रक्तो महान् सकलमस् तूर्णकः शकुनाहृतः । सारा-मुखो दीर्घशूको लोध्रशूकः सुगन्धिकः ॥ १ ॥
पदच्छेद:- रक्तो महान् स-कलम: तूर्णकः शकुनाहृतः । सारा-मुख: दीर्घशूक: लोध्रशूकः सुगन्धिकः ॥ १ ॥
पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौर-शारिवौ । काञ्चनो महिषः शूकः दूषकः कुसुमाण्डकः ॥ २ ॥
पदच्छेद:- पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौर-शारिवौ । काञ्चन: महिषः शूकः दूषकः कुसुमाण्डकः ॥ २ ॥
लाङ्गला लोहवालाख्याः कर्दमाः शीतभीरुकाः । पतङ्गास् तपनीयाश् च ये चान्ये शालयः शुभाः ॥ ३ ॥
पदच्छेद:- लाङ्गला लोहवाल-आख्याः कर्दमाः शीतभीरुकाः । पतङ्गा: तपनीया: च ये च अन्ये शालयः शुभाः ॥ ३ ॥
स्वादु-पाक-रसाः स्निग्धा वृष्या बद्धाल्प-वर्चसः । कषायानु-रसाः पथ्या लघवो मूत्रला हिमाः ॥ ४ ॥
पदच्छेद:- स्वादु-पाक-रसाः स्निग्धा: वृष्या: बद्ध-अल्प-वर्चसः । कषाय-अनुरसाः पथ्या: लघव: मूत्रला: हिमाः ॥ ४ ॥
शूक-जेषु वरस् तत्र रक्तस् तृष्णा-त्रि-दोष-हा । महांस् तम् अनु कलमस् तं चाप्य् अनु ततः परे ॥ ५ ॥
पदच्छेद:- शूकजेषु वर: तत्र रक्त: तृष्णा-त्रिदोष-हा । महान् तम् अनु कलम: तं च अपि अनु ततः परे ॥ ५ ॥
यवका हायनाः पांसु-बाष्प-नैषधकादयः । स्वादूष्णा गुरवः स्निग्धाः पाके ऽम्लाः श्लेष्म-पित्तलाः ॥ ६ ॥
पदच्छेद:- यवका: हायनाः पांसुबाष्प-नैषधक-आदयः । स्वादु-उष्णा: गुरवः स्निग्धाः पाके अम्लाः श्लेष्म-पित्तलाः ॥ ६ ॥
सृष्ट-मूत्र-पुरीषाश् च पूर्वं पूर्वं च निन्दिताः । स्निग्धो ग्राही लघुः स्वादुस् त्रि-दोष-घ्नः स्थिरो हिमः ॥ ७ ॥
पदच्छेद:- सृष्ट-मूत्र-पुरीषा: च पूर्वं पूर्वं च निन्दिताः । स्निग्ध: ग्राही लघुः स्वादु: त्रि-दोष-घ्नः स्थिर: हिमः ॥ ७ ॥
षष्टिको व्रीहिषु श्रेष्ठो गौरश् चासित-गौरतः । ततः क्रमान् महा-व्रीहि-कृष्ण-व्रीहि-जतूमुखाः ॥ ८ ॥
पदच्छेद:- षष्टिक: व्रीहिषु श्रेष्ठ: गौर: च असित-गौरतः । ततः क्रमान् महा-व्रीहि-कृष्ण-व्रीहि-जतूमुखाः ॥ ८ ॥
कुक्कुटाण्डक-लावाख्य-पारावतक-शूकराः । वरकोद्दालकोज्ज्वाल-चीन-शारद-दर्दुराः ॥ ९ ॥
पदच्छेद:- कुक्कुट-अण्डक-लाव-आख्य-पारावतक-शूकराः । वरक-उद्दालक-उज्ज्वाल-चीन-शारद-दर्दुराः ॥ ९ ॥
गन्धनाः कुरुविन्दाश् च गुणैर् अल्पान्तराः स्मृताः । स्वादुर् अम्ल-विपाको ऽन्यो व्रीहिः पित्त-करो गुरुः ॥ १० ॥
पदच्छेद:- गन्धनाः कुरुविन्दा: च गुणै: अल्प-अन्तराः स्मृताः । स्वादु: अम्ल-विपाक: अन्य: व्रीहिः पित्त-कर: गुरुः ॥ १० ॥
बहु-मूत्र-पुरीषोष्मा त्रि-दोषस् त्व् एव पाटलः । कङ्गु-कोद्रव-नीवार-श्यामाकादि हिमं लघु ॥ ११ ॥
पदच्छेद:- बहु-मूत्र-पुरीष-उष्मा त्रि-दोष: तु एव पाटलः । कङ्गु-कोद्रव-नीवार-श्यामाक-आदि हिमं लघु ॥ ११ ॥
तृण-धान्यं पवन-कृल् लेखनं कफ-पित्त-हृत् । भग्न-संधान-कृत् तत्र प्रियङ्गुर् बृंहणी गुरुः ॥ १२ ॥
पदच्छेद:- तृण-धान्यं पवन-कृत् लेखनं कफ-पित्त-हृत् । भग्न-संधान-कृत् तत्र प्रियङ्गु: बृंहणी गुरुः ॥ १२ ॥
कोरदूषः परं ग्राही स्पर्शे शीतो विषापहः । रूक्षः शीतो गुरुः स्वादुः सरो विड्-वात-कृद् यवः ॥ १३ ॥
पदच्छेद:- कोरदूषः परं ग्राही स्पर्शे शीत: विष-अपहः । रूक्षः शीत: गुरुः स्वादुः सर: विड्-वात-कृद् यवः ॥ १३ ॥
वृष्यः स्थैर्य-करो मूत्र-मेदः-पित्त-कफाञ् जयेत् । पीनस-श्वास-कासोरु-स्तम्भ-कण्ठ-त्वग्-आमयान् ॥ १४ ॥
पदच्छेद:- वृष्यः स्थैर्य-कर: मूत्र-मेदः-पित्त-कफान् जयेत् । पीनस-श्वास-कास-ऊरुस्तम्भ-कण्ठ-त्वग्-आमयान् ॥ १४ ॥
न्यूनो यवाद् अनु-यवो रूक्षोष्णो वंश-जो यवः । वृष्यः शीतो गुरुः स्निग्धो जीवनो वात-पित्त-हा ॥ १५ ॥
पदच्छेद:- न्यून: यवाद् अनु-यव: रूक्ष-उष्ण: वंश-जो यवः । वृष्यः शीत: गुरुः स्निग्ध: जीवन: वात-पित्त-हा ॥ १५ ॥
संधान-कारी मधुरो गोधूमः स्थैर्य-कृत् सरः । पथ्या नन्दीमुखी शीता कषाय-मधुरा लघुः ॥ १६ ॥
पदच्छेद:- संधान-कारी मधुर: गोधूमः स्थैर्य-कृत् सरः । पथ्या नन्दीमुखी शीता कषाय-मधुरा लघुः ॥ १६ ॥
निः-सारा वातला रूक्षा जूर्णाध्मान-करा सरा ॥ १६+१ ॥
पदच्छेद:- निः-सारा वातला रूक्षा जूर्णा अध्मान-करा सरा ॥ १६+१ ॥
मुद्गाढकी-मसूरादि शिम्बी-धान्यं विबन्ध-कृत् । कषायं स्वादु संग्राहि कटु-पाकं हिमं लघु ॥ १७ ॥
पदच्छेद:- मुद्ग-आढकी-मसूर-आदि शिम्बी-धान्यं विबन्ध-कृत् । कषायं स्वादु संग्राहि कटु-पाकं हिमं लघु ॥ १७ ॥
मेदः-श्लेष्मास्र-पित्तेषु हितं लेपोपसेकयोः । वरो ऽत्र मुद्गो ऽल्प-चलः कलायस् त्व् अति-वातलः ॥ १८ ॥
पदच्छेद:- मेदः-श्लेष्मा-अस्र-पित्तेषु हितं लेप-उपसेकयोः । वर: अत्र मुद्ग: अल्प-चलः कलाय: तु अति-वातलः ॥ १८ ॥
असृक्-पित्त-हरो रूक्षो वातलश् चणकः स्मृतः ॥ १८.१+१ ॥
पदच्छेद:- असृक्-पित्त-हर: रूक्ष: वातल: चणकः स्मृतः ॥ १८.१+१ ॥
राज-माषो ऽनिल-करो रूक्षो बहु-शकृद् गुरुः । उष्णाः कुलत्थाः पाके ऽम्लाः शुक्राश्म-श्वास-पीनसान् ॥ १९ ॥
पदच्छेद:- राज-माष: अनिल-कर: रूक्ष: बहु-शकृद् गुरुः । उष्णाः कुलत्थाः पाके अम्लाः शुक्र-अश्म-श्वास-पीनसान् ॥ १९ ॥
कासार्शः-कफ-वातांश् च घ्नन्ति पित्तास्र-दाः परम् । निष्पावो वात-पित्तास्र-स्तन्य-मूत्र-करो गुरुः ॥ २० ॥
पदच्छेद:- कास-अर्शः-कफ-वातान् च घ्नन्ति पित्त-अस्र-दाः परम् । निष्पाव: वात-पित्त-अस्र-स्तन्य-मूत्र-कर: गुरुः ॥ २० ॥
सरो विदाही दृक्-शुक्र-कफ-शोफ-विषापहः । माषः स्निग्धो बल-श्लेष्म-मल-पित्त-करः सरः ॥ २१ ॥
पदच्छेद:- सर: विदाही दृक्-शुक्र-कफ-शोफ-विष-अपहः । माषः स्निग्ध: बल-श्लेष्म-मल-पित्त-करः सरः ॥ २१ ॥
गुरूष्णो ऽनिल-हा स्वादुः शुक्र-वृद्धि-विरेक-कृत् । फलानि माष-वद् विद्यात् काकाण्डोलात्मगुप्तयोः ॥ २२ ॥
पदच्छेद:- गुर-उष्ण: अनिल-हा स्वादुः शुक्र-वृद्धि-विरेक-कृत् । फलानि माष-वद् विद्यात् काकाण्डोला-आत्मगुप्तयोः ॥ २२ ॥
उष्णस् त्वच्यो हिमः स्पर्शे केश्यो बल्यस् तिलो गुरुः । अल्प-मूत्रः कटुः पाके मेधाग्नि-कफ-पित्त-कृत् ॥ २३ ॥
पदच्छेद:- उष्ण: त्वच्य: हिमः स्पर्शे केश्य: बल्य: तिल: गुरुः । अल्प-मूत्रः कटुः पाके मेधा-अग्नि-कफ-पित्त-कृत् ॥ २३ ॥
स्निग्धोमा स्वादु-तिक्तोष्णा कफ-पित्त-करी गुरुः । दृक्-शुक्र-हृत् कटुः पाके तद्-वद् बीजं कुसुम्भ-जम् ॥ २४ ॥
पदच्छेद:- स्निग्धा उमा स्वादु-तिक्त-उष्णा कफ-पित्त-करी गुरुः । दृक्-शुक्र-हृत् कटुः पाके तद्-वद् बीजं कुसुम्भ-जम् ॥ २४ ॥
माषो ऽत्र सर्वेष्व् अवरो यवकः शूक-जेषु च । नवं धान्यम् अभिष्यन्दि लघु संवत्सरोषितम् ॥ २५ ॥
पदच्छेद:- माष: अत्र सर्वेषु अवर: यवकः शूक-जेषु च । नवं धान्यम् अभिष्यन्दि लघु संवत्सर-उषितम् ॥ २५ ॥
शीघ्र-जन्म तथा सूप्यं निस्-तुषं युक्ति-भर्जितम् । मण्ड-पेया-विलेपीनाम् ओदनस्य च लाघवम् ॥ २६ ॥
पदच्छेद:- शीघ्र-जन्म तथा सूप्यं निस्-तुषं युक्ति-भर्जितम् । मण्ड-पेया-विलेपीनाम् ओदनस्य च लाघवम् ॥ २६ ॥
यव-गोधूम-माषाश् च तिलाश् चाभिनवा हिताः । पुराणा वि-रसाः सूक्ष्मा न तथार्थ-करा मताः ॥ २६.१+१ ॥
पदच्छेद:- यव-गोधूम-माषा: च तिला: च अभिनवा हिताः । पुराणा: वि-रसाः सूक्ष्मा: न तथा अर्थ-करा मताः ॥ २६.१+१ ॥
यथा-पूर्वं शिवस् तत्र मण्डो वातानुलोमनः । तृड्-ग्लानि-दोष-शेष-घ्नः पाचनो धातु-साम्य-कृत् ॥ २७ ॥
पदच्छेद:- यथा-पूर्वं शिव: तत्र मण्ड: वातानुलोमनः । तृड्-ग्लानि-दोष-शेष-घ्नः पाचन: धातु-साम्य-कृत् ॥ २७ ॥
स्रोतो-मार्दव-कृत् स्वेदी संधुक्षयति चानलम् । क्षुत्-तृष्णा-ग्लानि-दौर्बल्य-कुक्षि-रोग-ज्वरापहा ॥ २८ ॥
पदच्छेद:- स्रोत:-मार्दव-कृत् स्वेदी संधुक्षयति च अनलम् । क्षुत्-तृष्णा-ग्लानि-दौर्बल्य-कुक्षि-रोग-ज्वर-अपहा ॥ २८ ॥
मलानुलोमनी पथ्या पेया दीपन-पाचनी । विलेपी ग्राहिणी हृद्या तृष्णा-घ्नी दीपनी हिता ॥ २९ ॥
पदच्छेद:- मल-अनुलोमनी पथ्या पेया दीपन-पाचनी । विलेपी ग्राहिणी हृद्या तृष्णा-घ्नी दीपनी हिता ॥ २९ ॥
व्रणाक्षि-रोग-संशुद्ध-दुर्-बल-स्नेह-पायिनाम् । सु-धौतः प्रस्रुतः स्विन्नो ऽ-त्यक्तोष्मा चौदनो लघुः ॥ ३० ॥
पदच्छेद:- व्रण-अक्षि-रोग-संशुद्ध-दुर्-बल-स्नेह-पायिनाम् । सु-धौतः प्रस्रुतः स्विन्न: अत्यक्त-उष्मा च ओदनो लघुः ॥ ३० ॥
यश् चाग्नेयौषध-क्वाथ-साधितो भृष्ट-तण्डुलः । विपरीतो गुरुः क्षीर-मांसाद्यैर् यश् च साधितः ॥ ३१ ॥
पदच्छेद:- य: च आग्नेय-औषध-क्वाथ-साधितो भृष्ट-तण्डुलः । विपरीत: गुरुः क्षीर-मांसाद्यै: य: च साधितः ॥ ३१ ॥
इति द्रव्य-क्रिया-योग-मानाद्यैः सर्वम् आदिशेत् । बृंहणः प्रीणनो वृष्यश् चक्षुष्यो व्रण-हा रसः ॥ ३२ ॥
पदच्छेद:- इति द्रव्य-क्रिया-योग-मान-आद्यैः सर्वम् आदिशेत् । बृंहणः प्रीणन: वृष्य: चक्षुष्य: व्रण-हा रसः ॥ ३२ ॥
मौद्गस्तु पथ्यः संशुद्ध-व्रण-कण्ठ-अक्षि-रोगिणाम् । वातानुलोमी कौलत्थो गुल्म-तूणी-प्रतूणि-जित् ॥ ३३ ॥
पदच्छेद:- मौद्ग: तु पथ्यः संशुद्ध-व्रण-कण्ठ-अक्षि-रोगिणाम् । वातानुलोमी कौलत्थ: गुल्म-तूणी-प्रतूणि-जित् ॥ ३३ ॥
अ-कृतं कृत-यूषं च तनु संस्कारितं रसम् । सूपम् अम्लम् अन्-अम्लं च गुरु विद्याद् यथोत्तरम् ॥ ३३+१ ॥
पदच्छेद:- अ-कृतं कृत-यूषं च तनु संस्कारितं रसम् । सूपम् अम्लम् अन्-अम्लं च गुरु विद्याद् यथोत्तरम् ॥ ३३+१ ॥
तिल-पिण्याक-विकृतिः शुष्क-शाकं विरूढकम् । शाण्डाकी-वटकं दृङ्-घ्नं दोषलं ग्लपनं गुरु ॥ ३४ ॥
पदच्छेद:- तिल-पिण्याक-विकृतिः शुष्क-शाकं विरूढकम् । शाण्डाकी-वटकं दृङ्-घ्नं दोषलं ग्लपनं गुरु ॥ ३४ ॥
रसाला बृंहणी वृष्या स्निग्धा बल्या रुचि-प्रदा । श्रम-क्षुत्-तृट्-क्लम-हरं पानकं प्रीणनं गुरु ॥ ३५ ॥
पदच्छेद:- रसाला बृंहणी वृष्या स्निग्धा बल्या रुचि-प्रदा । श्रम-क्षुत्-तृट्-क्लम-हरं पानकं प्रीणनं गुरु ॥ ३५ ॥
विष्टम्भि मूत्रलं हृद्यं यथा-द्रव्य-गुणं च तत् । लाजास् तृट्-छर्द्य्-अतीसार-मेह-मेदः-कफ-च्छिदः ॥ ३६ ॥
पदच्छेद:- विष्टम्भि मूत्रलं हृद्यं यथा-द्रव्य-गुणं च तत् । लाजा: तृट्-छर्दि -अतीसार-मेह-मेदः-कफ-च्छिदः ॥ ३६ ॥
कास-पित्तोपशमना दीपना लघवो हिमाः । पृथुका गुरवो बल्याः कफ-विष्टम्भ-कारिणः ॥ ३७ ॥
पदच्छेद:- कास-पित्त-उपशमना: दीपना: लघव: हिमाः । पृथुका: गुरव: बल्याः कफ-विष्टम्भ-कारिणः ॥ ३७ ॥
धाना विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः । सक्तवो लघवः क्षुत्-तृट्-श्रम-नेत्रामय-व्रणान् ॥ ३८ ॥
पदच्छेद:- धाना विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः । सक्तव: लघवः क्षुत्-तृट्-श्रम-नेत्र-आमय-व्रणान् ॥ ३८ ॥
घ्नन्ति संतर्पणाः पानात् सद्य एव बल-प्रदाः । नोदकान्तरितान् न द्विर् न निशायां न केवलान् ॥ ३९ ॥
पदच्छेद:- घ्नन्ति संतर्पणाः पानात् सद्य एव बल-प्रदाः । न उदक-अन्तरितान् न द्वि: न निशायां न केवलान् ॥ ३९ ॥
न भुक्त्वा न द्वि-जैश् छित्त्वा सक्तून् अद्यान् न वा बहून् । पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टि-दूषणः ॥ ४० ॥
पदच्छेद:- न भुक्त्वा न द्वि-जै: छित्त्वा सक्तून् अद्यात् न वा बहून् । पिण्याक: ग्लपन: रूक्ष: विष्टम्भी दृष्टि-दूषणः ॥ ४० ॥
रौक्ष्याद् विष्टम्भते कोष्ठे विष्टम्भि-त्वाद् विदह्यते । विदाहात् कुरुते ग्लानिं पिण्याको निशि सेवितः ॥ ४०+१ ॥
पदच्छेद:- रौक्ष्यात् विष्टम्भते कोष्ठे विष्टम्भि-त्वाद् विदह्यते । विदाहात् कुरुते ग्लानिं पिण्याक: निशि सेवितः ॥ ४०+१ ॥
वेसवारो गुरुः स्निग्धो बलोपचय-वर्धनः । मुद्गादि-जास् तु गुरवो यथा-द्रव्य-गुणानुगाः ॥ ४१ ॥
पदच्छेद:- वेसवार: गुरुः स्निग्ध: बल-उपचय-वर्धनः । मुद्ग-आदि-जा: तु गुरव: यथा-द्रव्य-गुण-अनुगाः ॥ ४१ ॥
कुकूल-कर्पर-भ्राष्ट्र-कन्द्व्-अङ्गार-विपाचितान् । एक-योनीō̃ लघून् विद्याद् अपूपान् उत्तरोत्तरम् ॥ ४२ ॥
पदच्छेद:- कुकूल-कर्पर-भ्राष्ट्र-कन्दु-अङ्गार-विपाचितान् । एक-योनीन् लघून् विद्याद् अपूपान् उत्तर-उत्तरम् ॥ ४२ ॥
हरिणैण-कुरङ्गर्क्ष-गोकर्ण-मृगमातृकाः । शश-शम्बर-चारुष्क-शरभाद्या मृगाः स्मृताः ॥ ४३ ॥
पदच्छेद:- हरिण-एण-कुरङ्ग-ऋक्ष-गोकर्ण-मृगमातृकाः । शश-शम्बर-चारुष्क-शरभ-आद्या मृगाः स्मृताः ॥ ४३ ॥
लाव-वार्तीक-वर्तीर-रक्तवर्त्मक-कुक्कुभाः । कपिञ्जलोपचक्राख्य-चकोर-कुरुबाहवः ॥ ४४ ॥
पदच्छेद:- लाव-वार्तीक-वर्तीर-रक्तवर्त्मक-कुक्कुभाः । कपिञ्जल-उपचक्र-आख्य-चकोर-कुरुबाहवः ॥ ४४ ॥
वर्तको वर्तिका चैव तित्तिरिः क्रकरः शिखी । ताम्र-चूडाख्य-बकर-गोनर्द-गिरि-वर्तिकाः ॥ ४५ ॥
पदच्छेद:- वर्तक: वर्तिका च एव तित्तिरिः क्रकरः शिखी । ताम्र-चूड-आख्य-बकर-गोनर्द-गिरि-वर्तिकाः ॥ ४५ ॥
तथा शारपदेन्द्राभ-वरटाद्याश् च विष्किराः । जीवञ्जीवक-दात्यूह-भृङ्गाह्व-शुक-सारिकाः ॥ ४६ ॥
पदच्छेद:- तथा शारपद-इन्द्र-आभ-वरट-आद्या: च विष्किराः । जीवञ्जीवक-दात्यूह-भृङ्ग-आह्व-शुक-सारिकाः ॥ ४६ ॥
लट्वा-कोकिल-हारीत-कपोत-चटकादयः । प्रतुदा भेक-गोधाहि-श्वाविद्-आद्या बिले-शयाः ॥ ४७ ॥
पदच्छेद:- लट्वा-कोकिल-हारीत-कपोत-चटकादयः । प्रतुदा भेक-गोधा-अहि-श्वाविद्-आद्या: बिले-शयाः ॥ ४७ ॥
गो-खराश्वतरोष्ट्राश्व-द्वीपि-सिंहर्क्ष-वानराः । मार्जार-मूषक-व्याघ्र-वृक-बभ्रु-तरक्षवः ॥ ४८ ॥
पदच्छेद:- गो-खर-अश्वतर-उष्ट्र-अश्व-द्वीपि-सिंह-ऋक्ष-वानराः । मार्जार-मूषक-व्याघ्र-वृक-बभ्रु-तरक्षवः ॥ ४८ ॥
लोपाक-जम्बुक-श्येन-चाष-वान्ताद-वायसाः । शशघ्नी-भास-कुरर-गृध्रोलूक-कुलिङ्गकाः ॥ ४९ ॥
पदच्छेद:- लोपाक-जम्बुक-श्येन-चाष-वान्ताद-वायसाः । शशघ्नी-भास-कुरर-गृध्र-उलूक-कुलिङ्गकाः ॥ ४९ ॥
धूमिका मधुहा चेति प्रसहा मृग-पक्षिणः । वराह-महिष-न्यङ्कु-रुरु-रोहित-वारणाः ॥ ५० ॥
पदच्छेद:- धूमिका मधुहा च इति प्रसहा: मृग-पक्षिणः । वराह-महिष-न्यङ्कु-रुरु-रोहित-वारणाः ॥ ५० ॥
सृमरश् चमरः खड्गो गवयश् च महा-मृगाः । हंस-सारस-कादम्ब-बक-कारण्डव-प्लवाः ॥ ५१ ॥
पदच्छेद:- सृमर: चमरः खड्ग: गवय: च महा-मृगाः । हंस-सारस-कादम्ब-बक-कारण्डव-प्लवाः ॥ ५१ ॥
बलाकोत्क्रोश-चक्राह्व-मद्गु-क्रौञ्चादयो ऽप्-चराः । मत्स्या रोहित-पाठीन-कूर्म-कुम्भीर-कर्कटाः ॥ ५२ ॥
पदच्छेद:- बलाक-उत्क्रोश-चक्र-आह्व-मद्गु-क्रौञ्च-आदय: अप्-चराः । मत्स्या: रोहित-पाठीन-कूर्म-कुम्भीर-कर्कटाः ॥ ५२ ॥
शुक्ति-शङ्खोद्र-शम्बूक-शफरी-वर्मि-चन्द्रिकाः । चुलूकी-नक्र-मकर-शिशुमार-तिमिङ्गिलाः ॥ ५३ ॥
पदच्छेद:- शुक्ति-शङ्ख-उद्र-शम्बूक-शफरी-वर्मि-चन्द्रिकाः । चुलूकी-नक्र-मकर-शिशुमार-तिमिङ्गिलाः ॥ ५३ ॥
राजी-चिलिचिमाद्याश् च मांसम् इत्य् आहुर् अष्ट-धा । योनिष्व् अजावी व्यामिश्र-गो-चर-त्वाद् अ-निश्चिते ॥ ५४ ॥
पदच्छेद:- राजी-चिलिचिम-आद्या: च मांसम् इति आहु: अष्ट-धा । योनिषु अजा-आवी व्यामिश्र-गो-चर-त्वाद् अ-निश्चिते ॥ ५४ ॥
मृग्यं वैष्किरिकं किं च प्रातुदं च बिले-शयम् । प्रासहं च महा-मृग्यम् अप्-चरं मात्स्यम् अष्ट-धा ॥ ५४.१+१ ॥
पदच्छेद:- मृग्यं वैष्किरिकं किं च प्रातुदं च बिले-शयम् । प्रासहं च महा-मृग्यम् अप्-चरं मात्स्यम् अष्ट-धा ॥ ५४.१+१ ॥
आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ । तत्र बद्ध-मलाः शीता लघवो जाङ्गला हिताः ॥ ५५ ॥
पदच्छेद:- आद्यान्त्या: जाङ्गलानूपा: मध्यौ साधारणौ स्मृतौ । तत्र बद्ध-मलाः शीता: लघव: जाङ्गला: हिताः ॥ ५५ ॥
पित्तोत्तरे वात-मध्ये संनिपाते कफानुगे । दीपनः कटुकः पाके ग्राही रूक्षो हिमः शशः ॥ ५६ ॥
पदच्छेद:- पित्त-उत्तरे वात-मध्ये संनिपाते कफानुगे । दीपनः कटुकः पाके ग्राही रूक्ष: हिमः शशः ॥ ५६ ॥
ईषद्-उष्ण-गुरु-स्निग्धा बृंहणा वर्तकादयः । तित्तिरिस् तेष्व् अपि वरो मेधाग्नि-बल-शुक्र-कृत् ॥ ५७ ॥
पदच्छेद:- ईषद्-उष्ण-गुरु-स्निग्धा: बृंहणा: वर्तका-आदयः । तित्तिरि: तेषु अपि वर: मेधा-अग्नि-बल-शुक्र-कृत् ॥ ५७ ॥
ग्राही वर्ण्यो ऽनिलोद्रिक्त-संनिपात-हरः परम् । नाति-पथ्यः शिखी पथ्यः श्रोत्र-स्वर-वयो-दृशाम् ॥ ५८ ॥
पदच्छेद:- ग्राही वर्ण्य: अनिल-उद्रिक्त-संनिपात-हरः परम् । न-अति-पथ्यः शिखी पथ्यः श्रोत्र-स्वर-वयो-दृशाम् ॥ ५८ ॥
तद्-वच् च कुक्कुटो वृष्यो ग्राम्यस् तु श्लेष्मलो गुरुः । मेधानल-करा हृद्याः क्रकराः सोपचक्रकाः ॥ ५९ ॥
पदच्छेद:- तद्-वत् च कुक्कुट: वृष्य: ग्राम्य: तु श्लेष्मल: गुरुः । मेधा-अनल-करा: हृद्याः क्रकराः स-उपचक्रकाः ॥ ५९ ॥
गुरुः स-लवणः काण-कपोतः सर्व-दोष-कृत् । चटकाः श्लेष्मलाः स्निग्धा वात-घ्नाः शुक्रलाः परम् ॥ ६० ॥
पदच्छेद:- गुरुः स-लवणः काण-कपोतः सर्व-दोष-कृत् । चटकाः श्लेष्मलाः स्निग्धा: वात-घ्नाः शुक्रलाः परम् ॥ ६० ॥
गुरूष्ण-स्निग्ध-मधुरा वर्गाश् चातो यथोत्तरम् । मूत्र-शुक्र-कृतो बल्या वात-घ्नाः कफ-पित्तलाः ॥ ६१ ॥
पदच्छेद:- गुरु-उष्ण-स्निग्ध-मधुरा: वर्गा: च अत: यथा-उत्तरम् । मूत्र-शुक्र-कृत: बल्या: वात-घ्नाः कफ-पित्तलाः ॥ ६१ ॥
शीता महा-मृगास् तेषु क्रव्याद-प्रसहाः पुनः । लवणानु-रसाः पाके कटुका मांस-वर्धनाः ॥ ६२ ॥
पदच्छेद:- शीता: महा-मृगा: तेषु क्रव्याद-प्रसहाः पुनः । लवण-अनु-रसाः पाके कटुका: मांस-वर्धनाः ॥ ६२ ॥
जीर्णार्शो-ग्रहणी-दोष-शोषार्तानां परं हिताः । नाति-शीत-गुरु-स्निग्धं मांसम् आजम् अ-दोषलम् ॥ ६३ ॥
पदच्छेद:- जीर्णार्श:-ग्रहणी-दोष-शोष-आर्तानां परं हिताः । न-अति-शीत-गुरु-स्निग्धं मांसम् आजम् अ-दोषलम् ॥ ६३ ॥
शरीर-धातु-सामान्याद् अन्-अभिष्यन्दि बृंहणम् । विपरीतम् अतो ज्ञेयम् आविकं बृंहणं तु तत् ॥ ६४ ॥
पदच्छेद:- शरीर-धातु-सामान्याद् अन्-अभिष्यन्दि बृंहणम् । विपरीतम् अतो ज्ञेयम् आविकं बृंहणं तु तत् ॥ ६४ ॥
शुष्क-कास-श्रमात्य्-अग्नि-विषम-ज्वर-पीनसान् । कार्श्यं केवल-वातांश् च गो-मांसं संनियच्छति ॥ ६५ ॥
पदच्छेद:- शुष्क-कास-श्रम-अति-अग्नि-विषम-ज्वर-पीनसान् । कार्श्यं केवल-वातान् च गो-मांसं संनियच्छति ॥ ६५ ॥
उष्णो गरीयान् महिषः स्वप्न-दार्ढ्य-बृहत्-त्व-कृत् । तद्-वद् वराहः श्रम-हा रुचि-शुक्र-बल-प्रदः ॥ ६६ ॥
पदच्छेद:- उष्ण: गरीयान् महिषः स्वप्न-दार्ढ्य-बृहत्-त्व-कृत् । तद्-वद् वराहः श्रम-हा रुचि-शुक्र-बल-प्रदः ॥ ६६ ॥
मत्स्याः परं कफ-कराश् चिलिचीमस् त्रि-दोष-कृत् । लाव-रोहित-गोधैणाः स्वे स्वे वर्गे वराः परम् ॥ ६७ ॥
पदच्छेद:- मत्स्याः परं कफ-कराश् चिलिचीमस् त्रि-दोष-कृत् । लाव-रोहित-गोधा-एणाः स्वे स्वे वर्गे वराः परम् ॥ ६७ ॥
मत्स्यादि-पक्षिणां चैव गुरूण्य् अण्डानि चादिशेत् । तानि स्निग्धानि वृष्याणि स्वादु-पाक-रसानि च ॥ ६७.१+१ ॥
पदच्छेद:- मत्स्य-आदि-पक्षिणां च एव गुरूणि अण्डानि च आदिशेत् । तानि स्निग्धानि वृष्याणि स्वादु-पाक-रसानि च ॥ ६७.१+१ ॥
मांसं सद्यो-हतं शुद्धं वयः-स्थं च भजेत् त्यजेत् । मृतं कृशं भृशं मेद्यं व्याधि-वारि-विषैर् हतम् ॥ ६८ ॥
पदच्छेद:- मांसं सद्य:-हतं शुद्धं वयः-स्थं च भजेत् त्यजेत् । मृतं कृशं भृशं मेद्यं व्याधि-वारि-विषै: हतम् ॥ ६८ ॥
पुं-स्त्रियोः पूर्व-पश्चार्धे गुरुणी गर्भिणी गुरुः । लघुर् योषिच् चतुष्-पात्सु विहङ्गेषु पुनः पुमान् ॥ ६९ ॥
पदच्छेद:- पुं-स्त्रियोः पूर्व-पश्चार्धे गुरुणी गर्भिणी गुरुः । लघु: योषित् चतुष्-पात्सु विहङ्गेषु पुनः पुमान् ॥ ६९ ॥
शिरः-स्कन्धोरु-पृष्ठस्य कट्याः सक्थ्नोश् च गौरवम् । तथाम-पक्वाशययोर् यथा-पूर्वं विनिर्दिशेत् ॥ ७० ॥
पदच्छेद:- शिरः-स्कन्ध-ऊरु-पृष्ठस्य कट्याः सक्थ्नो: च गौरवम् । तथा आम-पक्वाशययो: यथा-पूर्वं विनिर्दिशेत् ॥ ७० ॥
शोणित-प्रभृतीनां च धातूनाम् उत्तरोत्तरम् । मांसाद् गरीयो वृषण-मेढ्र-वृक्क-यकृद्-गुदम् ॥ ७१ ॥
पदच्छेद:- शोणित-प्रभृतीनां च धातूनाम् उत्तर-उत्तरम् । मांसाद् गरीय: वृषण-मेढ्र-वृक्क-यकृद्-गुदम् ॥ ७१ ॥
शाकं पाठा-शठी-सूषा-सुनिषण्ण-सतीन-जम् । त्रि-दोष-घ्नं लघु ग्राहि स-राज-क्षव-वास्तुकम् ॥ ७२ ॥
पदच्छेद:- शाकं पाठा-शठी-सूषा-सुनिषण्ण-सतीन-जम् । त्रि-दोष-घ्नं लघु ग्राहि स-राज-क्षव-वास्तुकम् ॥ ७२ ॥
सुनिषण्णो ऽग्नि-कृद् वृष्यस् तेषु राज-क्षवः परम् । ग्रहण्य्-अर्शो-विकार-घ्नो वर्चो-भेदि तु वास्तुकम् ॥ ७३ ॥
पदच्छेद:- सुनिषण्ण: अग्नि-कृद् वृष्य: तेषु राज-क्षवः परम् । ग्रहणी-अर्श:-विकार-घ्न: वर्च:-भेदि तु वास्तुकम् ॥ ७३ ॥
हन्ति दोष-त्रयं कुष्ठं वृष्या सोष्णा रसायनी । काकमाची सरा स्वर्या चाङ्गेर्य् अम्लाग्नि-दीपनी ॥ ७४ ॥
पदच्छेद:- हन्ति दोष-त्रयं कुष्ठं वृष्या स-उष्णा रसायनी । काकमाची सरा स्वर्या चाङ्गेरी अम्ला अग्नि-दीपनी ॥ ७४ ॥
ग्रहण्य्-अर्शो-ऽनिल-श्लेष्मन्-हितोष्णा ग्राहिणी लघुः । पटोल-सप्तलारिष्ट-शार्ङ्गष्टावल्गुजामृताः ॥ ७५ ॥
पदच्छेद:- ग्रहणी-अर्श:-अनिल-श्लेष्म-हिता उष्णा ग्राहिणी लघुः । पटोल-सप्तला-अरिष्ट-शार्ङ्गष्टा-अवल्गुजा-अमृताः ॥ ७५ ॥
वेत्राग्र-बृहती-वासा-कुतिली-तिलपर्णिकाः । मण्डूकपर्णी-कर्कोट-कारवेल्लक-पर्पटाः ॥ ७६ ॥
पदच्छेद:- वेत्र-अग्र-बृहती-वासा-कुतिली-तिलपर्णिकाः । मण्डूकपर्णी-कर्कोट-कारवेल्लक-पर्पटाः ॥ ७६ ॥
नाडी-कलाय-गोजिह्वा-वार्ताकं वनतिक्तकम् । करीरं कुलकं नन्दी कुचैला शकुलादनी ॥ ७७ ॥
पदच्छेद:- नाडी-कलाय-गोजिह्वा-वार्ताकं वनतिक्तकम् । करीरं कुलकं नन्दी कुचैला शकुलादनी ॥ ७७ ॥
कठिल्लं केम्बुकं शीतं स-कोशातक-कर्कशम् । तिक्तं पाके कटु ग्राहि वातलं कफ-पित्त-जित् ॥ ७८ ॥
पदच्छेद:- कठिल्लं केम्बुकं शीतं स-कोशातक-कर्कशम् । तिक्तं पाके कटु ग्राहि वातलं कफ-पित्त-जित् ॥ ७८ ॥
हृद्यं पटोलं कृमि-नुत् स्वादु-पाकं रुचि-प्रदम् । पित्तलं दीपनं भेदि वात-घ्नं बृहती-द्वयम् ॥ ७९ ॥
पदच्छेद:- हृद्यं पटोलं कृमि-नुत् स्वादु-पाकं रुचि-प्रदम् । पित्तलं दीपनं भेदि वात-घ्नं बृहती-द्वयम् ॥ ७९ ॥
वृषं तु वमि-कास-घ्नं रक्त-पित्त-हरं परम् । कारवेल्लं स-कटुकं दीपनं कफ-जित् परम् ॥ ८० ॥
पदच्छेद:- वृषं तु वमि-कास-घ्नं रक्त-पित्त-हरं परम् । कारवेल्लं स-कटुकं दीपनं कफ-जित् परम् ॥ ८० ॥
वार्ताकं कटु-तिक्तोष्णं मधुरं कफ-वात-जित् । स-क्षारम् अग्नि-जननं हृद्यं रुच्यम् अ-पित्तलम् ॥ ८१ ॥
पदच्छेद:- वार्ताकं कटु-तिक्त-उष्णं मधुरं कफ-वात-जित् । स-क्षारम् अग्नि-जननं हृद्यं रुच्यम् अ-पित्तलम् ॥ ८१ ॥
करीरम् आध्मान-करं कषायं स्वादु तिक्तकम् । कोशातकावल्गुजकौ भेदिनाव् अग्नि-दीपनौ ॥ ८२ ॥
पदच्छेद:- करीरम् आध्मान-करं कषायं स्वादु तिक्तकम् । कोशातक-अवल्गुजकौ भेदिनौ अग्नि-दीपनौ ॥ ८२ ॥
तण्डुलीयो हिमो रूक्षः स्वादु-पाक-रसो लघुः । मद-पित्त-विषास्र-घ्नो मुञ्जातं वात-पित्त-जित् ॥ ८३ ॥
पदच्छेद:- तण्डुलीय: हिम: रूक्षः स्वादु-पाक-रस: लघुः । मद-पित्त-विष-अस्र-घ्न: मुञ्जातं वात-पित्त-जित् ॥ ८३ ॥
स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्र-कृत् परम् । गुर्वी सरा तु पालङ्क्या मद-घ्नी चाप्य् उपोदका ॥ ८४ ॥
पदच्छेद:- स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्र-कृत् परम् । गुर्वी सरा तु पालङ्क्या मद-घ्नी च अपि उपोदका ॥ ८४ ॥
पालङ्क्या-वत् स्मृतश् चञ्चुः स तु संग्रहणात्मकः । विदारी वात-पित्त-घ्नी मूत्रला स्वादु-शीतला ॥ ८५ ॥
पदच्छेद:-पालङ्क्या-वत् स्मृत: चञ्चुः स तु संग्रहण-आत्मकः । विदारी वात-पित्त-घ्नी मूत्रला स्वादु-शीतला ॥ ८५ ॥
जीवनी बृंहणी कण्ठ्या गुर्वी वृष्या रसायनम् । चक्षुष्या सर्व-दोष-घ्नी जीवन्ती मधुरा हिमा ॥ ८६ ॥
पदच्छेद:- जीवनी बृंहणी कण्ठ्या गुर्वी वृष्या रसायनम् । चक्षुष्या सर्व-दोष-घ्नी जीवन्ती मधुरा हिमा ॥ ८६ ॥
कूष्माण्ड-तुम्ब-कालिङ्ग-कर्कार्व्-एर्वारु-तिण्डिशम् । तथा त्रपुस-चीनाक-चिर्भटं कफ-वात-कृत् ॥ ८७ ॥
पदच्छेद:- कूष्माण्ड-तुम्ब-कालिङ्ग-कर्कारु-एर्वारु-तिण्डिशम् । तथा त्रपुस-चीनाक-चिर्भटं कफ-वात-कृत् ॥ ८७ ॥
भेदि विष्टम्भ्य् अभिष्यन्दि स्वादु-पाक-रसं गुरु । वल्ली-फलानां प्रवरं कूष्माण्डं वात-पित्त-जित् ॥ ८८ ॥
पदच्छेद:- भेदि विष्टम्भि अभिष्यन्दि स्वादु-पाक-रसं गुरु । वल्ली-फलानां प्रवरं कूष्माण्डं वात-पित्त-जित् ॥ ८८ ॥
वस्ति-शुद्धि-करं वृष्यं त्रपुसं त्व् अति-मूत्रलम् । तुम्बं रूक्ष-तरं ग्राहि कालिङ्गैर्वारु-चिर्भटम् ॥ ८९ ॥
पदच्छेद:- वस्ति-शुद्धि-करं वृष्यं त्रपुसं तु अति-मूत्रलम् । तुम्बं रूक्ष-तरं ग्राहि कालिङ्ग-एर्वारु-चिर्भटम् ॥ ८९ ॥
बालं पित्त-हरं शीतं विद्यात् पक्वम् अतो ऽन्य-था । शीर्णवृन्तं तु स-क्षारं पित्तलं कफ-वात-जित् ॥ ९० ॥
पदच्छेद:- बालं पित्त-हरं शीतं विद्यात् पक्वम् अत: अन्य-था । शीर्णवृन्तं तु स-क्षारं पित्तलं कफ-वात-जित् ॥ ९० ॥
रोचनं दीपनं हृद्यम् अष्ठीलानाह-नुल् लघु । मृणाल-बिस-शालूक-कुमुदोत्पल-कन्दकम् ॥ ९१ ॥
पदच्छेद:- रोचनं दीपनं हृद्यम् अष्ठीला-आनाह-नुत् लघु । मृणाल-बिस-शालूक-कुमुद-उत्पल-कन्दकम् ॥ ९१ ॥
नन्दी-माषक-केलूट-शृङ्गाटक-कसेरुकम् । क्रौञ्चादनं कलोड्यं च रूक्षं ग्राहि हिमं गुरु ॥ ९२ ॥
पदच्छेद:- नन्दी-माषक-केलूट-शृङ्गाटक-कसेरुकम् । क्रौञ्चादनं कलोड्यं च रूक्षं ग्राहि हिमं गुरु ॥ ९२ ॥
कदम्ब-नालिका-मार्ष-कुटिञ्जर-कुतुम्बकम् । चिल्ली-लट्वाक-लोणीका-कुरूटक-गवेधुकम् ॥ ९३ ॥
पदच्छेद:- कदम्ब-नालिका-मार्ष-कुटिञ्जर-कुतुम्बकम् । चिल्ली-लट्वाक-लोणीका-कुरूटक-गवेधुकम् ॥ ९३ ॥
जीवन्त-झुञ्झ्व्-एडगज-यव-शाक-सुवर्चलाः । आलुकानि च सर्वाणि तथा सूप्यानि लक्ष्मणम् ॥ ९४ ॥
पदच्छेद:- जीवन्त-झुञ्झु-एडगज-यव-शाक-सुवर्चलाः । आलुकानि च सर्वाणि तथा सूप्यानि लक्ष्मणम् ॥ ९४ ॥
स्वादु रूक्षं स-लवणं वात-श्लेष्म-करं गुरु । शीतलं सृष्ट-विण्-मूत्रं प्रायो विष्टभ्य जीर्यति ॥ ९५ ॥
पदच्छेद:- स्वादु रूक्षं स-लवणं वात-श्लेष्म-करं गुरु । शीतलं सृष्ट-विण्-मूत्रं प्राय: विष्टभ्य जीर्यति ॥ ९५ ॥
स्विन्नं निष्पीडित-रसं स्नेहाढ्यं नाति-दोषलम् । लघु-पत्त्रा तु या चिल्ली सा वास्तुक-समा मता ॥ ९६ ॥
पदच्छेद:- स्विन्नं निष्पीडित-रसं स्नेहाढ्यं न अति-दोषलम् । लघु-पत्त्रा तु या चिल्ली सा वास्तुक-समा मता ॥ ९६ ॥
तर्कारी-वरुणं स्वादु स-तिक्तं कफ-वात-जित् । वर्षाभ्वौ काल-शाकं च स-क्षारं कटु-तिक्तकम् ॥ ९७ ॥
पदच्छेद:- तर्कारी-वरुणं स्वादु स-तिक्तं कफ-वात-जित् । वर्षाभ्वौ काल-शाकं च स-क्षारं कटु-तिक्तकम् ॥ ९७ ॥
दीपनं भेदनं हन्ति गर-शोफ-कफानिलान् । दीपनाः कफ-वात-घ्नाश् चिरिबिल्वाङ्कुराः सराः ॥ ९८ ॥
पदच्छेद:- दीपनं भेदनं हन्ति गर-शोफ-कफ-अनिलान् । दीपनाः कफ-वात-घ्ना: चिरिबिल्व-अङ्कुराः सराः ॥ ९८ ॥
संग्राहि शाल्मली-पुष्पं पित्तास्र-घ्नं विशेषतः ॥ ९८.१+१ ॥
पदच्छेद:- संग्राहि शाल्मली-पुष्पं पित्त-अस्र-घ्नं विशेषतः ॥ ९८.१+१ ॥
शतावर्य्-अङ्कुरास् तिक्ता वृष्या दोष-त्रयापहाः । रूक्षो वंश-करीरस् तु विदाही वात-पित्तलः ॥ ९९ ॥
पदच्छेद:- शतावरी-अङ्कुरा: तिक्ता: वृष्या: दोष-त्रय-अपहाः । रूक्ष: वंश-करीर: तु विदाही वात-पित्तलः ॥ ९९ ॥
पत्तूरो दीपनस् तिक्तः प्लीहार्शः-कफ-वात-जित् । कृमि-कास-कफोत्क्लेदान् कासमर्दो जयेत् सरः ॥ १०० ॥
पदच्छेद:- पत्तूर: दीपन: तिक्तः प्लीहा-अर्शः-कफ-वात-जित् । कृमि-कास-कफ-उत्क्लेदान् कासमर्द: जयेत् सरः ॥ १०० ॥
रूक्षोष्णम् अम्लं कौसुम्भं गुरु पित्त-करं सरम् । गुरूष्णं सार्षपं बद्ध-विण्-मूत्रं सर्व-दोष-कृत् ॥ १०१ ॥
पदच्छेद:- रूक्ष-उष्णम् अम्लं कौसुम्भं गुरु पित्त-करं सरम् । गुरु-उष्णं सार्षपं बद्ध-विण्-मूत्रं सर्व-दोष-कृत् ॥ १०१ ॥
यद् बालम् अ-व्यक्त-रसं किञ्-चित्-क्षारं स-तिक्तकम् । तन् मूलकं दोष-हरं लघु सोष्णं नियच्छति ॥ १०२ ॥
पदच्छेद:- यद् बालम् अ-व्यक्त-रसं किञ्-चित्-क्षारं स-तिक्तकम् । तत् मूलकं दोष-हरं लघु स-उष्णं नियच्छति ॥ १०२ ॥
गुल्म-कास-क्षय-श्वास-व्रण-नेत्र-गलामयान् । स्वराग्नि-सादोदावर्त-पीनसांश् च महत् पुनः ॥ १०३ ॥
पदच्छेद:- गुल्म-कास-क्षय-श्वास-व्रण-नेत्र-गल-आमयान् । स्वर-अग्नि-साद-उदावर्त-पीनसान् च महत् पुनः ॥ १०३ ॥
रसे पाके च कटुकम् उष्ण-वीर्यं त्रि-दोष-कृत् । गुर्व् अभिष्यन्दि च स्निग्ध-सिद्धं तद् अपि वात-जित् ॥ १०४ ॥
पदच्छेद:- रसे पाके च कटुकम् उष्ण-वीर्यं त्रि-दोष-कृत् । गुरु अभिष्यन्दि च स्निग्ध-सिद्धं तद् अपि वात-जित् ॥ १०४ ॥
वात-श्लेष्म-हरं शुष्कं सर्वम् आमं तु दोषलम् । कटूष्णो वात-कफ-हा पिण्डालुः पित्त-वर्धनः ॥ १०५ ॥
पदच्छेद:- वात-श्लेष्म-हरं शुष्कं सर्वम् आमं तु दोषलम् । कटु-उष्णो वात-कफ-हा पिण्डालुः पित्त-वर्धनः ॥ १०५ ॥
कुठेर-शिग्रु-सुरस-सुमुखासुरि-भूस्तृणम् । फणिज्जार्जक-जम्बीर-प्रभृति ग्राहि शालनम् ॥ १०६ ॥
पदच्छेद:- कुठेर-शिग्रु-सुरस-सुमुख-आसुरि-भूस्तृणम् । फणिज्ज-आर्जक-जम्बीर-प्रभृति ग्राहि शालनम् ॥ १०६ ॥
विदाहि कटु रूक्षोष्णं हृद्यं दीपन-रोचनम् । दृक्-शुक्र-कृमि-हृत् तीक्ष्णं दोषोत्क्लेश-करं लघु ॥ १०७ ॥
पदच्छेद:- विदाहि कटु रूक्ष-उष्णं हृद्यं दीपन-रोचनम् । दृक्-शुक्र-कृमि-हृत् तीक्ष्णं दोष-उत्क्लेश-करं लघु ॥ १०७ ॥
हिध्मा-कास-विष-श्वास-पार्श्व-रुक्-पूति-गन्ध-हा । सुरसः सुमुखो नाति-विदाही गर-शोफ-हा ॥ १०८ ॥
पदच्छेद:- हिध्मा-कास-विष-श्वास-पार्श्व-रुक्-पूति-गन्ध-हा । सुरसः सुमुखो न अति-विदाही गर-शोफ-हा ॥ १०८ ॥
आर्द्रिका तिक्त-मधुरा मूत्रला न च पित्त-कृत् । लशुनो भृश-तीक्ष्णोष्णः कटु-पाक-रसः सरः ॥ १०९ ॥
पदच्छेद:- आर्द्रिका तिक्त-मधुरा मूत्रला न च पित्त-कृत् । लशुन: भृश-तीक्ष्ण-उष्णः कटु-पाक-रसः सरः ॥ १०९ ॥
हृद्यः केश्यो गुरुर् वृष्यः स्निग्धो रोचन-दीपनः । भग्न-संधान-कृद् बल्यो रक्त-पित्त-प्रदूषणः ॥॥ ११० ॥
पदच्छेद:- हृद्यः केश्य: गुरु: वृष्यः स्निग्ध: रोचन-दीपनः । भग्न-संधान-कृद् बल्य: रक्त-पित्त-प्रदूषणः११० ॥
किलास-कुष्ठ-गुल्मार्शो-मेह-कृमि-कफानिलान् । स-हिध्मा-पीनस-श्वास-कासान् हन्ति रसायनम् ॥ १११ ॥
पदच्छेद:- किलास-कुष्ठ-गुल्म-अर्श:-मेह-कृमि-कफ-अनिलान् । स-हिध्मा-पीनस-श्वास-कासान् हन्ति रसायनम् ॥ १११ ॥
पलाण्डुस् तद्-गुण-न्यूनः श्लेष्मलो नाति-पित्तलः । कफ-वातार्शसां पथ्यः स्वेदे ऽभ्यवहृतौ तथा ॥ ११२ ॥
पदच्छेद:- पलाण्डु: तद्-गुण-न्यूनः श्लेष्मल: न अति-पित्तलः । कफ-वात-अर्शसां पथ्यः स्वेदे अभ्यवहृतौ तथा ॥११२ ॥
तीक्ष्णो गृञ्जनको ग्राही पित्तिनां हित-कृन् न सः । दीपनः सूरणो रुच्यः कफ-घ्नो विशदो लघुः ॥ ११३ ॥
पदच्छेद:- तीक्ष्ण: गृञ्जनक: ग्राही पित्तिनां हित-कृत् न सः । दीपनः सूरण: रुच्यः कफ-घ्न: विशद: लघुः ॥ ११३ ॥
विशेषाद् अर्शसां पथ्यो भू-कन्दस् त्व् अति-दोषलः । पत्त्रे पुष्पे फले नाले कन्दे च गुरु-ता क्रमात् ॥ ११४ ॥
पदच्छेद:- विशेषाद् अर्शसां पथ्य: भू-कन्द: तु अति-दोषलः । पत्त्रे पुष्पे फले नाले कन्दे च गुरु-ता क्रमात् ॥ ११४ ॥
वरा शाकेषु जीवन्ती सार्षपं त्व् अवरं परम् । द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्ट-मूत्र-विट् ॥ ११५ ॥
पदच्छेद:- वरा शाकेषु जीवन्ती सार्षपं तु अवरं परम् । द्राक्षा फल-उत्तमा वृष्या चक्षुष्या सृष्ट-मूत्र-विट् ॥ ११५ ॥
स्वादु-पाक-रसा स्निग्धा स-कषाया हिमा गुरुः । निहन्त्य् अनिल-पित्तास्र-तिक्तास्य-त्व-मदात्ययान् ॥ ११६ ॥
पदच्छेद:- स्वादु-पाक-रसा स्निग्धा स-कषाया हिमा गुरुः । निहन्ति अनिल-पित्त-अस्र-तिक्त-आस्यत्व-मद-अत्ययान् ॥ ११६ ॥
तृष्णा-कास-श्रम-श्वास-स्वर-भेद-क्षत-क्षयान् । उद्रिक्त-पित्ताञ् जयति त्रीन् दोषान् स्वादु दाडिमम् ॥ ११७ ॥
पदच्छेद:- तृष्णा-कास-श्रम-श्वास-स्वर-भेद-क्षत-क्षयान् । उद्रिक्त-पित्तान् जयति त्रीन् दोषान् स्वादु दाडिमम् ॥ ११७ ॥
पित्ता-विरोधि नात्य्-उष्णम् अम्लं वात-कफापहम् । सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचन-दीपनम् ॥ ११८ ॥
पदच्छेद:- पित्त-अविरोधि न अति-उष्णम् अम्लं वात-कफ-अपहम् । सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचन-दीपनम् ॥ ११८ ॥
मोच-खर्जूर-पनस-नारिकेल-परूषकम् । आम्रात-ताल-काश्मर्य-राजादन-मधूक-जम् ॥ ११९ ॥
पदच्छेद:- मोच-खर्जूर-पनस-नारिकेल-परूषकम् । आम्रात-ताल-काश्मर्य-राजादन-मधूक-जम् ॥ ११९ ॥
सौवीर-बदराङ्कोल्ल-फल्गु-श्लेष्मातकोद्भवम् । वातामाभिषुकाक्षोट-मुकूलक-निकोचकम् ॥ १२० ॥
पदच्छेद:- सौवीर-बदरा--अङ्कोल्ल-फल्गु-श्लेष्मातक-उद्भवम् । वाताम-अभिषुक-आक्षोट-मुकूलक-निकोचकम् ॥ १२० ॥
उरुमाणं प्रियालं च बृंहणं गुरु शीतलम् । दाह-क्षत-क्षय-हरं रक्त-पित्त-प्रसादनम् ॥ १२१ ॥
पदच्छेद:- उरुमाणं प्रियालं च बृंहणं गुरु शीतलम् । दाह-क्षत-क्षय-हरं रक्त-पित्त-प्रसादनम् ॥ १२१ ॥
स्वादु-पाक-रसं स्निग्धं विष्टम्भि कफ-शुक्र-कृत् । फलं तु पित्तलं तालं सरं काश्मर्य-जं हिमम् ॥ १२२ ॥
पदच्छेद:- स्वादु-पाक-रसं स्निग्धं विष्टम्भि कफ-शुक्र-कृत् । फलं तु पित्तलं तालं सरं काश्मर्य-जं हिमम् ॥ १२२ ॥
शकृन्-मूत्र-विबन्ध-घ्नं केश्यं मेध्यं रसायनम् । वातामाद्य् उष्ण-वीर्यं तु कफ-पित्त-करं सरम् ॥ १२३ ॥
पदच्छेद:- शकृत्-मूत्र-विबन्ध-घ्नं केश्यं मेध्यं रसायनम् । वातामादि उष्ण-वीर्यं तु कफ-पित्त-करं सरम् ॥ १२३ ॥
परं वात-हरं स्निग्धम् अन्-उष्णं तु प्रियाल-जम् । प्रियाल-मज्जा मधुरो वृष्यः पित्तानिलापहः ॥ १२४ ॥
पदच्छेद:- परं वात-हरं स्निग्धम् अन्-उष्णं तु प्रियाल-जम् । प्रियाल-मज्जा मधुरो वृष्यः पित्त-अनिल-अपहः ॥ १२४ ॥
कोल-मज्जा गुणैस् तद्-वत् तृट्-छर्दिः-कास-जिच् च सः । पक्वं सु-दुर्-जरं बिल्वं दोषलं पूति-मारुतम् ॥ १२५ ॥
पदच्छेद:- कोल-मज्जा गुणै: तद्-वत् तृट्-छर्दिः-कास-जित् च सः । पक्वं सु-दुर्जरं बिल्वं दोषलं पूति-मारुतम् ॥ १२५ ॥
दीपनं कफ-वात-घ्नं बालं ग्राह्य् उभयं च तत् । कपित्थम् आमं कण्ठ-घ्नं दोषलं दोष-घाति तु ॥ १२६ ॥
पदच्छेद:- दीपनं कफ-वातघ्नं बालं ग्राहि उभयं च तत् । कपित्थम् आमं कण्ठ-घ्नं दोषलं दोष-घाति तु ॥ १२६ ॥
पक्वं हिध्मा-वमथु-जित् सर्वं ग्राहि विषापहम् । जाम्बवं गुरु विष्टम्भि शीतलं भृश-वातलम् ॥ १२७ ॥
पदच्छेद:- पक्वं हिध्मा-वमथु-जित् सर्वं ग्राहि विष-अपहम् । जाम्बवं गुरु विष्टम्भि शीतलं भृश-वातलम् ॥ १२७ ॥
संग्राहि मूत्र-शकृतोर् अ-कण्ठ्यं कफ-पित्त-जित् । वात-पित्तास्र-कृद् बालं बद्धास्थि कफ-पित्त-कृत् ॥ १२८ ॥
पदच्छेद:- संग्राहि मूत्र-शकृतो: अ-कण्ठ्यं कफ-पित्त-जित् । वात-पित्त-अस्र-कृद् बालं बद्धास्थि कफ-पित्त-कृत् ॥ १२८ ॥
गुर्व् आम्रं वात-जित् पक्वं स्वाद्व् अम्लं कफ-शुक्र-कृत् । वृक्षाम्लं ग्राहि रूक्षोष्णं वात-श्लेष्म-हरं लघु ॥ १२९ ॥
पदच्छेद:- गुरु आम्रं वात-जित् पक्वं स्वादु अम्लं कफ-शुक्र-कृत् । वृक्ष-अम्लं ग्राहि रूक्ष-उष्णं वात-श्लेष्म-हरं लघु ॥ १२९ ॥
तृष्णा-घ्नम् उष्णम् अम्लायाः फलं पित्त-करं सरम् ॥ १२९.१+१ ॥
पदच्छेद:- तृष्णा-घ्नम् उष्णम् अम्लायाः फलं पित्त-करं सरम् ॥ १२९.१+१ ॥
शम्या गुरूष्णं केश-घ्नं रूक्षं पीलु तु पित्तलम् । कफ-वात-हरं भेदि प्लीहार्शः-कृमि-गुल्म-नुत् ॥ १३० ॥
पदच्छेद:- शम्या गुरु-उष्णं केश-घ्नं रूक्षं पीलु तु पित्तलम् । कफ-वात-हरं भेदि प्लीहा-अर्शः-कृमि-गुल्म-नुत् ॥ १३० ॥
स-तिक्तं स्वादु यत् पीलु नात्य्-उष्णं तत् त्रि-दोष-जित् । त्वक् तिक्त-कटुका स्निग्धा मातुलुङ्गस्य वात-जित् ॥ १३१ ॥
पदच्छेद:- स-तिक्तं स्वादु यत् पीलु न अति-उष्णं तत् त्रि-दोष-जित् । त्वक् तिक्त-कटुका स्निग्धा मातुलुङ्गस्य वात-जित् ॥ १३१ ॥
बृंहणं मधुरं मांसं वात-पित्त-हरं गुरु । लघु तत्-केसरं कास-श्वास-हिध्मा-मदात्ययान् ॥ १३२ ॥
पदच्छेद:- बृंहणं मधुरं मांसं वात-पित्त-हरं गुरु । लघु तत्-केसरं कास-श्वास-हिध्मा-मद-अत्ययान् ॥ १३२ ॥
आस्य-शोषानिल-श्लेष्म-विबन्ध-च्छर्द्य्-अ-रोचकान् । गुल्मोदरार्शः-शूलानि मन्दाग्नि-त्वं च नाशयेत् ॥ १३३ ॥
पदच्छेद:- आस्य-शोष-अनिल-श्लेष्म-विबन्ध-च्छर्दि-अरोचकान् । गुल्म-उदरार्शः-शूलानि मन्द-अग्नित्वं च नाशयेत् ॥ १३३ ॥
मधुरं किञ्-चिद् अम्लं च हृद्यं भक्त-प्ररोचकम् । गुरु वात-प्रशमनं विद्यान् नारङ्ग-जं फलम् ॥ १३३+१ ॥
पदच्छेद:- मधुरं किञ्-चिद् अम्लं च हृद्यं भक्त-प्ररोचकम् । गुरु वात-प्रशमनं विद्यात् नारङ्ग-जं फलम् ॥ १३३+१ ॥
भल्लातकस्य त्वङ्-मांसं बृंहणं स्वादु शीतलम् । तद्-अस्थ्य्-अग्नि-समं मेध्यं कफ-वात-हरं परम् ॥१३४ ॥
पदच्छेद:- भल्लातकस्य त्वक्-मांसं बृंहणं स्वादु शीतलम् । तद्-अस्थि अग्नि-समं मेध्यं कफ-वात-हरं परम् ॥ १३४ ॥
स्वाद्व् अम्लं शीतम् उष्णं च द्वि-धा पालेवतं गुरु । रुच्यम् अत्य्-अग्नि-शमनं रुच्यं मधुरम् आरुकम् ॥ १३५ ॥
पदच्छेद:- स्वादु अम्लं शीतम् उष्णं च द्वि-धा पालेवतं गुरु । रुच्यम् अति-अग्नि-शमनं रुच्यं मधुरम् आरुकम् ॥ १३५ ॥
पक्वम् आशु जरां याति नात्य्-उष्ण-गुरु-दोषलम् । द्राक्षा-परूषकं चार्द्रम् अम्लं पित्त-कफ-प्रदम् ॥ १३६ ॥
पदच्छेद:- पक्वम् आशु जरां याति न अति-उष्ण-गुरु-दोषलम् । द्राक्षा-परूषकं च आर्द्रम् अम्लं पित्त-कफ-प्रदम् ॥ १३६ ॥
गुरूष्ण-वीर्यं वात-घ्नं सरं स-करमर्दकम् । तथाम्लं कोल-कर्कन्धु-लिकुचाम्रातकारुकम् ॥ १३७ ॥
पदच्छेद:- गुर-उष्ण-वीर्यं वात-घ्नं सरं स-करमर्दकम् । तथा अम्लं कोल-कर्कन्धु-लिकुच-आम्रातक-आरुकम् ॥ १३७ ॥
ऐरावतं दन्तशठं स-तूदं मृगलिण्डिकम् । नाति-पित्त-करं पक्वं शुष्कं च करमर्दकम् ॥ १३८ ॥
पदच्छेद:- ऐरावतं दन्तशठं स-तूदं मृगलिण्डिकम् । नाति-पित्त-करं पक्वं शुष्कं च करमर्दकम् ॥ १३८ ॥
दीपनं भेदनं शुष्कम् अम्लीका-कोलयोः फलम् । तृष्णा-श्रम-क्लम-च्छेदि लघ्व् इष्टं कफ-वातयोः ॥ १३९ ॥
पदच्छेद:- दीपनं भेदनं शुष्कम् अम्लीका-कोलयोः फलम् । तृष्णा-श्रम-क्लम-च्छेदि लघु इष्टं कफ-वातयोः ॥ १३९ ॥
स्वाद्व् अम्लं लघु कोलं तु शुष्कं जीर्णं च दीपनम् ॥ १३९.१+१ ॥
पदच्छेद:- स्वादु अम्लं लघु कोलं तु शुष्कं जीर्णं च दीपनम् ॥ १३९.१+१ ॥
फलानाम् अवरं तत्र लिकुचं सर्व-दोष-कृत् । हिमानलोष्ण-दुर्-वात-व्याल-लालादि-दूषितम् ॥ १४० ॥
पदच्छेद:- फलानाम् अवरं तत्र लिकुचं सर्व-दोष-कृत् । हिम-अनल-उष्ण-दुर्वात-व्याल-लाला-आदि-दूषितम् ॥ १४० ॥
वात-घ्नं दुर्-जरं प्रोक्तं नारङ्गं कफ-कृद् गुरु । तृष्णा-शूल-कफोत्क्लेद-च्छर्दि-श्वास-निवारणम् ॥ १४०.१+१ ॥
पदच्छेद:- वात-घ्नं दुर्-जरं प्रोक्तं नारङ्गं कफ-कृद् गुरु । तृष्णा-शूल-कफ-उत्क्लेद-च्छर्दि-श्वास-निवारणम् ॥ १४०.१+१ ॥
नारिकेलं गुरु स्निग्धं पित्त-घ्नं स्वादु शीतलम् । बल-मांस-करं हृद्यं बृंहणं वस्ति-शोधनम् ॥ १४०.१+२ ॥
पदच्छेद:- नारिकेलं गुरु स्निग्धं पित्त-घ्नं स्वादु शीतलम् । बल-मांस-करं हृद्यं बृंहणं वस्ति-शोधनम् ॥ १४०.१+२ ॥
जन्तु-जुष्टं जले मग्नम् अ-भूमि-जम् अन्-आर्तवम् । अन्य-धान्य-युतं हीन-वीर्यं जीर्ण-तयाति च ॥ १४१ ॥
पदच्छेद:- जन्तु-जुष्टं जले मग्नम् अ-भूमि-जम् अन्-आर्तवम् । अन्य-धान्य-युतं हीन-वीर्यं जीर्णतया अति च ॥ १४१ ॥
धान्यं त्यजेत् तथा शाकं रूक्ष-सिद्धम् अ-कोमलम् । अ-संजात-रसं तद्-वच् छुष्कं चान्य-त्र मूलकात् ॥ १४२ ॥
पदच्छेद:- धान्यं त्यजेत् तथा शाकं रूक्ष-सिद्धम् अ-कोमलम् । अ-संजात-रसं तद्-वत् शुष्कं च अन्यत्र मूलकात् ॥ १४२ ॥
प्रायेण फलम् अप्य् एवं तथामं बिल्व-वर्जितम् । विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्ट-मलं विदुः ॥ १४३ ॥
पदच्छेद:- प्रायेण फलम् अपि एवं तथा आमं बिल्व-वर्जितम् । विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्ट-मलं विदुः ॥ १४३ ॥
वात-घ्नं पाकि तीक्ष्णोष्णं रोचनं कफ-पित्त-कृत् । सैन्धवं तत्र स-स्वादु वृष्यं हृद्यं त्रि-दोष-नुत् ॥ १४४ ॥
पदच्छेद:- वात-घ्नं पाकि तीक्ष्ण-उष्णं रोचनं कफ-पित्त-कृत् । सैन्धवं तत्र स-स्वादु वृष्यं हृद्यं त्रि-दोष-नुत् ॥ १४४ ॥
लघ्व् अन्-उष्णं दृशः पथ्यम् अ-विदाह्य् अग्नि-दीपनम् । लघु सौवर्चलं हृद्यं सु-गन्ध्य् उद्गार-शोधनम् ॥ १४५ ॥
पदच्छेद:- लघु अन्-उष्णं दृशः पथ्यम् अ-विदाहि अग्नि-दीपनम् । लघु सौवर्चलं हृद्यं सु-गन्धि उद्गार-शोधनम् ॥ १४५ ॥
कटु-पाकं विबन्ध-घ्नं दीपनीयं रुचि-प्रदम् । ऊर्ध्वाधः-कफ-वातानुलोमनं दीपनं विडम् ॥ १४६ ॥
पदच्छेद:- कटु-पाकं विबन्ध-घ्नं दीपनीयं रुचि-प्रदम् । ऊर्ध्व-अधः-कफ-वात-अनुलोमनं दीपनं विडम् ॥ १४६ ॥
विबन्धानाह-विष्टम्भ-शूल-गौरव-नाशनम् । विपाके स्वादु सामुद्रं गुरु श्लेष्म-विवर्धनम् ॥ १४७ ॥
पदच्छेद:- विबन्ध-आनाह-विष्टम्भ-शूल-गौरव-नाशनम् । विपाके स्वादु सामुद्रं गुरु श्लेष्म-विवर्धनम् ॥ १४७ ॥
स-तिक्त-कटुक-क्षारं तीक्ष्णम् उत्क्लेदि चौद्भिदम् । कृष्णे सौवर्चल-गुणा लवणे गन्ध-वर्जिताः ॥ १४८ ॥
पदच्छेद:- स-तिक्त-कटुक-क्षारं तीक्ष्णम् उत्क्लेदि च औद्भिदम् । कृष्णे सौवर्चल-गुणा लवणे गन्ध-वर्जिताः ॥ १४८ ॥
रोमकं लघु पांसूत्थं स-क्षारं श्लेष्मलं गुरु । लवणानां प्रयोगे तु सैन्धवादि प्रयोजयेत् ॥ १४९ ॥
पदच्छेद:- रोमकं लघु पांसूत्थं स-क्षारं श्लेष्मलं गुरु । लवणानां प्रयोगे तु सैन्धवादि प्रयोजयेत् ॥ १४९ ॥
गुल्म-हृद्-ग्रहणी-पाण्डु-प्लीहानाह-गलामयान् । श्वासार्शः-कफ-कासांश् च शमयेद् यव-शूक-जः ॥ १५० ॥
पदच्छेद:- गुल्म-हृद्-ग्रहणी-पाण्डु-प्लीह-आनाह-गल-आमयान् । श्वास-अर्शः-कफ-कासान् च शमयेद् यव-शूक-जः ॥ १५० ॥
क्षारः सर्वश् च परमं तीक्ष्णोष्णः कृमि-जिल् लघुः । पित्तासृग्-दूषणः पाकी छेद्य् अ-हृद्यो विदारणः ॥ १५१ ॥
पदच्छेद:- क्षारः सर्व: च परमं तीक्ष्ण-उष्णः कृमि-जित् लघुः । पित्त-असृक्-दूषणः पाकी छेदी अ-हृद्यो विदारणः ॥ १५१ ॥
अ-पथ्यः कटु-लावण्याच् छुक्रौजः-केश-चक्षुषाम् । हिङ्गु वात-कफानाह-शूल-घ्नं पित्त-कोपनम् ॥ १५२ ॥
पदच्छेद:- अ-पथ्यः कटु-लावण्यात् शुक्र-ओजः-केश-चक्षुषाम् । हिङ्गु वात-कफ-आनाह-शूल-घ्नं पित्त-कोपनम् ॥ १५२ ॥
कटु-पाक-रसं रुच्यं दीपनं पाचनं लघु । कषाया मधुरा पाके रूक्षा वि-लवणा लघुः ॥ १५३ ॥
पदच्छेद:- कटु-पाक-रसं रुच्यं दीपनं पाचनं लघु । कषाया मधुरा पाके रूक्षा वि-लवणा लघुः ॥ १५३ ॥
दीपनी पाचनी मेध्या वयसः स्थापनी परम् । उष्ण-वीर्या सरायुष्या बुद्धीन्द्रिय-बल-प्रदा ॥ १५४ ॥
पदच्छेद:- दीपनी पाचनी मेध्या वयसः स्थापनी परम् । उष्ण-वीर्या सरा आयुष्या बुद्धि-इन्द्रिय-बल-प्रदा ॥ १५४ ॥
कुष्ठ-वैवर्ण्य-वैस्वर्य-पुराण-विषम-ज्वरान् । शिरो-ऽक्षि-पाण्डु-हृद्-रोग-कामला-ग्रहणी-गदान् ॥ १५५ ॥
पदच्छेद:- कुष्ठ-वैवर्ण्य-वैस्वर्य-पुराण-विषम-ज्वरान् । शिर:-अक्षि-पाण्डु-हृद्-रोग-कामला-ग्रहणी-गदान् ॥ १५५ ॥
स-शोष-शोफातीसार-मेद-मोह-वमि-कृमीन् । श्वास-कास-प्रसेकार्शः-प्लीहानाह-गरोदरम् ॥ १५६ ॥
पदच्छेद:- स-शोष-शोफ-अतीसार-मेद-मोह-वमि-कृमीन् । श्वास-कास-प्रसेक-अर्शः-प्लीह-आनाह-गर-उदरम् ॥ १५६ ॥
विबन्धं स्रोतसां गुल्मम् ऊरु-स्तम्भम् अ-रोचकम् । हरीतकी जयेद् व्याधींस् तांस् तांश् च कफ-वात-जान् ॥ १५७ ॥
पदच्छेद:- विबन्धं स्रोतसां गुल्मम् ऊरु-स्तम्भम् अ-रोचकम् । हरीतकी जयेत् व्याधीन् तान् तान् च कफ-वात-जान् ॥ १५७ ॥
तद्-वद् आमलकं शीतम् अम्लं पित्त-कफापहम् । कटु पाके हिमं केश्यम् अक्षम् ईषच् च तद्-गुणम् ॥ १५८ ॥
पदच्छेद:- तद्-वद् आमलकं शीतम् अम्लं पित्त-कफ-अपहम् । कटु पाके हिमं केश्यम् अक्षम् ईषत् च तद्-गुणम् ॥ १५८ ॥
इयं रसायन-वरा त्रि-फलाक्ष्य्-आमयापहा । रोपणी त्वग् गद-क्लेद-मेदो-मेह-कफास्र-जित् ॥ १५९ ॥
पदच्छेद:- इयं रसायन-वरा त्रि-फला अक्षि-आमय-अपहा । रोपणी त्वग्-गद-क्लेद-मेदो-मेह-कफ-अस्र-जित् ॥ १५९ ॥
स-केसरं चतुर्-जातं त्वक्-पत्त्रैलं त्रि-जातकम् । पित्त-प्रकोपि तीक्ष्णोष्णं रूक्षं रोचन-दीपनम् ॥ १६० ॥
पदच्छेद:- स-केसरं चतुर्-जातं त्वक्-पत्र-एलं त्रि-जातकम् । पित्त-प्रकोपि तीक्ष्ण-उष्णं रूक्षं रोचन-दीपनम् ॥ १६० ॥
सु-गन्धि सर्व-पेयानां व्यञ्जनानां च वासनम् । लेहानां खाद्य-पाकानां चूर्णानां च प्रयोजयेत् ॥ १६०.१+१ ॥
पदच्छेद:- सु-गन्धि सर्व-पेयानां व्यञ्जनानां च वासनम् । लेहानां खाद्य-पाकानां चूर्णानां च प्रयोजयेत् ॥ १६०.१+१ ॥
रसे पाके च कटुकं कफ-घ्नं मरिचं लघु । श्लेष्मला स्वादु-शीतार्द्रा गुर्वी स्निग्धा च पिप्पली ॥ १६१ ॥
पदच्छेद:- रसे पाके च कटुकं कफ-घ्नं मरिचं लघु । श्लेष्मला स्वादु-शीता आर्द्रा गुर्वी स्निग्धा च पिप्पली ॥ १६१ ॥
सा शुष्का विपरीतातः स्निग्धा वृष्या रसे कटुः । स्वादु-पाकानिल-श्लेष्म-श्वास-कासापहा सरा ॥ १६२ ॥
पदच्छेद:- सा शुष्का विपरीता अतः स्निग्धा वृष्या रसे कटुः । स्वादु-पाका अनिल-श्लेष्म-श्वास-कास-अपहा सरा ॥ १६२ ॥
न ताम् अत्य् उपयुञ्जीत रसायन-विधिं विना । नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्ध-नुत् ॥ १६३ ॥
पदच्छेद:- न ताम् अति उपयुञ्जीत रसायन-विधिं विना । नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्ध-नुत् ॥ १६३ ॥
रुच्यं लघु स्वादु-पाकं स्निग्धोष्णं कफ-वात-जित् । तद्-वद् आर्द्रकम् एतच् च त्रयं त्रि-कटुकं जयेत् ॥ १६४ ॥
पदच्छेद:- रुच्यं लघु स्वादु-पाकं स्निग्ध-उष्णं कफ-वात-जित् । तद्-वद् आर्द्रकम् एतत् च त्रयं त्रि-कटुकं जयेत् ॥ १६४ ॥
स्थौल्याग्नि-सदन-श्वास-कास-श्लीपद-पीनसान् । चविका-पिप्पली-मूलं मरिचाल्पान्तरं गुणैः ॥ १६५ ॥
पदच्छेद:- स्थौल्य-अग्नि-सदन-श्वास-कास-श्लीपद-पीनसान् । चविका-पिप्पली-मूलं मरिच-अल्पान्तरं गुणैः ॥ १६५ ॥
चित्रको ऽग्नि-समः पाके शोफार्शः-कृमि-कुष्ठ-हा । पञ्च-कोलकम् एतच् च मरिचेन विना स्मृतम् ॥ १६६ ॥
पदच्छेद:- चित्रक: अग्नि-समः पाके शोफ-अर्शः-कृमि-कुष्ठ-हा । पञ्च-कोलकम् एतत् च मरिचेन विना स्मृतम् ॥ १६६ ॥
गुल्म-प्लीहोदरानाह-शूल-घ्नं दीपनं परम् । बिल्व-काश्मर्य-तर्कारी-पाटला-टुण्टुकैर् महत् ॥ १६७ ॥
पदच्छेद:- गुल्म-प्लीह-उदर-आनाह-शूल-घ्नं दीपनं परम् । बिल्व-काश्मर्य-तर्कारी-पाटला-टुण्टुकै: महत् ॥ १६७ ॥
जयेत् कषाय-तिक्तोष्णं पञ्च-मूलं कफानिलौ । ह्रस्वं बृहत्य्-अंशुमती-द्वय-गोक्षुरकैः स्मृतम् ॥ १६८ ॥
पदच्छेद:- जयेत् कषाय-तिक्त-उष्णं पञ्च-मूलं कफ-अनिलौ । ह्रस्वं बृहती-अंशुमती-द्वय-गोक्षुरकैः स्मृतम् ॥ १६८ ॥
स्वादु-पाक-रसं नाति-शीतोष्णं सर्व-दोष-जित् । बला-पुनर्नवैरण्ड-शूर्पपर्णी-द्वयेन तु ॥ १६९ ॥
पदच्छेद:- स्वादु-पाक-रसं न अति-शीत-उष्णं सर्व-दोष-जित् । बला-पुनर्नवा-एरण्ड-शूर्पपर्णी-द्वयेन तु ॥ १६९ ॥
मध्यमं कफ-वात-घ्नं नाति-पित्त-करं सरम् । अभीरु-वीरा-जीवन्ती-जीवकर्षभकैः स्मृतम् ॥ १७० ॥
पदच्छेद:- मध्यमं कफ-वात-घ्नं न अति-पित्त-करं सरम् । अभीरु-वीरा-जीवन्ती-जीवक-ऋषभकैः स्मृतम् ॥ १७० ॥
जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम् । तृणाख्यं पित्त-जिद् दर्भ-काशेक्षु-शर-शालिभिः ॥ १७१ ॥
पदच्छेद:- जीवन-आख्यं तु चक्षुष्यं वृष्यं पित्त-अनिल-अपहम् । तृण-आख्यं पित्त-जित् दर्भ-काश-इक्षु-शर-शालिभिः ॥ १७१ ॥
शूक-शिम्बी-ज-पक्वान्न-मांस-शाक-फलौषधैः । वर्गितैर् अन्न-लेशो ऽयम् उक्तो नित्योपयोगिकः ॥ १७२ ॥
पदच्छेद:- शूक-शिम्बी-ज-पक्व-अन्न-मांस-शाक-फल-औषधैः । वर्गितै: अन्न-लेश: अयम् उक्त: नित्य-उपयोगिकः ॥ १७२ ॥