रामानुजाचार्यः

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

रामानुजाचार्यः (क्रि.श.१०१७तः११३७पर्यन्तम्) विशिष्टाद्वैतस्य आद्यः प्रवर्तकः । अस्य वैष्ण्वस्य भक्तिपरम्परायां महान् प्रभावः अस्ति । वैष्णवाचार्याणां परम्परायाम् एव रामानुजाचार्यस्य शिष्यः रामानन्दः आगतः यस्य शिष्यौ कबीरः सूरदासः च आस्ताम् । रामानुजः वेदान्तदर्शनाधारितं स्वस्य नूतनं विशिष्टाद्वैतवेदन्तं लिखितवान् । वेदान्तम् अतिरिच्य श्रीरामानुजः ६-१०शताब्दस्य रहस्यवादिनां भक्तिमार्गिणाम् आल्वार् सताम् भक्तिमार्गं, दक्षिणस्य पञ्चरात्रपरम्परां स्वस्य विचाराणाम् आधारम् अकरोत् ।

जीवनम्

क्रि.श. १०१७तमे वर्षे दक्षिणभारतस्य तमिळुनाडुराज्यस्य पेरम्बदूरुक्षेत्रस्य तिरुकुदूरुग्रामे अस्य जन्म अभवत् । रामानुजः बाल्ये काञ्चीप्रदेशे प्रकाशगुरुणा वैदिकशिक्षां प्राप्तवान् । पश्चात् आलवन्दार् यामुनाचर्यस्य प्रधानशिष्यः अभवत् । गुरोः इच्छानुसारं ब्रह्मसूत्रस्य, विष्णुसहस्रनाम्नः, दिव्यप्रबन्धनस्य च टिकां लेखितुं सङ्कल्पितवान् । क्रमेण गृहस्थाश्रमं त्यक्त्वा श्रीरङ्गस्य यतिराजयतिना सन्न्यासदीक्षां प्राप्तवान् । मैसूरुप्रान्तस्य श्रीरङ्गतः चलन् रामानुजः शालग्रामं प्राप्य तत्र वासम् अकरोत् । तस्मिन् प्रदेशे द्वादशवर्षाणि वैष्णवमतस्य प्राचारम् अकरोत् । पश्चात् अस्य प्रचारार्थमेव समग्रदेशस्य भ्रमणम् अकरोत् । क्रि.श. ११३७तमे वर्षे रामानुजाचार्यः ब्रह्मलीनः अभवत् ।

विशिष्टाद्वैतदर्शनम्

रामानुजाचार्यस्य दर्शने परमस्त् सम्बन्धे स्तरत्रयं विस्वस्तम् । ब्रह्म अर्थात् ईश्वरः, चित् अर्थात् आत्मा, अचित् अर्थात् प्रकृतिः । वस्तुतः चित् इत्युक्ते आत्मतत्त्वम्, अचित् इत्युक्ते प्रकृतितत्त्वम्, ईश्वरेण पृथक् न भवन्ति । विशिष्टरूपेण ब्रह्मणः एव रूपाणि भवन्ति ईश्वरेण आधारितानि च भवन्ति इति एव रामानुजाचार्यस्य विशिष्टाद्वैतसिद्धान्तः । यथा शरीरम् आत्मा च पृथक् न स्तः तथैव आत्मनः उद्देशं पूरयितुं शारीरं कार्यं करोति । एवमेव ब्रह्मणः पृथक् चित् अथवा अचित् तत्त्वस्य न किमपि अस्तित्वं भवति । रामानुजाचार्यस्य मतानुगुणं भक्तिः नाम पूजा, भजनं कीर्तनम् नास्ति । किन्तु भक्तिः नाम ईश्वरस्य ध्यानम् अथवा प्रार्थना एव । सामाजिकपरिप्रेक्ष्येण रामानुजाचार्यः भक्तिं जातिवर्गतः पृथक् न कृतवान् सर्वेषां भक्तिः साध्या इति दर्शितवान् ।

बाह्यनुबन्धाः

  • रामानुजाचार्य का परिचय (वेबदुनिया)

  • भक्ति के महान आचार्य थे रामानुजाचार्य (समय_अलाइव)

वार्ताः


शारदा देवी मंदिर

शारदा देवी मंदिर मध्य प्रदेश के सतना ज़िले में मैहर शहर म [ ... ]

अधिकम् पठतु
विंध्यवासिनी का इतिहास...

🔱जय माँ विंध्यवासिनी🔱* *विंध्यवासिनी का इतिहास* *भगवती  [ ... ]

अधिकम् पठतु
हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
ऐतरेयोपनिषत्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता  [ ... ]

अधिकम् पठतु
आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

Swaha आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

स्वाहा का म [ ... ]

अधिकम् पठतु
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवसर...

Importance of rakhi
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवस [ ... ]

अधिकम् पठतु
भानु सप्तमी व कर्क संक्रान्ति 16 जुलाई 2017 को...

भानु सप्तमी व कर्क संक्रान्ति
16 जुलाई 2017 को

अकाल मृत्यु पर  [ ... ]

अधिकम् पठतु
भागवत में लिखी ये 10 भयंकर बातें कलयुग में हो रही ...

पंडित अंकित पांडेय - देववाणी समूह
*भागवत📜 में लिखी ये 10 भयं [ ... ]

अधिकम् पठतु
नाग पंचमी विशेष-27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उ...

27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उपाकर्म। जानिए नाग पंचमी ब् [ ... ]

अधिकम् पठतु
about

हमारे समूह में आप भी जुडकर देववाणी व देश का समुचित विकास व  [ ... ]

अधिकम् पठतु
परिमिलनम्


आप मुझे फेसबुक गूगल ग्रुप या ई-मेलThis email address is being protected from spambots. You need J [ ... ]

अधिकम् पठतु
उपनिषद्ब्राह्मणम्...

उपनिषद्ब्राह्मणं दशसु प्रपाठकेषु विभक्तमस्ति । अस्मिन [ ... ]

अधिकम् पठतु
गोपथब्राह्मणम्

गोपथब्राह्मणम् अथर्ववेदस्य एकमात्रं ब्राह्मणमस्ति। गो [ ... ]

अधिकम् पठतु
वंशब्राह्मणम्

वंशब्राह्मणं स्वरूपेणेदं ब्राह्मणं लघ्वाकारकमस्ति । ग [ ... ]

अधिकम् पठतु
अन्य लेख