रवीन्द्रनाथ ठाकुर

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

रवीन्द्रनाथ ठाकुर ( ( शृणु) /ˈrəviːndrənɑːθə thɑːkʊrə/) (हिन्दी: रवीन्द्रनाथ ठाकुर, आङ्ग्ल: Ravindranatha Thakur, वङ्ग: রবীন্দ্রনাথ ঠাকুর) (७ मे १८६१- ७ आगस्ट् १९४१) वङ्गभाषायाः कविः, कथालेखकः, सङ्गीतज्ञः, नाटकरचयिता च सन् सः १९ शतकस्य अन्ते विंशतितमशतकस्य आरम्भे च वङ्गसाहित्यस्य वङ्गसङ्गीतस्य च विनूतनं रूपं प्राददात् । तेन रचितस्य सूक्ष्मसंवेदनयुक्तस्य नवीनस्य उत्कृष्टस्य च गीताञ्जलीकाव्यस्य कृते १९१३ तमेवर्षे नोबेल्-साहित्यप्रशस्तिः प्राप्ता । एतेन सः एशियाखण्डे प्रथमनोबेल्-प्रशस्तिविजेता जातः ।

 

कल्कत्तायाः पिरालिब्राह्मणकुटुम्बे जातः रवीन्द्रः[२][३][४][५] स्वस्य अष्टमे वयसि पद्यरचनम् आरब्धवान् ।[६] स्वस्य षोडशे वयसि सः 'भानुशिङ्घो' (सूर्यसिंहः)[७] इत्येतेन गुप्तनाम्ना प्रथमं महत्त्वपूर्णं पद्यं प्राकाशयत् । १८७७ तमे वर्षे प्रथमां लघुकथां नाटकञ्च अलिखत् । ब्रिटिश्शासनस्य दृढं खण्डनं कुर्वता तेन भारतीयस्वातन्त्र्यान्दोलनस्य प्रोत्साहनं कृतम् । तेन रचिताः कृतयः तेन संस्थापितः विश्वभारतीविश्वविद्यालयश्च जगते तेन दत्तानि प्रमुखानि उपायनानि ।

 

भारतीयसाम्प्रदायिककठिनसीमातः बहिरागतः रवीन्द्रः वङ्गकलाप्रकाराय नूतनां शोभाम् आनयत् । तेन रचिताः दीर्घकथाः, लघुकथाः, पद्यानि, नृत्यनाटकानि, प्रबन्धाश्च राजनैतिक-सामाजित-व्यक्तिगतविषयान् प्रतिफलन्ति । गीताञ्जली (पद्यानि), गोर (सुन्दरमुखी), घरे बैरे (गृहं प्रपञ्चञ्च) इत्यादयः तस्य प्रसिद्धाः कृतयः । तेन रचितानि पद्यानि, लघुकथाः, दीर्घकथाः च साहित्यमौल्याय, जनभाषाप्रयोगाय, विचारशीलवास्तविकतायाः अभिव्यक्त्यै तत्त्वशास्त्रावलोकनाय च श्लाघार्हाः सन्ति । तेन रचितयोः द्वयोः गीतयोः राष्ट्रमान्यता प्राप्ता अस्ति - जन गण मन भारतस्य राष्ट्रगीतत्वेन, अमर् शोनर् बाङ्ग्ला बाङ्ग्लादेशस्य राष्ट्रगीतत्वेन अङ्गीकृतमस्ति ।

Late-middle-aged bearded man in white robes looks to the left with serene composure.

आरम्भजीवनम् (१८६१-१९०१)

 

१८७९ तमे वर्षे इङ्ग्लेण्ड्देशे रवीन्द्रनाथठाकूरः

रवीन्द्रनाथः कल्कत्तानगरस्य जोरसङ्कोभवने जन्म प्राप्नोत् । तस्य पिता देवेन्द्रनाथठाकूरः(१८०७-१९०५), माता शारदादेवी (१८२०-१९०५) । दम्पत्योः जीवत्सु त्रयोदशसु पुत्रेषु अयमेव कनीयान् । ठाकूरकुटुम्बस्य पूर्वजाः आदिधर्मस्य ब्राह्मोसंस्थापकाः । माता अस्य बाल्ये एव दिवङ्गता । पिता सर्वदा प्रवासे भवति स्म इत्यतः बालकः रवीन्द्रः गृहस्य सेवकानां पालनेन एव वर्धितः ।[८] भित्तेः अन्तः प्रचलत् शिक्षणम् अनिच्छन् रवीन्द्रः आभवनम् अटति स्म । पनिहटि इत्यादिषु स्थलेषु अटनं ग्रामप्रदेशस्य सरलसुन्दरपरिसरे कालयापनं तस्मै अत्यन्तं रोचते स्म ।[९][१०] एकादशे वयसि तस्य उपनयनसंस्कारः सम्पन्नः । तदनन्तरं सः पित्रा सह भारतस्य पर्यटनम् आरब्धवान् । १८७३ तमे वर्षे फेब्रवरीमासस्य १४ दिनाङ्के कल्कत्तातः ताभ्यां प्रस्थितम् । ततः बहून् मासान् यावत् ताभ्यां भारते अटितम् । शान्तिनिकेतननामिकां पैतृकभूमिं दृष्ट्वा अमृतसरे उषितवन्तौ । ततः 'डाल्हौसि'नामकं हिमालयगिरिधाम अगच्छताम् । तत्र रबी-जीवनचरितम्, इतिहासः, खगोलविज्ञानम्, आधुनिकविज्ञानं संस्कृतञ्च अधीतवान् । शास्त्रीयकाव्यानाम् आन्तर्यञ्च तेन अवलोकितं गभीरतया ।[११][१२] १८७७ तमे वर्षे अनेकानि प्रमुखकाव्यानि तेन रचितानि । तेषु अन्यतमम् अस्ति मैथिलीशैल्या रचितः दीर्घपद्यसङ्ग्रहः । विद्यापतिनामकः कविः मैथिलीशैल्याः आविष्कर्ता । १७ शतमाने अदृश्यंगताः Vaiṣṇava कवेः कृतयः Bhānusiṃha एताः इति विनोदेन वदति स्म रवीन्द्रः ।[१३] भिकारिणि (१८७७, भिक्षुकी - वङ्गभाषायाः प्रथमा लघुकथा)[१४][१५]सन्ध्या सङ्गीतनामकं (१८८२) प्रसिद्धं पद्यं, निर्झरेर् स्वप्नभङ्गः इत्यादयः कृतयः तेन १८८२ तमे वर्षे लिखिताः ।

 

इङ्ग्लेण्ड्देशस्य पूर्वसस्सेक्स्प्रदेशस्य ब्रिघ्टन्नगरे विद्यमानं सार्वजनिकविद्यालयं प्राविशत् १८७८ तमे वर्षे । पितुः अपेक्षानुगुणं न्यायवादिना भवितुं सः लण्डन् युनिवर्सिटि कालेज् मध्ये अध्ययनम् अकरोत् । किन्तु शेक्स्पियर्, रेलिजियो मेडिसि, कोरिलियनस्, आण्टोनि क्लियोपात्र[१६] इत्यादीनां परिपूर्णम् अध्ययनं कर्तव्यम् इति धिया सः विद्यालयम् अत्यजत् । १८८० तमे वर्षे पदवीं विनैव वङ्गं प्रत्यागतवान् । १८८२ तमस्य वर्षस्य डिसेम्बर्मासस्य ९ दिनाङ्के तेन मृणालिनीदेवी (१८७२-१९००) परिणीता । जन्म प्राप्तवत्सु पञ्चसु अपत्येषु उभौ प्रौढावस्थातः पूर्वमेव मृतवन्तौ ।[१७] १८९० तमे वर्षे अधुना बाङ्ग्लादेशे विद्यमाने शिलैदाहे स्थितायाः विशालभूसम्पतेः निर्वहणे आत्मानं न्ययोजयत् । १८९८ तमे वर्षे तस्य पत्नी पुत्राश्च तत्र आगताः । १८९१ - १८९५ - अयं कालः ठाकूरस्य 'साधनावधिः' इति उच्यते । सः अवधिः सर्जनशीलः आसीत् ।[८] चतुरशीतिः कथाभिः युक्तः गल्पगुच्छनामकः सङ्ग्रहः, सम्पुटत्रयस्य अर्धांशापेक्षया अधिकाः कथाः च अस्मिन् अवधौ एव लिखिताः ।[१४] वङ्गजीवनशैल्याः विशेषतया ग्रामजीवनस्य विशालां व्याप्तिं सः उपहासदृष्ट्या भावनात्मकप्रभावेण च चित्रितवान् अस्ति ।[१८]

शान्तिनिकेतनम् (१९००-१९३२)

 

हेम्प्स्टड्नगरे जान् रोथेन् स्पैनेन स्वीकृतं ठाकूरस्य चित्रम् (१९१२)

१९०१ तमे वर्षे ठाकूरः शिलैदाहतः शान्तिनिकेतनम् आगतः । तत्र विक्फ्-मन्दिरं नाम आश्रमं समस्थापयत् । अमृतशिलया अलङ्कृतं मन्दिरं तत् । विविधानि सस्यानि, वृक्षाः, उद्यानं, ग्रन्थालयः, प्रयोगशाला च तत्र आसन् ।[१९] ठाकूरस्य पत्नी पुत्रद्वयं च तत्रैव मरणं प्राप्तवन्तः । १९०५ तमे वर्षे जनवरीमासस्य १९ दिनाङ्के तस्य पिता दिवङ्गतः । तदारभ्य पित्रार्जितं धनं प्रतिमासं प्राप्नोति स्म सः । त्रिपुरस्य महाराजात् किञ्चित् धनं प्राप्नोत् । कुटुम्बस्य आभरणानां विक्रयणात् च धनं प्राप्तम् । पुर्यां समुद्रतीरे विद्यमानात् भवनाच्च धनं प्राप्तम् । तस्य कृतीनां द्वारा च गौरवधनं (रू ९०००) प्राप्नोत् ।[२०] एतावता देशे विदेशे च विद्यमानाः बहवः बङ्गालीवाचकाः तस्य अभिमानिनः जाताः आसन् । १९०१ तमे वर्षे नैवेद्यकृतिं, १९०६ तमे वर्षे खेयनामिकां कृतिञ्च प्राकाशयत् । अस्मिन् एव अवधौ स्वस्य गीतानि मुक्तछन्दोबद्धानां पद्यानां रूपेण अनूदितुं तेन । साहित्यक्षेत्रस्य नोबेल्प्रशस्तिः प्राप्ता अस्ति इति विषयः तेन नवेम्बर्मासस्य १४ दिनाङ्के ज्ञातः । तेन रचिताः साहित्यकृतयः तत्रत्यः आदर्शवादश्च स्वीडिश् अकाडेम्या बहुमानिता ।[२१] १९०५ तमे वर्षे ब्रिटीष्चक्राधिपत्येन टाकूरः नैट्बिरुदा सम्मानितः ।

 

ठाकूरः कृषि-अर्थशास्त्रज्ञः लियोनार्ड् एल्मिर्स्ट् च मिलित्वा शान्तिनिकेतनसमीपे विद्यमाने सुरुल्नामके ग्रामे १९२१ तमे वर्षे ग्रामपुनरुत्थानसंस्थां (ठाकूरः अस्य 'श्रीनिकेतनम्'इति पुनः नामकरणमकरोत्) आरब्धवन्तौ । गान्धेः 'स्वराज्यान्दोलनस्य' प्रोत्साहनरूपेण पर्यायं प्रस्तोतुम् अत्र तेन प्रयासः कृतः ।[२२] असहायकतया अज्ञानेन च पीडिताः ग्रामाः 'ज्ञानाभिवृद्ध्या' मुक्ताः करणीयाः इति उद्देशेन संस्थायाः सहायाय विद्वज्जनाः, दानिनः, अधिकारिणश्च विविधेभ्यः राष्ट्रेभ्यः तेन नियोजिताः ।[२३][२४] भारतस्य जातिपद्धतेः अस्पृश्यतायाश्च विषये तेन खण्डनं कृतम् । तद्विषये नाटकं पद्यानि च अरचयत् । यशस्विनः आन्दोलनस्य द्वारा गुरुवायूरदेवालये दलितानां कृते प्रवेशानुमतिः आसादिता ।[२५][२६]

जीवनस्य सन्ध्याकालः (१९३२-१९४१)

१९३० तमे वर्षे बर्लिन्देशे

अन्ते ठाकूरः साम्प्रदायिकतां सुष्ठु पर्यशीलयत् । १९३४ तमे वर्षे जनवरीमासस्य १५ दिनाङ्के बिहारराज्ये सञ्जातः महान् भूकम्पः दलितानाम् उपरि कृतस्य दुश्शासनस्य दैवदत्तं फलम् इत्येतत् गान्धेः वचनं ठाकूरः दृढम् अखण्डयत् ।[२७] कल्कत्तायाः स्थानीयदारिद्र्यतायाः विषये बङ्गालस्य समाजार्थिकपरिस्थितेः अवनतेः विषये च ठाकूरः खेदं प्रादर्शयत् । इदं दुःखं शतपङ्क्तियुते पद्ये अभिव्यक्तवान् अस्ति । सत्यजितरेवर्यस्य अपूर् संसार् चलचित्राय इयं पृष्ठभूमिका जाता ।[२८][२९] ठाकूरेण लिखितैः लेखैः युक्ताः पञ्चदश नूतनाः सम्पुटाः प्रकाशिताः । तेषु पुनश्च (१९३२), शेस् सप्तक् (१९३५), पत्रापुट् (१९३६) च गद्यपद्यात्मक्यः कृतयः । प्रयोगः अयम् अनुवृत्तः । सः गद्यरूपात्मकानि गीतानि, नृत्यनाटकानि च लिखन् नूतनां परम्पराम् आरब्धवान् । चित्राङ्गदा (१९१४)[३०] श्याम (१९२९), चण्डालिका (१९३८) इत्यादीनि नृत्यनाटकानि अलिखन् । दुय् बोन् (१९३३), मलञ्च (१९३४), चार् अध्याय् (१९३४) कादम्बरीः अलिखत् । जीवनस्य अन्तिमवर्षेषु ठाकूरः विज्ञानविषये आसक्तः सन् विश्वपरिचय् (१९३७) इत्येतं प्रबन्धसङ्ग्रहम् अरचयत् । जीवशास्त्र-भौतशास्त्र-खगोलशास्त्राणाम् अध्ययनस्य प्रभावः तदीयेषु काव्येषु दृश्यन्ते स्म । विज्ञानिनां विषये तेन् लिखितम् । से (१९३७), तीन् सङ्गि (१९४०), गल्पसल्प (१९४१) इत्यादिषु सम्पुटेषु तेन विज्ञानप्रक्रियाः निरूपिताः ।[३१] अन्तिमवर्षचतुष्टयं ठाकूरः दीर्घकालीनवेदनाम् अनुभूतवान् । द्विवारं दीर्घम् अस्वास्थ्यम् अनुभूतम् । १९३७ तमस्य वर्षस्य अन्ते ठाकूरः विसंज्ञः सन् मरणासन्नः जातः । किन्तु तेन स्वास्थ्यं न प्राप्तम् । मृत्युशय्यायां तेन यत् लिखितं तत् उत्कृष्टम् इति परिगण्यते ।[३२][३३] ठाकूरः १९४१ तमे वर्षे आगस्ट्मासस्य ७ दिनाङ्के जोरसङ्कोभवने मरणं प्राप्नोत् ।[३४][३५] बेङ्गालीभाषिणां जगद् दुःखसागरे निमग्नं जातम् ।[३६]

पर्यटनम्

 

१९२४ तमे वर्षे त्सिङ्घ्वविश्वविद्यालये ठाकूरः

१८७८-१९३२ इत्येतस्मिन् अवधौ ठाकूरः पञ्चसु खण्डेषु द्वात्रिंशदधिकदेशान् अगच्छत् ।[३७] भारतीयेतराणां कृते तेषां कार्यपरिकयः राजनैतिकचिन्तनानां बोधनञ्च कष्टसाध्यम् आसीत् । १९०२ तमे वर्षे आत्मना अनूदिताः कृतीः स्वीकृत्य इञ्ग्लेण्ड्देशम् अगच्छत् । तत्र सः धर्मप्रचारकः गान्धि-अनुयायी चार्ल्स् एफ् आण्ड्रिन्, आङ्ग्लो-ऐरिष्-कविः विलियं बट्लर् यीट्स्, एज्रा पौण्ड्, राबर्ट् ब्रिड्जस्, एर्नेस्ट् रैस्, थामस् स्पर्ग मोर् इत्यादीन् प्रभावितान् अकरोत् ।[३८] एतस्य फलरूपेण यीट्स् गीताञ्जल्याः आङ्ग्लानुवादस्य प्रास्ताविकाम् अलिखत्, आण्ड्रीव्स् शान्तिनिकेतनम् आगत्य सहाकरोत् । १९०२ तमे वर्षे नवेम्बर्मासस्य १० दिनाङ्के ठाकूरः युनैटेड्स्टेट्स्[३९] युनैटेड् किङ्ग्डं प्रति च अगच्छत् । तत्र सः आण्ड्रिन्स्-क्रैस्तार्चकसुहृद्भिः सह स्टाफर्ड्शैर्मध्ये विद्यमाने बट्टर्टन्नगरे उषितवान् ।[४०] १९१६ तमे वर्षे मेमासस्य ३ दिनाङ्कतः १९१७ तमस्य वर्षस्य एप्रिल्मासपर्यन्तं ठाकूरः जपान्-युनैटेड् स्टेट्स्-देशेषु भाषणम् अकरोत् ।[४१] तत्र सः राष्ट्रियतायाः कल्पनां बहिरङ्गरूपेण अखण्डयत् ।[४२] 'भारते राष्ट्रियता' इत्येतस्मिन् विषये सः प्रबन्धम् अलिखत् । ततः तिरस्कारः प्रशंसा च प्राप्ता । रोमैन् रोल्याण्ड् प्रभृतयः शान्तिप्रियाः प्रशंसाम् अकुर्वन् ।[४३]

 

भारतं प्रति प्रत्यागमनस्य समनन्तरमेव पेरुवियन्-सर्वकारः 'अस्मद्देशं प्रति आगम्यताम्' इति आह्वानम् अयच्छत् । तदा ठाकूरस्य वयः ६२ वर्षाणि । ततः सः मेक्सिकों प्रति अगच्छत् । तस्य मेलनस्य स्मरणाय ते देशाः शान्तिनिकेतनविद्यालयं प्रति १००,००० डालर्परिमितं धनम् अयच्छन् ।[४४] ठाकूरः १९२४ तमे वर्षे नवम्बर्मासस्य ६ दिनाङ्के अर्जेण्टैनादेशस्य ब्यूनोस् ऐरेस् अगच्छत् ।[४५] ततः सप्ताहानन्तरं सः विक्टोरिया ओक्याम्पो इत्येतस्य आशयानुगुणं विल्ला मिराल्रियोम् अगच्छत् । १९२५ तमे वर्षे भारतम् आगच्छत् । १९२६ तमे वर्षे मेमासस्य ३० तमे दिनाङ्के ठाकूरः इटलिदेशस्य नेपल्सम् अगच्छत् । परेद्यवि तेन रोमस्य फ्याषिस्ट्-मनोभावयुक्तेन निरङ्कुशाधिकारिणा बेनिटो मुस्सोलिनिना अमिलत् ।[४६] १९२६ तमे वर्षे जुलैमासस्य २० तमे दिनाङ्के ठाकूरः मुस्सोलिनिविरुद्धं किञ्चित् अवदत् । तस्य परिणामतः सौहार्दसम्बन्धस्य उत्साहः अपागच्छत् ।[४७]

 

 

१९३२ तमे वर्षे तेह्रान्देशे मज्लिस्सदस्यैः सह ठाकूरः

१९२७ तमे वर्षे जुलै १४ दिनाङ्के अनुयायिभ्यां सह ठाकूरः आग्नेय-एशियां प्रति मासचतुष्टयस्य प्रवासम् अकरोत् । तत्र सः बलि, जाव, क्वाललुम्पूर्, मलाक्क, पेनाङ्ग्, सियाम्, सिङ्गापुरञ्च अगच्छत् । 'जात्रि'सङ्कलनं ठाकूरेण लिखितं प्रवासकथनम् ।[४८] युरोप्-युनैटेड्स्टेट्स्देशयोः प्रवासाय १९३० तमस्य वर्षस्य आदिभागे वङ्गराज्यं पर्यत्यजेत् । तदीयानि वर्णचित्राणि प्यारिस्-लण्डन्नगरयोः यदा प्रदर्श्यमानाः आसन् तदा सः युनैटेड् किङ्ग्डं गतवान् आसीत् । तत्र सः बर्मिङ्घह्यामे सुहृदः गृहे उषितवान् । तत्र सः आक्स्फर्ड्विश्वविद्यालयाय 'हिब्बर्ट् लेक्चर्स्'पुस्तकम् अलिखत् । तत् मानवस्य दैवत्वविषयसम्बद्धः अस्ति । लण्डन्नगरे जाते वार्षिकक्वेकर्कूटे भाषणम् अकरोत् ।[४९] तत्र ठाकूरः ब्रिटिष्-भारतीययोः सम्बन्धविषयम् अधिकृत्य 'विरहगर्तस्य भयङ्करमुखम्' इत्येतस्मिन् विषये अवदत् ।[५०] ततः सः तृतीय-अगाखानेन अमिलत् । १९३० तमस्य वर्षस्य जून्मासात् सेप्टेम्बर्मासं यावत् स्विट्सर्लेण्ड्, डेन्मार्क्, जर्मनिदेशेषु प्रावासं समाप्य सोवियत्सङ्घम् अगच्छत् ।[५१] अन्ते १९२९ तमस्य वर्षस्य एप्रिल्मासे पर्षियन्योगिनः हफेजस्य चरित्रं जानाति इत्यतः इरान्देशस्य रेज् शाह् पह्लवि ठाकूरस्य कृते आतिथ्यम् अयच्छत् ।[५२][५३] अस्य व्यापकप्रवासस्य कारणतः ठाकूरः हेन्रि बर्ग्सन्, आल्बर्ट् ऐन्स्टीन्, राबर्ट् प्रोस्ट्, थामस् म्यान्, जार्ज् बर्नण्ड् शा, एच् जि वेल्स्, रोमैन् रोलेण्ड् इत्यादिभिः समकालीनैः सह अमिलत् ।[५४][५५] ठाकूरेण कृतः पर्शिया-इराक्प्रवासः (१९३२), सिलोन्प्रवासः (१९३३) च मानवस्य प्रत्येकताभिलाषः, राष्ट्रियताविषये तदीयान् अभिप्रायान् क दृढम् अकरोत् ?[५६]

कृतयः

Rabindranath Tagore Ra-Tha seal initials.jpg

काव्ये कृतपरिश्रमः ठाकूरः कादम्बरीः, प्रबन्धान्, लघुकथाः, प्रवासकथाः, नाटकानि, सहस्राधिकानि गीतानि च विरचितवान् अस्ति । गद्यप्रकारे तु ठाकूरस्य लघुकथाः अत्युत्कृष्टाः इति ख्याताः । वङ्गभाषायाः नूतनशैल्याः जनकः इति प्रसिद्धः अस्ति सः । लययुक्तता, आशावादः, गेयगुणैः तस्य साहित्यं जनाकर्षकं जातमस्ति । साधारणजनानां जीवनघटनाः आधारीकृत्य तेन लघुकथाः निर्मिताः सन्ति ।

कादंबर्यः तथा कृतयः

अष्टकादम्बरीः तथा चतस्रः कथाः रविन्द्रनाथः लिखितवान् आसीत्। "चतुरङ्ग", "शेशर् कोबित", "चार् ओधय्" तथा "नौकदुबि", "घरे बैरे" (गृहम् विश्वश्च) आदर्षनायकस्य निखिलस्य भारतीयराष्ट्राभिमानम् एवं भयोत्पादनोत्पत्तेः, स्वदेश्यान्दोलनस्यच सम्बद्धविषयाः "घरे बैरे" इति स्वरचितकृतौ लभ्यन्ते। अस्यां कादम्बर्यां ठाकुरस्य भावनात्मकसङ्घर्षाभिव्यक्तिः दृश्यते। हिन्दू-मुस्लींधर्मयोः हिंसाचारः, निखिलाय मारणान्तिकव्रणेन सम्पन्ना भवति।[५७]

कादम्बर्यः अकल्पितकृतिश्च[सम्पादयतु]

ठाकूरः अष्ट कादम्बरीः, चतस्रः कथाः अलिखत् ।

प्रवेश पटलं

वार्ताः


श्री भवानी अष्टकम

 ॥**अन्नकूट महोत्सव की ह्रदय से हार्दिक शुभकामनाएं*

*श्री भ [ ... ]

अधिकम् पठतु
भगवान धनवंतरि कौन

कार्तिक कृष्ण पक्ष की त्रयोदशी तिथि के दिन भगवान धन्वन्त [ ... ]

अधिकम् पठतु
सप्तशती विवेचन

|| सप्तशती विवेचन ||
मेरुतंत्र में व्यास द्वारा कथित तीनो च [ ... ]

अधिकम् पठतु
धनतेरस २०१७ विशेष

धनतेरस 2017 :-
यह पर्व प्रति वर्ष कार्तिक मास के कृष्णपक्ष की  [ ... ]

अधिकम् पठतु
दीपावली के अचूक मंत्र...

🌻🌻दीपावली के अचूक मन्त्र 🌻🌻
दीपावली कि रात्रि जागरण कि  [ ... ]

अधिकम् पठतु
धनतेरस की हार्दिक शुभकामनाएं- जानें धनतेरस पूजन वि...

©*धनतेरस पूजन विधि*
( घर में धन धान्य वृद्धि और सुख शांति के  [ ... ]

अधिकम् पठतु
उपमालङ्कारः

उपमालङ्कारस्तु एकः अर्थालङ्कारः वर्तते । 'उपमा कालिदासस [ ... ]

अधिकम् पठतु
रावणः

रावणः ( ( शृणु) (/ˈrɑːvənəhə/)) (हिन्दी: रावन, आङ्ग्ल: Ravan) रामायणस्य म [ ... ]

अधिकम् पठतु
शारदा देवी मंदिर

शारदा देवी मंदिर मध्य प्रदेश के सतना ज़िले में मैहर शहर म [ ... ]

अधिकम् पठतु
विंध्यवासिनी का इतिहास...

🔱जय माँ विंध्यवासिनी🔱* *विंध्यवासिनी का इतिहास* *भगवती  [ ... ]

अधिकम् पठतु
हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
ऐतरेयोपनिषत्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता  [ ... ]

अधिकम् पठतु
आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

Swaha आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

स्वाहा का म [ ... ]

अधिकम् पठतु
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवसर...

Importance of rakhi
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवस [ ... ]

अधिकम् पठतु
अन्य लेख