सती सावित्री

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

मद्रेष्वश्वपतिर्नाम राजाऽऽसीत् । स च परमधार्मिकः प्रजानुरञ्जनश्च । किन्तु, वृद्धोऽप्यतुत्रतयाऽसौ खिद्यते स्म । ततः पुत्रकामनयाऽयमत्मनः कुलदेवतां सावित्रीं तुष्टाव । सा प्रसन्ना तेजस्विनीं कन्यकामस्मै अनुजग्राह । अथाचिरेण कालेन राज्ञः पत्नी मागधी राजीवलोचनां कन्यकां प्रासूत । सा एषा राजपुत्री मूर्तिमती श्रीरिव रराज । प्रीतया भगवत्या सावित्र्या ‘इदं दत्ता’ इति राजाऽश्वपतिः पिता एतस्यै ‘सावित्री’ इति नाम चकार । सुन्दरीमेनां देवकन्येति जना अमन्यन्त । अस्यास्तेजः प्रकर्षेण तिरस्कृत इव न कोऽप्येनां वरयामास । ततः पिता चिन्तया विह्वलः कन्यां सावित्रीमुपसृत्य प्रोवाच "वत्से ! अयं ते प्रदानकालः, किन्तु न कश्चित्त्वं वृणोति । अतस्त्वमेवानुरुपं भर्तारमन्विच्छ । यं कमपि पुरुषं वृणोशि तर्हि तमेनं मह्यं निवेदय । अहं विमृश्य त्वां तस्मै प्रदास्यामि । अन्यथा लोके निन्द्यो भवेयम्" इति । अथ सावित्री पितुराज्ञया वरान्वेषणाय, सचिवैः सह गृहान्निर्ययौ । अरण्यं गत्वा तत्राश्रमान् विचचार । तत्र दैववशात् भ्रष्टराज्यमन्धं द्युमस्तेननामानं राजानं भार्यया पुत्रेण च युक्तमपश्यत् ।

 

ततः सा राजर्षेद्यु मत्सेनस्य सुतं गुणवन्तं सत्यवन्तं ददर्श । रुपेण गुणेन चात्मनोऽयमनुरूपो भर्तेति मनसा निश्चित्य, गृहाय न्यवर्तत । ततः पितुरन्तिके "सत्यवानयं मनसा वृतो मे पतिः" इति सा न्यवेदयत् । तदा "अयं सत्यवानल्पायुः" इति महर्षेर्नारदस्य वचः शुश्राव । तथाप्यात्मनाऽस्मान्निश्चयान्न चचाल । अनन्तरमुपायान्तरमपश्यन् स नृपतिः सावित्र्या मनोरथमन्वमन्यत । ततोऽश्वपतिः सपरिवारो द्युमत्सेनस्याश्रम जगाम । तत्र सपुत्रकलत्रं द्युमत्सेन नृपमपश्यत । त्स्मै स्वात्मन आगमनप्रयोजनमकथयत् । ततस्तत्रासम्मतं तमनुनीय स राजाऽश्वपतिरवदत्- "भो नृप , तव सुताय सत्यवेते मदीयामिमां कन्यां वृणीध्वम्" इति । ततः स द्युमत्सेनोऽस्वपेर्नृपतेः प्रार्थनां पुरश्चकार । अनन्तरं शोभने मुहूर्ते सा सावित्री सत्यवन्तं यथाशास्त्रमुपयेमे । निर्वृत्तकल्याणा सावित्री ततः प्रभृति भर्तुः कुले एवावसत् । तदाऽऽत्मना धृतानि महार्घाणि राजोचितानि वासांसि व्यसृजत् । मुनियोग्यानि चोरचीवराणि पर्यधत्त । तत्रैषा परया श्रद्धया श्वशॄं श्वशुरं चासेवत । तथा प्रणयमधुरेणालापेन रहसि भर्तारं सत्यवन्तमनन्यमनस्का सम्यगतोषयत् । स्वात्मनापि तेन प्रसन्नेन प्रियेण सुतराममुद्यत । तथापि सा नारदीयं वचनं स्मृत्वा मनसि सन्तप्यमनैवासीत् । ततः कार्यज्ञा सवित्री पत्युरपमृत्युनिवऋत्तये स्वस्य सौभाग्यवृद्धये च कठिनानि व्रतान्याचचार । आत्मनः सौभाग्यदेवता अप्यओपूजयत । सा सर्वदा छायेव पतिमनुसरन्ती तद्रक्षणे जागरुकाऽऽसीत् ।

 

अथ श्वोभूते भर्तुमरणे सा सावित्री रात्रौ निद्रां नालभत । ततः प्रभाते उदिते च सूर्ये शोकव्याकृला शयनादुत्तस्थौ । ततः शिरः स्नातोपोषिता श्रेयसे देवतामुद्दिश्य सकलं दिवसमर्चते स्म । ततः सन्निहिते सूर्यस्यास्तसमये स्त्यवान् समिधः फलानि चाहतुमरण्याय यातुं प्रावर्तत । ततः स परशुं स्कन्धे निधाय करेण पिटकमाददे । एवं वनाय गन्तुमुद्यतं तं [पतिमवलोक्य सा सती सावित्री तमनु सर्तुमैच्छत् । ततः सा श्वशुरावामन्त्र्य, पतिं प्रसाद्य च तेन प्रियेण सह कानन मभिप्रातस्थे ।।

 

तत्र कान्तेन दर्शितान् रम्यान् प्रदेशान् अवलोक्य ननन्द । सत्यवानिअपि तया कान्तयाअ हृष्टः फलान्याचित्य पिटकं पूरयामास् । ततः परशुना काष्ठानि यावत्पाटयति तावदस्य महति शिरोवेदना विद्यते । सेयमङ्गानि त्रोटयतीव । स्थातुं न मे शक्तिरस्ति । अतः शयितुमिच्छामि" इति ।

 

ततः सा साध्वी सत्वरं तमुपसृत्य, स्वस्योत्सङ्गे पत्युः शिरो निधाय भूमौ निषसाद । तदा सा नारदस्य वचनं स्मृत्वा , तमेनं क्षणं मुहूर्तमिव, वेलामिव दिवसमिव, घोरतरमन्वचिन्तयत् । ततः सावित्री मुहूर्तादेव कमपि पुरुषमपश्यत् । श्यामलाङ्ग एष रक्ताक्षो रक्ताम्बरो रविप्रकाशश्चाभवत् । भयङ्करः पाशहस्तः स आगत्य सत्यवतः पार्शे तं प्रेक्षमाणोऽतिष्ठत् । तमेनं पुरुषमवलिक्य सावित्री भ्र्तुरुत्तमाङ्गं स्वाङ्काद्भूमौ शनैः शनैर्निधाय सहसोदतिष्ठत् । प्रकम्पमानाऽबला सा बालाऽऽर्ता सती तमेनं पुरुषं प्रणनाम । स्विन्यं चावदत् । अथैववुभयोः संल्लापः प्रावर्तत । यथा -

 

सावित्री-को भवान ! अमानुषमिदं ते रुपम् । आस्त्वां देव मन्ये । किमत्र क्र्तुमिच्छति ? कृपया कथयतु भवान ।

पुरुषः-तपस्विनि ! सावित्रि ! पतिव्रता त्वमसि । अतोऽहं भवतीमभिभाषे । सन्नताङ्गि ! प्रजानामन्तकं यमं मां विद्धि । अयं ते भर्ता सत्यवान् अद्याऽऽयुषा परिक्षीणः । अतोऽहमेनं पाशेन नियम्य नेष्यामि । तदेत्त्कर्तुमिच्छामि ।

सावित्री-भो भगवन्, यम् ! श्रुतं हिअ मया मानवान्नेतुं भवतो दूता आगच्छन्तीति । क्स्माद्भवान् स्व्यमेव इहागतः ?

यमः-सावित्रि ! सत्यमाह भवती \ परन्तु तव पतिर्धर्मात्मा गुणसागरः । अतो नार्हत्ययं मददूतैर्नेतुम् । अतोऽहं स्वायमेवेहागतः ।

इत्युक्त्वा, यमः सत्यव्रतस्य शरीरात् जीवात्मानं बलादाचकर्ष । तं पाशेन बध्वा, दक्षिणां दिशमभिप्रतस्थे ततः सा सावित्री पश्यतोहरस्य यमस्यैतत्कर्म नासहत । तदेकपदे पत्युर्जीवित मपहरन्तं तं कृतान्तं पश्यन्तई सहसा तमन्वसरत् । यमस्तु किञ्चिददूरं गत्वा, यावत परावत्य पश्यति, तावदात्मानमनुसरन्तीं साध्वीं सावित्रीमवलोकत । आलोक्य स तामेनामव्दच्च ।

 

यमः- सावित्रि ! कुतो मामनुसरसि ? निवर्तस्व तावत् । गत्वा चास्यौध्र्वदैहिकं संस्कारमाचर । एतदवश्यं त्वया कर्तव्यम् । येन निश्रेयसं तव भविष्यति ।

सावित्री -अधर्ममूर्ते । यम ! मम भर्ता यत्र नीयते: स्वयं वा यत्र गच्छति, तत्र मयाऽनुसर्तव्यम् । एष हिअ स्नातनो धर्मः ।

यमः -सावित्रि, सत्यम्, यदुक्तं त्वया तत्सर्वं तव भर्तुर्जोवितकाले एव संगच्छते परन्तु स खल्वद्य मया नीयते । तमनुसर्तुंं मानुषी त्वमसमर्थाऽसि ।सावित्री -भगवन् ! स्नेहं पुरस्कृत्य, किंचिद ब्रवीमिअ । न मामन्यथा मन्यस्व ।

तपसा, गुरुभक्तथा, भर्तुः स्नेहेन, तव प्रसादाच्च पतिव्रताहं लोकान्तरमपि गन्तुं समर्थाऽस्मि । भूम्याकाश्योः स्र्वत्र मम गतिर्न प्रतिहन्यते । अपि च स्वधर्माचरणं हि सर्वेषां श्रेयसे । तदत्र मद्भ्र्तुर्जीवतापहारेणावयोर्धमं भवान् ध्वंसितुं नार्हति । साधवो हि धर्मस्य रक्षकाः ।

 

यमः -सवित्रि ! युक्तियुक्तया तवानया वाचा संतुष्यामि । सत्यवतो जीवितेन विना यद्यदिच्छसि तत्सकलं तुभ्यं ददानि । तद वरं वृणीष्व ।

सावित्री -भो देव । अन्धो मे श्वशुरो द्युमत्सेनो भ्राष्टराज्यः सम्प्रति मुनिवृत्त्याऽऽश्रमे निव्स्सति । स यथापूर्वं लब्धचक्षुर्बलवान् भवेत् तथानुग्रुहाण ।

यमः -साध्वि ! तथास्तु । जाते ! मार्गायासस्ते मा भूत । गच्छ । निवर्तस्व ।

सावित्री -भगान ! मनः कान्तं कान्तमनुशरन्त्या मम को वा मार्गायासः । यर मे पतिः प्रयाइ तत्र ममापि प्रयाणं निय्तमेव । भोः सज्जनसङ्गतिर्हि कामधेनुरिव निखिलमभिलशितमर्थं दोग्धि ।

यमः -कल्याणि ! अवतथमाह भवती । हितम् मनोहारि च वचनं ऐतद् दुर्लभम् । अनेन तव वचसा प्रसन्नोऽस्मि । ऋते सत्यवतो जीविताद् यद्यद् वाञ्छसि तत् तुभ्यं ददानि । वरं वृणीष्व ।

सावित्री -भो अन्तक ! यदि भवानिचति तर्हि " पुराऽरिभिरपहृतराज्यस्य मे श्वशुरस्य द्युमत्सेनस्य यथापूर्वं राज्यलाभो बवतु मा भूत पुनस्तस्य राज्याद भ्रंशः अपि च सः सर्वदा धर्माचरणप्रवणो भवतु ।" इति द्वितीयं वरं मह्यं प्रयच्छ ।

यमः तथास्तु । सावित्रि ! मम वेलाऽतिक्रामति । परिश्रान्ताऽसि त्वम । निवर्तस्व ।

सावित्री -भगवन् ! मदीयामिमां वाचं श्रुणु ।

अद्रोहः सर्वभूतेषुकर्मणा मनसा गिरा ।

अनुग्रहश्व दानं च सतां धर्मः सनातनः ॥

एवमल्पायुर्लोकोऽयम् । अशक्ता मनुष्या योगक्षेमरहिताश्च । करुणालवो भाद्दृशाः सत्पुरुषा वैरिष्वपि कृपं कुर्वन्ति । किमुत शरणागतेषु ।

 

यमः -अप्तिव्रते ! पिपासाकुलितस्य सलिलेनेव तवानेन वाक्येन प्रहृष्टोऽस्मि । सत्यव्रतः प्राणान्विना यद्यदपेक्षसे तदहं तुभ्यं ददामि । वरं वृणीष्व ।

सावित्री -प्रभो " महाराजः पिता मेऽश्वपतिरपुत्रः । त्स्मै सन्ततिकरं पुत्राणं शतमनुगृहाण" इत्यहं तृतीयं वरं वृणे ।

यमः -कुलनन्दिनि ! सवित्रि ! तथास्तु, । पुत्रवान् पिता ते भविष्यति । राजपुत्रि ! दीर्घ पन्य्थानमाक्रम्य खिन्नाऽसि, गृहं प्रयाहि ।

सावित्री -भो वैवस्वत ! भर्तुः समीपे स्थिताऽस्मि । कः पुनर्मे मार्गायासः । भोः सहृदय ! सत्सु यो विश्वासः स अत्मान्यपि न भवति । तस्मात् सर्वेऽपि सज्जनेषु विशेषेण स्निह्यन्ति । विश्वासो नाम सर्वभूतानां सौहार्दत् किल जायते ?।

यमः -सावित्रि ! साधु भाषसे । अश्रुतपूर्वेणानेन मधुरेण तव संल्लापेन प्रसन्नोऽस्मि सत्यवतो जीवितमन्तरेण् च तुर्थं वरं वरय ।

सावित्री- भगवन् ! पुत्रकामाऽहमस्मि । यथा सत्यवता कुलोद्धारकं शूरं पुत्राणां शतं लभेय । देव ! इमं चतुर्थं वरं वृणे ।

यमः तथास्तु । वत्से ! निवर्तस्व । इतः प्रं पन्थानं जीवन्तः पुरुषाः गन्तुं नार्हन्ति । प्रतिनिवर्तस्व तावत् ।

सावित्री -प्रभो ! सन्तो न सीदन्ति । न हि व्ययन्ते । सद्भिः सह सङ्गमो न विफलति । सदभ्यो भयं न क्स्यापि पुरुषस्य ।सत्सु कृता प्रार्थना न कदापि व्यर्था भवति । अर्थस्तेषु न नश्यति । नापि मानः । यतः साधुष्वेतन्नित्यं नियतमेव ! अतः सन्तो रक्षितारो भवन्ति ।

यमः भद्रे ! धर्मसंहितं तवैतद्वचनमर्थवत् । पतिव्रते ! त्वं यथा यथा भषसे तथा तथा त्वयि मे भक्तिदृढा भवति सावित्रि ! पञ्चममसाधरां वरं प्रार्थयस्व ।

सावित्री -भगवन् ! इदं तावद् वृणे ।ीवतु पतिर्ममायं सत्यवान् । पति विना स्त्रीयो न शोभन्ते । पतिं विना तासां जीवनमसुखाय । तथा मा भूत्। भतृ विनाकृता सुरं न कामये । भर्तृ विनाकृआ दिवमपि न कामये । भर्तृ विनाकृता श्रियं न कामये । भर्त्रा विना जीत्रितुं नेच्छामि । भो धर्मराट् !त्वमेवाद्य "तुभ्यं शतं पुत्रा भवन्तु" इति मह्यं वरं दत्तवानसि । किन्तु, ममैनं पतिं हरसि । किमेतत? तदत्र पुनर्भवन्तं प्रार्थये -" सत्यवान् पतिर्मे जीवतु" इति । तदैव भबतो वचनं सत्यं भविष्यति ।

यमः - कल्याणि ! तथास्तु । सावित्रि। एष ते पतिर्मया पाशान्निर्मुक्तः । तवानया धर्मवत्त्या वाचा सुतरां हृष्यामि । तव पुर्युर्वर्षाणां चतुः शतमायिर्भविष्यति । त्वमपि पुत्रवती यशोवती च बह्विष्यसि । सर्वे तव् वंशजाः क्षत्रियास्त्वन्नामधेयाः प्रसिद्धा भविष्यन्ति । साध्वि ! सावित्रि ! दिनमिदं सुदिनम् । यतो महापतिव्रतया भवत्याहं पराजितः । शुभमस्तु । गच्छामि तावत् ।

इत्येवं भगवान् यमः सावित्र्यै वरान् दत्त्वा निजनगरं ययौ । प्रयाते यमे सा सावित्री पतिं प्रतिलभ्य्, प्रतिनिवृत्ता सती पूवमुपविष्टं स्थानमभजत यत्रास्या भर्तुः शावं शरीरमवर्तत । ततः सत्यवान् संज्ञां लब्धवान् । स निद्रां विहाय प्रबुद्धः तदन्वाअत्मनो नेत्रे उन्मील्याअपश्यत । ततः शनैः शनैः शयनाद् उत्थित उवविष्टश्च् । तमेनं पुनर्जातमिवाव्स्थितमात्मनः पतिं विलोक्य सा सावित्री प्राहृष्यत्

 

अह सत्यवान् सावित्रीमुवाच -"प्रिये ! सुचिरं सुप्तोऽस्मि । किमर्थं नवबोधितः ? योऽसौ मामकषत् स श्यामः पुरुशः क्व गतः ? " इति एवं पृष्टा सावित्री -" नाथ ! सुप्तस्त्वम् । न खलु जानासीतोगतं वृत्तान्तम् । स आगतः पुरुषो भगवान् यमो नि तः । सर्वमुदन्तं पश्चाच्छ्रोष्यसि । प्श्य । गाढान्धकारा निशा । यदि शक्नोष्युक्तिष्ठ । त्वरस्व, आश्रमं गच्छावः " इति प्रत्युवाच । ततः सत्यवान् आह -" कान्ते ! यथार्थं ब्रवीषि । मन्येऽहमाश्रमस्थौ मम पितरावावामप्श्यन्तौ परिशोचत इति । अहमपि तौ द्रष्टुमुत्सुकोऽस्मि । प्रिये । गच्छावः । सज्जस्व । फलपूर्णं पिटकं क्व ? परशुं गृहाण " इति । ततः सावित्री "पिटकमत्रैव तिष्ठतु । श्वः तनेन्ष्वसि" इत्युक्त्वा, अतत्रत्यईः ज्वलद्भिः काष्ठैरलातदीपं कृतवती । ततः साऽऽश्रमं गन्तुं सज्जाऽभवत् । गजगामिनी सा सावित्री भर्तुः सत्यवतः स्कन्धे स्ववामबाहुं निवेश्य, दक्षिणेन बाहुना तं परिष्वज्य, आश्रमाभि मुख्यभवत् । ततः पत्या दर्शितेन पथा वनान्निर्ययौ । ततस्तौ तेन मार्गेण निर्गतौ किञ्चिदवशिष्टायां रजन्यामाश्रमसमीपमवापतुः ।

 

अथ तत्राश्रमे अकस्मात् लब्धचक्षुर्द्युमत्सेनो हृष्ठो विस्मितश्वाभवत् । आत्मनो चक्षुषः प्राप्तौ दैवीम् कृपां कारणं मन्यमानो देव्या शैब्या साकं स्वस्थ आसीत् । परन्तु रात्र्यां महति प्रसरे अतिक्रान्तेऽपि सावित्र्य सह वनाद् अनागतं सुतं स्त्यान्तं श्रुत्वा तौ विषीदन्तावास्ताम् । ततो यावद् भार्यया सार्धं सत्यवान् निजमाश्रममागतस्तावत् त दृष्ट्वा, तौ नितरामानन्दनिर्भरौ बभूवतुः । तथाऽऽश्रमवासिनोऽन्ये च सत्यवन्तमालोक्याहृष्यन् । ततः सत्यवान् पितराववन्दत् । सावित्री च श्वश्रूं श्वशुरं च प्रणनाम् । अनन्तरं सर्वे उपविष्टाः । " कुमार ! यथाकालं कुतो नागतोऽसि " इति पित्रा पृष्टः सत्यवान् सर्वमुदन्तं वक्तुं सावित्रीमचोदयत् । सावित्री तु सत्यातो मरणप्रभृति जीवप्रतिदानपर्यन्तं यावदुदन्तं यथावृत्तं कथितवती । तन्निशम्य द्युमत्सेनः शैब्या च स्नुषां सावित्रीं सप्रेमं सविस्मयं च अभ्यनन्दताम् । तत्रत्या अन्ये तपोधनाः, सभक्ति पतिव्रतां सावित्रीमस्तुवन्

वार्ताः


शारदा देवी मंदिर

शारदा देवी मंदिर मध्य प्रदेश के सतना ज़िले में मैहर शहर म [ ... ]

अधिकम् पठतु
विंध्यवासिनी का इतिहास...

🔱जय माँ विंध्यवासिनी🔱* *विंध्यवासिनी का इतिहास* *भगवती  [ ... ]

अधिकम् पठतु
हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
ऐतरेयोपनिषत्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता  [ ... ]

अधिकम् पठतु
आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

Swaha आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

स्वाहा का म [ ... ]

अधिकम् पठतु
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवसर...

Importance of rakhi
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवस [ ... ]

अधिकम् पठतु
भानु सप्तमी व कर्क संक्रान्ति 16 जुलाई 2017 को...

भानु सप्तमी व कर्क संक्रान्ति
16 जुलाई 2017 को

अकाल मृत्यु पर  [ ... ]

अधिकम् पठतु
भागवत में लिखी ये 10 भयंकर बातें कलयुग में हो रही ...

पंडित अंकित पांडेय - देववाणी समूह
*भागवत📜 में लिखी ये 10 भयं [ ... ]

अधिकम् पठतु
नाग पंचमी विशेष-27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उ...

27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उपाकर्म। जानिए नाग पंचमी ब् [ ... ]

अधिकम् पठतु
about

हमारे समूह में आप भी जुडकर देववाणी व देश का समुचित विकास व  [ ... ]

अधिकम् पठतु
परिमिलनम्


आप मुझे फेसबुक गूगल ग्रुप या ई-मेलThis email address is being protected from spambots. You need J [ ... ]

अधिकम् पठतु
उपनिषद्ब्राह्मणम्...

उपनिषद्ब्राह्मणं दशसु प्रपाठकेषु विभक्तमस्ति । अस्मिन [ ... ]

अधिकम् पठतु
गोपथब्राह्मणम्

गोपथब्राह्मणम् अथर्ववेदस्य एकमात्रं ब्राह्मणमस्ति। गो [ ... ]

अधिकम् पठतु
वंशब्राह्मणम्

वंशब्राह्मणं स्वरूपेणेदं ब्राह्मणं लघ्वाकारकमस्ति । ग [ ... ]

अधिकम् पठतु
अन्य लेख