महाभारतम्

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

महाभारतम् ( Sanskrit Essay on Mahabharata )

महाभारतम् महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्दं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्मार्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य महाभारतस्य भीष्मपर्वणि श्रीमद्‌भगवद्‌गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव

महाभारतम्(आङ्ग्लभाषा Mahabharata) महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्धं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्म-अर्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य महाभारतस्य भीष्मपर्वणिश्रीमद्‌भगवद्‌गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव।

महाभारतस्य रचनाकालः नामकरणञ्च

महाभारतग्रन्थः त्रिभिः सवंत्सरैः विरचितं च -

त्रिभिर्वर्षैः सदोत्थाय कृष्णद्वैपायनो मुनिः।

महाभारतमाख्यानं कृतवानिदमद्भुतम्॥

इदं प्रायः सर्वे भारतीया विद्वांसो मन्यन्ते यत् महाभारतं प्राग् जयनाम्ना ततो भारतनाम्ना ततः परतश्च महाभारतनाम्ना प्रसिद्धम् । सूक्ष्मेक्षिकयाऽवलोकनेन ज्ञायते यत् - महाभारतस्य प्रगते चरणत्रयं विद्यते। -

प्रथमे चरणे - जयनामकं काव्यमेतत् ८८०० श्लोकपरिमितं व्यासकृतं धर्मचर्चाम् आश्रित्य महर्षि व्यासेन स्वशिष्याय वैशम्पायनाय श्रावितमभूत्।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।

देवीं सरस्वतीं चैव ततो जयमुदीरयेत्।।

प्रत्येकस्य अध्यायस्य आदौ विद्यमानः अयं प्रसिद्धः श्लोकः इदं निरूपयति ।

द्वितीये चरणे - भारतनामकं महाकाव्यमेतत् वैशम्पायनकृतं २४ सहस्रश्लोकपरिमितं (चतुर्विंशतिसाहस्री) वैशम्पायनेन अर्जुनस्य प्रपौत्राय जनमेजयाय नागयज्ञे श्रावितमभूत्।

तृतीये चरणे - महाभारतनामकं महाकव्यमेतत् लोमहर्षपुत्रेण सौतिकेन रचितं - एकलक्षश्लोकपरिमितं नैमिषारण्ये यज्ञकाले शौनकादिभ्यः ऋषिभ्यः श्रावितमभूत्। एवञ्च आख्यानमिदं त्रिभिर्वक्तृभिः महर्षिभिः विभिन्नश्रोतृभ्यः श्रावितम्।

महाभारतस्य अन्ते विद्यमानेन श्लोकेन इदं प्रमाणितं भवति -

उक्तं शतसहस्राणां श्लोकानामिदमुत्तमम्।

 

अस्य ग्रन्थस्य नूतनतमस्य रूपस्य नाम शतसाहस्री संहिता अपि अस्ति।

महाभारतं कस्मिन् शास्त्रेऽन्तर्भवति

प्रथमं महाभारतम् इतिहासः पुराणम् आख्यानकञ्चेति नामभिः आख्यायते स्म । साम्प्रतिकास्तु महाभारतम् आचारशास्त्रम् नीतिशास्त्रम् धर्मार्थकाममोक्षाख्यचतुर्वर्गसाधनम् चामनन्ति । भारतं पञ्चमो वेदः इति सर्वत्र प्रचारितम् । सर्वत्रास्मिन् ग्रन्थे वैष्ण्वसिद्धान्तानां प्रमुखत्वेन प्रतिपादनात् महाभारतं वैष्णवस्मृतिरप्याख्यायते । महाभारतस्य अशीतिप्रतिशतभागोऽनेकविधोपदेशमयः, विंशतिप्रतिशतभाग एवेतिहासप्रतिपादक इति अस्य नीतिशास्त्रेषु गणनोचिता ।

महाभारतस्य रचनाकालः

सम्प्रत्युपलभ्यमानं महाभारतं मूलमहाभारतात् परतो बहुषु शतकेषु व्यतीतेष्वेव निर्मितं स्यादतो मूलमहाभारतस्य जयाभिधानस्य वर्तमानमहाभारतात् पूर्वकालिकत्वं निश्चितम् । अत्र वर्तमानमहाभारतस्य रचनाकालसम्बन्धे विचारणीयमस्ति, तत्र –

१. ख्रीष्टैकादशशतके जातेन क्षेमेन्द्रेण कृतो भारतमञ्जरीनामा ग्रन्थः कथायां वर्तमानमहाभारतमनुहरतीति वर्तमानमहाभारतस्य एकादशशतकपूर्वकालिकत्वं सर्वथा सिद्धम् ।
२. अष्टमशतकोत्तरार्धे जातः आद्यशङ्कराचार्यः महाभारतं स्त्रीभिः धर्मज्ञानाय अध्येयत्वेन आदिशन्ति, तेन महाभारतस्य ततः पूर्वकालिकत्वं सिद्धम् ।
३. अष्टमशतकोत्पन्नाः कुमारिलभट्टाः महाभारतस्य बहूनि पर्वाणि स्मरन्ति ।
४. सप्तमशतकोत्पन्ना बाणसुबन्धुप्रभृतयः कवयो महाभारतस्य अष्टादश पर्वाणि हरिवंशं च स्मरन्ति ।
५. कम्बोडियानामके भारतस्य प्राचीनोपनिवेशे षष्ठशतकसमीपे उत्कीर्णात् शिलालेखात् ज्ञायते यत् तत्रत्याय कस्मैचिन्मन्दिराय रामायणमहाभारतग्रन्थौ भारतेन प्रहितौ । तत्कथाप्रबन्धोऽपि भारतेन कृतः ।
६. यवबालिप्रभृतिषु द्वीपेषु षष्ठशतके महाभारतमवर्त्तत, ततोऽपि पूर्वं तिब्बतभाषायां महाभारतस्यानुवादो जातः ।
७. चतुर्थपञ्चमशतकलिखितेषु दानपत्रकेषु स्मृतिरूपेण महाभारतवचनानि निर्दिष्टानि दृष्टानि ।
८. ४६२ स्त्रीष्टोत्की-एकत्र शिलालेखे पाराशर्यव्यासस्य लक्षश्लोकात्मकस्य महाभारतप्रणेतृत्वम् उल्लिखति ।
९. सीरियादेशभाषायाम् उपलभ्यमानस्य शान्तिपर्वाध्यायत्रयस्य साक्ष्येण हर्टलमहोदयः प्रमाणयति यत् प्रचलितं महाभारतम् ई.पू. पञ्चमशतकनिबद्धात् महाभारतात् न भिद्यते इति ।
१०. डयोन क्राइसोस्तोम (Dion Chyrsostom) महोदयस्य साक्ष्येण प्रतीयते यत् ५० ख्रीष्टाब्दकाले लक्षपद्यात्मकं महाभारतं दक्षिणपथे लब्धप्रचारमासीत् इति ।
११. ख्रिष्टप्रथमशतके स्थितेन वज्रसूचीकृत्ताश्वघोषेण हरिवंशस्थ पद्यमेकमुद्धतम् । एभिः सर्वैः समुदितैरेतत् सिद्धं यत् ख्रीष्टशतकप्रारम्भे महाभारतम् अवश्यम् अवर्तत । अपि च –
(क) पाणिनिः महाभारतं जानाति स्मेति डल्ह्मैन (Dalhmann) साक्ष्येण प्रतीयते ।
(ख) ख्रीष्टपूर्वपञ्चमशतकप्रणीते आश्वलायनगृह्यसूत्रे महाभारतस्य उल्लेखो दृश्यते ।
(ग) ४०० ई.पू समये निर्मिते बौधायनधर्मसूत्रे महाभारतस्योल्लेखो दृश्यते ।
(घ) बौधायनगृह्यसूत्रे महाभारतीयं विष्णुसहस्रनामोद्ध्रियते स्म ।
(ङ) महाभारतीयशान्तिपर्वणि विष्णोर्दशावतारगणनाकालेबुद्धस्य नाम नायाति ।
(च) मेगास्थनीजप्रणीते भारतवर्णने याः कथाः ता महाभारतात् एव प्राप्ताः ।
(छ) ब्रह्म सर्वदेवज्येष्ठतया महाभारते प्रतिपादितः । पालिभाषासाहित्येन ज्ञायते यद् ब्रह्मणो ज्यैष्ठत्वं ख्रीष्टपूर्वपञ्चमशतकात् प्रागेव प्ररूढप्रचारमासीत् ।
(ज) ज्यौतिषप्रमाणैः अपि कतिपये विद्वांसः कल्पयन्ति यत् वर्त्तमानं महाभारतम् ५०० ई.पू. समयात् प्रागेव निर्मितं न ततः परम् ।
अतः सर्वसमीक्षया महाभारतम् ५०० ई.पू. समयतः परतो न निर्मितं किन्तु कदाचित् पूर्वमेव निर्मितमिति प्रतीयते ।

महाभारतकथासारांशः

महाभारतस्य संक्षेपेण वर्णिता कथा एवं वर्तते - उत्तरभारतस्य राज्ञो दुष्यन्तस्य पुत्रस्य भरतस्य वंशधरस्य शान्तनोः प्रपौत्रो -धृतराष्टपाण्डवौ आस्ताम्। अग्रजन्मा धृतराष्टः नेत्रहीनः इति हेतोः सर्वैः पाण्डुरेव राजसिंहासनेऽभिषिक्तः। कालान्तरेण पाण्डुः पञ्चत्वं प्राप्तः। तदा पञ्चपाण्डवाः - युधिष्ठिरः - भीमः - अर्जुनः - नकुलः - सहदेवश्च निखिलानि शास्त्राणि वेदाञ्च अधीतवमन्तः । प्रकृतयः युधिष्ठिस्य शौचेन, भीमसेनस्य धृत्या, अर्जुनस्य विक्रमेण, नकुलसहदेवयोः गुरुशुश्रूषया, शान्त्या विनयेन च, समेषां तेषां शौर्यगुणेन च अति सन्तुष्टा अभवन्।

पाण्डवानाम् अभ्युदयम् असहमानः दुर्योधनः छलेन तेषां राज्यम् अपहर्तुं बहुकृतप्रयत्नोऽपि विफलोऽभवत्। तदा स्वमातुलशकुनिसाहाय्येन घूतक्रीडायां कपटेन पाण्डवान् पराजित्य द्रौपदीञ्च स्वानुजेन दुःशासनेन सभामानाय्य अपमाननं कर्तुं प्रायतत । श्रीकृष्णेन रक्षिता द्रौपदी। पराजिताः पाण्डवाः कृतसमयानुसारं द्वादशवर्षपर्यन्तं वनवासस्य, एकवर्ष-अज्ञातवासस्य च कठिनाम् अवस्थाम् असहन्। ततोऽरण्यात् निवृत्य स्वराज्यम् अयाचन्त । दौत्यार्थं पाण्डवप्रतिनिधिः भूत्वा स्वयं श्रीकृष्णः गतः। परन्तु स्वार्थपरायणः दुर्योधनस्तु - ’केशव ! युद्धं विना सुच्याग्रपरिमितं भूमिमपि न दास्यामि’ इति दृढचित्तः सन् अवदत् ।

फलतः कौरव-पाण्डवानां मध्ये भयङ्करं युद्धं सञ्जातम्। कौरवाः पराजिताः, पाण्डवेषु ज्येष्ठः युधिष्ठिरः राजसिंहासनम् आरोहत् । कालक्रमेण अभिमन्योः पुत्रं परीक्षितं हस्तिनापुरस्य अधिपतिनं विधाय सर्वे पाण्डवाः द्रौपदी च हिमालयं प्रति अगच्छन् -तत्रैव कालकवलतां गताश्च।

महाभारतस्यादरः

रामायणस्य तुलनायां यद्यपि महाभारतस्य प्रचारः अल्पः तथापि महत्त्वदृष्ट्या महाभारतं विश्वस्य कस्मादपि ग्रन्थान्न हीयते । महाभारतं तदानीन्तनभारतीयसमाजनीतिप्रभृतिज्ञातव्यं बोधयति, महाभारतं तदानीन्तनीं भारतीयां सभ्यतां प्रकाशयति । प्रमाणग्रन्थतयैवास्य पञ्चमवेदसंज्ञा जाता । यथा रामायणाधारेण बहवो ग्रन्था अरच्यन्त तथैव महाभारताधारेणापि । एतत् सर्वमस्य ग्रन्थस्य महत्त्वे साक्षिभूतम् । word gedacht

महाभारतस्य विभागाः

महाभारतमष्टादशसु पर्वसु विभक्तं वर्त्तते, तस्मिंश्च आदि-सभा-वन-विराट-उद्योग-भीष्म-द्रोण-कर्ण-शल्य-सौप्तिक-स्त्री-शान्ति-अनुशासन-अश्वमेध-आश्रमवासि-महाप्रास्थानिक –स्वर्गारोहणपर्वणि सन्ति ।

अनुषङ्गतः शकुन्तलोपाख्यान –मत्स्योपाख्यान –रामोपाख्यान-शिबिकथा-सावित्रीकथा-नलोपाख्यानादीनि वर्णितानि । युद्धवर्णनमात्रं न व्यासस्य लक्ष्यमपि तु भौतिकजीवनस्यासारतां प्रकाश्य प्राणिनां मोक्षमार्गे प्रवर्त्तनमेव व्यासस्य महाभारतप्रणयने उद्देश्यमासीत्, अत एवात्र शान्तो रसः प्रधानभूतः वीरस्तु रसोऽङ्गभावं गतः ।

क्र.सं

पर्व

अध्यायाः

श्लोकाः

आदिपर्व

२२७

८८८४

सभापर्व

७८

२५५१

वनपर्व

२६९

११६६४

विराटपर्व

६७

२०५०

उद्योगपर्व

१८६

६६९८

भीष्मपर्व

११७

५८८४

द्रोणपर्व

१७०

८९०९

कर्णपर्व

६९

४९६४

शल्यपर्व

५९

३२२०

१०

सौप्तिकपर्व

१८

८७०

११

स्त्रीपर्व

२७

७७५

१२

शान्तिपर्व

३३९

४७३२

१३

अनुशासनपर्व

१४६

८०००

१४

अश्वमेधपर्व

१०३

३३२०

१५

आश्रमवासिकपर्व

४२

१५०६

१६

मौसलपर्व

३२०

१७

महाप्रस्थानिकपर्व

३२०

१८

स्वर्गारोहणपर्व

२०१

१९

हरिवंशः

१२०००

हरिवंशोनाम खिलपर्वापि योजयित्वा आहत्य १९३६ अध्यायाः १६८३६ श्लोकाश्च सन्ति महाभारते।अस्मिन् महाभारते एव विदुरनीतिः सनत्सुजातीयम् भगवद्गीता अनुगीत चेति चत्वारः तत्त्वोपदेशग्रन्थाः भवन्ति। विदुरनीतिः द्योगपर्वणि ३३ तः ४० अध्यायपर्यन्तम् भवति। सनत्सुजातीयं द्योगपर्वणि ४९ तः ४६, पर्यन्तम् भगवद्गीता भीष्मपर्वणि २५ तः ४२ पर्यन्तम् अनुगीता अश्वमोधीकपर्वणि १६ तः५१ पर्यन्तम् च वर्तते।

महाभारतस्य वैशिष्ट्यम्

व्यासस्य कृतिरियं सर्वैरितिहास इत्युच्यते यतोऽत्र वीराणां पुण्या गाथा वर्णिता । अयं ग्रन्थो धार्मिकग्रन्थो येन लोकः स्वकल्याणं गवेषयति । अत्रैव ग्रन्थे गीतारत्नं विद्यते या दुग्धेव प्रतीयतेऽनवरतं दुह्यमानाऽपि । गीताग्रन्थस्यादरो महाभारतस्यैव विशिष्टतां प्रमाणयति । स्वयमेव व्यासेन महाभारतस्य प्रशंसायां यदुक्तं तदक्षरशः सत्यम् –

यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः ।

न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः॥

श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यत्र रोचते ।

पुंस्कोकिलागरं श्रुत्वा रुक्षा ध्वंक्षस्य वागिव ॥

श्रीवेदव्यासस्य महत्वाकाङ्क्षेयं यद् धर्मार्थ-काम-मोक्ष-विषयकम् अखिलमपि जिज्ञासितं तथ्यम् अत्रैव लभेत, न च किञ्चिद् उच्छिष्येत इति । अतैव उच्यते -

धर्मे चार्थे च कामे च मोक्षे च भरतर्षभम्।

यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्॥

महनीयोऽयं ग्रन्थः यथा वपुषा विशालः तथैव भावगाम्भीर्येण अर्थगौरवेण च। अतैव उच्यते -
महत्वाद् भारवत्वाच्च महाभारतमुच्यते। महाभारतं विरचय्य श्रीव्यासः ’शिष्येभ्यः कथम् अध्यापयामि’ इति यथा चिन्तामग्नः आसीत् तदा तस्य व्यथां ज्ञात्वा स्वयं लोकगुरुः भगवान् ब्रह्मा तस्य प्रीत्यर्थं लोकानां हितकाम्यया च तत्र आगच्छत्। यथाविधि तस्योपचारं कृत्वा स्वयं श्रीव्यासः स्वग्रन्थविषयेऽवदत् - ’भगवान् ! मया इदं परमपूज्यं काव्यं कृतम् । अस्मिन् काव्ये वेदरहस्यं साङ्गोपनिषदां विषयः च विस्तारेण वर्णितः । इतिहासाः - पुराणानि - भूतं -भव्यं - भविष्यं, जरा-मृत्यु-भय-व्याधि-भावाभावः, चातुर्वर्ण्यविधानं वर्ण्यधर्माः, पृथिवी - चन्द्रः - सूर्यः - तारागणः ग्रहप्रमाणाः, सत्य-त्रेता-द्वापर-कलियुगाः, ऋग्-यजुस्-सामानि सर्वमपि वर्णितम्। तीर्थानां पुण्यक्षेत्राणां च कीर्तनं, नदी-वन-पर्वत-सागरादीनां वर्णनं, सर्वमपि प्रतिपादितं विद्यते अस्मिन् ग्रन्त्थे । परन्तु एतस्य ग्रन्थस्य कोऽपि लेखकः भुवि न विद्यते। ब्रह्मा अपि प्रत्युत्तरे - 'अन्य कोऽपि अस्मात् श्रेष्ठतरं काव्यं लेखितुं न समर्थो भवति । लेखनार्थं श्रीगणेशं स्मर' इति उक्त्वा स्वधाम अगच्छत् । एवं महाभारतं श्रीव्यासेन प्रणीतं, श्रीगणेशेन लिखितम्।
महाभारतस्य विविधविषयावगाहि - ज्ञानम्, अर्थगौरवं भावगाम्भीर्यं च प्रतिपादयितुं कतिपयानि सुभाषितानि उपस्थाप्यन्ते -

दार्शनिकभावोपेताः सूक्तयः

नवहारमिदं वेश्म, त्रिस्थूणं पञ्चसाक्षिकम्, क्षेत्रज्ञाधिष्टितं (क्षेत्रज्ञ-अधिष्टितं) यो विद्वान् वेद स परः कविः ।
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा लिङ्गस्य योगेन च नित्यं याति - तम् इशम् - ईड्यम् -अनुकध्पम् - अद्यं - विराजमानं तं मूढाः न पश्यन्ति।

नीतिशिक्षाविषयकाणि सुभाषितानि

यस्मिन् यथा वर्तते यो मनुष्यः - तस्मिन् तथा वर्तितव्यं सधर्मः मायाचारो मायया वर्तितव्यः, साध्वाचारः साधुना प्रत्युपेयः
वृशं यत्नेन संरशेत् - वित्तमेति च याति च।
अक्षीणो वित्ततः, क्षीणो वृत्ततस्तु हतो हतः।
न च दुर्बलोऽपि क्षत्रुः बलीयसा अवज्ञेयः
अल्पोऽपि दहत्यग्निः विषमल्पं हिनस्ति च।

अर्थशास्त्रीयाः सूक्तयः

धनमाहुः परं धर्मं, धने सर्वं प्रतिष्ठितम्।
जीवन्ति धनिनो लोके, मृताः ये त्वधनो नराः॥
धनान् कुलं प्रभवति, धनान् धर्मः प्रवर्धते।
नाधनस्यास्त्ययं लोको, न परः, पुरुषोत्तमः॥

राजनीतिविषयकाः सूक्तयः

राजा प्रजानां प्रथमं शरीरं - प्रजाश्च राज्ञोऽप्रतिमं शरीरम्।
राज्ञा विहीना न भवन्ति देशा, देशैर्विहीना न नृपा भवन्ति॥
राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते।
यद् यदाचरते राजा तत् प्रजाभ्यः स्म रोचते॥

एवं गुणगौरवात् सर्वविषयावगाहित्वात् आचारशिक्षणात् पावनत्वात् अयं महाभारतग्रन्थः पञ्चमो वेदः इति ख्यातः। अत एव ग्रन्थश्चयित। - स्वगुणगौरवात् -त्रिदेववद् आद्रियते सम्मान्यते च -

अचतुर्वदनो ब्रह्मा हिबाहुरपरो हरिः।
अभाललोचनः शम्भुः भगवान् बादरायणः॥

वेदानां धर्मप्रधानत्वाद्, यज्ञादिकर्मकाण्डप्रतिपादनात् अध्यात्मभावविवरणाच्च न समेषां प्रियत्वम्। वेदेषु द्विजानामेव विशिष्टा गतिः, धर्मत्वेन अभिरुचिश्च। परन्तु महाभारते सर्वेषां कृते किमपि अस्ति। सर्वमनोमोहनत्वाच्च एतद् स्त्रीशूद्रादिभ्यः अपि सुलभः। अस्य पावनत्वम्, उत्कृष्टत्वं, सर्वार्थसाधकत्वं, सर्वेभ्यः सुलभत्वञ्च प्रेक्ष्य विपश्चिद्भि - पञ्चमो वेदः ’महाभारतम्’ इति साह्लादम् उद्घोष्यते। अष्टादश पर्वेषु, अनेकोपपर्वेषु च विभक्तम् महाभारतम्। अस्य मुख्यांशाः - व्यासरहस्यम् - विदुरनीतिः - भगवद्गीता च। श्री गणेशः - यदि मम लेखनी क्षणमपि अलिखन्ती न अवतिष्टेत् - तर्हि अहं लेखको भवामि इत्यवदत् । तदा भगवान् व्यासः गूढं ग्रन्थग्रान्थिम् अरचयत् -

अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च।
अहं वेद्मि, शुको वेति, सञ्जयो वेत्ति वा न वा॥

इति सन्देहः एव - अद्यापि तच्छ्लोककूटं सुदृढं ग्रथितं, गूढत्वात् तस्य अर्थः केनापि भेत्तुं न शक्यते। अतः ’व्यासरहस्यम्’ इति ज्ञातम्। विदुरनीतिः - विदुरेण मोहग्रस्तं, दुःखितम्, अशान्तं धृतराष्ट्रं प्रति उपदिष्टा राजनीतिः विदुरनीतिरिति ख्याता। सत्यवक् विदुरः निष्पक्षपाततया धर्ममार्गद्योतकः प्रवर्तकश्चासीत्। ’प्रजागर’ नामके उपपर्वणि अष्टसु अध्यायेषु विदुरनीतिः सङ्ग्रहरूपेण निरूपिताः। विदुरस्योक्तिः न केवलं धृतराष्टम् उद्दिश्य उक्ताः, परन्तु सर्वेषां व्यक्तिजीवने उपयोगार्हा एव। महाभारतरण भूमौ मोहग्रस्तम् अर्जुनं प्रति - श्रीकृष्णेन उपदिष्टा भगवद्गीता वर्तते। सर्वोत्कृष्ट विषयस्तु अस्मिन् - ’सरस्वत्याः वृष्टिः’ इति यथोराशिविभूषिते महाभारते - अहितीयः, सर्वज्ञः, सर्वशक्तिमान्, परमयोगेश्वरः, अचिन्त्यानन्त गुणगणसम्पन्नः सृष्टि-स्थिति-प्रलयकारी, विचित्रलीलाविहारी, भक्तवत्सलः, भक्तभक्तिमान्, भक्तसर्वस्वः, निखिलरसामृतसिन्धुः, प्रेमघनविग्रहः, सच्चिदानन्दघनः वासुदेवस्य भगवतः श्रीकृष्णस्य गुणगौरवस्य मनमोल्क मधुरगीतं विद्यते - भीष्मपितामहेन उक्ते ’विष्णुसहस्रनाम’ स्तवे। एतत् सर्वं मनसि निधाय एव उद्घोष्यते -

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

 
अर्जुनसन्न्यासः सुभद्रा च'

अधुनातने जनजीवने

संस्कृतस्य काव्यमिदम् अद्यापि जनजीवने सुविख्यातं, प्रेरणाप्रदं च तिष्ठति। दूरदर्शने 'रामायण'धारावाहिन्याः लोकप्रियताम् अनु महाभारतम् इति धारावाहिनी प्रसारिता। बी.आर.चोपडावर्येण सृष्टा इयं धारावाहिनी स्वस्य गभीराध्ययनपूर्णचित्रणात् सर्वान् आकर्षत् । दूरदर्शनयन्त्रे बहुवाहिनीभिः समृद्धे युगेऽस्मिन्नपि इयं धारावाहिनी पुनः पुनः प्रसार्यते।

 
कौरवसभायां द्रौपदीप्रलापः

इमान्यपि दृश्यताम्

भारतसावित्री

बाह्यसम्पर्कतन्तुः

महाभारतम्

 

महाभारतम्
↔ ग्रन्थकर्ता : वेदव्यासः
 

अनुक्रमणिका

  1. महाभारतम्-०१-आदिपर्व (२६० अध्यायाः)

  2. महाभारतम्-०२-सभापर्व (१०३ अध्यायाः)

  3. महाभारतम्-०३-आरण्यकपर्व (३१५ अध्यायाः) (अरण्यपर्व, वनपर्व)

  4. महाभारतम्-०४-विराटपर्व (७८ अध्यायाः)

  5. महाभारतम्-०५-उद्योगपर्व (१९६ अध्यायाः)

  6. महाभारतम्-०६-भीष्मपर्व (१२२ अध्यायाः)

  7. महाभारतम्-०७-द्रोणपर्व (२०३ अध्यायाः)

  8. महाभारतम्-०८-कर्णपर्व (१०१ अध्यायाः)

  9. महाभारतम्-०९-शल्यपर्व (६६ अध्यायाः)

  10. महाभारतम्-१०-सौप्तिकपर्व (१८ अध्यायाः)

  11. महाभारतम्-११-स्त्रीपर्व (२७ अध्यायाः)

  12. महाभारतम्-१२-शांतिपर्व (३७५ अध्यायाः)

  13. महाभारतम्-१३-अनुशासनपर्व (२७४ अध्यायाः)

  14. महाभारतम्-१४-आश्वमेधिकपर्व (११८ अध्यायाः)

  15. महाभारतम्-१५-आश्रमवासिकपर्व (४१ अध्यायाः)

  16. महाभारतम्-१६-मौसलपर्व (९ अध्यायाः)

  17. महाभारतम्-१७-महाप्रस्थानिकपर्व (३ अध्यायाः)

  18. महाभारतम्-१८-स्वर्गारोहणपर्व (६ अध्यायाः)

द्रौपद्या स्वात्मानं कामयमानस्य कीचकस्य परुषभाषणैः प्रत्याख्यानम् ।। 1 ।।

 

 

 

वैशंपायन उवाच।

4-16-1x

वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा।
महारथेषु च्छन्नेषु मासा दश समाययुः ।। 1 ।।

4-16-1a

4-16-1b

याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशांपते ।
आवसत्परिचारार्हा सुदुःखं जनमेजय ।। 2 ।।

4-16-2a

4-16-2b

तथा चरन्ती पाञ्चाली सुदेष्णाया निवेशने।
ता देवीं तोपयामास तथा चान्तःपुरस्त्रियः ।। 3 ।।

4-16-3a

4-16-3b

तस्मिन्वर्षे गतप्राये कीचकस्तु महाबलः।
सेनापतिर्विराटस्य ददर्श द्रुपदात्मजाम् ।। 4 ।।

4-16-4a

4-16-4b

तां दृष्ट्वा देवगर्भायां चरन्तीं देवतामिव ।
कीचकः कामयामास कामबाणप्रपीडितः ।। 5 ।।

4-16-5a

4-16-5b

स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै।
प्रहसन्निव सेनानीरिदं वचनमब्रवीत् ।। 6 ।।

4-16-6a

4-16-6b

नेयं मया जातु पुरेह दृष्टा राज्ञी विराटस्य निवेशने शुभा।
रूपेण चोन्मादयतीव मां भृशं गन्धेन जाता मदिरेव भामिनी ।। 7 ।।

4-16-7a

4-16-7b

का देवरूपा हृदयंगमा शुभे ह्याचक्ष्व मे कस्य कुतोत्र शोभने।
चित्तं हि निर्मथ्य करोति मां वशे न चान्यदत्रौपधमस्ति मे मतम् ।। 8 ।।

4-16-8a

4-16-8b

अहो तवेयं परिचारिका शुभा प्रत्यग्ररूपा प्रतिभाति मामियम्।
अयुक्तरूपं हि करोति कर्म ते प्रशास्तु मां यच्च ममास्ति किंचन ।। 9 ।।

4-16-9a

4-16-9b

प्रभूतनागाश्वरथं महाजनं समृद्धियुक्तं बहुपानयोजनम्।
मनोहरं काञ्चनचित्रभूषणं गृहं महच्छोभयतामियं मम ।। 10 ।।

4-16-10a

4-16-10b

ततः सुदेष्णामनुमन्त्र्य कीचकस्ततः समभ्येत्य नराधिपात्मजाम्।
उवाच कृष्णामभिसान्त्वयंस्तदा मृगेन्द्रकन्यामिव जम्बुको वने ।। 11 ।।

4-16-11a

4-16-11b

का त्वं कस्यासि कल्याणि कुतो वा त्वं वरानने।
प्राप्ता विराटनगरं तत्त्वमाचक्ष्व शोभने ।। 12 ।।

4-16-12a

4-16-12b

रूपमग्र्यं तथा कान्तिः सौकुमार्यमनुत्तमम्।
कान्त्या विभाति वक्रं ते शशाङ्क इव निर्मलं ।। 13 ।।

4-16-13a

4-16-13b

नेत्रे सुविपुले सुभ्रु पद्मपत्रनिभेशुभे।
वाक्यं ते चारुसर्वाङ्गि परपुष्टरुतोपमम् ।। 14 ।।

4-16-14a

4-16-14b

एवंरूपा मया नारी काचिदन्या महीतले।
न दृष्टपूर्वा सुश्रोणि यादृशी त्वमनिन्दिते ।। 15 ।।

4-16-15a

4-16-15b

लक्ष्मीः पद्मालया का त्वमथ भूतिः सुमध्यमे।
ह्रीः श्रीः कीर्तिरथो कान्तिरासां का त्वं वरानने ।। 16 ।।

4-16-16a

4-16-16b

अतीव रूपिणी किं त्वमनङ्गविहारिणी।
अतीव भ्राजसे सुभ्रु प्रभेवेन्दोरनुत्तमा ।। 17 ।।

4-16-17a

4-16-17b

अपि चेक्षणपक्ष्माणां स्थितज्योत्स्नोपमं शुभम्।
दिव्यांशुरश्मिभिर्वृत्तं दिव्यकान्तिमनोरमम् ।। 18 ।।

4-16-18a

4-16-18b

निरीक्ष्य वक्रचन्द्रं ते लक्ष्म्याऽनुपमया युतम्।
कृत्स्ने जगति को नेह कामस्य वशगो भवेत् ।। 19 ।।

4-16-19a

4-16-19b

हारालंकारयोग्यौ तु स्तनौ चोभौ शुभोभनौ ।
सुजातौ सहितौ लक्ष्म्या पीनौ वृत्तौ निरन्तरौ ।। 20 ।।

4-16-20a

4-16-20b

कुड्मलाम्बुरुहाकारौ तव सुभ्रु पयोधरौ।
कामप्रतोदाविव मां तुदतश्चारुहासिनि ।। 21 ।।

4-16-21a

4-16-21b

वलीविभङ्गचतुरं स्तनभारविनामितम्।
कराग्रसंमितं मध्यं तवेदं तनुमध्यमे ।। 22 ।।

4-16-22a

4-16-22b

दृष्ट्वैव चारुजघनं सरित्पुलिनसंनिभम्।
कामव्याधिरसाध्यो मामप्याक्रामति भामिनि ।। 23 ।।

4-16-23a

4-16-23b

जज्वाल चाग्निमदनो दावाग्निरिव निर्दयः ।
त्वत्सङ्गमाभिसंकल्पविवृद्धो मां दहत्ययम् ।। 24 ।।

4-16-24a

4-16-24b

आत्मप्रदानवर्षेण संगमाम्भोधरेण च।
शमयस्व वरारोहे ज्वलन्तं मन्मथानलम् ।। 25 ।।

4-16-25a

4-16-25b

मच्चित्तोन्मादनकरा मन्मथस्य शरोत्कराः।
त्वत्सङ्गमाशानिशितास्तीव्राः शशिनिभानने ।
मह्यं विदार्य हृदयमिदं निर्दयवेगिताः ।। 26 ।।

4-16-26a

4-16-26b

4-16-26c

प्रविष्टा ह्यसितापाङ्गि प्रचण्डाश्चण्डदारुणाः।
अत्युन्मादसमारम्भाः प्रीत्युन्मादकरा मम।
आत्मप्रदानसंभोगैर्मामुद्धर्तुमिहार्हसि ।। 27 ।।

4-16-27a

4-16-27b

4-16-27c

चित्रमाल्याम्बरधरा सर्वाभरणभूषिता।
कामं प्रकामं सेव त्वं मया सह विलासिनि ।। 28 ।।

4-16-28a

4-16-28b

नार्हसीहासुखं वस्तुं सुखार्हा सुखवर्जिता।
प्राप्नुह्यनुत्तमं सौख्यं मत्तस्त्वं मत्तगामिनि ।। 29 ।।

4-16-29a

4-16-29b

स्वादून्यमृतकल्पानि पेयानि विविधानि च।
पिबमाना मनोज्ञानि रममाणा यथासुखम् ।। 30 ।।

4-16-30a

4-16-30b

भोगोपचारान्विविधान्सौभाग्यं चाप्यनुत्तमम्।
पानं पिब महाभागे भोगैश्चानुत्तमैः शुभैः ।। 31 ।।

4-16-31a

4-16-31b

इदं हि रूपं प्रथमं तवानघे निरर्थकं केवलमद्य भामिनि ।
अधार्यमाणा स्नगिवोत्तमा शुभा न शोभसे सुन्दरि शोभना सती ।। 32 ।।

4-16-32a

4-16-32b

त्यजामि दारान्मम ये पुरातना भवन्तु दास्यस्तव चारुहासिनि ।
अहं च ते सुन्दरि दासवत्स्थितः सदा भविष्ये वशगो वरानने ।। 33 ।।

4-16-33a

4-16-33b

।। इति श्रीमन्महाभारते विराटपर्वणि
कीचकवधपर्वणि षोडशोऽध्यायः ।। 16 ।।

 

वार्ताः


हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
ऐतरेयोपनिषत्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता  [ ... ]

अधिकम् पठतु
आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

Swaha आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

स्वाहा का म [ ... ]

अधिकम् पठतु
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवसर...

Importance of rakhi
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवस [ ... ]

अधिकम् पठतु
भानु सप्तमी व कर्क संक्रान्ति 16 जुलाई 2017 को...

भानु सप्तमी व कर्क संक्रान्ति
16 जुलाई 2017 को

अकाल मृत्यु पर  [ ... ]

अधिकम् पठतु
भागवत में लिखी ये 10 भयंकर बातें कलयुग में हो रही ...

पंडित अंकित पांडेय - देववाणी समूह
*भागवत📜 में लिखी ये 10 भयं [ ... ]

अधिकम् पठतु
नाग पंचमी विशेष-27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उ...

27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उपाकर्म। जानिए नाग पंचमी ब् [ ... ]

अधिकम् पठतु
about

हमारे समूह में आप भी जुडकर देववाणी व देश का समुचित विकास व  [ ... ]

अधिकम् पठतु
परिमिलनम्


आप मुझे फेसबुक गूगल ग्रुप या ई-मेलThis email address is being protected from spambots. You need J [ ... ]

अधिकम् पठतु
उपनिषद्ब्राह्मणम्...

उपनिषद्ब्राह्मणं दशसु प्रपाठकेषु विभक्तमस्ति । अस्मिन [ ... ]

अधिकम् पठतु
गोपथब्राह्मणम्

गोपथब्राह्मणम् अथर्ववेदस्य एकमात्रं ब्राह्मणमस्ति। गो [ ... ]

अधिकम् पठतु
वंशब्राह्मणम्

वंशब्राह्मणं स्वरूपेणेदं ब्राह्मणं लघ्वाकारकमस्ति । ग [ ... ]

अधिकम् पठतु
संहितोपनिषद्ब्राह्मणम्...

संहितोपनिषद्ब्राह्मणं सामगायनस्य विवरणप्रदाने स्वकीय [ ... ]

अधिकम् पठतु
आर्षेयब्राह्मणम्

आर्षेयब्राह्मणं सामवेदस्य चतुर्थं ब्राह्मणम् अस्ति । स [ ... ]

अधिकम् पठतु
अन्य लेख