबुध्येत हृत्-पीडा वेपथुर् भ्रमः ।
कार्श्यं श्यावारुणा छाया मूर्छाये मारुतात्मके ॥ ३१ ॥

६.३१cv कार्श्यं श्यावारुण-च्छाये पित्तेन रक्तं पीतं वा नभः पश्यन् विशेत् तमः ।
विबुध्येत च स-स्वेदो दाह-तृट्-ताप-पीडितः ॥ ३२ ॥

भिन्न-विण् नील-पीताभो रक्त-पीताकुलेक्षणः ।
कफेन मेघ-संकाशं पश्यन्न् आकाशम् आविशेत् ॥ ३३ ॥

तमश् चिराच् च बुध्येत स-हृल्-लासः प्रसेक-वान् ।
गुरुभिः स्तिमितैर् अङ्गैर् आर्द्र-चर्मावनद्ध-वत् ॥ ३४ ॥

सर्वाकृतिस् त्रिभिर् दोषैर् अपस्मार इवापरः ।
पातयत्य् आशु निश्-चेष्टं विना बीभत्स-चेष्टितैः ॥ ३५ ॥

६.३५dv विना बैभत्स्य-चेष्टितैः दोषेषु मद-मूर्छायाः कृत-वेगेषु देहिनाम् ।
स्वयम् एवोपशाम्यन्ति संन्यासो नौषधैर् विना ॥ ३६ ॥

वाग्-देह-मनसां चेष्टाम् आक्षिप्याति-बला मलाः ।
संन्यासं संनिपतिताः प्राणायतन-संश्रयाः ॥ ३७ ॥

कुर्वन्ति तेन पुरुषः काष्ठी-भूतो मृतोपमः ।
म्रियेत शीघ्रं शीघ्रं चेच् चिकित्सा न प्रयुज्यते ॥ ३८ ॥

६.३८bv काष्ठ-भूतो मृतोपमः अ-गाधे ग्राह-बहुले सलिलौघ इवाटते ।
संन्यासे विनिमज्जन्तं नरम् आशु निवर्तयेत् ॥ ३९ ॥

६.३९cv अभिन्यासे च मज्जन्तं मद-मान-रोष-तोष-प्रभृतिभिर् अरिभिर् निजैः परिष्वङ्गः ।
युक्ता-युक्तं च समं युक्ति-वियुक्तेन मद्येन ॥ ४० ॥

बल-काल-देश-सात्म्य-प्रकृति-सहायामय-वयांसि ।
प्रविभज्य तद्-अनुरूपं यदि पिबति ततः पिबत्य् अमृतम् ॥ ४१ ॥



अध्याय 07
अरि-वत् प्राणिनो मांस-कीलका विशसन्ति यत् ।
अर्शांसि तस्माद् उच्यन्ते गुद-मार्ग-निरोधतः ॥ १ ॥

दोषास् त्वङ्-मांस-मेदांसि संदूष्य विविधाकृतीन् ।
मांसाङ्कुरान् अपानादौ कुर्वन्त्य् अर्शांसि तान् जगुः ॥ २ ॥

सह-जन्मोत्तरोत्थान-भेदाद् द्वे-धा समासतः ।
शुष्क-स्रावि-विभेदाच् च गुदः स्थूलान्त्र-संश्रयः ॥ ३ ॥

अर्ध-पञ्चाङ्गुलस् तस्मिंस् तिस्रो ऽध्य्-अर्धाङ्गुलाः स्थिताः ।
बल्यः प्रवाहिणी तासाम् अन्तर् मध्ये विसर्जनी ॥ ४ ॥

बाह्या संवरणी तस्या गुदौष्ठो बहिर् अङ्गुले ।
यवाध्य्-अर्धः प्रमाणेन रोमाण्य् अत्र ततः परम् ॥ ५ ॥

७.५av बाह्या संवरणी तस्यां ७.५cv यवाध्य्-अर्ध-प्रमाणेन तत्र हेतुः सहोत्थानां वली-बीजोपतप्त-ता ।
अर्शसां बीज-तप्तिस् तु माता-पित्र्-अपचारतः ॥ ६ ॥

७.६bv वली-बीजोपतप्ति-ता दैवाच् च ताभ्यां कोपो हि संनिपातस्य तान्य् अतः ।
अ-साध्यान्य् एवम् आख्याताः सर्वे रोगाः कुलोद्भवाः ॥ ७ ॥

सह-जानि विशेषेण रूक्ष-दुर्-दर्शनानि च ।
अन्तर्-मुखानि पाण्डूनि दारुणोपद्रवाणि च ॥ ८ ॥

षो-ढान्यानि पृथग् दोष-संसर्ग-निचयास्रतः ।
शुष्काणि वात-श्लेष्मभ्याम् आर्द्राणि त्व् अस्र-पित्ततः ॥ ९ ॥

दोष-प्रकोप-हेतुस् तु प्राग् उक्तस् तेन सादिते ।
अग्नौ मले ऽति-निचिते पुनश् चाति-व्यवायतः ॥ १० ॥

यान-संक्षोभ-विषम-कठिनोत्कटकासनात् ।
वस्ति-नेत्राश्म-लोष्टोर्वी-तल-चैलादि-घट्टनात् ॥ ११ ॥

भृशं शीताम्बु-संस्पर्शात् प्रतताति-प्रवाहणात् ।
वात-मूत्र-शकृद्-वेग-धारणात् तद्-उदीरणात् ॥ १२ ॥

ज्वर-गुल्मातिसाराम-ग्रहणी-शोफ-पाण्डुभिः ।
कर्शनाद् विषमाभ्यश् च चेष्टाभ्यो योषितां पुनः ॥ १३ ॥

आम-गर्भ-प्रपतनाद् गर्भ-वृद्धि-प्रपीडनात् ।
ईदृशैश् चापरैर् वायुर् अपानः कुपितो मलम् ॥ १४ ॥

पायोर् वलीषु तं धत्ते तास्व् अभिष्यण्ण-मूर्तिषु ।
जायन्ते ऽर्शांसि तत्-पूर्व-लक्षणं मन्द-वह्नि-ता ॥ १५ ॥

७.१५av पायु-वलीषु तं धत्ते ७.१५av पायोर् वलीषु संधत्ते विष्टम्भः सक्थि-सदनं पिण्डिकोद्वेष्टनं भ्रमः ।
सादो ऽङ्गे नेत्रयोः शोफः शकृद्-भेदो ऽथ-वा ग्रहः ॥ १६ ॥

मारुतः प्रचुरो मूढः प्रायो नाभेर् अधश् चरन् ।
स-रुक् स-परिकर्तश् च कृच्छ्रान् निर्गच्छति स्वनम् ॥ १७ ॥

अन्त्र-कूजनम् आटोपः क्षाम-तोद्गार-भूरि-ता ।
प्रभूतं मूत्रम् अल्पा विड् अ-श्रद्धा धूमको ऽम्लकः ॥ १८ ॥

७.१८cv प्रभूत-मूत्र-ताल्पा विड् शिरः-पृष्ठोरसां शूलम् आलस्यं भिन्न-वर्ण-ता ।
तन्द्रेन्द्रियाणां दौर्बल्यं क्रोधो दुःखोपचार-ता ॥ १९ ॥

आशङ्का ग्रहणी-दोष-पाण्डु-गुल्मोदरेषु च ।
एतान्य् एव विवर्धन्ते जातेषु हत-नामसु ॥ २० ॥

७.२०cv एतान्य् एव च वर्धन्ते निवर्तमानो ऽपानो हि तैर् अधो-मार्ग-रोधतः ।
क्षोभयन्न् अनिलान् अन्यान् सर्वेन्द्रिय-शरीर-गान् ॥ २१ ॥

तथा मूत्र-शकृत्-पित्त-कफान् धातूंश् च साशयान् ।
मृद्नात्य् अग्निं ततः सर्वो भवति प्राय-शो ऽर्शसः ॥ २२ ॥

कृशो भृशं हतोत्साहो दीनः क्षामो ऽति-निष्-प्रभः ।
अ-सारो विगत-च्छायो जन्तु-जुष्ट इव द्रुमः ॥ २३ ॥

कृत्स्नैर् उपद्रवैर् ग्रस्तो यथोक्तैर् मर्म-पीडनैः ।
तथा कास-पिपासास्य-वैरस्य-श्वास-पीनसैः ॥ २४ ॥

क्लमाङ्ग-भङ्ग-वमथु-क्षवथु-श्वयथु-ज्वरैः ।
क्लैब्य-बाधिर्य-तैमिर्य-शर्कराश्मरि-पीडितः ॥ २५ ॥

क्षाम-भिन्न-स्वरो ध्यायन् मुहुः ष्ठीवन् अ-रोचकी ।
सर्व-पर्वास्थि-हृन्-नाभि-पायु-वङ्क्षण-शूल-वान् ॥ २६ ॥

गुदेन स्रवता पिच्छां पुलाकोदक-संनिभाम् ।
विबद्ध-मुक्तं शुष्कार्द्रं पक्वामं चान्तरान्तरा ॥ २७ ॥

पाण्डु पीतं हरिद् रक्तं पिच्छिलं चोपवेश्यते ।
गुदाङ्कुरा बह्व्-अनिलाः शुष्काश् चिमिचिमान्विताः ॥ २८ ॥

म्लानाः श्यावारुणाः स्तब्धा विषमाः परुषाः खराः ।
मिथो वि-सदृशा वक्रास् तीक्ष्णा विस्फुटिताननाः ॥ २९ ॥

बिम्बी-कर्कन्धु-खर्जूर-कार्पासी-फल-संनिभाः ।
के-चित् कदम्ब-पुष्पाभाः के-चित् सिद्धार्थकोपमाः ॥ ३० ॥

शिरः-पार्श्वांस-कट्य्-ऊरु-वङ्क्षणाभ्यधिक-व्यथाः ।
क्षवथूद्गार-विष्टम्भ-हृद्-ग्रहा-रोचक-प्रदाः ॥ ३१ ॥

७.३१dv -हृद्-रवा-रोचक-प्रदाः कास-श्वासाग्नि-वैषम्य-कर्ण-नाद-भ्रमावहाः ।
तैर् आर्तो ग्रथितं स्तोकं स-शब्दं स-प्रवाहिकम् ॥ ३२ ॥

रुक्-फेन-पिच्छानुगतं विबद्धम् उपवेश्यते ।
कृष्ण-त्वङ्-नख-विण्-मूत्र-नेत्र-वक्त्रश् च जायते ॥ ३३ ॥

गुल्म-प्लीहोदराष्ठीला-संभवस् तत एव च ।
पित्तोत्तरा नील-मुखा रक्त-पीतासित-प्रभाः ॥ ३४ ॥

तन्व्-अस्र-स्राविणो विस्रास् तनवो मृदवः श्लथाः ।
शुक-जिह्वा-यकृत्-खण्ड-जलौको-वक्त्र-संनिभाः ॥ ३५ ॥

दाह-पाक-ज्वर-स्वेद-तृण्-मूर्छा-रुचि-मोह-दाः ।
सोष्माणो द्रव-नीलोष्ण-पीत-रक्ताम-वर्चसः ॥ ३६ ॥

यव-मध्या हरित्-पीत-हारिद्र-त्वङ्-नखादयः ।
श्लेष्मोल्बणा महा-मूला घना मन्द-रुजः सिताः ॥ ३७ ॥

७.३७av यव-मध्या हरित्-पीता ७.३७bv हारिद्र-त्वङ्-नखादयः उच्छूनोपाचिताः स्निग्धाः स्तब्ध-वृत्त-गुरु-स्थिराः ।
पिच्छिलाः स्तिमिताः श्लक्ष्णाः कण्ड्व्-आढ्याः स्पर्शन-प्रियाः ॥ ३८ ॥

करीर-पनसास्थ्य्-आभास् तथा गो-स्तन-संनिभाः ।
वङ्क्षणानाहिनः पायु-वस्ति-नाभि-विकर्तिनः ॥ ३९ ॥

स-कास-श्वास-हृल्-लास-प्रसेका-रुचि-पीनसाः ।
मेह-कृच्छ्र-शिरो-जाड्य-शिशिर-ज्वर-कारिणः ॥ ४० ॥

क्लैब्याग्नि-मार्दव-च्छर्दिर्-आम-प्राय-विकार-दाः ।
वसाभ-स-कफ-प्राज्य-पुरीषाः स-प्रवाहिकाः ॥ ४१ ॥

७.४१cv वसाभाः स-कफ-प्राज्य- न स्रवन्ति न भिद्यन्ते पाण्डु-स्निग्ध-त्वग्-आदयः ।
संसृष्ट-लिङ्गाः संसर्गान् निचयात् सर्व-लक्षणाः ॥ ४२ ॥

रक्तोल्बणा गुदे-कीलाः पित्ताकृति-समन्विताः ।
वट-प्ररोह-सदृशा गुञ्जा-विद्रुम-संनिभाः ॥ ४३ ॥

ते ऽत्य्-अर्थं दुष्टम् उष्णं च गाढ-विट्-प्रतिपीडिताः ।
स्रवन्ति सहसा रक्तं तस्य चाति-प्रवृत्तितः ॥ ४४ ॥

भेकाभः पीड्यते दुःखैः शोणित-क्षय-संभवैः ।
हीन-वर्ण-बलोत्साहो हतौजः कलुषेन्द्रियः ॥ ४५ ॥

मुद्ग-कोद्रव-जूर्णाह्व-करीर-चणकादिभिः ।
रूक्षैः संग्राहिभिर् वायुः स्वे स्थाने कुपितो बली ॥ ४६ ॥

७.४६dv स्व-स्थाने कुपितो बली अधो-वहानि स्रोतांसि संरुध्याधः प्रशोषयन् ।
पुरीषं वात-विण्-मूत्र-सङ्गं कुर्वीत दारुणम् ॥ ४७ ॥

तेन तीव्रा रुजा कोष्ठ-पृष्ठ-हृत्-पार्श्व-गा भवेत् ।
आध्मानम् उदरावेष्टो हृल्-लासो परिकर्तनम् ॥ ४८ ॥

वस्तौ च सु-तरां शूलं गण्ड-श्वयथु-संभवः ।
पवनस्योर्ध्व-गामि-त्वं ततश् छर्द्य्-अ-रुचि-ज्वराः ॥ ४९ ॥

हृद्-रोग-ग्रहणी-दोष-मूत्र-सङ्ग-प्रवाहिकाः ।
बाधिर्य-तिमिर-श्वास-शिरो-रुक्-कास-पीनसाः ॥ ५० ॥

मनो-विकारस् तृष्णास्र-पित्त-गुल्मोदरादयः ।
ते ते च वात-जा रोगा जायन्ते भृश-दारुणाः ॥ ५१ ॥

दुर्-नाम्नाम् इत्य् उदावर्तः परमो ऽयम् उपद्रवः ।
वाताभिभूत-कोष्ठानां तैर् विनापि स जायते ॥ ५२ ॥

सह-जानि त्रि-दोषाणि यानि चाभ्यन्तरे वलौ ।
स्थितानि तान्य् अ-साध्यानि याप्यन्ते ऽग्नि-बलादिभिः ॥ ५३ ॥

द्वन्द्व-जानि द्वितीयायां वलौ यान्य् आश्रितानि च ।
कृच्छ्र-साध्यानि तान्य् आहुः परि-संवत्सराणि च ॥ ५४ ॥

बाह्यायां तु वलौ जातान्य् एक-दोषोल्बणानि च ।
अर्शांसि सुख-साध्यानि न चोत्पतितानि च ॥ ५५ ॥

मेढ्रादिष्व् अपि वक्ष्यन्ते यथा-स्वं नाभि-जानि तु ।
गण्डू-पदास्य-रूपाणि पिच्छिलानि मृदूनि च ॥ ५६ ॥

व्यानो गृहीत्वा श्लेष्माणं करोत्य् अर्शस् त्वचो बहिः ।
कीलोपमं स्थिर-खरं चर्म-कीलं तु तं विदुः ॥ ५७ ॥

वातेन तोदः पारुष्यं पित्ताद् असित-रक्त-ता ।
श्लेष्मणा स्निग्ध-ता तस्य ग्रथित-त्वं स-वर्ण-ता ॥ ५८ ॥

अर्शसां प्रशमे यत्नम् आशु कुर्वीत बुद्धि-मान् ।
तान्य् आशु हि गुदं बद्ध्वा कुर्युर् बद्ध-गुदोदरम् ॥ ५९ ॥



अध्याय 08

दोषैर् व्यस्तैः समस्तैश् च भयाच् छोकाच् च षड्-विधः ।
अतीसारः स सु-तरां जायते ऽत्य्-अम्बु-पानतः ॥ १ ॥

कृश-शुष्कामिषा-सात्म्य-तिल-पिष्ट-विरूढकैः ।
मद्य-रूक्षाति-मात्रान्नैर् अर्शोभिः स्नेह-विभ्रमात् ॥ २ ॥

कृमिभ्यो वेग-रोधाच् च तद्-विधैः कुपितो ऽनिलः ।
विस्रंसयत्य् अधो ऽब्-धातुं हत्वा तेनैव चानलम् ॥ ३ ॥

व्यापद्यानु-शकृत् कोष्ठं पुरीषं द्रव-तां नयन् ।
प्रकल्पते ऽतिसाराय लक्षणं तस्य भाविनः ॥ ४ ॥

तोदो हृद्-गुद-कोष्ठेषु गात्र-सादो मल-ग्रहः ।
आध्मानम् अ-विपाकश् च तत्र वातेन विड्-जलम् ॥ ५ ॥

अल्पाल्पं शब्द-शूलाढ्यं विबद्धम् उपवेश्यते ।
रूक्षं स-फेनम् अच्छं च ग्रथितं वा मुहुर् मुहुः ॥ ६ ॥

तथा दग्ध-गुडाभासं स-पिच्छा-परिकर्तिकम् ।
शुष्कास्यो भ्रष्ट-पायुश् च हृष्ट-रोमा विनिष्टनन् ॥ ७ ॥

८.७dv हृष्ट-रोमा विनष्ट-वाक् पित्तेन पीतम् असितं हारिद्रं शाद्वल-प्रभम् ।
स-रक्तम् अति-दुर्-गन्धं -तृण्-मूर्छा-स्वेद-दाह-वान् ॥ ८ ॥

८.८dv -तृण्-मूर्छा-स्वेद-दाह-वत् स-शूलं पायु-संताप-पाक-वाञ् छ्लेष्मणा घनम् ।
पिच्छिलं तन्तु-मच् छ्वेतं स्निग्धम् आमं कफान्वितम् ॥ ९ ॥

८.९bv -पाक-वच् छ्लेष्मणा घनम् अभीक्ष्णम् गुरु दुर्-गन्धं विबद्धम् अनुबद्ध-रुक् ।
निद्रालुर् अलसो ऽन्न-द्विड् अल्पाल्पं स-प्रवाहिकम् ॥ १० ॥

स-रोम-हर्षं सोत्क्लेशो गुरु-वस्ति-गुदोदरः ।
कृते ऽप्य् अ-कृत-संज्ञश् च सर्वात्मा सर्व-लक्षणः ॥ ११ ॥

८.११bv गुरु-वस्तिर् गुरूदरः भयेन क्षोभिते चित्ते स-पित्तो द्रावयेच् छकृत् ।
वायुस् ततो ऽतिसार्येत क्षिप्रम् उष्णं द्रवं प्लवम् ॥ १२ ॥

वात-पित्त-समं लिङ्गैर् आहुस् तद्-वच् च शोकतः ।
अतीसारः समासेन द्वि-धा सामो निर्-आमकः ॥ १३ ॥

८.१३dv द्वे-धा सामो निर्-आमकः सासृङ् निर्-अस्रस् तत्राद्ये गौरवाद् अप्सु मज्जति ।
शकृद् दुर्-गन्धम् आटोप-विष्टम्भार्ति-प्रसेकिनः ॥ १४ ॥

विपरीतो निर्-आमस् तु कफात् पक्वो ऽपि मज्जति ।
अतीसारेषु यो नाति-यत्न-वान् ग्रहणी-गदः ॥ १५ ॥

तस्य स्याद् अग्नि-विध्वंस-करैर् अन्यस्य सेवितैः ।
सामं शकृन् निर्-आमं वा जीर्णे येनातिसार्यते ॥ १६ ॥

सो ऽतीसारो ऽति-सरणाद् आशु-कारी स्व-भावतः ।
सामं सान्नम् अ-जीर्णे ऽन्ने जीर्णे पक्वं तु नैव वा ॥ १७ ॥

अ-कस्माद् वा मुहुर् बद्धम् अ-कस्माच् छिथिलं मुहुः ।
चिर-कृद् ग्रहणी-दोषः संचयाच् चोपवेशयेत् ॥ १८ ॥

स चतुर्-धा पृथग् दोषैः संनिपाताच् च जायते ।
प्राग्-रूपं तस्य सदनं चिरात् पचनम् अम्लकः ॥ १९ ॥

प्रसेको वक्त्र-वैरस्यम् अ-रुचिस् तृट् क्लमो भ्रमः ।
आनद्धोदर-ता छर्दिः कर्ण-क्ष्वेडो ऽन्त्र-कूजनम् ॥ २० ॥

सामान्यं लक्षणं कार्श्यं धूमकस् तमको ज्वरः ।
मूर्छा शिरो-रुग् विष्टम्भः श्वयथुः कर-पादयोः ॥ २१ ॥

तत्रानिलात् तालु-शोषस् तिमिरं कर्णयोः स्वनः ।
पार्श्वोरु-वङ्क्षण-ग्रीवा-रुजाभीक्ष्णं विषूचिका ॥ २२ ॥

रसेषु गृद्धिः सर्वेषु क्षुत् तृष्णा परिकर्तिका ।
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते ॥ २३ ॥

वात-हृद्-रोग-गुल्मार्शः-प्लीह-पाण्डु-त्व-शङ्कितः ।
चिराद् दुःखं द्रवं शुष्कं तन्व् आमं शब्द-फेन-वत् ॥ २४ ॥

पुनः पुनः सृजेद् वर्चः पायु-रुक्-श्वास-कास-वान् ।
पित्तेन नील-पीताभं पीताभः सृजति द्रवम् ॥ २५ ॥

८.२५cv पित्तेन नीलं पीताभं ८.२५cv पित्तेन पीत-नीलाभं पूत्य्-अम्लोद्गार-हृत्-कण्ठ-दाहा-रुचि-तृड्-अर्दितः ।
श्लेष्मणा पच्यते दुःखम् अन्नं छर्दिर् अ-रोचकः ॥ २६ ॥

आस्योपदेह-निष्ठीव-कास-हृल्-लास-पीनसाः ।
हृदयं मन्यते स्त्यानम् उदरं स्तिमितं गुरु ॥ २७ ॥

८.२७av आस्योपदेह-माधुर्य- ८.२७bv -कास-ष्ठीवन-पीनसाः उद्गारो दुष्ट-मधुरः सदनं स्त्रीष्व् अ-हर्षणम् ।
भिन्नाम-श्लेष्म-संसृष्ट-गुरु-वर्चः-प्रवर्तनम् ॥ २८ ॥

अ-कृशस्यापि दौर्बल्यं सर्व-जे सर्व-संकरः ।
विभागे ऽङ्गस्य ये चोक्ता विषमाद्यास् त्रयो ऽग्नयः ॥ २९ ॥

ते ऽपि स्युर् ग्रहणी-दोषाः समस् तु स्वास्थ्य-कारणम् ॥ ३०अब् ॥
वात-व्याध्य्-अश्मरी-कुष्ठ-मेहोदर-भगन्दराः ॥ ३०च्द् ॥
अर्शांसि ग्रहणीत्य् अष्टौ महा-रोगाः सु-दुस्-तराः ॥ ३०एf ॥

अध्याय 09

वस्ति-वस्ति-शिरो-मेढ्र-कटी-वृषण-पायवः ।
एक-संबन्धनाः प्रोक्ता गुदास्थि-विवराश्रयाः ॥ १ ॥

अधो-मुखो ऽपि वस्तिर् हि मूत्र-वाहि-सिरा-मुखैः ।
पार्श्वेभ्यः पूर्यते सूक्ष्मैः स्यन्दमानैर् अन्-आरतम् ॥ २ ॥

यैस् तैर् एव प्रविश्यैनं दोषाः कुर्वन्ति विंशतिम् ।
मूत्राघातान् प्रमेहांश् च कृच्छ्रान् मर्म-समाश्रयान् ॥ ३ ॥

वस्ति-वङ्क्षण-मेढ्रार्ति-युक्तो ऽल्पाल्पं मुहुर् मुहुः ।
मूत्रयेद् वात-जे कृच्छ्रे पैत्ते पीतं स-दाह-रुक् ॥ ४ ॥

रक्तं वा कफ-जे वस्ति-मेढ्र-गौरव-शोफ-वान् ।
स-पिच्छं स-विबन्धं च सर्वैः सर्वात्मकं मलैः ॥ ५ ॥

यदा वायुर् मुखं वस्तेर् आवृत्य परिशोषयेत् ।
मूत्रं स-पित्तं स-कफं स-शुक्रं वा तदा क्रमात् ॥ ६ ॥

संजायते ऽश्मरी घोरा पित्ताद् गोर् इव रोचना ।
श्लेष्माश्रया च सर्वा स्याद् अथास्याः पूर्व-लक्षणम् ॥ ७ ॥

वस्त्य्-आध्मानं तद्-आसन्न-देशेषु परितो ऽति-रुक् ।
मूत्रे च बस्त-गन्ध-त्वं मूत्र-कृच्छ्रं ज्वरो ऽ-रुचिः ॥ ८ ॥

९.८cv मूत्रे बस्त-स-गन्ध-त्वं सामान्य-लिङ्गं रुङ् नाभि-सेवनी-वस्ति-मूर्धसु ।
विशीर्ण-धारं मूत्रं स्यात् तया मार्ग-निरोधने ॥ ९ ॥

९.९dv तथा मार्ग-निरोधने तद्-व्यपायात् सुखं मेहेद् अच्छं गोमेदकोपमम् ।
तत्-संक्षोभात् क्षते सास्रम् आयासाच् चाति-रुग् भवेत् ॥ १० ॥

तत्र वाताद् भृशार्त्य्-आर्तो दन्तान् खादति वेपते ।
मृद्नाति मेहनं नाभिं पीडयत्य् अ-निशं क्वणन् ॥ ११ ॥

सानिलं मुञ्चति शकृन् मुहुर् मेहति बिन्दु-शः ।
श्यावा रूक्षाश्मरी चास्य स्याच् चिता कण्टकैर् इव ॥ १२ ॥

पित्तेन दह्यते वस्तिः पच्यमान इवोष्म-वान् ।
भल्लातकास्थि-संस्थाना रक्ता पीतासिताश्मरी ॥ १३ ॥

९.१३dv रक्त-पीतासिताश्मरी वस्तिर् निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः ।
अश्मरी महती श्लक्ष्णा मधु-वर्णाथ-वा सिता ॥ १४ ॥

एता भवन्ति बालानां तेषाम् एव च भूयसा ।
आश्रयोपचयाल्प-त्वाद् ग्रहणाहरणे सुखाः ॥ १५ ॥

शुक्राश्मरी तु महतां जायते शुक्र-धारणात् ।
स्थानाच् च्युतम् अ-मुक्तं हि मुष्कयोर् अन्तरे ऽनिलः ॥ १६ ॥

शोषयत्य् उपसंगृह्य शुक्रं तच् छुष्कम् अश्मरी ।
वस्ति-रुक्-कृच्छ्र-मूत्र-त्व-मुष्क-श्वयथु-कारिणी ॥ १७ ॥

तस्याम् उत्पन्न-मात्रायां शुक्रम् एति विलीयते ।
पीडिते त्व् अवकाशे ऽस्मिन्न् अश्मर्य् एव च शर्करा ॥ १८ ॥

अणु-शो वायुना भिन्ना सा त्व् अस्मिन्न् अनुलोम-गे ।
निरेति सह मूत्रेण प्रतिलोमे विबध्यते ॥ १९ ॥

मूत्र-संधारिणः कुर्याद् रुद्ध्वा वस्तेर् मुखं मरुत् ।
मूत्र-सङ्गं रुजं कण्डूं कदा-चिच् च स्व-धामतः ॥ २० ॥

प्रच्याव्य वस्तिम् उद्वृत्तं गर्भाभं स्थूल-विप्लुतम् ।
करोति तत्र रुग्-दाह-स्पन्दनोद्वेष्टनानि च ॥ २१ ॥

बिन्दु-शश् च प्रवर्तेत मूत्रं वस्तौ तु पीडिते ।
धारया द्वि-विधो ऽप्य् एष वात-वस्तिर् इति स्मृतः ॥ २२ ॥

दुस्-तरो दुस्-तर-तरो द्वितीयः प्रबलानिलः ।
शकृन्-मार्गस्य वस्तेश् च वायुर् अन्तरम् आश्रितः ॥ २३ ॥

अष्ठीलाभं घनं ग्रन्थिं करोत्य् अ-चलम् उन्नतम् ।
वाताष्ठीलेति साध्मान-विण्-मूत्रानिल-सङ्ग-कृत् ॥ २४ ॥

वि-गुणः कुण्डली-भूतो वस्तौ तीव्र-व्यथो ऽनिलः ।
आविध्य मूत्रं भ्रमति स-स्तम्भोद्वेष्ट-गौरवः ॥ २५ ॥

९.२५cv आविश्य मूत्रं भ्रमति मूत्रम् अल्पाल्पम् अथ-वा विमुञ्चति शकृत् सृजन् ।
वात-कुण्डलिकेत्य् एषा मूत्रं तु विधृतं चिरम् ॥ २६ ॥

न निरेति विबद्धं वा मूत्रातीतं तद् अल्प-रुक् ।
विधारणात् प्रतिहतं वातोदावर्तितं यदा ॥ २७ ॥

नाभेर् अधस्-ताद् उदरं मूत्रम् आपूरयेत् तदा ।
कुर्यात् तीव्र-रुग् आध्मानम् अ-पक्तिं मल-संग्रहम् ॥ २८ ॥

तन् मूत्र-जठरं छिद्र-वैगुण्येनानिलेन वा ।
आक्षिप्तम् अल्पं मूत्रं तद् वस्तौ नाले ऽथ-वा मणौ ॥ २९ ॥

९.२९cv आक्षिप्तम् अल्पं मूत्रस्य स्थित्वा स्रवेच् छनैः पश्चात् स-रुजं वाथ नी-रुजम् ।
मूत्रोत्सङ्गः स विच्छिन्न-तच्-छेष-गुरु-शेफसः ॥ ३० ॥

९.३०bv स-रुजं वाथ-वा-रुजम् ९.३०cv मूत्रोत्सङ्गः स विच्छिन्नस् ९.३०cv मूत्रोत्सङ्गः स विच्छिन्नं ९.३०dv तच्-छेष-गुरु-शेफसः अन्तर् वस्ति-मुखे वृत्तः स्थिरो ऽल्पः सहसा भवेत् ।
अश्मरी-तुल्य-रुग् ग्रन्थिर् मूत्र-ग्रन्थिः स उच्यते ॥ ३१ ॥

मूत्रितस्य स्त्रियं यातो वायुना शुक्रम् उद्धतम् ।
स्थानाच् च्युतं मूत्रयतः प्राक् पश्चाद् वा प्रवर्तते ॥ ३२ ॥

भस्मोदक-प्रतीकाशं मूत्र-शुक्रं तद् उच्यते ।
रूक्ष-दुर्-बलयोर् वाताद् उदावर्तं शकृद् यदा ॥ ३३ ॥

९.३३dv उदावृत्तं शकृद् यदा मूत्र-स्रोतो ऽनुपर्येति संसृष्टं शकृता तदा ।
मूत्रं विट्-तुल्य-गन्धं स्याद् विड्-विघातं तम् आदिशेत् ॥ ३४ ॥

पित्तं व्यायाम-तीक्ष्णोष्ण-भोजनाध्वातपादिभिः ।
प्रवृद्धं वायुना क्षिप्तं वस्त्य्-उपस्थार्ति-दाह-वत् ॥ ३५ ॥

मूत्रं प्रवर्तयेत् पीतं स-रक्तं रक्तम् एव वा ।
उष्णं पुनः पुनः कृच्छ्राद् उष्ण-वातं वदन्ति तम् ॥ ३६ ॥

रूक्षस्य क्लान्त-देहस्य वस्ति-स्थौ पित्त-मारुतौ ।
मूत्र-क्षयं स-रुग्-दाहं जनयेतां तद्-आह्वयम् ॥ ३७ ॥

पित्तं कफो द्वाव् अपि वा संहन्येते ऽनिलेन चेत् ।
कृच्छ्रान् मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत् ॥ ३८ ॥

स-दाहं रोचना-शङ्ख-चूर्ण-वर्णं भवेच् च तत् ।
शुष्कं समस्त-वर्णं वा मूत्र-सादं वदन्ति तम् ॥ ३९ ॥

इति विस्तरतः प्रोक्ता रोगा मूत्रा-प्रवृत्ति-जाः ।
निदान-लक्षणैर् ऊर्ध्वं वक्ष्यन्ते ऽति-प्रवृत्ति-जाः ॥ ४० ॥



अध्याय 10
प्रमेहा विंशतिस् तत्र श्लेष्मतो दश पित्ततः ।
षट् चत्वारो ऽनिलात् तेषां मेदो-मूत्र-कफावहम् ॥ १ ॥

अन्न-पान-क्रिया-जातं यत् प्रायस् तत् प्रवर्तकम् ।
स्वाद्व्-अम्ल-लवण-स्निग्ध-गुरु-पिच्छिल-शीतलम् ॥ २ ॥

नव-धान्य-सुरानूप-मांसेक्षु-गुड-गो-रसम् ।
एक-स्थानासन-रतिः शयनं विधि-वर्जितम् ॥ ३ ॥

वस्तिम् आश्रित्य कुरुते प्रमेहान् दूषितः कफः ।
दूषयित्वा वपुः-क्लेद-स्वेद-मेदो-रसामिषम् ॥ ४ ॥

१०.४dv -स्वेद-मेदो-वसामिषम् पित्तं रक्तम् अपि क्षीणे कफादौ मूत्र-संश्रयम् ।
धातून् वस्तिम् उपानीय तत्-क्षये ऽपि च मारुतः ॥ ५ ॥

साध्य-याप्य-परित्याज्या मेहास् तेनैव तद्-भवाः ।
समासम् अ-क्रिय-तया महात्यय-तयापि च ॥ ६ ॥

सामान्यं लक्षणं तेषां प्रभूताविल-मूत्र-ता ।
दोष-दूष्या-विशेषे ऽपि तत्-संयोग-विशेषतः ॥ ७ ॥

१०.७bv प्रभूताकुल-मूत्र-ता मूत्र-वर्णादि-भेदेन भेदो मेहेषु कल्प्यते ।
अच्छं बहु सितं शीतं निर्-गन्धम् उदकोपमम् ॥ ८ ॥

मेहत्य् उदक-मेहेन किञ्-चिच् चाविल-पिच्छिलम् ।
इक्षो रसम् इवात्य्-अर्थं मधुरं चेक्षु-मेहतः ॥ ९ ॥

सान्द्री-भवेत् पर्युषितं सान्द्र-मेहेन मेहति ।
सुरा-मेही सुरा-तुल्यम् उपर्य् अच्छम् अधो घनम् ॥ १० ॥

संहृष्ट-रोमा पिष्टेन पिष्ट-वद् बहलं सितम् ।
शुक्राभं शुक्र-मिश्रं वा शुक्र-मेही प्रमेहति ॥ ११ ॥

१०.११bv पिष्ट-वद् बहुलं सितम् मूर्ताणून् सिकता-मेही सिकता-रूपिणो मलान् ।
शीत-मेही सु-बहु-शो मधुरं भृश-शीतलम् ॥ १२ ॥

१०.१२av मूत्राणून् सिकता-मेही १०.१२av मूत्रे ऽणून् सिकता-मेही शनैः शनैः शनैर्-मेही मन्दं मन्दं प्रमेहति ।
लाला-तन्तु-युतं मूत्रं लाला-मेहेन पिच्छिलम् ॥ १३ ॥

गन्ध-वर्ण-रस-स्पर्शैः क्षारेण क्षार-तोय-वत् ।
नील-मेहेन नीलाभं काल-मेही मषी-निभम् ॥ १४ ॥

हारिद्र-मेही कटुकं हरिद्रा-संनिभं दहत् ।
विस्रं माञ्जिष्ठ-मेहेन मञ्जिष्ठा-सलिलोपमम् ॥ १५ ॥

विस्रम् उष्णं स-लवणं रक्ताभं रक्त-मेहतः ।
वसा-मेही वसा-मिश्रं वसां वा मूत्रयेन् मुहुः ॥ १६ ॥

मज्जानं मज्ज-मिश्रं वा मज्ज-मेही मुहुर् मुहुः ।
हस्ती मत्त इवाजस्रं मूत्रं वेग-विवर्जितम् ॥ १७ ॥

१०.१७av मज्जाभं मज्ज-मिश्रं वा स-लसीकं विबद्धं च हस्ति-मेही प्रमेहति ।
मधु-मेही मधु-समं जायते स किल द्वि-धा ॥ १८ ॥

१०.१८cv मधु-मेहे मधु-समं क्रुद्धे धातु-क्षयाद् वायौ दोषावृत-पथे ऽथ-वा ।
आवृतो दोष-लिङ्गानि सो ऽ-निमित्तं प्रदर्शयेत् ॥ १९ ॥

१०.१९bv दोषावृत-पथे ऽपि वा क्षीणः क्षणात् क्षणात् पूर्णो भजते कृच्छ्र-साध्य-ताम् ।
कालेनोपेक्षिताः सर्वे यद् यान्ति मधु-मेह-ताम् ॥ २० ॥

मधुरं यच् च सर्वेषु प्रायो मध्व् इव मेहति ।
सर्वे ऽपि मधु-मेहाख्या माधुर्याच् च तनोर् अतः ॥ २१ ॥

अ-विपाको ऽ-रुचिश् छर्दिर् निद्रा कासः स-पीनसः ।
उपद्रवाः प्रजायन्ते मेहानां कफ-जन्मनाम् ॥ २२ ॥

वस्ति-मेहनयोस् तोदो मुष्कावदरणं ज्वरः ।
दाहस् तृष्णाम्लको मूर्छा विड्-भेदः पित्त-जन्मनाम् ॥ २३ ॥

वातिकानाम् उदावर्त-कम्प-हृद्-ग्रह-लोल-ताः ।
शूलम् उन्निद्र-ता शोषः कासः श्वासश् च जायते ॥ २४ ॥

१०.२४bv -कण्ठ-हृद्-ग्रह-लोल-ताः शराविका कच्छपिका जालिनी विनतालजी ।
मसूरिका सर्षपिका पुत्रिणी स-विदारिका ॥ २५ ॥

१०.२५dv पुत्रिणी च विदारिका विद्रधिश् चेति पिटिकाः प्रमेहोपेक्षया दश ।
संधि-मर्मसु जायन्ते मांसलेषु च धामसु ॥ २६ ॥

अन्तोन्नता मध्य-निम्ना श्यावा क्लेद-रुजान्विता ।
शराव-मान-संस्थाना पिटिका स्याच् छराविका ॥ २७ ॥

अवगाढार्ति-निस्तोदा महा-वस्तु-परिग्रहा ।
श्लक्ष्णा कच्छप-पृष्ठाभा पिटिका कच्छपी मता ॥ २८ ॥

स्तब्धा सिरा-जाल-वती स्निग्ध-स्रावा महाशया ।
रुजा-निस्तोद-बहुला सूक्ष्म-च्छिद्रा च जालिनी ॥ २९ ॥

१०.२९bv स्निग्ध-स्रावा महाश्रया अवगाढ-रुजा-क्लेदा पृष्ठे वा जठरे ऽपि वा ।
महती पिटिका नीला विनता विनता स्मृता ॥ ३० ॥

दहति त्वचम् उत्थाने भृशं कष्टा विसर्पिणी ।
रक्त-कृष्णाति-तृट्-स्फोट-दाह-मोह-ज्वरालजी ॥ ३१ ॥

मान-संस्थानयोस् तुल्या मसूरेण मसूरिका ।
सर्षपा-मान-संस्थाना क्षिप्र-पाका महा-रुजा ॥ ३२ ॥

सर्षपी सर्षपा-तुल्य-पिटिका-परिवारिता ।
पुत्रिणी महती भूरि-सु-सूक्ष्म-पिटिकाचिता ॥ ३३ ॥

१०.३३av सर्षपा सर्षपा-तुल्य- १०.३३dv -सु-सूक्ष्म-पिटिकावृता १०.३३dv -सु-सूक्ष्म-पिटिकान्विता विदारी-कन्द-वद् वृत्ता कठिना च विदारिका ।
विद्रधिर् वक्ष्यते ऽन्य-त्र तत्राद्यं पिटिका-त्रयम् ॥ ३४ ॥

पुत्रिणी च विदारी च दुः-सहा बहु-मेदसः ।
सह्याः पित्तोल्बणास् त्व् अन्याः संभवन्त्य् अल्प-मेदसः ॥ ३५ ॥

तासु मेह-वशाच् च स्याद् दोषोद्रेको यथा-यथम् ॥ ३६अब् ॥
प्रमेहेण विनाप्य् एता जायन्ते दुष्ट-मेदसः ॥ ३६च्द् ॥
तावच् च नोपलक्ष्यन्ते यावद् वस्तु-परिग्रहः ॥ ३६एf ॥
हारिद्र-वर्णं रक्तं वा मेह-प्राग्-रूप-वर्जितम् ।
यो मूत्रयेन् न तं मेहं रक्त-पित्तं तु तद् विदुः ॥ ३७ ॥

१०.३७dv रक्त-पित्तं तु तं विदुः १०.३७dv रक्त-पित्तं च तद् विदुः स्वेदो ऽङ्ग-गन्धः शिथिल-त्वम् अङ्गे शय्यासन-स्वप्न-सुखाभिषङ्गः ।
हृन्-नेत्र-जिह्वा-श्रवणोपदेहो घनाङ्ग-ता केश-नखाति-वृद्धिः ॥ ३८ ॥

१०.३८bv शय्यासन-स्थान-सुखाभिलाषः शीत-प्रिय-त्वं गल-तालु-शोषो माधुर्यम् आस्ये कर-पाद-दाहः ।
भविष्यतो मेह-गणस्य रूपं मूत्रे ऽभिधावन्ति पिपीलिकाश् च ॥ ३९ ॥

दृष्ट्वा प्रमेहं मधुरं स-पिच्छं मधूपमं स्याद् विविधो विचारः ।
संपूरणाद् वा कफ-संभवः स्यात् क्षीणेषु दोषेष्व् अनिलात्मको वा ॥ ४० ॥

१०.४०cv संतर्पणाद् वा कफ-संभवः स्यात् स-पूर्व-रूपाः कफ-पित्त-मेहाः क्रमेण ये वात-कृताश् च मेहाः ।
साध्या न ते पित्त-कृतास् तु याप्याः साध्यास् तु मेदो यदि नाति-दुष्टम् ॥ ४१ ॥

१०.४१dv साध्याश् च मेदो यदि नाति-दुष्टम्

अध्याय 11
भुक्तैः पर्युषितात्य्-उष्ण-रूक्ष-शुष्क-विदाहिभिः ।
जिह्म-शय्या-विचेष्टाभिस् तैस् तैश् चासृक्-प्रदूषणैः ॥ १ ॥

दुष्ट-त्वङ्-मांस-मेदो-ऽस्थि-स्नाय्व्-असृक्-कण्डराश्रयः ।
यः शोफो बहिर् अन्तर् वा महा-मूलो महा-रुजः ॥ २ ॥

११.२av दुष्टस् त्वङ्-मांस-मेदो-ऽस्थि- वृत्तः स्याद् आयतो यो वा स्मृतः षो-ढा स विद्रधिः ।
दोषैः पृथक् समुदितैः शोणितेन क्षतेन च ॥ ३ ॥

बाह्यो ऽत्र तत्र तत्राङ्गे दारुणो ग्रथितोन्नतः ।
आन्तरो दारुण-तरो गम्भीरो गुल्म-वद् घनः ॥ ४ ॥

वल्मीक-वत् समुच्छ्रायी शीघ्र-घात्य् अग्नि-शस्त्र-वत् ।
नाभि-वस्ति-यकृत्-प्लीह-क्लोम-हृत्-कुक्षि-वङ्क्षणे ॥ ५ ॥

स्याद् वृक्कयोर् अपाने च वातात् तत्राति-तीव्र-रुक् ।
श्यावारुणश् चिरोत्थान-पाको विषम-संस्थितिः ॥ ६ ॥

११.६av स्याद् वृक्कयोर् अपाने वा व्यध-च्छेद-भ्रमानाह-स्पन्द-सर्पण-शब्द-वान् ।
रक्त-ताम्रासितः पित्तात् तृण्-मोह-ज्वर-दाह-वान् ॥ ७ ॥

क्षिप्रोत्थान-प्रपाकश् च पाण्डुः कण्डू-युतः कफात् ।
सोत्क्लेश-शीतक-स्तम्भ-जृम्भा-रोचक-गौरवः ॥ ८ ॥

चिरोत्थान-विपाकश् च संकीर्णः संनिपाततः ।
सामर्थ्याच् चात्र विभजेद् बाह्याभ्यन्तर-लक्षणम् ॥ ९ ॥

११.९av चिरोत्थान-प्रपाकश् च कृष्ण-स्फोटावृतः श्यावस् तीव्र-दाह-रुजा-ज्वरः ।
पित्त-लिङ्गो ऽसृजा बाह्यः स्त्रीणाम् एव तथान्तरः ॥ १० ॥

शस्त्राद्यैर् अभिघातेन क्षते वा-पथ्य-कारिणः ।
क्षतोष्मा वायु-विक्षिप्तः स-रक्तं पित्तम् ईरयन् ॥ ११ ॥

११.११dv स-रक्तं पित्तम् ईरयेत् पित्तासृग्-लक्षणं कुर्याद् विद्रधिं भूर्य्-उपद्रवम् ।
तेषूपद्रव-भेदश् च स्मृतो ऽधिष्ठान-भेदतः ॥ १२ ॥

नाभ्यां हिध्मा भवेद् वस्तौ मूत्रं कृच्छ्रेण पूति च ।
श्वासो यकृति रोधस् तु प्लीह्न्य् उच्छ्वासस्य तृट् पुनः ॥ १३ ॥

गल-ग्रहश् च क्लोम्नि स्यात् सर्वाङ्ग-प्रग्रहो हृदि ।
प्रमोहस् तमकः कासो हृदये घट्टनं व्यथा ॥ १४ ॥

कुक्षि-पार्श्वान्तरांसार्तिः कुक्षाव् आटोप-जन्म च ।
सक्थ्नोर् ग्रहो वङ्क्षणयोर् वृक्कयोः कटि-पृष्ठयोः ॥ १५ ॥

पार्श्वयोश् च व्यथा पायौ पवनस्य निरोधनम् ।
आम-पक्व-विदग्ध-त्वं तेषां शोफ-वद् आदिशेत् ॥ १६ ॥

नाभेर् ऊर्ध्वं मुखात् पक्वाः प्रस्रवन्त्य् अधरे गुदात् ।
गुदास्यान् नाभि-जो विद्याद् दोषं क्लेदाच् च विद्रधौ ॥ १७ ॥

११.१७cv उभाभ्यां नाभि-जो विद्याद् यथा-स्वं व्रण-वत् तत्र विवर्ज्यः संनिपात-जः ।
पक्वो हृन्-नाभि-वस्ति-स्थो भिन्नो ऽन्तर् बहिर् एव वा ॥ १८ ॥

पक्वश् चान्तः स्रवन् वक्त्रात् क्षीणस्योपद्रवान्वितः ।
एवम् एव स्तन-सिरा विवृताः प्राप्य योषिताम् ॥ १९ ॥

सूतानां गर्भिणीनां वा संभवेच् छ्वयथुर् घनः ।
स्तने स-दुग्धे ऽ-दुग्धे वा बाह्य-विद्रधि-लक्षणः ॥ २० ॥

नाडीनां सूक्ष्म-वक्त्र-त्वात् कन्यानां न स जायते ।
क्रुद्धो रुद्ध-गतिर् वायुः शोफ-शूल-करश् चरन् ॥ २१ ॥

११.२१bv कन्यानां तु न जायते ११.२१cv क्रुद्धो ऽन्-ऊर्ध्व-गतिर् वायुः मुष्कौ वङ्क्षणतः प्राप्य फल-कोशाभिवाहिनीः ।
प्रपीड्य धमनीर् वृद्धिं करोति फल-कोशयोः ॥ २२ ॥

दोषास्र-मेदो-मूत्रान्त्रैः स वृद्धिः सप्त-धा गदः ।
मूत्रान्त्र-जाव् अप्य् अनिलाद् धेतु-भेदस् तु केवलम् ॥ २३ ॥

वात-पूर्ण-दृति-स्पर्शो रूक्षो वाताद् अ-हेतु-रुक् ।
पक्वोदुम्बर-संकाशः पित्ताद् दाहोष्म-पाक-वान् ॥ २४ ॥

कफाच् छीतो गुरुः स्निग्धः कण्डू-मान् कठिनो ऽल्प-रुक् ।
कृष्ण-स्फोटावृतः पित्त-वृद्धि-लिङ्गश् च रक्ततः ॥ २५ ॥

११.२५cv कृष्णः स्फोटावृतः पित्त- कफ-वन् मेदसा वृद्धिर् मृदुस् ताल-फलोपमः ।
मूत्र-धारण-शीलस्य मूत्र-जः स तु गच्छतः ॥ २६ ॥

अम्भोभिः पूर्ण-दृति-वत् क्षोभं याति स-रुङ् मृदुः ।
मूत्र-कृच्छ्रम् अधस्-ताच् च वलयं फल-कोशयोः ॥ २७ ॥

वात-कोपिभिर् आहारैः शीत-तोयावगाहनैः ।
धारणेरण-भाराध्व-विषमाङ्ग-प्रवर्तनैः ॥ २८ ॥

क्षोभणैः क्षुभितो ऽन्यैश् च क्षुद्रान्त्रावयवं यदा ।
पवनो वि-गुणी-कृत्य स्व-निवेशाद् अधो नयेत् ॥ २९ ॥

११.२९cv पवनो द्वि-गुणी-कृत्य कुर्याद् वङ्क्षण-संधि-स्थो ग्रन्थ्य्-आभं श्वयथुं तदा ॥ ३०अब् ॥
उपेक्ष्यमाणस्य च मुष्क-वृद्धिम् आध्मान-रुक्-स्तम्भ-वतीं स वायुः ॥ ३०च्द् ॥
प्रपीडितो ऽन्तः स्वन-वान् प्रयाति प्रध्मापयन्न् एति पुनश् च मुक्तः ॥ ३०एf ॥
अन्त्र-वृद्धिर् अ-साध्यो ऽयं वात-वृद्धि-समाकृतिः ॥ ३१ ॥

इति वृद्धि-निदानम् अथ गुल्म-निदानम् ॥ ३१+१ ॥

रूक्ष-कृष्णारुण-सिरा-तन्तु-जाल-गवाक्षितः ।
गुल्मो ऽष्ट-धा पृथग् दोषैः संसृष्टैर् निचयं गतैः ॥ ३२ ॥

आर्तवस्य च दोषेण नारीणां जायते ऽष्टमः ।
ज्वर-च्छर्द्य्-अतिसाराद्यैर् वमनाद्यैश् च कर्मभिः ॥ ३३ ॥

कर्शितो वातलान्य् अत्ति शीतं वाम्बु बुभुक्षितः ।
यः पिबत्य् अनु चान्नानि लङ्घन-प्लवनादिकम् ॥ ३४ ॥

११.३४bv शीतं चाम्बु बुभुक्षितः सेवते देह-संक्षोभि च्छर्दिं वा समुदीरयेत् ।
अन्-उदीर्णाम् उदीर्णान् वा वातादीन् न विमुञ्चति ॥ ३५ ॥

स्नेह-स्वेदाव् अन्-अभ्यस्य शोधनं वा निषेवते ।
शुद्धो वाशु विदाहीनि भजते स्यन्दनानि वा ॥ ३६ ॥

वातोल्बणास् तस्य मलाः पृथक् क्रुद्धा द्वि-शो ऽथ-वा ।
सर्वे वा रक्त-युक्ता वा महा-स्रोतो-ऽनुशायिनः ॥ ३७ ॥

ऊर्ध्वाधो-मार्गम् आवृत्य कुर्वते शूल-पूर्वकम् ।
स्पर्शोपलभ्यं गुल्माख्यम् उत्प्लुतं ग्रन्थि-रूपिणम् ॥ ३८ ॥

११.३८dv उन्नतं ग्रन्थि-रूपिणम् कर्शनात् कफ-विट्-पित्तैर् मार्गस्यावरणेन वा ।
वायुः कृताश्रयः कोष्ठे रौक्ष्यात् काठिन्यम् आगतः ॥ ३९ ॥

स्व-तन्त्रः स्वाश्रये दुष्टः पर-तन्त्रः पराश्रये ।
पिण्डित-त्वाद् अ-मूर्तो ऽपि मूर्त-त्वम् इव संश्रितः ॥ ४० ॥

गुल्म इत्य् उच्यते वस्ति-नाभि-हृत्-पार्श्व-संश्रयः ।
वातान् मन्या-शिरः-शूलं ज्वर-प्लीहान्त्र-कूजनम् ॥ ४१ ॥

व्यधः सूच्येव विट्-सङ्गः कृच्छ्राद् उच्छ्वसनं मुहुः ।
स्तम्भो गात्रे मुखे शोषः कार्श्यं विषम-वह्नि-ता ॥ ४२ ॥

रूक्ष-कृष्ण-त्वग्-आदि-त्वं चल-त्वाद् अनिलस्य च ।
अ-निरूपित-संस्थान-स्थान-वृद्धि-क्षय-व्यथः ॥ ४३ ॥

पिपीलिका-व्याप्त इव गुल्मः स्फुरति तुद्यते ।
पित्ताद् दाहो ऽम्लको मूर्छा-विड्-भेद-स्वेद-तृड्-ज्वराः ॥ ४४ ॥

हारिद्र-त्वं त्वग्-आद्येषु गुल्मश् च स्पर्शना-सहः ।
दूयते दीप्यते सोष्मा स्व-स्थानं दहतीव च ॥ ४५ ॥

कफात् स्तैमित्यम् अ-रुचिः सदनं शिशिर-ज्वरः ।
पीनसालस्य-हृल्-लास-कास-शुक्ल-त्वग्-आदि-ताः ॥ ४६ ॥

गुल्मो ऽवगाढः कठिनो गुरुः सुप्तः स्थिरो ऽल्प-रुक् ।
स्व-दोष-स्थान-धामानः स्वे स्वे काले च रुक्-कराः ॥ ४७ ॥

प्रायस् त्रयस् तु द्वन्द्वोत्था गुल्माः संसृष्ट-लक्षणाः ।
सर्व-जस् तीव्र-रुग्-दाहः शीघ्र-पाकी घनोन्नतः ॥ ४८ ॥

सो ऽ-साध्यो रक्त-गुल्मस् तु स्त्रिया एव प्रजायते ।
ऋतौ वा नव-सूता वा यदि वा योनि-रोगिणी ॥ ४९ ॥

सेवते वातलानि स्त्री क्रुद्धस् तस्याः समीरणः ।
निरुणद्ध्य् आर्तवं योन्यां प्रति-मासम् अवस्थितम् ॥ ५० ॥

कुक्षिं करोति तद्-गर्भ-लिङ्गम् आविष्-करोति च ।
हृल्-लास-दौर्हृद-स्तन्य-दर्शन-क्षाम-तादिकम् ॥ ५१ ॥

क्रमेण वायु-संसर्गात् पित्त-योनि-तया च तत् ।
शोणितं कुरुते तस्या वात-पित्तोत्थ-गुल्म-जान् ॥ ५२ ॥

रुक्-स्तम्भ-दाहातीसार-तृड्-ज्वरादीन् उपद्रवान् ।
गर्भाशये च सु-तरां शूलं दुष्टासृग्-आश्रये ॥ ५३ ॥

योन्याश् च स्राव-दौर्गन्ध्य-तोद-स्पन्दन-वेदनाः ।
न चाङ्गैर् गर्भ-वद् गुल्मः स्फुरत्य् अपि तु शूल-वान् ॥ ५४ ॥

११.५४bv -तोद-स्फुरण-वेदनाः ११.५४bv -क्लेद-स्वेदन-वेदनाः पिण्डी-भूतः स एवास्याः कदा-चित् स्पन्दते चिरात् ।
न चास्या वर्धते कुक्षिर् गुल्म एव तु वर्धते ॥ ५५ ॥

स्व-दोष-संश्रयो गुल्मः सर्वो भवति तेन सः ।
पाकं चिरेण भजते नैव वा विद्रधिः पुनः ॥ ५६ ॥

पच्यते शीघ्रम् अत्य्-अर्थं दुष्ट-रक्ताश्रय-त्वतः ।
अतः शीघ्र-विदाहि-त्वाद् विद्रधिः सो ऽभिधीयते ॥ ५७ ॥

गुल्मे ऽन्तर्-आश्रये वस्ति-कुक्षि-हृत्-प्लीह-वेदनाः ।
अग्नि-वर्ण-बल-भ्रंशो वेगानां चा-प्रवर्तनम् ॥ ५८ ॥

११.५८bv -कुक्षि-हृत्-पार्श्व-वेदनाः अतो विपर्ययो बाह्ये कोष्ठाङ्गेषु तु नाति-रुक् ।
वैवर्ण्यम् अवकाशस्य बहिर् उन्नत-ताधिकम् ॥ ५९ ॥

साटोपम् अत्य्-उग्र-रुजम् आध्मानम् उदरे भृशम् ।
ऊर्ध्वाधो-वात-रोधेन तम् आनाहं प्रचक्षते ॥ ६० ॥

घनो ऽष्ठीलोपमो ग्रन्थिर् अष्ठीलोर्ध्वं समुन्नतः ।
आनाह-लिङ्गस् तिर्यक् तु प्रत्यष्ठीला तद्-आकृतिः ॥ ६१ ॥

११.६१cv आनाह-लिङ्गस् तिर्यक् च पक्वाशयाद् गुदोपस्थं वायुस् तीव्र-रुजः प्रयान् ।
तूणी प्रतूणी तु भवेत् स एवातो विपर्यये ॥ ६२ ॥

उद्गार-बाहुल्य-पुरीष-बन्ध-तृप्त्य्-अ-क्षम-त्वान्त्र-विकूजनानि ।
आटोपम् आध्मानम् अ-पक्ति-शक्तिम् आसन्न-गुल्मस्य वदन्ति चिह्नम् ॥ ६३ ॥

११.६३cv आटोपम् आध्मानम् अ-पक्त्य्-अ-शक्तिम्

अध्याय 12
रोगाः सर्वे ऽपि मन्दे ऽग्नौ सु-तराम् उदराणि तु ।
अ-जीर्णान् मलिनैश् चान्नैर् जायन्ते मल-संचयात् ॥ १ ॥

ऊर्ध्वाधो धातवो रुद्ध्वा वाहिनीर् अम्बु-वाहिनीः ।
प्राणाग्न्य्-अपानान् संदूष्य कुर्युस् त्वङ्-मांस-संधि-गाः ॥ २ ॥

आध्माप्य कुक्षिम् उदरम् अष्ट-धा तच् च भिद्यते ।
पृथग् दोषैः समस्तैश् च प्लीह-बद्ध-क्षतोदकैः ॥ ३ ॥

तेनार्ताः शुष्क-ताल्व्-ओष्ठाः शून-पाद-करोदराः ।
नष्ट-चेष्टा-बलाहाराः कृशाः प्रध्मात-कुक्षयः ॥ ४ ॥

स्युः प्रेत-रूपाः पुरुषा भाविनस् तस्य लक्षणम् ।
क्षुन्-नाशो ऽन्नं चिरात् सर्वं स-विदाहं च पच्यते ॥ ५ ॥

१२.५dv स-विदाहं विपच्यते जीर्णा-जीर्णं न जानाति सौहित्यं सहते न च ।
क्षीयते बलतः शश्वच् छ्वसित्य् अल्पे ऽपि चेष्टिते ॥ ६ ॥

वृद्धिर् विषो ऽ-प्रवृत्तिश् च किञ्-चिच् छोफश् च पादयोः ।
रुग्-वस्ति-संधौ तत-ता लघ्व्-अल्पा-भोजनैर् अपि ॥ ७ ॥

१२.७av वृद्धिर् विषो ऽ-प्रवृत्तिर् वा राजी-जन्म वली-नाशो जठरे जठरेषु तु ।
सर्वेषु तन्द्रा सदनं मल-सङ्गो ऽल्प-वह्नि-ता ॥ ८ ॥

दाहः श्वयथुर् आध्मानम् अन्ते सलिल-संभवः ।
सर्वं त्व् अ-तोयम् अरुणम् अ-शोफं नाति-भारिकम् ॥ ९ ॥

गवाक्षितं सिरा-जालैः सदा गुडगुडायते ।
नाभिम् अन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति ॥ १० ॥

मारुतो हृत्-कटी-नाभि-पायु-वङ्क्षण-वेदनाः ।
स-शब्दो निश्चरेद् वायुर् विड् बद्धा मूत्रम् अल्पकम् ॥ ११ ॥

१२.११bv -पायु-वङ्क्षण-वेदना नाति-मन्दो ऽनलो लौल्यं न च स्याद् वि-रसं मुखम् ।
तत्र वातोदरे शोफः पाणि-पान्-मुष्क-कुक्षिषु ॥ १२ ॥

कुक्षि-पार्श्वोदर-कटी-पृष्ठ-रुक् पर्व-भेदनम् ।
शुष्क-कासो ऽङ्ग-मर्दो ऽधो-गुरु-ता मल-संग्रहः ॥ १३ ॥

श्यावारुण-त्वग्-आदि-त्वम् अ-कस्माद् वृद्धि-ह्रास-वत् ।
स-तोद-भेदम् उदरं तनु-कृष्ण-सिरा-ततम् ॥ १४ ॥

१२.१४dv तनु कृष्ण-सिरा-ततम् आध्मात-दृति-वच् छब्दम् आहतं प्रकरोति च ।
वायुश् चात्र स-रुक्-शब्दो विचरेत् सर्वतो-गतिः ॥ १५ ॥

पित्तोदरे ज्वरो मूर्छा दाहस् तृट् कटुकास्य-ता ।
भ्रमो ऽतीसारः पीत-त्वं त्वग्-आदाव् उदरं हरित् ॥ १६ ॥

पीत-ताम्र-सिरानद्धं स-स्वेदं सोष्म दह्यते ।
धूमायति मृदु-स्पर्शं क्षिप्र-पाकं प्रदूयते ॥ १७ ॥

१२.१७cv धूमायते मृदु-स्पर्शं श्लेष्मोदरे ऽङ्ग-सदनं स्वापः श्वयथु-गौरवम् ।
निद्रोत्क्लेशा-रुचि-श्वास-कास-शुक्ल-त्वग्-आदि-ता ॥ १८ ॥

१२.१८bv स्वाप-श्वयथु-गौरवम् उदरं स्तिमितं श्लक्ष्णं शुक्ल-राजी-ततं महत् ।
चिराभिवृद्धि कठिनं शीत-स्पर्शं गुरु स्थिरम् ॥ १९ ॥

१२.१९av उदरं स्तिमितं स्निग्धं त्रि-दोष-कोपनैस् तैस् तैः स्त्री-दत्तैश् च रजो-मलैः ।
गर-दूषी-विषाद्यैश् च स-रक्ताः संचिता मलाः ॥ २० ॥

कोष्ठं प्राप्य विकुर्वाणाः शोष-मूर्छा-भ्रमान्वितम् ।
कुर्युस् त्रि-लिङ्गम् उदरं शीघ्र-पाकं सु-दारुणम् ॥ २१ ॥

बाधते तच् च सु-तरां शीत-वाताभ्र-दर्शने ।
अत्य्-आशितस्य संक्षोभाद् यान-यानादि-चेष्टितैः ॥ २२ ॥

१२.२२bv शीत-वाताभ्र-दर्शनैः अति-व्यवाय-कर्माध्व-वमन-व्याधि-कर्शनैः ।
वाम-पार्श्वाश्रितः प्लीहा च्युतः स्थानाद् विवर्धते ॥ २३ ॥

शोणितं वा रसादिभ्यो विवृद्धं तं विवर्धयेत् ।
सो ऽष्ठीलेवाति-कठिनः प्राक् ततः कूर्म-पृष्ठ-वत् ॥ २४ ॥

१२.२४dv प्राकृतः कूर्म-पृष्ठ-वत् क्रमेण वर्धमानश् च कुक्षाव् उदरम् आवहेत् ।
श्वास-कास-पिपासास्य-वैरस्याध्मान-रुग्-ज्वरैः ॥ २५ ॥

पाण्डु-त्व-मूर्छा-छर्दीभिर् दाह-मोहैश् च संयुतम् ।
अरुणाभं वि-वर्णं वा नील-हारिद्र-राजि-मत् ॥ २६ ॥

१२.२६av पाण्डु-त्व-मूर्छाति-छर्दि- १२.२६bv -दाह-मोहैश् च संयुतम् उदावर्त-रुजानाहैर् मोह-तृड्-दहन-ज्वरैः ।
गौरवा-रुचि-काठिन्यैर् विद्यात् तत्र मलान् क्रमात् ॥ २७ ॥

१२.२७av उदावर्त-रुग्-आनाहैर् प्लीह-वद् दक्षिणात् पार्श्वात् कुर्याद् यकृद् अपि च्युतम् ।
पक्ष्म-वालैः सहान्नेन भुक्तैर् बद्धायने गुदे ॥ २८ ॥

दुर्-नामभिर् उदावर्तैर् अन्यैर् वान्त्रोपलेपिभिः ।
वर्चः-पित्त-कफान् रुद्ध्वा करोति कुपितो ऽनिलः ॥ २९ ॥

१२.२९bv अन्नैर् वान्त्रोपलेपिभिः अपानो जठरं तेन स्युर् दाह-ज्वर-तृट्-क्षवाः ।
कास-श्वासोरु-सदनं शिरो-हृन्-नाभि-पायु-रुक् ॥ ३० ॥

१२.३०bv स्युर् दाह-ज्वर-तृट्-क्षुधाः १२.३०bv स्युर् दाह-ज्वर-तृट्-क्षुतः मल-सङ्गो ऽ-रुचिश् छर्दिर् उदरं मूढ-मारुतम् ।
स्थिरं नीलारुण-सिरा-राजी-नद्धम् अ-राजि वा ॥ ३१ ॥

नाभेर् उपरि च प्रायो गो-पुच्छाकृति जायते ।
अस्थ्य्-आदि-शल्यैः सान्नैश् चेद् भुक्तैर् अत्य्-अशनेन वा ॥ ३२ ॥

१२.३२cv अस्थ्य्-आदि-शल्यैः सान्नैश् च भिद्यते पच्यते वान्त्रं तच्-छिद्रैश् च स्रवन् बहिः ।
आम एव गुदाद् एति ततो ऽल्पाल्पं स-विड्-रसः ॥ ३३ ॥

१२.३३av भिद्यते पच्यते चान्त्रं १२.३३dv ऽल्पाल्पः स-विड्-रसः तुल्यः कुणप-गन्धेन पिच्छिलः पीत-लोहितः ।
शेषश् चापूर्य जठरं जठरं घोरम् आवहेत् ॥ ३४ ॥

वर्धयेत् तद् अधो नाभेर् आशु चैति जलात्म-ताम् ।
उद्रिक्त-दोष-रूपं च व्याप्तं च श्वास-तृड्-भ्रमैः ॥ ३५ ॥

१२.३५av वर्धते तद् अधो नाभेर् १२.३५dv व्याप्तं च श्वास-तृड्-ज्वरैः छिद्रोदरम् इदं प्राहुः परिस्रावीति चापरे ।
प्रवृत्त-स्नेह-पानादेः सहसामाम्बु-पायिनः ॥ ३६ ॥

अत्य्-अम्बु-पानान् मन्दाग्नेः क्षीणस्याति-कृशस्य वा ।
रुद्ध्वाम्बु-मार्गान् अनिलः कफश् च जल-मूर्छितः ॥ ३७ ॥

वर्धयेतां तद् एवाम्बु तत्-स्थानाद् उदराश्रितौ ।
ततः स्याद् उदरं तृष्णा-गुद-स्रुति-रुजान्वितम् ॥ ३८ ॥

१२.३८dv -गुद-स्रुति-रुजा-युतम् कास-श्वासा-रुचि-युतं नाना-वर्ण-सिरा-ततम् ।
तोय-पूर्ण-दृति-स्पर्श-शब्द-प्रक्षोभ-वेपथु ॥ ३९ ॥

१२.३९bv नाना-वर्ण-सिरान्वितम् १२.३९bv नाना-वर्ण-सिराचितम् १२.३९bv नाना-वर्ण-सिरावृतम् दकोदरं महत् स्निग्धं स्थिरम् आवृत्त-नाभि तत् ।
उपेक्षया च सर्वेषु दोषाः स्व-स्थानतश् च्युताः ॥ ४० ॥

पाकाद् द्रवा द्रवी-कुर्युः संधि-स्रोतो-मुखान्य् अपि ।
स्वेदश् च बाह्य-स्रोतःसु विहतस् तिर्यग्-आस्थितः ॥ ४१ ॥

१२.४१av पाकाद् द्रवाद् द्रवी-कुर्युः तद् एवोदकम् आप्याय्य पिच्छां कुर्यात् तदा भवेत् ।
गुरूदरं स्थिरं वृत्तम् आहतं च न शब्द-वत् ॥ ४२ ॥

मृदु व्यपेत-राजीकं नाभ्यां स्पृष्टं च सर्पति ।
तद् अनूदक-जन्मास्मिन् कुक्षि-वृद्धिस् ततो ऽधिकम् ॥ ४३ ॥

सिरान्तर्धानम् उदक-जठरोक्तं च लक्षणम् ।
वात-पित्त-कफ-प्लीह-संनिपातोदकोदरम् ॥ ४४ ॥

कृच्छ्रं यथोत्तरं पक्षात् परं प्रायो ऽपरे हतः ।
सर्वं च जात-सलिलं रिष्टोक्तोपद्रवान्वितम् ॥ ४५ ॥

जन्मनैवोदरं सर्वं प्रायः कृच्छ्र-तमं मतम् ।
बलिनस् तद् अ-जाताम्बु यत्न-साध्यं नवोत्थितम् ॥ ४६ ॥



अध्याय 13
पित्त-प्रधानाः कुपिता यथोक्तैः कोपनैर् मलाः ।
तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितम् ॥ १ ॥

धमनीर् दश संप्राप्य व्याप्नुवत् सकलां तनुम् ।
श्लेष्म-त्वग्-रक्त-मांसानि प्रदूष्यान्तरम् आश्रितम् ॥ २ ॥

त्वङ्-मांसयोस् तत् कुरुते त्वचि वर्णान् पृथग्-विधान् ।
पाण्डु-हारिद्र-हरितान् पाण्डु-त्वं तेषु चाधिकम् ॥ ३ ॥

यतो ऽतः पाण्डुर् इत्य् उक्तः स रोगस् तेन गौरवम् ।
धातूनां स्याच् च शैथिल्यम् ओजसश् च गुण-क्षयः ॥ ४ ॥

ततो ऽल्प-रक्त-मेदस्को निः-सारः स्याच् छ्लथेन्द्रियः ।
मृद्यमानैर् इवाङ्गैर् ना द्रवता हृदयेन च ॥ ५ ॥

१३.५bv निः-सारः शिथिलेन्द्रियः १३.५dv द्रवता हृदयेन वा शूनाक्षि-कूटः सदनः कोपनः ष्ठीवनो ऽल्प-वाक् ।
अन्न-द्विट् शिशिर-द्वेषी शीर्ण-रोमा हतानलः ॥ ६ ॥

१३.६av शूनाक्षि-कूट-वदनः १३.६bv कोपनः स्वेदनो ऽल्प-वाक् १३.६bv कोपनः सदनो ऽल्प-वाक् सन्न-सक्थो ज्वरी श्वासी कर्ण-क्ष्वेडी भ्रमी श्रमी ।
स पञ्च-धा पृथग् दोषैः समस्तैर् मृत्तिकादनात् ॥ ७ ॥

१३.७av सन्न-सक्थी ज्वरी श्वासी प्राग्-रूपम् अस्य हृदय-स्पन्दनं रूक्ष-ता त्वचि ।
अ-रुचिः पीत-मूत्र-त्वं स्वेदा-भावो ऽल्प-वह्नि-ता ॥ ८ ॥

सादः श्रमो ऽनिलात् तत्र गात्र-रुक्-तोद-कम्पनम् ।
कृष्ण-रूक्षारुण-सिरा-नख-विण्-मूत्र-नेत्र-ता ॥ ९ ॥

शोफानाहास्य-वैरस्य-विट्-शोषाः पार्श्व-मूर्ध-रुक् ।
पित्ताद् धरित-पीताभ-सिरादि-त्वं ज्वरस् तमः ॥ १० ॥

तृट्-स्वेद-मूर्छा-शीतेच्छा दौर्गन्ध्यं कटु-वक्त्र-ता ।
वर्चो-भेदो ऽम्लको दाहः कफाच् छुक्ल-सिरादि-ता ॥ ११ ॥

तन्द्रा लवण-वक्त्र-त्वं रोम-हर्षः स्वर-क्षयः ।
कासश् छर्दिश् च निचयान् मिश्र-लिङ्गो ऽति-दुः-सहः ॥ १२ ॥

१३.१२bv हर्षो रोम्णां स्वर-क्षयः मृत् कषायानिलं पित्तम् ऊषरा मधुरा कफम् ।
दूषयित्वा रसादींश् च रौक्ष्याद् भुक्तं विरूक्ष्य च ॥ १३ ॥

स्रोतांस्य् अ-पक्वैवापूर्य कुर्याद् रुद्ध्वा च पूर्व-वत् ।
पाण्डु-रोगं ततः शून-नाभि-पादास्य-मेहनः ॥ १४ ॥

पुरीषं कृमि-मन् मुञ्चेद् भिन्नं सासृक् कफं नरः ।
यः पाण्डु-रोगी सेवेत पित्तलं तस्य कामलाम् ॥ १५ ॥

कोष्ठ-शाखाश्रयां पित्तं दग्ध्वासृङ्-मांसम् आवहेत् ।
हारिद्र-नेत्र-मूत्र-त्वङ्-नख-वक्त्र-शकृत्-तया ॥ १६ ॥

१३.१६av कोष्ठ-शाखाश्रयं पित्तं दाहा-विपाक-तृष्णा-वान् भेकाभो दुर्-बलेन्द्रियः ।
भवेत् पित्तोल्बणस्यासौ पाण्डु-रोगाद् ऋते ऽपि च ॥ १७ ॥

उपेक्षया च शोफाढ्या सा कृच्छ्रा कुम्भ-कामला ।
हरित-श्याव-पीत-त्वं पाण्डु-रोगे यदा भवेत् ॥ १८ ॥

वात-पित्ताद् भ्रमस् तृष्णा स्त्रीष्व् अ-हर्षो मृदुर् ज्वरः ।
तन्द्रा बलानल-भ्रंशो लोढरं तं हलीमकम् ॥ १९ ॥

अलसं चेति शंसन्ति तेषां पूर्वम् उपद्रवाः ।
शोफ-प्रधानाः कथिताः स एवातो निगद्यते ॥ २० ॥

पित्त-रक्त-कफान् वायुर् दुष्टो दुष्टान् बहिः-सिराः ।
नीत्वा रुद्ध-गतिस् तैर् हि कुर्यात् त्वङ्-मांस-संश्रयम् ॥ २१ ॥

उत्सेधं संहतं शोफं तम् आहुर् निचयाद् अतः ।
सर्वं हेतु-विशेषैस् तु रूप-भेदान् नवात्मकम् ॥ २२ ॥

दोषैः पृथग् द्वयैः सर्वैर् अभिघाताद् विषाद् अपि ।
द्वि-धा वा निजम् आगन्तुं सर्वाङ्गैकाङ्ग-जं च तम् ॥ २३ ॥

पृथून्नत-ग्रथित-ता-विशेषैश् च त्रि-धा विदुः ।
सामान्य-हेतुः शोफानां दोष-जानां विशेषतः ॥ २४ ॥

व्याधि-कर्मोपवासादि-क्षीणस्य भजतो द्रुतम् ।
अति-मात्रम् अथान्यस्य गुर्व्-अम्ल-स्निग्ध-शीतलम् ॥ २५ ॥

१३.२५bv -क्षीणस्य भजतो द्रवम् १३.२५cv अति-मात्रम् अथान्नं च लवण-क्षार-तीक्ष्णोष्ण-शाकाम्बु स्वप्न-जागरम् ।
मृद्-ग्राम्य-मांस-वल्लूरम् अ-जीर्ण-श्रम-मैथुनम् ॥ २६ ॥

पदातेर् मार्ग-गमनं यानेन क्षोभिणापि वा ।
श्वास-कासातिसारार्शो-जठर-प्रदर-ज्वराः ॥ २७ ॥

विषूच्य्-अलसक-च्छर्दि-गर्भ-विसर्प-पाण्डवः ।
अन्ये च मिथ्योपक्रान्तास् तैर् दोषा वक्षसि स्थिताः ॥ २८ ॥

१३.२८bv -गर्भ-विसर्प-पाण्डु-ता ऊर्ध्वं शोफम् अधो वस्तौ मध्ये कुर्वन्ति मध्य-गाः ।
सर्वाङ्ग-गाः सर्व-गतं प्रत्यङ्गेषु तद्-आश्रयाः ॥ २९ ॥

तत्-पूर्व-रूपं दवथुः सिरायामो ऽङ्ग-गौरवम् ।
वाताच् छोफश् चलो रूक्षः खर-रोमारुणासितः ॥ ३० ॥

संकोच-स्पन्द-हर्षार्ति-तोद-भेद-प्रसुप्ति-मान् ।
क्षिप्रोत्थान-शमः शीघ्रम् उन्नमेत् पीडितस् तनुः ॥ ३१ ॥

स्निग्धोष्ण-मर्दनैः शाम्येद् रात्राव् अल्पो दिवा महान् ।
त्वक् च सर्षप-लिप्तेव तस्मिंश् चिमिचिमायते ॥ ३२ ॥

पीत-रक्तासिताभासः पित्ताद् आ-ताम्र-रोम-कृत् ।
शीघ्रानुसार-प्रशमो मध्ये प्राग् जायते तनुः ॥ ३३ ॥

स-तृड्-दाह-ज्वर-स्वेद-दव-क्लेद-मद-भ्रमः ।
शीताभिलाषी विड्-भेदी गन्धी स्पर्शा-सहो मृदुः ॥ ३४ ॥

कण्डू-मान् पाण्डु-रोम-त्वक् कठिनः शीतलो गुरुः ।
स्निग्धः श्लक्ष्णः स्थिरः स्त्यानो निद्रा-छर्द्य्-अग्नि-साद-कृत् ॥ ३५ ॥

आक्रान्तो नोन्नमेत् कृच्छ्र-शम-जन्मा निशा-बलः ।
स्रवेन् नासृक् चिरात् पिच्छां कुश-शस्त्रादि-विक्षतः ॥ ३६ ॥

स्पर्शोष्ण-काङ्क्षी च कफाद् यथा-स्वं द्वन्द्व-जास् त्रयः ।
संकराद् धेतु-लिङ्गानां निचयान् निचयात्मकः ॥ ३७ ॥

अभिघातेन शस्त्रादि-च्छेद-भेद-क्षतादिभिः ।
हिमानिलोद-ध्य्-अनिलैर् भल्लात-कपिकच्छु-जैः ॥ ३८ ॥

१३.३८cv हिमानलोद-ध्य्-अनिलैर् रसैः शूकैश् च संस्पर्शाच् छ्वयथुः स्याद् विसर्प-वान् ।
भृशोष्मा लोहिताभासः प्राय-शः पित्त-लक्षणः ॥ ३९ ॥

विष-जः स-विष-प्राणि-परिसर्पण-मूत्रणात् ।
दंष्ट्रा-दन्त-नखापाताद् अ-विष-प्राणिनाम् अपि ॥ ४० ॥

१३.४०cv दंष्ट्रा-दन्त-नखाघाताद् विण्-मूत्र-शुक्रोपहत-मल-वद्-वस्त्र-संकरात् ।
विष-वृक्षानिल-स्पर्शाद् गर-योगावचूर्णनात् ॥ ४१ ॥

१३.४१bv -मल-वद्-वस्त्र-धारणात् मृदुश् चलो ऽवलम्बी च शीघ्रो दाह-रुजा-करः ।
नवो ऽन्-उपद्रवः शोफः साध्यो ऽ-साध्यः पुरेरितः ॥ ४२ ॥

स्याद् विसर्पो ऽभिघातान्तैर् दोषैर् दूष्यैश् च शोफ-वत् ।
त्र्य्-अधिष्ठानं च तं प्राहुर् बाह्यान्तर्-उभयाश्रयात् ॥ ४३ ॥

यथोत्तरं च दुः-साध्यास् तत्र दोषा यथा-यथम् ।
प्रकोपणैः प्रकुपिता विशेषेण विदाहिभिः ॥ ४४ ॥

देहे शीघ्रं विसर्पन्ति ते ऽन्तर् अन्तः-स्थिता बहिः ।
बहिः-स्था द्वितये द्वि-स्था विद्यात् तत्रान्तर्-आश्रयम् ॥ ४५ ॥

मर्मोपतापात् संमोहाद् अयनानां विघट्टनात् ।
तृष्णाति-योगाद् वेगानां विषमं च प्रवर्तनात् ॥ ४६ ॥

१३.४६av मर्मोपघातात् संमोहाद् १३.४६dv विषमाच् च प्रवर्तनात् आशु चाग्नि-बल-भ्रंशाद् अतो बाह्यं विपर्ययात् ।
तत्र वातात् परीसर्पो वात-ज्वर-सम-व्यथः ॥ ४७ ॥

शोफ-स्फुरण-निस्तोद-भेदायामार्ति-हर्ष-वान् ।
पित्ताद् द्रुत-गतिः पित्त-ज्वर-लिङ्गो ऽति-लोहितः ॥ ४८ ॥

कफात् कण्डू-युतः स्निग्धः कफ-ज्वर-समान-रुक् ।
स्व-दोष-लिङ्गैश् चीयन्ते सर्वे स्फोटैर् उपेक्षिताः ॥ ४९ ॥

ते पक्व-भिन्नाः स्वं स्वं च बिभ्रति व्रण-लक्षणम् ।
वात-पित्ताज् ज्वर-च्छर्दि-मूर्छातीसार-तृड्-भ्रमैः ॥ ५० ॥

अस्थि-भेदाग्नि-सदन-तमका-रोचकैर् युतः ।
करोति सर्वम् अङ्गं च दीप्ताङ्गारावकीर्ण-वत् ॥ ५१ ॥

यं यं देशं विसर्पश् च विसर्पति भवेत् स सः ।
शान्ताङ्गारासितो नीलो रक्तो वाशु च चीयते ॥ ५२ ॥

अग्नि-दग्ध इव स्फोटैः शीघ्र-ग-त्वाद् द्रुतं च सः ।
मर्मानुसारी वीसर्पः स्याद् वातो ऽति-बलस् ततः ॥ ५३ ॥

व्यथेताङ्गं हरेत् संज्ञां निद्रां च श्वासम् ईरयेत् ।
हिध्मां च स गतो ऽवस्थाम् ईदृशीं लभते न ना ॥ ५४ ॥

क्व-चिच् छर्मा-रति-ग्रस्तो भूमि-शय्यासनादिषु ।
चेष्टमानस् ततः क्लिष्टो मनो-देह-श्रमोद्भवाम् ॥ ५५ ॥

दुष्-प्रबोधो ऽश्नुते निद्रां सो ऽग्नि-विसर्प उच्यते ।
कफेन रुद्धः पवनो भित्त्वा तं बहु-धा कफम् ॥ ५६ ॥

रक्तं वा वृद्ध-रक्तस्य त्वक्-सिरा-स्नाव-मांस-गम् ।
दूषयित्वा च दीर्घाणु-वृत्त-स्थूल-खरात्मनाम् ॥ ५७ ॥

ग्रन्थीनां कुरुते मालां रक्तानां तीव्र-रुग्-ज्वराम् ।
श्वास-कासातिसारास्य-शोष-हिध्मा-वमि-भ्रमैः ॥ ५८ ॥

मोह-वैवर्ण्य-मूर्छाङ्ग-भङ्गाग्नि-सदनैर् युताम् ।
इत्य् अयं ग्रन्थि-वीसर्पः कफ-मारुत-कोप-जः ॥ ५९ ॥

कफ-पित्ताज् ज्वरः स्तम्भो निद्रा-तन्द्रा-शिरो-रुजः ।
अङ्गावसाद-विक्षेप-प्रलापा-रोचक-भ्रमाः ॥ ६० ॥

मूर्छाग्नि-हानिर् भेदो ऽस्थ्नां पिपासेन्द्रिय-गौरवम् ।
आमोपवेशनं लेपः स्रोतसां स च सर्पति ॥ ६१ ॥

प्रायेणामाशये गृह्णन्न् एक-देशं न चाति-रुक् ।
पिटिकैर् अवकीर्णो ऽति-पीत-लोहित-पाण्डुरैः ॥ ६२ ॥

मेचकाभो ऽसितः स्निग्धो मलिनः शोफ-वान् गुरुः ।
गम्भीर-पाकः प्राज्योष्मा स्पृष्टः क्लिन्नो ऽवदीर्यते ॥ ६३ ॥

१३.६३av मेचकाभो ऽसित-स्निग्धो पङ्क-वच्-छीर्ण-मांसश् च स्पष्ट-स्नायु-सिरा-गणः ।
शव-गन्धिश् च वीसर्पं कर्दमाख्यम् उशन्ति तम् ॥ ६४ ॥

सर्व-जो लक्षणैः सर्वैः सर्व-धात्व्-अतिसर्पणः ।
बाह्य-हेतोः क्षतात् क्रुद्धः स-रक्तं पित्तम् ईरयन् ॥ ६५ ॥

१३.६५bv सर्व-धात्व्-अभिसर्पणः विसर्पं मारुतः कुर्यात् कुलत्थ-सदृशैश् चितम् ।
स्फोटैः शोफ-ज्वर-रुजा-दाहाढ्यं श्याव-लोहितम् ॥ ६६ ॥

पृथग् दोषैस् त्रयः साध्या द्वन्द्व-जाश् चान्-उपद्रवाः ।
अ-साध्यौ क्षत-सर्वोत्थौ सर्वे चाक्रान्त-मर्मकाः ॥ ६७ ॥

शीर्ण-स्नायु-सिरा-मांसाः प्रक्लिन्नाः शव-गन्धयः ॥ ६७ऊ̆अब् ॥

अध्याय 14
मिथ्याहार-विहारेण विशेषेण विरोधिना ।
साधु-निन्दा-वधान्य-स्व-हरणाद्यैश् च सेवितैः ॥ १ ॥

पाप्मभिः कर्मभिः सद्यः प्राक्तनैर् वेरिता मलाः ।
सिराः प्रपद्य तिर्यग्-गास् त्वग्-लसीकासृग्-आमिषम् ॥ २ ॥

१४.२bv प्राक्तनैः प्रेरिता मलाः दूषयन्ति श्लथी-कृत्य निश्चरन्तस् ततो बहिः ।
त्वचः कुर्वन्ति वैवर्ण्यं दुष्टाः कुष्ठम् उशन्ति तत् ॥ ३ ॥

१४.३av दूषयन्तः श्लथी-कृत्य कालेनोपेक्षितं यस्मात् सर्वं कुष्णाति तद् वपुः ।
प्रपद्य धातून् व्याप्यान्तः सर्वान् संक्लेद्य चावहेत् ॥ ४ ॥

स-स्वेद-क्लेद-संकोथान् कृमीन् सूक्ष्मान् सु-दारुणान् ।
रोम-त्वक्-स्नायु-धमनी-तरुणास्थीनि यैः क्रमात् ॥ ५ ॥

भक्षयेच् छ्वित्रम् अस्माच् च कुष्ठ-बाह्यम् उदाहृतम् ।
कुष्ठानि सप्त-धा दोषैः पृथङ् मिश्रैः समागतैः ॥ ६ ॥

१४.६dv पृथग् द्वन्द्वैः समागतैः सर्वेष्व् अपि त्रि-दोषेषु व्यपदेशो ऽधिक-त्वतः ।
वातेन कुष्ठं कापालं पित्ताद् औदुम्बरं कफात् ॥ ७ ॥

मण्डलाख्यं विचर्ची च ऋक्षाख्यं वात-पित्त-जम् ।
चर्मैक-कुष्ठ-किटिभ-सिध्मालस-विपादिकाः ॥ ८ ॥

१४.८bv ऋक्षाक्षं वात-पित्त-जम् वात-श्लेष्मोद्भवाः श्लेष्म-पित्ताद् दद्रू-शतारुषी ।
पुण्डरीकं स-विस्फोटं पामा चर्म-दलं तथा ॥ ९ ॥

सर्वैः स्यात् काकणं पूर्वं त्रिकं दद्रु स-काकणम् ।
पुण्डरीकर्क्ष-जिह्वे च महा-कुष्ठानि सप्त तु ॥ १० ॥

१४.१०bv त्रिकं दद्रूः स-काकणा १४.१०cv पुण्डरीकर्श्य-जिह्वे च अति-श्लक्ष्ण-खर-स्पर्श-खेदा-स्वेद-वि-वर्ण-ताः ।
दाहः कण्डूस् त्वचि स्वापस् तोदः कोठोन्नतिः श्रमः ॥ ११ ॥

व्रणानाम् अधिकं शूलं शीघ्रोत्पत्तिश् चिर-स्थितिः ।
रूढानाम् अपि रूक्ष-त्वं निमित्ते ऽल्पे ऽपि कोपनम् ॥ १२ ॥

रोम-हर्षो ऽसृजः कार्ष्ण्यम् कुष्ठ-लक्षणम् अग्र-जम् ।
कृष्णारुण-कपालाभं रूक्षं सुप्तं खरं तनु ॥ १३ ॥

विस्तृता-सम-पर्य्-अन्तं हृषितैर् रोमभिश् चितम् ।
तोदाढ्यम् अल्प-कण्डूकं कापालं शीघ्र-सर्पि च ॥ १४ ॥

१४.१४bv दूषितैर् रोमभिश् चितम् पक्वोदुम्बर-ताम्र-त्वग्-रोम गौर-सिरा-चितम् ।
बहलं बहल-क्लेद-रक्तं दाह-रुजाधिकम् ॥ १५ ॥

१४.१५bv -रोम गौर-सिरा-ततम् १४.१५cv बहुलं बहुल-क्लेद- आशूत्थानावदरण-कृमि विद्याद् उदुम्बरम् ।
स्थिरं स्त्यानं गुरु स्निग्धं श्वेत-रक्तम् अन्-आशु-गम् ॥ १६ ॥

अन्यो-ऽन्य-सक्तम् उत्सन्नं बहु-कण्डू-स्रुति-क्रिमि ।
श्लक्ष्ण-पीताभ-पर्य्-अन्तं मण्डलं परिमण्डलम् ॥ १७ ॥

१४.१७av अन्यो-ऽन्य-सक्तम् उच्छूनं १४.१७av अन्यो-ऽन्य-सक्तम् उत्सङ्गं स-कण्डू-पिटिका श्यावा लसीकाढ्या विचर्चिका ।
परुषं तनु रक्तान्तम् अन्तः-श्यावं समुन्नतम् ॥ १८ ॥

स-तोद-दाह-रुक्-क्लेदं कर्कशैः पिटिकैश् चितम् ।
ऋक्ष-जिह्वाकृति प्रोक्तम् ऋक्ष-जिह्वं बहु-क्रिमि ॥ १९ ॥

१४.१९cv ऋश्य-जिह्वाकृति प्रोक्तम् १४.१९dv ऋश्य-जिह्वं बहु-क्रिमि हस्ति-चर्म-खर-स्पर्शं चर्मैकाख्यं महाश्रयम् ।
अ-स्वेदं मत्स्य-शकल-संनिभं किटिभं पुनः ॥ २० ॥

रूक्षं किण-खर-स्पर्शं कण्डू-मत् परुषासितम् ।
सिध्मं रूक्षं बहिः स्निग्धम् अन्तर् घृष्टं रजः किरेत् ॥ २१ ॥

श्लक्ष्ण-स्पर्शं तनु श्वेत-ताम्रं दौग्धिक-पुष्प-वत् ।
प्रायेण चोर्ध्व-काये स्याद् गण्डैः कण्डू-युतैश् चितम् ॥ २२ ॥

रक्तैर् अलसकं पाणि-पाद-दार्यो विपादिकाः ।
तीव्रार्त्यो मन्द-कण्ड्वश् च स-राग-पिटिकाचिताः ॥ २३ ॥

दीर्घ-प्रताना दूर्वा-वद् अतसी-कुसुम-च्छविः ।
उत्सन्न-मण्डला दद्रूः कण्डू-मत्य् अनुषङ्गिणी ॥ २४ ॥

स्थूल-मूलं स-दाहार्ति रक्त-श्यावं बहु-व्रणम् ।
शतारुः क्लेद-जन्त्व्-आढ्यं प्राय-शः पर्व-जन्म च ॥ २५ ॥

रक्तान्तम् अन्तरा पाण्डु कण्डू-दाह-रुजान्वितम् ।
सोत्सेधम् आचितं रक्तैः पद्म-पत्त्रम् इवांशुभिः ॥ २६ ॥

घन-भूरि-लसीकासृक्-प्रायम् आशु विभेदि च ।
पुण्डरीकं तनु-त्वग्भिश् चितं स्फोटैः सितारुणैः ॥ २७ ॥

विस्फोटं पिटिकाः पामा कण्डू-क्लेद-रुजाधिकाः ।
सूक्ष्माः श्यावारुणा बह्व्यः प्रायः स्फिक्-पाणि-कूर्परे ॥ २८ ॥

स-स्फोटम् अ-स्पर्श-सहं कण्डूषा-तोद-दाह-वत् ।
रक्तं दलच् चर्म-दलं काकणं तीव्र-दाह-रुक् ॥ २९ ॥

पूर्वं रक्तं च कृष्णं च काकणन्ती-फलोपमम् ।
कुष्ठ-लिङ्गैर् युतं सर्वैर् नैक-वर्णं ततो भवेत् ॥ ३० ॥

दोष-भेदीय-विहितैर् आदिशेल् लिङ्ग-कर्मभिः ।
कुष्ठेषु दोषोल्बण-तां सर्व-दोषोल्बणं त्यजेत् ॥ ३१ ॥

रिष्टोक्तं यच् च यच् चास्थि-मज्ज-शुक्र-समाश्रयम् ।
याप्यं मेदो-गतं कृच्छ्रं पित्त-द्वन्द्वास्र-मांस-गम् ॥ ३२ ॥

अ-कृच्छ्रं कफ-वाताढ्यं त्वक्-स्थम् एक-मलं च यत् ।
तत्र त्वचि स्थिते कुष्ठे तोद-वैवर्ण्य-रूक्ष-ताः ॥ ३३ ॥

स्वेद-स्वाप-श्वयथवः शोणिते पिशिते पुनः ।
पाणि-पादाश्रिताः स्फोटाः क्लेदः संधिषु चाधिकम् ॥ ३४ ॥

कौण्यं गति-क्षयो ऽङ्गानां दलनं स्याच् च मेदसि ।
नासा-भङ्गो ऽस्थि-मज्ज-स्थे नेत्र-रागः स्वर-क्षयः ॥ ३५ ॥

क्षते च कृमयः शुक्रे स्व-दारापत्य-बाधनम् ।
यथा-पूर्वं च सर्वाणि स्युर् लिङ्गान्य् असृग्-आदिषु ॥ ३६ ॥

१४.३६bv स्व-दारापत्य-धावनम् कुष्ठैक-संभवं श्वित्रं किलासं दारुणं च तत् ।
निर्दिष्टम् अ-परिस्रावि त्रि-धातूद्भव-संश्रयम् ॥ ३७ ॥

१४.३७bv किलासं चारुणं च तत् वाताद् रूक्षारुणं पित्तात् ताम्रं कमल-पत्त्र-वत् ।
स-दाहं रोम-विध्वंसि कफाच् छ्वेतं घनं गुरु ॥ ३८ ॥

स-कण्डु च क्रमाद् रक्त-मांस-मेदःसु चादिशेत् ।
वर्णेनैवेदृग् उभयं कृच्छ्रं तच् चोत्तरोत्तरम् ॥ ३९ ॥

अ-शुक्ल-रोमा-बहलम् अ-संसृष्टं मिथो नवम् ।
अन्-अग्नि-दग्ध-जं साध्यं श्वित्रं वर्ज्यम् अतो ऽन्य-था ॥ ४० ॥

१४.४०av अ-शुक्ल-रोमा-बहुलम् १४.४०bv अ-संसृष्टम् अथो नवम् गुह्य-पाणि-तलौष्ठेषु जातम् अप्य् अ-चिरन्-तनम् ।
स्पर्शैकाहार-शय्यादि-सेवनात् प्राय-शो गदाः ॥ ४१ ॥

सर्वे संचारिणो नेत्र-त्वग्-विकारा विशेषतः ।
कृमयस् तु द्वि-धा प्रोक्ता बाह्याभ्यन्तर-भेदतः ॥ ४२ ॥

बहिर्-मल-कफासृग्-विड्-जन्म-भेदाच् चतुर्-विधाः ।
नामतो विंशति-विधा बाह्यास् तत्रा-मृजोद्भवाः ॥ ४३ ॥

१४.४३dv बाह्यास् तत्र मलोद्भवाः १४.४३dv बाह्यास् तत्रासृग्-उद्भवाः तिल-प्रमाण-संस्थान-वर्णाः केशाम्बराश्रयाः ।
बहु-पादाश् च सूक्ष्माश् च यूका लिक्षाश् च नामतः ॥ ४४ ॥

द्वि-धा ते कोठ-पिटिका-कण्डू-गण्डान् प्रकुर्वते ।
कुष्ठैक-हेतवो ऽन्तर्-जाः श्लेष्म-जास् तेषु चाधिकम् ॥ ४५ ॥

मधुरान्न-गुड-क्षीर-दधि-सक्तु-नवौदनैः ।
शकृज्-जा बहु-विड्-धान्य-पर्ण-शाकोलकादिभिः ॥ ४६ ॥

१४.४६av मधुराम्ल-गुड-क्षीर- १४.४६dv -पर्ण-शाकौकुलादिभिः कफाद् आमाशये जाता वृद्धाः सर्पन्ति सर्वतः ।
पृथु-ब्रध्न-निभाः के-चित् के-चिद् गण्डू-पदोपमाः ॥ ४७ ॥

रूढ-धान्याङ्कुराकारास् तनु-दीर्घास् तथाणवः ।
श्वेतास् ताम्रावभासाश् च नामतः सप्त-धा तु ते ॥ ४८ ॥

अन्त्रादा उदरावेष्टा हृदयादा महा-कुहाः ।
कुरवो दर्भ-कुसुमाः सु-गन्धास् ते च कुर्वते ॥ ४९ ॥

१४.४९av अन्त्रादा उदराविष्टा १४.४९bv हृदयादा महा-रुहाः १४.४९cv चुरवो दर्भ-कुसुमाः हृल्-लासम् आस्य-स्रवणम् अ-विपाकम् अ-रोचकम् ।
मूर्छा-छर्दि-ज्वरानाह-कार्श्य-क्षवथु-पीनसान् ॥ ५० ॥

रक्त-वाहि-सिरोत्थाना रक्त-जा जन्तवो ऽणवः ।
अ-पादा वृत्त-ताम्राश् च सौक्ष्म्यात् के-चिद् अ-दर्शनाः ॥ ५१ ॥

१४.५१av रक्त-वाहि-सिरा-स्थानाद् १४.५१av रक्त-वाहि-सिरा-स्थाना केशादा रोम-विध्वंसा रोम-द्वीपा उदुम्बराः ।
षट् ते कुष्ठैक-कर्माणः सह-सौरस-मातरः ॥ ५२ ॥

१४.५२द्च् सह-जा रस-मातरः पक्वाशये पुरीषोत्था जायन्ते ऽधो-विसर्पिणः ।
वृद्धाः सन्तो भवेयुश् च ते यदामाशयोन्-मुखाः ॥ ५३ ॥

१४.५३cv वृद्धास् ते स्युर् भवेयुश् च तदास्योद्गार-निःश्वासा विड्-गन्धानुविधायिनः ।
पृथु-वृत्त-तनु-स्थूलाः श्याव-पीत-सितासिताः ॥ ५४ ॥

ते पञ्च नाम्ना कृमयः ककेरुक-मकेरुकाः ।
सौसुरादाः सुलूनाख्या लेलिहा जनयन्ति च ॥ ५५ ॥

१४.५५av सौसुरादाः शलूनाख्या विड्-भेद-शूल-विष्टम्भ-कार्श्य-पारुष्य-पाण्डु-ताः ।
रोम-हर्षाग्नि-सदन-गुद-कण्डूर् विनिर्गमात् ॥ ५६ ॥

१४.५६dv -गुद-कण्डूर् विनिर्गताः १४.५६dv -गुद-कण्डूर् वि-मार्ग-गाः

अध्याय 15

सर्वार्थान्-अर्थ-करणे विश्वस्यास्यैक-कारणम् ।
अ-दुष्ट-दुष्टः पवनः शरीरस्य विशेषतः ॥ १ ॥

स विश्व-कर्मा विश्वात्मा विश्व-रूपः प्रजापतिः ।
स्रष्टा धाता विभुर् विष्णुः संहर्ता मृत्युर् अन्तकः ॥ २ ॥

तद्-अ-दुष्टौ प्रयत्नेन यतितव्यम् अतः सदा ।
तस्योक्तं दोष-विज्ञाने कर्म प्राकृत-वैकृतम् ॥ ३ ॥

समासाद् व्यासतो दोष-भेदीये नाम धाम च ।
प्रत्य्-एकं पञ्च-धा चारो व्यापारश् चेह वैकृतम् ॥ ४ ॥

तस्योच्यते विभागेन स-निदानं स-लक्षणम् ।
धातु-क्षय-करैर् वायुः कुप्यत्य् अति-निषेवितैः ॥ ५ ॥

अ-संख्यम् अपि संख्याय यद् अशीत्या पुरेरितम् ५.१+(१)अब् ॥
१५.५.१+(१)ब्व् यथाशीत्य् अपरेरितम् चरन् स्रोतःसु रिक्तेषु भृशं तान्य् एव पूरयन् ।
तेभ्यो ऽन्य-दोष-पूर्णेभ्यः प्राप्य वावरणं बली ॥ ६ ॥

तत्र पक्वाशये क्रुद्धः शूलानाहान्त्र-कूजनम् ।
मल-रोधाश्म-वर्ध्मार्शस्-त्रिक-पृष्ठ-कटी-ग्रहम् ॥ ७ ॥

करोत्य् अधर-काये च तांस् तान् कृच्छ्रान् उपद्रवान् ।
आमाशये तृड्-वमथु-श्वास-कास-विषूचिकाः ॥ ८ ॥

१५.८av करोत्य् अधर-कायेषु कण्ठोपरोधम् उद्गारान् व्याधीन् ऊर्ध्वं च नाभितः ।
श्रोत्रादिष्व् इन्द्रिय-वधं त्वचि स्फुटन-रूक्ष-ते ॥ ९ ॥

रक्ते तीव्रा रुजः स्वापं तापं रागं वि-वर्ण-ताम् ।
अरूंष्य् अन्नस्य विष्टम्भम् अ-रुचिं कृश-तां भ्रमम् ॥ १० ॥

१५.१०cv अरूंष्य् अङ्गस्य विष्टम्भम् मांस-मेदो-गतो ग्रन्थींस् तोदाढ्यान् कर्कशाञ् छ्रमम् ।
गुर्व् अङ्गं चाति-रुक् स्तब्धं मुष्टि-दण्ड-हतोपमम् ॥ ११ ॥

१५.११bv तोदाढ्यान् कर्कशाञ् छ्रमान् १५.११bv तोदाढ्यान् कर्कशान् भृशम् अस्थि-स्थः सक्थि-संध्य्-अस्थि-शूलं तीव्रं बल-क्षयम् ।
मज्ज-स्थो ऽस्थिषु सौषिर्यम् अ-स्वप्नं संततां रुजम् ॥ १२ ॥

१५.१२dv अ-स्वप्नं स्तब्ध-तां रुजम् शुक्रस्य शीघ्रम् उत्सर्गं सङ्गं विकृतिम् एव वा ।
तद्-वद् गर्भस्य शुक्र-स्थः सिरास्व् आध्मान-रिक्त-ते ॥ १३ ॥

तत्-स्थः स्नाव-स्थितः कुर्याद् गृध्रस्य्-आयाम-कुब्ज-ताः ।
वात-पूर्ण-दृति-स्पर्शं शोफं संधि-गतो ऽनिलः ॥ १४ ॥

१५.१४bv गृध्रस्य्-आयाम-कुब्ज-ताम् प्रसारणाकुञ्चनयोः प्रवृत्तिं च स-वेदनाम् ।
सर्वाङ्ग-संश्रयस् तोद-भेद-स्फुरण-भञ्जनम् ॥ १५ ॥

स्तम्भनाक्षेपण-स्वाप-संध्य्-आकुञ्चन-कम्पनम् ।
यदा तु धमनीः सर्वाः क्रुद्धो ऽभ्येति मुहुर् मुहुः ॥ १६ ॥

तदाङ्गम् आक्षिपत्य् एष व्याधिर् आक्षेपकः स्मृतः ।
अधः प्रतिहतो वायुर् व्रजन्न् ऊर्ध्वं हृद्-आश्रिताः ॥ १७ ॥

१५.१७dv व्रजन्न् ऊर्ध्वं हृद्-आश्रयाः नाडीः प्रविश्य हृदयं शिरः शङ्खौ च पीडयन् ।
आक्षिपेत् परितो गात्रं धनुर्-वच् चास्य नामयेत् ॥ १८ ॥

१५.१८bv शिरः शङ्खौ च पीडयेत् कृच्छ्राद् उच्छ्वसिति स्तब्ध-स्रस्त-मीलित-दृक् ततः ।
कपोत इव कूजेच् च निः-संज्ञः सो ऽपतन्त्रकः ॥ १९ ॥

स एव चापतानाक्य्हो मुक्ते तु मरुता हृदि ।
अश्नुवीत मुहुः स्वास्थ्यं मुहुर् अ-स्वास्थ्यम् आवृते ॥ २० ॥

१५.२०cv अश्नुवीत इव स्वास्थ्यं गर्भ-पात-समुत्पन्नः शोणिताति-स्रवोत्थितः ।
अभिघात-समुत्थश् च दुश्-चिकित्स्य-तमो हि सः ॥ २१ ॥

मन्ये संस्तभ्य वातो ऽन्तर् आयच्छन् धमनीर् यदा ।
व्याप्नोति सकलं देहं जत्रुर् आयम्यते तदा ॥ २२ ॥

१५.२२bv आगच्छन् धमनीर् यदा अन्तर् धनुर् इवाङ्गं च वेगैः स्तम्भं च नेत्रयोः ।
करोति जृम्भां दशनं दशनानां कफोद्वमम् ॥ २३ ॥

पार्श्वयोर् वेदनां वाक्य-हनु-पृष्ठ-शिरो-ग्रहम् ।
अन्तर्-आयाम इत्य् एष बाह्यायामश् च तद्-विधः ॥ २४ ॥

देहस्य बहिर्-आयामात् पृष्ठतो नीयते शिरः ।
उरश् चोत्क्षिप्यते तत्र कन्धरा चावमृद्यते ॥ २५ ॥

१५.२५bv पृष्ठतो ह्रियते शिरः दन्तेष्व् आस्ये च वैवर्ण्यं प्रस्वेदः स्रस्त-गात्र-ता ।
बाह्यायामं धनुः-ष्कम्भं ब्रुवते वेगिनं च तम् ॥ २६ ॥

१५.२६cv बाह्यायामं धनुः-स्तम्भं व्रणं मर्माश्रितं प्राप्य समीरण-समीरणात् ।
व्यायच्छन्ति तनुं दोषाः सर्वाम् आ-पाद-मस्तकम् ॥ २७ ॥

१५.२७av व्रणं मर्माश्रयं प्राप्य तृष्यतः पाण्डु-गात्रस्य व्रणायामः स वर्जितः ।
गते वेगे भवेत् स्वास्थ्यं सर्वेष्व् आक्षेपकेषु च ॥ २८ ॥

१५.२८dv सर्वेष्व् आक्षेपकेषु तु जिह्वाति-लेखनाच् छुष्क-भक्षणाद् अभिघाततः ।
कुपितो हनु-मूल-स्थः स्रंसयित्वानिलो हनू ॥ २९ ॥

करोति विवृतास्य-त्वम् अथ-वा संवृतास्य-ताम् ।
हनु-स्रंसः स तेन स्यात् कृच्छ्राच् चर्वण-भाषणम् ॥ ३० ॥

वाग्-वाहिनी-सिरा-संस्थो जिह्वां स्तम्भयते ऽनिलः ।
जिह्वा-स्तम्भः स तेनान्न-पान-वाक्येष्व् अन्-ईश-ता ॥ ३१ ॥

शिरसा भार-हरणाद् अति-हास्य-प्रभाषणात् ।
उत्त्रास-वक्त्र-क्षवथोः खर-कार्मुक-कर्षणात् ॥ ३२ ॥

१५.३२cv उच्छ्वास-वक्र-क्षवथु- १५.३२cv उत्त्रास-वक्त्र-क्षवथु- १५.३२dv -खर-कार्मुक-कर्षणात् विषमाद् उपधानाच् च कठिनानां च चर्वणात् ।
वायुर् विवृद्धस् तैस् तैश् च वातलैर् ऊर्ध्वम् आस्थितः ॥ ३३ ॥

वक्री-करोति वक्त्रार्धम् उक्तं हसितम् ईक्षितम् ।
ततो ऽस्य कम्पते मूर्धा वाक्-सङ्गः स्तब्ध-नेत्र-ता ॥ ३४ ॥

१५.३४dv वाग्-भङ्गः स्तब्ध-नेत्र-ता दन्त-चालः स्वर-भ्रंशः श्रुति-हानिः क्षव-ग्रहः ।
गन्धा-ज्ञानं स्मृतेर् मोहस् त्रासः सुप्तस्य जायते ॥ ३५ ॥

निष्ठीवः पार्श्वतो यायाद् एकस्याक्ष्णो निमीलनम् ।
जत्रोर् ऊर्ध्वं रुजा तीव्रा शरीरार्धे ऽधरे ऽपि वा ॥ ३६ ॥

तम् आहुर् अर्दितं के-चिद् एकायामम् अथापरे ।
रक्तम् आश्रित्य पवनः कुर्यान् मूर्ध-धराः सिराः ॥ ३७ ॥

रूक्षाः स-वेदनाः कृष्णाः सो ऽ-साध्यः स्यात् सिरा-ग्रहः ।
गृहीत्वार्धं तनोर् वायुः सिराः स्नायूर् विशोष्य च ॥ ३८ ॥

पक्षम् अन्य-तरं हन्ति संधि-बन्धान् विमोक्षयन् ।
कृत्स्नो ऽर्ध-कायस् तस्य स्याद् अ-कर्मण्यो वि-चेतनः ॥ ३९ ॥

एकाङ्ग-रोगं तं के-चिद् अन्ये पक्ष-वधं विदुः ।
सर्वाङ्ग-रोगं तद्-वच् च सर्व-कायाश्रिते ऽनिले ॥ ४० ॥

शुद्ध-वात-हतः पक्षः कृच्छ्र-साध्य-तमो मतः ।
कृच्छ्रस् त्व् अन्येन संसृष्टो विवर्ज्यः क्षय-हेतुकः ॥ ४१ ॥

आम-बद्धायनः कुर्यात् संस्थभ्याङ्गं कफान्वितः ।
अ-साध्यं हत-सर्वेहं दण्ड-वद् दण्डकं मरुत् ॥ ४२ ॥

अंस-मूल-स्थितो वायुः सिराः संकोच्य तत्र-गाः ।
बाहु-प्रस्पन्दित-हरं जनयत्य् अव-बाहुकम् ॥ ४३ ॥

तलं प्रत्य् अङ्गुलीनां या कण्डरा बाहु-पृष्ठतः ।
बाहु-चेष्टापहरणी विश्वाची नाम सा स्मृता ॥ ४४ ॥

१५.४४cv बाह्वोः कर्म-क्षय-करी वायुः कट्यां स्थितः सक्थ्नः कण्डराम् आक्षिपेद् यदा ।
तदा खञ्जो भवेज् जन्तुः पङ्गुः सक्थ्नोर् द्वयोर् अपि ॥ ४५ ॥

कम्पते गमनारम्भे खञ्जन्न् इव च याति यः ।
कलाय-खञ्जं तं विद्यान् मुक्त-संधि-प्रबन्धनम् ॥ ४६ ॥

शीतोष्ण-द्रव-संशुष्क-गुरु-स्निग्धैर् निषेवितैः ।
जीर्णा-जीर्णे तथायास-संक्षोभ-स्वप्न-जागरैः ॥ ४७ ॥

स-श्लेष्म-मेदः-पवनम् आमम् अत्य्-अर्थ-संचितम् ।
अभिभूयेतरं दोषम् ऊरू चेत् प्रतिपद्यते ॥ ४८ ॥

सक्थ्य्-अस्थीनि प्रपूर्यान्तः श्लेष्मणा स्तिमितेन तत् ।
तदा स्कभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ ॥ ४९ ॥

१५.४९cv तदा स्कन्दति तेनोरू १५.४९cv तदा स्कन्नाति तेनोरू परकीयाव् इव गुरू स्याताम् अति-भृश-व्यथौ ।
ध्यानाङ्ग-मर्द-स्तैमित्य-तन्द्रा-छर्द्य्-अ-रुचि-ज्वरैः ॥ ५० ॥

संयुतौ पाद-सदन-कृच्छ्रोद्धरण-सुप्तिभिः ।
तम् ऊरु-स्तम्भम् इत्य् आहुर् आढ्य-वातम् अथापरे ॥ ५१ ॥

१५.५१av संयुक्तौ पाद-सदन- वात-शोणित-जः शोफो जानु-मध्ये महा-रुजः ।
ज्ञेयः क्रोष्टुक-शीर्षश् च स्थूलः क्रोष्टुक-शीर्ष-वत् ॥ ५२ ॥

१५.५२dv स्थूलः क्रोष्टुक-मूर्ध-वत् रुक् पादे विषम-न्यस्ते श्रमाद् वा जायते यदा ।
वातेन गुल्फम् आश्रित्य तम् आहुर् वात-कण्टकम् ॥ ५३ ॥

पार्ष्णिं प्रत्य् अङ्गुलीनां या कण्डरा मारुतार्दिता ।
सक्थ्य्-उत्क्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते ॥ ५४ ॥

विश्वाची गृध्रसी चोक्ता खल्लिस् तीव्र-रुजान्विते ।
हृष्येते चरणौ यस्य भवेतां च प्रसुप्त-वत् ॥ ५५ ॥

१५.५५bv खल्लिस् तीव्र-रुजान्विता पाद-हर्षः स विज्ञेयः कफ-मारुत-कोप-जः ।
पादयोः कुरुते दाहं पित्तासृक्-सहितो ऽनिलः ॥ ५६ ॥

विशेषतश् चङ्क्रमिते पाद-दाहं तम् आदिशेत् ॥ ५६ऊ̆अब् ॥
१५.५६ऊ̆अव् विशेषतश् चङ्क्रमतः

अध्याय 16
विदाह्य् अन्नं विरुद्धं च तत् तच् चासृक्-प्रदूषणम् ।
भजतां विधि-हीनं च स्वप्न-जागर-मैथुनम् ॥ १ ॥

१६.१bv तत् तथासृक्-प्रदूषणम् प्रायेण सु-कुमाराणाम् अ-चङ्क्रमण-शीलिनाम् ।
अभिघाताद् अ-शुद्धेश् च नृणाम् असृजि दूषिते ॥ २ ॥

वातलैः शीतलैर् वायुर् वृद्धः क्रुद्धो वि-मार्ग-गः ।
तादृशैवासृजा रुद्धः प्राक् तद् एव प्रदूषयेत् ॥ ३ ॥

१६.३cv तादृशेनासृजा रुद्धः आढ्य-रोगं खुडं वात-बलासं वात-शोणितम् ।
तद् आहुर् नामभिस् तच् च पूर्वं पादौ प्रधावति ॥ ४ ॥

१६.४bv -पलाशं वात-शोणितम् विशेषाद् यान-यानाद् यैः प्रलम्बौ तस्य लक्षणम् ।
भविष्यतः कुष्ठ-समं तथा सादः श्लथाङ्ग-ता ॥ ५ ॥

जानु-जङ्घोरु-कट्य्-अंस-हस्त-पादाङ्ग-संधिषु ।
कण्डू-स्फुरण-निस्तोद-भेद-गौरव-सुप्त-ताः ॥ ६ ॥

भूत्वा भूत्वा प्रणश्यन्ति मुहुर् आविर्-भवन्ति च ।
पादयोर् मूलम् आस्थाय कदा-चिद् धस्तयोर् अपि ॥ ७ ॥

आखोर् इव विषं क्रुद्धं कृत्स्नं देहं विधावति ।
त्वङ्-मांसाश्रयम् उत्तानं तत् पूर्वं जायते ततः ॥ ८ ॥

कालान्तरेण गम्भीरं सर्वान् धातून् अभिद्रवत् ।
कण्ड्व्-आदि-संयुतोत्ताने त्वक् ताम्रा श्याव-लोहिता ॥ ९ ॥

सायामा भृश-दाहोषा गम्भीरे ऽधिक-पूर्व-रुक् ।
श्वयथुर् ग्रथितः पाकी वायुः संध्य्-अस्थि-मज्जसु ॥ १० ॥

छिन्दन्न् इव चरत्य् अन्तर् वक्री-कुर्वंश् च वेग-वान् ।
करोति खञ्जं पङ्गुं वा शरीरे सर्वतश् चरन् ॥ ११ ॥

१६.११av छिन्दन्न् इव चरन्न् अन्तर् वाते ऽधिके ऽधिकं तत्र शूल-स्फुरण-तोदनम् ।
शोफस्य रौक्ष्य-कृष्ण-त्व-श्याव-ता-वृद्धि-हानयः ॥ १२ ॥

धमन्य्-अङ्गुलि-संधीनां संकोचो ऽङ्ग-ग्रहो ऽति-रुक् ।
शीत-द्वेषान्-उपशयौ स्तम्भ-वेपथु-सुप्तयः ॥ १३ ॥

रक्ते शोफो ऽति-रुक् तोदस् ताम्रश् चिमिचिमायते ।
स्निग्ध-रूक्षैः शमं नैति कण्डू-क्लेद-समन्वितः ॥ १४ ॥

पित्ते विदाहः संमोहः स्वेदो मूर्छा मदः स-तृट् ।
स्पर्शा-क्षम-त्वं रुग् रागः शोफः पाको भृशोष्म-ता ॥ १५ ॥

कफे स्तैमित्य-गुरु-ता-सुप्ति-स्निग्ध-त्व-शित-ताः ।
कण्डूर् मन्दा च रुग् द्वन्द्व-सर्व-लिङ्गं च संकरे ॥ १६ ॥

एक-दोषानुगं साध्यं नवं याप्यं द्वि-दोष-जम् ।
त्रि-दोष-जं त्यजेत् स्रावि स्तब्धम् अर्बुद-कारि च ॥ १७ ॥

१६.१७cv त्रि-दोषं तत् त्यजेत् स्रावि रक्त-मार्गं निहत्याशु शाखा-संधिषु मारुतः ।
निविश्यान्यो-ऽन्यम् आवार्य वेदनाभिर् हरत्य् असून् ॥ १८ ॥

१६.१८av रक्त-मार्गं निहन्त्य् आशु वायौ पञ्चात्मके प्राणो रौक्ष्य-व्यायाम-लङ्घनैः ।
अत्य्-आहाराभिघाताध्व-वेगोदीरण-धारणैः ॥ १९ ॥

१६.१९bv रूक्ष-व्यायाम-लङ्घनैः कुपितश् चक्षुर्-आदीनाम् उपघातं प्रवर्तयेत् ।
पीनसार्दित-तृट्-कास-श्वासादींश् चामयान् बहून् ॥ २० ॥

उदानः क्षवथूद्गार-च्छर्दि-निद्रा-विधारणैः ।
गुरु-भाराति-रुदित-हास्याद्यैर् विकृतो गदान् ॥ २१ ॥

१६.२१bv -च्छर्दि-निद्रावधारणैः कण्ठ-रोध-मनो-भ्रंश-च्छर्द्य्-अ-रोचक-पीनसान् ।
कुर्याच् च गल-गण्डादींस् तांस् ताञ् जत्रूर्ध्व-संश्रयान् ॥ २२ ॥

व्यानो ऽति-गमन-ध्यान-क्रीडा-विषम-चेष्टितैः ।
विरोधि-रूक्ष-भी-हर्ष-विषादाद्यैश् च दूषितः ॥ २३ ॥

१६.२३av व्यानो ऽति-गमन-स्थान- पुंस्-त्वोत्साह-बल-भ्रंश-शोफ-चित्तोत्प्लव-ज्वरान् ।
सर्वाङ्ग-रोग-निस्तोद-रोम-हर्षाङ्ग-सुप्त-ताः ॥ २४ ॥

१६.२४dv -रोम-हर्षाङ्ग-सुप्ति-ताः कुष्ठं विसर्पम् अन्यांश् च कुर्यात् सर्वाङ्ग-गान् गदान् ।
समानो विषमा-जीर्ण-शीत-संकीर्ण-भोजनैः ॥ २५ ॥

करोत्य् अ-काल-शयन-जागराद्यैश् च दूषितः ।
शूल-गुल्म-ग्रहण्य्-आदीन् पक्वामाशय-जान् गदान् ॥ २६ ॥

अपानो रूक्ष-गुर्व्-अन्न-वेगाघाताति-वाहनैः ।
यान-यानासन-स्थान-चङ्क्रमैश् चाति-सेवितैः ॥ २७ ॥

१६.२७bv -वेग-घाताति-वाहनैः कुपितः कुरुते रोगान् कृच्छ्रान् पक्वाशयाश्रयान् ।
मूत्र-शुक्र-प्रदोषार्शो-गुद-भ्रंशादिकान् बहून् ॥ २८ ॥

सर्वं च मारुतं सामं तन्द्रा-स्तैमित्य-गौरवैः ।
स्निग्ध-त्वा-रोचकालस्य-शैत्य-शोफाग्नि-हानिभिः ॥ २९ ॥

कटु-रूक्षाभिलाषेण तद्-विधोपशयेन च ।
युक्तं विद्यान् निर्-आमं तु तन्द्रादीनां विपर्ययात् ॥ ३० ॥

वायोर् आवरणं चातो बहु-भेदं प्रवक्ष्यते ।
लिङ्गं पित्तावृते दाहस् तृष्णा शूलं भ्रमस् तमः ॥ ३१ ॥

१६.३१bv बहु-भेदं प्रचक्ष्यते कटुकोष्णाम्ल-लवणैर् विदाहः शीत-काम-ता ।
शैत्य-गौरव-शूलानि कट्व्-आद्य्-उपशयो ऽधिकम् ॥ ३२ ॥

लङ्घनायास-रूक्षोष्ण-काम-ता च कफावृते ।
रक्तावृते स-दाहार्तिस् त्वङ्-मांसान्तर-जा भृशम् ॥ ३३ ॥

भवेच् च रागी श्वयथुर् जायन्ते मण्डलानि च ।
मांसेन कठिनः शोफो वि-वर्णः पिटिकास् तथा ॥ ३४ ॥

हर्षः पिपीलिकानां च संचार इव जायते ।
चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्व् अ-रोचकः ॥ ३५ ॥

१६.३५av हर्षः पिपीलिकादीनां आढ्य-वात इति ज्ञेयः स कृच्छ्रो मेदसावृते ।
स्पर्शम् अस्थ्य्-आवृते ऽत्य्-उष्णं पीडनं चाभिनन्दति ॥ ३६ ॥

सूच्येव तुद्यते ऽत्य्-अर्थम् अङ्गं सीदति शूल्यते ।
मज्जावृते विनमनं जृम्भणं परिवेष्टनम् ॥ ३७ ॥

शूलं च पीड्यमानेन पाणिभ्यां लभते सुखम् ।
शुक्रावृते ऽति-वेगो वा न वा निष्-फल-तापि वा ॥ ३८ ॥

१६.३८av शूलं च पीड्यमाने च १६.३८av शूलं च पीड्यमाने तु १६.३८dv न वा निष्-फल-तापि च भुक्ते कुक्षौ रुजा जीर्णे शाम्यत्य् अन्नावृते ऽनिले ।
मूत्रा-प्रवृत्तिर् आध्मानं वस्तेर् मूत्रावृते भवेत् ॥ ३९ ॥

१६.३९dv वस्तौ मूत्रावृते भवेत् विड्-आवृते विबन्धो ऽधः स्व-स्थाने परिकृन्तति ।
व्रजत्य् आशु जरां स्नेहो भुक्ते चानह्यते नरः ॥ ४० ॥

१६.४०av विड्-आवृते ऽति-विड्-रोधः १६.४०bv स्वे स्थाने परिकृन्तति शकृत् पीडितम् अन्नेन दुःखं शुष्कं चिरात् सृजेत् ।
सर्व-धात्व्-आवृते वायौ श्रोणि-वङ्क्षण-पृष्ठ-रुक् ॥ ४१ ॥

विलोमो मारुतो ऽ-स्वस्थं हृदयं पीड्यते ऽति च ।
भ्रमो मूर्छा रुजा दाहः पित्तेन प्राण आवृते ॥ ४२ ॥

१६.४२av विलोमो मारुतो ऽ-स्वास्थ्यं १६.४२cv भ्रमो मूर्छा रुजानाहः विदग्धे ऽन्ने च वमनम् उदाने ऽपि भ्रमादयः ।
दाहो ऽन्तर् ऊर्जा-भ्रंशश् च दाहो व्याने च सर्व-गः ॥ ४३ ॥

१६.४३dv दाहो व्याने तु सर्व-गः क्लमो ऽङ्ग-चेष्टा-सङ्गश् च स-संतापः स-वेदनः ।
समान ऊष्मोपहतिर् अति-स्वेदो ऽ-रतिः स-तृट् ॥ ४४ ॥

१६.४४av क्लमो ऽङ्ग-चेष्टा-भङ्गश् च दाहश् च स्याद् अपाने तु मले हारिद्र-वर्ण-ता ।
रजो-ऽतिवृत्तिस् तापश् च योनि-मेहन-पायुषु ॥ ४५ ॥

१६.४५cv रजो-ऽति-वृद्धिस् तापश् च श्लेष्मणा त्व् आवृते प्राणे सादस् तन्द्रा-रुचिर् वमिः ।
ष्ठीवनं क्षवथूद्गार-निःश्वासोच्छ्वास-संग्रहः ॥ ४६ ॥

उदाने गुरु-गात्र-त्वम् अ-रुचिर् वाक्-स्वर-ग्रहः ।
बल-वर्ण-प्रणाशश् च व्याने पर्वास्थि-वाग्-ग्रहः ॥ ४७ ॥

१६.४७dv व्याने पार्श्वास्थि-वाग्-ग्रहः गुरु-ताङ्गेषु सर्वेषु स्खलितं च गतौ भृशम् ।
समाने ऽति-हिमाङ्ग-त्वम् अ-स्वेदो मन्द-वह्नि-ता ॥ ४८ ॥

अपाने स-कफं मूत्र-शकृतः स्यात् प्रवर्तनम् ।
इति द्वा-विंशति-विधं वायोर् आवरणं विदुः ॥ ४९ ॥

१६.४९av अपाने स-कफं मूत्रं १६.४९bv शकृतः स्यात् प्रवर्तनम् प्राणादयस् तथान्यो-ऽन्यम् आवृण्वन्ति यथा-क्रमम् ।
सर्वे ऽपि विंशति-विधं विद्याद् आवरणं च तत् ॥ ५० ॥

१६.५०bv आवृण्वन्ति यथा-यथम् निःश्वासोच्छ्वास-संरोधः प्रतिश्यायः शिरो-ग्रहः ।
हृद्-रोगो मुख-शोषश् च प्राणेनोदान आवृते ॥ ५१ ॥

१६.५१cv हृद्-रोगो मुख-रोगश् च उदानेनावृते प्राणे वर्णौजो-बल-संक्षयः ।
दिशानया च विभजेत् सर्वम् आवरणं भिषक् ॥ ५२ ॥

स्थानान्य् अवेक्ष्य वातानां वृद्धिं हानिं च कर्मणाम् ।
प्राणादीनां च पञ्चानां मिश्रम् आवरणं मिथः ॥ ५३ ॥

पित्तादिभिर् द्वा-दशभिर् मिश्राणां मिश्रितैश् च तैः ।
मिश्रैः पित्तादिभिस् तद्-वन् मिश्रणाभिर् अनेक-धा ॥ ५४ ॥

तारतम्य-विकल्पाच् च यात्य् आवृतिर् अ-संख्य-ताम् ।
तां लक्षयेद् अवहितो यथा-स्वं लक्षणोदयात् ॥ ५५ ॥

शनैः शनैश् चोपशयाद् गूढाम् अपि मुहुर् मुहुः ।
विशेषाज् जीवितं प्राण उदानो बलम् उच्यते ॥ ५६ ॥

स्यात् तयोः पीडनाद् धानिर् आयुषश् च बलस्य च ।
आवृता वायवो ऽ-ज्ञाता ज्ञाता वा वत्सरं स्थिताः ॥ ५७ ॥

प्रयत्नेनापि दुः-साध्या भवेयुर् वान्-उपक्रमाः ।
विद्रधि-प्लीह-हृद्-रोग-गुल्माग्नि-सदनादयः ॥ ५८ ॥

भवन्त्य् उपद्रवास् तेषाम् आवृतानाम् उपेक्षणात् ॥ ५८ऊ̆अब् ॥
व्याधीनां संशयं छेत्तुम् अन्यतो यो ऽ-प्रमत्त-वान् ।
निदानं सततं तेन चिन्तनीयं विपश्चिता ॥ ५८ऊ̆+१ ॥

वाह्य सूत्र[सम्पाद्यताम्]

वार्ताः


हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
ऐतरेयोपनिषत्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता  [ ... ]

अधिकम् पठतु
आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

Swaha आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

स्वाहा का म [ ... ]

अधिकम् पठतु
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवसर...

Importance of rakhi
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवस [ ... ]

अधिकम् पठतु
भानु सप्तमी व कर्क संक्रान्ति 16 जुलाई 2017 को...

भानु सप्तमी व कर्क संक्रान्ति
16 जुलाई 2017 को

अकाल मृत्यु पर  [ ... ]

अधिकम् पठतु
भागवत में लिखी ये 10 भयंकर बातें कलयुग में हो रही ...

पंडित अंकित पांडेय - देववाणी समूह
*भागवत📜 में लिखी ये 10 भयं [ ... ]

अधिकम् पठतु
नाग पंचमी विशेष-27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उ...

27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उपाकर्म। जानिए नाग पंचमी ब् [ ... ]

अधिकम् पठतु
about

हमारे समूह में आप भी जुडकर देववाणी व देश का समुचित विकास व  [ ... ]

अधिकम् पठतु
परिमिलनम्


आप मुझे फेसबुक गूगल ग्रुप या ई-मेलThis email address is being protected from spambots. You need J [ ... ]

अधिकम् पठतु
उपनिषद्ब्राह्मणम्...

उपनिषद्ब्राह्मणं दशसु प्रपाठकेषु विभक्तमस्ति । अस्मिन [ ... ]

अधिकम् पठतु
गोपथब्राह्मणम्

गोपथब्राह्मणम् अथर्ववेदस्य एकमात्रं ब्राह्मणमस्ति। गो [ ... ]

अधिकम् पठतु
वंशब्राह्मणम्

वंशब्राह्मणं स्वरूपेणेदं ब्राह्मणं लघ्वाकारकमस्ति । ग [ ... ]

अधिकम् पठतु
संहितोपनिषद्ब्राह्मणम्...

संहितोपनिषद्ब्राह्मणं सामगायनस्य विवरणप्रदाने स्वकीय [ ... ]

अधिकम् पठतु
आर्षेयब्राह्मणम्

आर्षेयब्राह्मणं सामवेदस्य चतुर्थं ब्राह्मणम् अस्ति । स [ ... ]

अधिकम् पठतु
अन्य लेख