महादेवी वर्मा

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

महादेवी वर्मा ( ( शृणु) /ˈməhɑːdɛviː vərmɑː/) (हिन्दी: महादेवी वर्मा, आङ्ग्ल: Mahadevi Varma) हिन्दीभाषायाः प्रतिभावातीषु कवयित्रीषु अन्यतमा । हिन्दीसाहित्यस्य छायावादियुगस्य प्रमुखेषु चतुर्षु स्तम्भेषु प्रमुखस्तम्भत्वेन तस्याः गणना भवति [१] । आधुनिकहिन्दीभाषायाः सर्वाधिकरचनात्मकशक्यत्याः उत्तमा कवयित्री सा आधुनिकमीरात्वेन प्रसिद्धा अस्ति [२] । सूर्यकान्त-इत्याख्येन एकेन कविना तस्यै “हिन्दीभाषायाः विशालमन्दिरस्य सरस्वत्याः” उपाधिः प्रदत्तः । महादेव्या स्वतन्त्रतायाः पूर्वतनस्य भारतस्यापि दर्शनं कृतम् आसीत्, तथा च स्वातन्त्र्योत्तरस्य भारतस्यापि सा साक्षिणी आसीत् । सा तासु कवियित्रीषु अन्यतमा आसीत्, याभिः व्यापकक्षेत्रे कार्यं कृत्वा भारतस्य आन्तरिकः हाहाकारः, जनानां रुदनं च अनुभूतम् । अतः व्यापकक्षेत्रे कार्यं कुर्वती सा अन्धकारं दूरीकर्तुं प्रयत्नम् अकरोत् [३] । न केवलं तस्याः काव्यानि, अपि तु तस्याः सामाजोन्नत्याः कार्याणि, महिलाजागृत्याः कार्याणि च जनान् प्रभावयन्ति । सा स्वमनसः पीडां सलीलं, शृङ्गारेण च उपास्थापयत् । अतः दीपशिखा-इत्याख्ये पुस्तके पाठकाः, समीक्षकाः च अतिप्रभाविताः अभूवन् ।

 

सा 'खडी बोली'-इत्याख्यायां हिन्दीकवितायां कोमलशब्दावल्याः विकासम् अकरोत् । सा भाषा तावता केवलं ब्रजभाषात्वेन एव प्रसिद्धा आसीत् । कोमलशब्दानां चयनार्थं तया समयानुकूलाः संस्कृतशब्दाः, वङ्गभाषायाः च अध्ययनं कृतम् । ततः चिताः शब्दाः हिन्द्यानुकूलरीत्या उपयुक्ताः । सा सङ्गीतज्ञा आसीत्, अतः तस्याः गीतेषु नादस्य, सौन्दर्यस्य, व्यञ्जनाशैल्याः च दुर्लभाः प्रयोगाः प्राप्यन्ते । यतो हि तया अध्यापनमाध्यमेन स्वकार्यजीविकायाः आरम्भः कृतः, अतः अन्तिमसमयं यावत् सा प्रयागमहिलाविद्यापीठस्य प्रधानाचार्यात्वेन सेवाम् अकरोत् । यद्यपि तस्याः बालविवाहः अभवत्, तथापि सा अविवाहितावत् जीवनम् अयापयत् । प्रतिभावती कवयित्री, गद्यलेखिका महादेवी वर्मा साहित्यस्य, सङ्गीतस्य उत्कृष्टा विदुषी आसीत् [४] । तेन सह सा कुशलिनी चित्रकर्त्री, सर्जनात्मकानुवादकर्त्री चासीत् । सा हिन्दीसाहित्यस्य महत्त्वपूर्णपुरस्कारं प्राप्तवती । भारतस्य साहित्यफलके महादेव्याः नाम ध्रुवतारकवत् देदीप्यमानम् अस्ति । विगतस्य अब्दस्य सर्वाधिकलोकप्रिया महिलासाहित्यकारत्वेन तस्याः बहुमानम् अभवत् [५] । २००७ तमं वर्षं तस्याः जन्मशताब्दीवर्षत्वेन जनैः आचरितम् ।

जन्म, परिवारश्च

१९०७ तमस्य वर्षस्य मार्च-मासस्य षड्विंशतितमे (२६/३/१९०७) दिनाङ्के प्रातः ८ वादने [६] भारतस्य उत्तरप्रदेशराज्ये फरुखाबादमण्डले अभवत् । तस्याः परिवारे प्रायः २०० वर्षानन्तरम् प्रप्रथमवारं पुत्र्याः जन्म अभवत् । अतः गृहजनाः हर्षेण मुग्धाः अभूवन् । सा गृहस्य महादेवी अस्ति इति सर्वैः मन्यते स्म [६] । अतः पुत्र्याः नामकरणं महादेवी कृतम् । तस्याः पितुः नाम गोविन्द प्रसाद वर्मा आसीत् । सः भागलपुरस्य महाविद्यालये प्राध्यापकः आसीत् । तस्याः मातुः नाम हेमरानी देवी आसीत् । हेमरानी देवी अतिधर्मपरायणा, कर्मनिष्ठा, भावसम्पन्ना, शाकाहारी महिला आसीत् [६] । सा स्वविवाहस्य समये पितृगृहात् सिंहासनासीनस्य भगवतः मूर्तिम् आनयत् [६] । सा प्रतिदिनम् अनेकाः होराः यावत् पूजनकार्ये निरता भवति स्म । सा रामायणस्य, गीतायाः, विनयपत्रिकायाः च नित्यं पारायणं करोति स्म । सा सङ्गीतक्षेत्रे अपि अत्यधिकरुचिं धरते स्म । तस्याः पत्युः गोविन्दस्य कानिच क्रियाकलापानि हेमरानीदेव्याः विपरीतानि आसन् । सः नास्तिकः, आखेटने अनुरक्तः, भ्रमणेच्छुकः, मांसाहारी च आसीत् । महादेव्याः मानसबन्धुषु सुमित्रानन्दन पन्त-महोदयस्य, सूर्यकान्त त्रिपाठी-महोदयस्य च गणना भवितुं शक्नोति । सा आजीवनं रक्षाबन्धनपर्वणि तौ रक्षासूत्रं बध्नाति स्म [७] । सूर्यकान्तस्य अपर नाम निराला इति आसीत् । सः तस्याः अत्यधिकः निकटवर्ती आसीत्[८][९] ।

शिक्षणम्

महादेव्याः शिक्षणम् इन्दौर-नगरस्य 'मिशन'-विद्यालये आरभत । सा संस्कृतस्य, आङ्ग्लभाषायाः, सङ्गीतस्य, चित्रकलायाः च शिक्षणं गृहे एव प्राप्तवती । यतः तस्याः गृहे अध्यापकाः पाठयितुं गच्छन्ति स्म । महादेवी स्वविवाहे व्यस्ता अभवत्, अतः मध्ये सा किमपि अध्ययनं कर्तुं न शक्तवती । परन्तु विवाहोत्तरं १९१९ तमे वर्षे महादेवी इलाहाबाद-नगरस्य 'क्रास्थवेट'-महाविद्यालयं प्रविष्टा । महाविद्यालयस्य छात्रावासे एव सा निवसति स्म । १९२१ तमे वर्षे महादेवी अष्टमकक्षायां आप्रान्तं प्रप्रथमं स्थानं प्राप्तवती । तस्मिन्नेव काले तया स्वकाव्यरचनयाः आरम्भः कृतः । यदा सा सप्त वर्षीया आसीत्, तदारभ्य एव सा कविताः लिखतिस्म । १९२५ वर्षपर्यन्तं यदा सा 'मैट्रिक'कक्षायाम् उत्तीर्णा अभवत्, तदा सफलकवयित्रीत्वेन सा प्रसिद्धा जाता आसीत् (हो चुकी थी) । विभिन्नासु पत्रिकासु तस्याः कविताः प्रकाशिताः भवन्ति स्म । महाविद्यालये सुभद्रा कुमारी चौहान इत्यनया सह तस्याः घनिष्ठसख्यम् आसीत् । सुभद्रा कुमारी चौहान एकदा महादेव्याः हस्तं गृहीत्वा सखिषु कर्षयित्वा अनयत्, तत्र च अवदत्, “शृण्वन्तु, एषा कविताम् अपि लिखति” इति । १९३२ तमे वर्षे यावत् सा इलाहाबादविश्वविद्यालयात् संस्कृतविषयं स्वीकृत्य एम.ए-कक्षायाम् उत्तर्णा अभवत्, तावत् तस्याः द्वौ कवितासङ्ग्रहौ नीहार, रश्मि च प्रकाशितौ जातौ आस्ताम् (हो चुके थे) ।

वैवाहिकजीवनम्

१९१६ तमे वर्षे तस्याः विवाहः बरेलीमण्डलस्य समीपं 'नबाव गंज'-नामकस्य स्थलस्य निवासिना स्वरूप-नामकेन युवकेन सह अभवत् । तस्य सम्पूर्णं नाम स्वरूप नारायण वर्मा आसीत् । विवाहकाले सा दशम्यां कक्षायाम् अभ्यासं कुर्वती आसीत् । विवाहोत्तरं स्वरूपः 'इण्टर'-कक्षायै लखनऊ-वैद्यकीयमहाविद्यालयस्य छात्रावासे निवसति स्म । महादेवी इलाहाबाद-नगरस्य 'क्रास्थवेट'-महाविद्यालयस्य छात्रावासे निवसति स्म । महादेवी विवाहितजीवनात् विरक्ता आसीत् । विरक्ततायाः कारणं तु स्पष्टं नास्ति, परन्तु यत् किमपि कारणं स्यात् स्वरूप नारायण वर्मा इत्यनेन सह वैमनस्यं तु नासीत् इति स्पष्टम् अस्ति । तयोः सम्बन्धे माधुर्यम् आसीत् । उभौ कदाचित् पत्राचारेणापि वार्तालापं कुरुतः स्म । यदा कदा स्वरूपः इलाहाबाद-नगरं गच्छति स्म, तदा महादेवीं निश्चयेन प्राप्यते स्म । यद्यपि महादेवी स्वरूपम् पौनःपुन्येन कथयति स्म यत्, "भवान् द्वितीयविवाहं करोतु" इति, तथापि स्वरूपः कदापि द्वितीयविवाहं नाकरोत् । महादेव्याः जीवनं संन्यासिनीवत् आसीत् । सा आजीवनं श्वेतवस्त्राणि अधरत् । भूमौ शयनम् अकरोत्, कदापि दर्पणं नापश्यच्च । १९६६ तमे वर्षे पत्युः मृत्योः अनन्तरम् अपि सा इलाहाबाद-नगरे एव स्थायिनिवासम् अकरोत् ।

वृत्तिः

महादेव्याः कार्यक्षेत्रं लेखनं, सम्पादनम्, अध्यापनं च आसीत् । इलाहाबाद-नगरस्य प्रयागमहिलाविद्यापीठस्य विकासकार्ये तस्याः महत्त्वपूर्णं योगदानम् अस्ति । तत् कार्यं महिलाशिक्षणक्षेत्रस्य उत्कृष्टं कार्यम् आसीत् । ततः सा प्रधानाचार्यात्वेन, कुलपतित्वेन च दायित्वम् अवहत् । १९३२ तमे वर्षे सा महिलानां स्थित्योल्लेखाय ‘चाँद’-नामिकायाः पत्रिकायाः सम्पादनं करोति स्म । १९३०, १९३२, १९३४, १९३६ वर्षेषु क्रमेण नीहार-कवितासङ्ग्रहः, रश्मि-कवितासङ्ग्रहः, नीरजा-कवितासङ्ग्रहः, सान्ध्यगीत-कवितासङ्ग्रहः च प्रकाशिताः अभूवन् । १९३९ तमे वर्षे तेषां चतुर्णां काव्यसङ्ग्रहाणां सङ्कलनं कृत्वा बृहदाकारकः 'यामा'-इत्याख्यः ग्रन्थः प्रकाशितः अभवत् । सा गद्य-काव्य-शिक्षण-चित्रकलाक्षेत्रेषु रचनात्मकानि कार्याणि अकरोत् । तस्याः अष्टादशसु (१८) रचनासु 'मेरा परिवार', 'स्मृति की रेखाएं', 'पथ के साथी', 'शृंखला की कड़ियाँ', 'अतीत के चलचित्र' प्रमुखाः रचनाः सन्ति । १९५५ तमे वर्षे महादेवी इलाहाबाद-नगरे 'साहित्यकार संसद-संस्थायाः स्थापनाम् अकरोत् । इलाचन्द्र जोशी-महोदयस्य सहयोगेन साहित्यकार-इत्याख्यस्य पत्रस्य सम्पादनस्य दायित्वम् ऊढम् । 'साहित्यकार' इति संस्थायाः मुखपत्रम् आसीत् । सा भारतीयमहिलानां कविसम्मेलनानि आरब्धवती [१०] ।

 

तस्याः प्रयासैः भारतगणराज्यस्य प्रप्रथमम् अखिलभारतवर्षीयकविसम्मेलनं १९३३ तमस्य वर्षस्य अप्रैल-मासस्य पञ्चदशे (१५) दिनाङ्के अभवत् । तस्य सम्मेलनस्य अध्यक्षपदं सुभद्रा कुमारी चौहान अवहत् । तस्य सम्मेलनस्य आयोजनं प्रयागमहिलाविद्यापीठे जातम् आसीत् [११] । महादेवी वर्मा हिन्दीसाहित्ये रहस्यवादस्य प्रवर्तिका अस्ति इति साहित्यक्षेत्रे मन्यते [१२] । महादेवी बौद्धधर्मेण अतिप्रभाविता आसीत् । महात्मा गान्धी-महाभागस्य प्रभावेण सा जनसेवायाः कार्यं प्रारब्धवती । तया झूसी-पत्तने जनसेवायाः कार्यं प्रारब्धम् । तया भारतीयस्वतन्त्रतासङ्ग्रामेऽपि सक्रियतया भागः ऊढः । १९३६ तमे वर्षे नैनीताल-पत्तनात् पञ्चविंशति (२५) कि.मी. दूरे रामगढ-नामकस्य लघुविभागस्य उमागढ-नामके ग्रामे महादेव्या गृहस्य निर्माणं कारितम् आसीत् । तस्य गृहस्य नाम 'मीरामन्दिरम्' आसीत् । यावत् सा तस्मिन् ग्रामे न्यवसत्, तावत् सा ग्रामे शिक्षणकार्यं, ग्रामविकासकार्यं चाकरोत् । तस्याः विशेषध्यानं महिलाशिक्षणे, महिलाऽऽर्थिकस्वनिर्भरतायां च आसीत् । अद्य तत् गृहं महादेवीसाहित्यसङ्ग्रहालयत्वेन प्रसिद्धम् अस्ति [१३][१४] । विकासस्य शृङ्खलायाः मुख्यभागः स्त्रीमुक्तिः अस्ति इति तस्याः दृढविश्वासः आसीत् । अतः तया साहसेन, दृढतया च स्त्रीविरुद्धानां सामाजिकप्रथानां निन्दाः कृताः । तस्याः तत् कार्यं महिलामुक्तिवादत्वेन प्रसिद्धम् अभवत् [१५] । महिलानां शिक्षणस्य, विकासस्य च कार्याणि, जनसेवायाः कार्याणि च तया कृतानि, अतः जनाः तां "समाजनिवर्तिका" इति कथयन्ति स्म [१६] । तस्याः गद्यसाहित्ये पद्यसाहित्ये वा कुत्रापि पीडायाः, वेदनायाः दर्शनं न भवति, अपि तु गहनरोषस्य, परिवर्तनस्य अदम्याकाङ्क्षायाः, विकासं प्रति सहजाकर्षणस्य च गूढदर्शनं भवति [१७] ।

मृत्युः

महादेवी वर्मा स्वजीवनस्य अधिकांशं समयम् उत्तरप्रदेशराज्यस्य इलाहाबाद-नगरे अयापयत् । १९८७ तमस्य वर्षस्य सितम्बर-मासस्य एकादशे (११) दिनाङ्के रात्रौ ९:३० वादने इलाहाबाद-नगरे तस्याः देहान्तः अभवत् ।

प्रमुखाः रचनाः

महादेवी कवयित्री तु आसीदेव, परन्तु तेन सह उत्कृष्टा गद्यलेखिका अपि आसीत् । अधः तस्याः रचनाः उल्लिखिताः सन्ति ।

 

कवितासङ्ग्रहः[सम्पादयतु]

     १. नीहार (१९३०)

     २. रश्मि (१९३२)

     ३. नीरजा] (१९३४)

     ४. सान्ध्यगीत (१९३६)

 

     ५. दीपशिखा (१९४२)

     ६. सप्तपर्णा (अनूदित-१९५९)

     ७. प्रथम आयाम (१९७४)

     ८. अग्निरेखा (१९९०)

 

महादेव्याः अन्यानि अनेकानि काव्यसङ्कलानि अपि प्रकाशितानि सन्ति, येषु उपर्युक्ताभ्यः रचनाभ्यः चितानि गीतानि सन्ति । यथा - आत्मिका, परिक्रमा, सन्धिनी (१९६५), यामा (१९३६), गीतपर्व, दीपगीत, स्मारिका, नीलाम्बरा, आधुनिक कवि महादेवी आदीनि ।

 

महादेव्याः गद्यसाहित्यम्

रेखाचित्रम् अतीत के चलचित्र (१९४१), स्मृति की रेखाएं (१९४३) च

संस्मरणम् पथ के साथी (१९५६), मेरा परिवार (१९७२, (१९८३))

चितानां भाषणानां सङ्कलनम् सम्भाषण (१९७४)

निबन्धः शृंखला की कड़ियाँ (१९४२), विवेचनात्मक गद्य (१९४२), साहित्यकार की आस्था तथा अन्य निबंध (१९६२), संकल्पिता (१९६९)

ललितनिबन्धः क्षणदा (१९५६)

कथाः गिल्लू

संस्मरणानां, रेखाचित्रां, निबन्धानां च सङ्ग्रहः हिमालय-इत्याख्यं पुस्तकम् (१९६३),

अन्येषु निबन्धेषु सङ्कलिताः स्मारिकाः, स्मृतिचित्राणि, सम्भाषणानि, दृष्टिबोधाः अपि सन्ति । हिन्दीभाषायाः प्रचाराय तया प्रयागे ‘साहित्यकारसंसदः’, रङ्गवाणीनाट्यसंस्थायाः च आरम्भः कृतः ।

 

महादेव्याः बालसाहित्यम्

महादेवी वर्मा अनेकाः बालकविताः अलिखत्, तासां सङ्कलनानि अपि प्रकाशितानि अभूवन् ।

 

ठाकुरजी भोले हैं

आज खरीदेंगे हम ज्वाला

समालोचना

'आधुनिक गीत'काव्ये महादेव्याः स्थानं सर्वोपरि वर्तते । तस्याः कवितासु प्रेम्णः, पीडायाः, भावानां च तीव्रता आसीत् । अतः भाव-भाषा-सङ्गीतरूपिणी त्रिवेणी तस्याः गीतेषु प्रवाहिता भवति । महादेव्याः गीतेषु विद्यमानाः वेदनाः, प्रणयानुभूतयः, करुणाः, रहस्यवादाः च काव्यानुरागिणः आकर्षयन्ति । परन्तु रचनानाम् आलोचकानां मतानि सामान्यपाठकेषु दिग्भ्रान्तिं जनयन्ति । यतो हि केषाञ्चन आलोचकानां मतम् अस्ति यत्, महादेव्याः काव्यानि वैयक्तिकपीडायाः बोधं कारयति इति । तस्याः पीडा, वेदना, करुणा कृत्रिमा अस्ति इति ।

 

आचार्य रामचन्द्र शुक्ल सदृशैः मूर्धन्यालोचकैः तस्याः वेदनायाः, अनुभूतीनां च सत्यतायाः विषये प्रश्नाः उत्पादिताः —[घ] । अपरत्र

आचार्य हजारी प्रसाद द्विवेदी सदृशैः समीक्षकैः तस्याः काव्येषु समष्टिपरकत्वं मन्यते [ङ] ।

‘दीप’ (नीहार), मधुर मधुर मेरे दीपक जल (नीरजा), मोम सा तन गल चुका है इत्यादिषु कवितासु महादेव्याः ‘आत्मभक्षी दीप’-अभिप्रायः एव साक्षात् भवति इति शोमेर-नामकः आलोचकः कथयति ।

सत्यप्रकाश मिश्र छायावादेन सह सन्बन्धितानां शास्त्रमीमांसायाः विषये कथयति यत्, ― “महादेव्याः वैदुष्ययुक्ताः तार्किकताः, तस्याः उदाहरणानि च छायावादस्य, रहस्यवादस्य च रचनाः पूर्ववर्तिकाव्यरचनाभ्यः विशिष्टाः सन्ति । तथा च ताः रचनाः अनेकेषु आयामेषु मानवीयसंवेदनाम् उपस्थापयन्ति । सत्यप्रकाशस्य स्पष्टमतम् अस्ति यत्, "महादेव्याः न कस्यापि उपरि भावसाम्यं, भावोपहरणम् इत्यादिविषये आरोपाः कृताः, अपि तु तया केवलं छायावादस्य स्वभावः, चरित्रं, स्वरूपं, विशिष्टता च वर्णिता अस्ति" इति [१८] ।

प्रभाकर श्रोत्रिय सदृशाः मनीषिणः कथयन्ति यत्, ये तस्याः गणनां पीडायाः, निराशायाः कवयित्रीषु कुर्वन्ति, ते न जानन्ति यत्, सा पीडानुभवे समान्यजेनेभ्यः कियती संवेदनशीला अस्ति, यया जीवनस्य सत्यतायाः बोधः भवति [च] ।

अत्र सत्यता अस्ति यत्, महादेव्याः काव्यसंसारः छायावादस्य परिधौ निहितः आसीत् । परन्तु तस्याः काव्यानि असम्पृक्तरीत्या दृश्यन्ते चेत्, महादेव्या सह अन्याय एव मन्यते । वङ्गप्रदेशस्य अकालस्य समये १९४३ तमे वर्षे तया एकं काव्यसङ्कलनं प्रकाशितम् । वङ्गसम्बद्धा “बंग भू शत वंदना”-नामिका कविता अपि रचिता । तथैव चीन-देशस्य आक्रमणस्य विराधाय तया 'हिमालय'-नामकः काव्यसङ्ग्रहः अरि सम्पादितः । सः सङ्ग्रहः तस्याः युगबोधस्य प्रमाणम् अस्ति ।

 

गद्यसाहित्यक्षेत्रे अपि तया अनेकानि कार्याणि कृतानि । तस्याः आलोचनात्मकं साहित्यं काव्यवदेव महत्त्वपूर्णम् अस्ति । तस्याः संस्मरणानि भारतीयजीवनस्य संस्मरणानां चित्राणि सन्ति ।

 

चित्रकलाक्षेत्रे तस्याः योगदानं न दृश्यते, परन्तु जलरङ्गानाम् उपयोगेन ‘वॉश’-शैल्या निर्मतानि तस्याः चित्राणि अस्पष्टरङ्गाः, लयपूर्णरेखाः च कलायाः सुन्दरोदाहरणत्वेन परिगण्यन्ते । सा रेखाचित्राणि अपि अरचयत् ।

 

पुरस्काराणि

सा प्रशासनिक-अर्धप्रशासनिक-व्यक्तिगतसंस्थाभ्यः पुरस्काराणि प्रापत् ।

 

१९४३ तमे वर्षे सा ‘मङ्गलाप्रसादपारितोषिकम्’ एवं ‘भारतभारती’-पुरस्कारं प्रापत् । स्वाधीनताप्राप्त्यनन्तरं १९५२ तमे वर्षे सा उत्तरप्रदेशविधानपरिषदः सदस्या अभवत् । १९५६ तमे वर्षे भारतसरकारः तस्याः साहित्यिकसेवानिमित्तं तस्यै ‘पद्मभूषण’-उपाधिम् अयच्छत् । १९७९ तमे वर्षे साहित्य अकादमी-संस्थायाः सदस्यतां प्राप्तवती सा प्रप्रथममहिला आसीत् [१९] । १९८८ तमे वर्षे मरणोत्तरं पद्मविभूषण-उपाधिना भारतसरकारेण सा सम्मानिता अभवत् [७] ।

१९६९ तमे वर्षे विक्रमविश्वविद्यालयः, १९७७ तमे वर्षे कुमाऊंविश्वविद्यालयः - नैनीताल, १९८० तमे वर्षे देहलीविश्वविद्यालयः, १९८४ तमे वर्षे बनारसहिन्दूविश्वविद्यालयः - वाराणसी च तस्यै डी.लिट-नामकेन उपाधिना सा सम्मानिता अभवत् ।

पुरा महादेवी वर्मा ‘नीरजा’-इत्याख्यायै रचनायै १९३४ तमे वर्षे ‘सक्सेरिया'-पुरस्कारं, १९४२ तमे वर्षे ‘स्मृति की रेखाएँ’-इत्याख्यायै रचनायै ‘द्विवेदी'-पदकं प्रापत् । ‘यामा’-नामकस्य काव्यस्य सङ्कलनाय अपि ज्ञानपीठपुरस्कारं प्रापत् [२०] । भारतस्य पञ्चाशति ५० यशस्विनीषु महिलासु सा अन्तर्भवति [२१] ।

१९६८ तमे वर्षे सुप्रसिद्धेन भारतीयचलच्चित्रनिदेशकेन मृणाल सेन इत्यनेन अपि तस्याः संस्मरणार्थं ‘वह चीनी भाई’[२२] इत्याख्यायाः महादेव्याः रचनायाः आधारेण वङ्गभाषायाम् एकस्य चलच्चित्रस्य रचना कृता । तस्य चलच्चित्रस्य नाम 'नील आकाशेर नीचे' आसीत् [२३] ।

१९९१ तमस्य वर्षस्य सितम्बर-मासस्य षोडशे (१६) दिनाङ्के भारतस्य पत्राचारविभागः जयशङ्कर प्रसाद-महोदयेन सह तस्याः सम्माननं कुर्वन् २ रूप्यकाणां युगलचिटिकां प्राकाशयत् [२४] ।

महादेव्याः योगदानम्

 

महादेव्या सह सँल्लग्नानि कानिचन स्थलानि

साहित्ये महादेव्याः आविर्भावः तदा अभवत्, यदा 'खडीबोली'-भाषायाः आकारः परिष्कृतः भवति स्म । सा हिन्दीकवितायै ब्रजभाषायानुकूलान् कोमलशब्दान् संस्कृतभाषायाः, वङ्गभाषायाः च अन्विष्टवती । छन्दोभिः तया गीतरचनाक्षेत्रे नावीन्यं सृष्टम् । भारतीयदर्शनस्य वेदनाः स्वीकृत्या सह जनानां सम्मुखम् उपस्थापिताः । एवं सा भाषा-साहित्य-दर्शनेषु अतिमहत्त्वपूर्णानि कार्याणि अकरोत् । तस्याः कार्याणि भविष्यत्कालस्य जनान् अपि प्रैरयत् । शचीरानी गुर्टू-नामिका कवयित्री अपि अङ्ग्यकरोत् यत्, महादेव्याः कविताः सुसज्जितभाषायाः अनुपमोदाहरणम् अस्ति [छ] इति । तस्याः गीतरचनायाः शैली, भाषा अतिविशिष्टा आसीत् । तथा च तया याः रचनाः कृताः, ताः सर्वाः सरलाः आसन् । तेन सह प्रतीकानाम्, उदाहरणानां च तया सुन्दररीत्या, स्वाभाविकरीत्या च प्रयोगः कृतः, येन विषयवस्तु पाठकानां नेत्रयोः सम्मुखं चित्रवत् प्रत्यक्षं भवति [ज] । छायावादस्य काव्यानां समृद्धौ अपि तस्याः अमूल्यं योगदानं वर्तते । छायावादस्य काव्येषु प्रसादेन (गोविन्द प्रसाद) प्रकृतितत्त्वं स्थापितं, सूर्यकान्तेन (सूर्यकान्त त्रिपाठि निराला) तेषु काव्येष मुक्तछन्दः स्थापितं, सुमित्रानन्दनेन (सुमित्रनन्दन पन्त) च सुकोमलकलायै पोषकतत्वं स्थापितम् । छायावादस्य सम्पूर्णे कलेवरे (शरीरे) प्राणप्रतिष्ठायाः दायित्वं महादेव्या ऊढम् । भावात्मकतायाः एवम् अनुभूतेः च गहनता तस्याः काव्यानां प्रमुखविशेषता आसीत् । हृदयस्य सूक्ष्मातिसूक्ष्मभावानां तरङ्गान् सा मूर्त्तान् च कृत्वा तेषु अभिव्यञ्जनायाः छायावादिरसान् स्थापयति स्म । तस्याः सा कला एव तस्यै ‘महादेवी’त्वेन सम्मानं प्रयच्छति [२५] वे हिन्दी बोलने वालों में अपने भाषणों के लिए सम्मान के साथ याद की जाती हैं। उनके भाषण जन सामान्य के प्रति संवेदना और सच्चाई के प्रति दृढ़ता से परिपूर्ण होते थे। वे दिल्ली में १९८३ में आयोजित तीसरे विश्व हिन्दी सम्मेलन के समापन समारोह की मुख्य अतिथि थीं। इस अवसर पर दिये गये उनके भाषण में उनके इस गुण को देखा जा सकता है।[२६]

 

यद्यपि महादेवी अनेकेषाम् उपन्यासानां, कथानां, नाटकानां च रचनाम् अकरोत्, तथापि तस्याः लेखाः, निबन्धाः, रेखाचित्राणि, संस्मरणाणि, भूमिकाः, ललितनिबन्धाः उत्कृष्टताः आसन् । यतो हि तेषु तया ये गद्याङ्काः लिखिताः, ते श्रेष्ठतमगद्याङ्काः मन्यन्ते [झ] । तेषु जीवनस्य सम्पूर्णवैविध्यं समाहितम् अस्ति । कल्पनात्मकविचारैः, काव्यानां च अवलम्बनम् अकृत्वैव रचनाकारः गद्ये किं किं स्थापयितुं शक्नोतीति पठनीयं चेत्, महादेव्याः रचनाः पठनीयाः । तस्याः गद्येषु विद्यमानायाः वैचारिकपरिपक्वतायाः वर्तमानकाले अपि प्रासङ्गिकता अनुभूयते [ञ] । समाजनिवर्तिका, नारस्वततन्त्रतायाः पक्षधरायाः तस्याः विचारेषु दृढतायाः, विकासस्य च अनुपमसामञ्जस्यं प्राप्यते । सामाजिकजीवनस्य गूढविषयान् बोधयन्ती तस्याः तीव्रदृष्टिः नारीजीवनस्य वैषम्यं, शोषणं च प्रप्रथमवारं समाजस्य सम्मुखम् अस्थापयत् । मौलिकरचनाकर्त्री सा सृजनात्मकम् अनुवादम् अपि करोति स्म । तस्याः प्रखरानुवादस्य दर्शनं ‘सप्तपर्णा’ (१९६०)-ग्रन्थे भवति । स्वस्याः सांस्कृतिकचेतनायाः आधारेण तया वेद-रामायण-थेरगाथा-अश्वघोष-कालिदास-भवभूति-जयदेवादीनां कृतीषु तादात्म्यं स्थापितम् । तथा च ३९ महत्त्वपूर्णान् अंशान् अवलम्ब्य हिन्दीभाषायाम् काव्यानुवादं कृत्वा प्रास्तौत् । ‘अपनी बात’-इत्याख्यां ६१ पृष्टात्मकं शोधपत्रं भारतीयमनीषा-संस्थायाम् उपस्थापितम् । तत् शोधपत्रं स्त्रीलेखनस्य, हिंदीभाषायाः समग्रचिन्तनस्य, ललितलेखनस्य च उपस्थापनं करोति [२७] ।

 

सम्बद्धाः लेखाः

हिन्दीसाहित्यम्

सुभद्रा कुमारी चौहान

ज्ञानपीठपुरस्कारः

भारतीयपत्रविभागः

टिप्पणी

   क.    ^  छायावादस्य अन्ये त्रयः स्तम्भाः जयशङ्कर प्रसाद, सूर्यकान्त त्रिपाठी निराला, सुमित्रानन्दन पन्त च ।

   ख.    ^  हिन्दी के विशाल मंदिर की वीणापाणी, स्फूर्ति चेतना रचना की प्रतिमा कल्याणी ―निराला

   ग.    ^  सा ब्रजभाषामाध्यमेन हिन्दीभाषायै कोमलतायाः, मधुरतायाः च मार्गं प्रशस्तम् अकरोत् । तथा च व्यष्टिमूलकानां मानवतावादिकाव्यानां प्रतिस्थापनम् अकरोत् । तस्याः गीतानां नादः, सौन्दर्यं च व्यञ्जनाशैल्याः दुर्लभोदाहरणम् अस्ति । ―निशा सहगल [२८]

   घ.    ^  “वेदनायाः आधारेण तया हृदयस्य अनुभूतयः जनानां सम्मुखम् उपस्थापिताः । कुत्र वास्तविकानुभूतयः सन्ति ? कुत्र कल्पना अस्ति ? इति वक्तुं न शक्यते ।” ―आचार्य रामचन्द्र शुक्ल

   ङ.    ^  “महादेव्याः ‘मैं’ संदर्भः सर्वेभ्यः अस्ति ।” सत्यता इयम् अस्ति यत्, महादेव्याः रचनाः व्यष्टेः समष्टिं प्रति नयन्ति । तस्याः पीडाः, वेदनाः, करुणाः, दुखवादः च विश्वकल्याणस्य कामनायां निहितः अस्ति । ―हजारी प्रसाद द्विवेदी

   च.    ^  वस्तुतः महादेव्याः अनुभूतेः, सर्जनस्य केन्द्रम् अश्रूणि न, अपि तु अग्निः वर्तते । यत् दृश्यमत् अस्ति, तत् अन्तिमं सत्यं नास्ति, परन्तु यत् अदृश्यम् अस्ति, तत् मूलं प्रेरकं वा सत्यम् अस्ति । महादेवी अलिखत्, “आग हूँ जिससे ढुलकते बिन्दु हिमजल के” अनेन सर्वं स्पष्टं भवति । इतोऽपि अस्पष्टता अस्ति चेत्, "मेरे निश्वासों में बहती रहती झंझावात/आँसू में दिनरात प्रलय के घन करते उत्पात/कसक में विद्युत अंतर्धान। ये आँसू सहज सरल वेदना के आँसू नहीं हैं" इत्यस्मिन् तु निश्चयेन तस्याः भावाः सुस्पष्टाः प्रत्यक्षाः वा भवन्ति ―प्रभाकर श्रोत्रिय [२९]

   छ.    ^  महादेव्याः कविताः सुसज्जितभाषायाः अनुपमोदाहरणम् अस्ति ―शचीरानी गुर्टू[३०]

   ज.    ^  महादेवी के प्रगीतों का रूप विन्यास, भाषा, प्रतीक-बिंब लय के स्तर पर अद्भुत उपलब्धि कहा जा सकता है। ―कृष्णदत्त पालीवाल[३१]

   झ.    ^  महादेव्या गद्येषु अपि कवितायाः मर्मस्य अनुभूतिः जनिता । ‘गद्यं कवीनां निकषं वदन्ति’ इत्येताम् उक्तिं सा चरितार्थितवती । विलक्षणता तु अस्ति यत् न तु सा उपन्यासम् अलिखत्, न तु कथां, नैव नाटकानि, तथापि श्रेष्ठगद्यकारत्वेन प्रसिद्धा अस्ति । तस्याः ग्रन्थलेखने रेखाचित्रस्य, संस्मरणस्य, यात्रावृत्तस्य च आभासः भवति । तथा च सम्पादकीयं, भूमिकाः, निबन्धाः, अभिभाषणानि इत्यादीनां माध्यमेन जीवनस्य वैविध्यस्य ज्ञानं भवति । कल्पनात्मकविचारैः, काव्यानां च अवलम्बनम् अकृत्वैव रचनाकारः गद्ये किं किं स्थापयितुं शक्नोतीति पठनीयं चेत्, महादेव्याः रचनाः पठनीयाः । ―रामजी पांडेय[३२]

   ञ.    ^  महादेव्याः गद्यानि जीवनस्य गहनानि गद्यानि सन्ति । 1956 तमे वर्षे लिखानि तस्याः गद्यानि अद्य 50 वर्षानन्तरम् अपि प्रासङ्गिकानि सन्ति । तत्र किमपि जीर्णत्वं नास्ति । ―राजेन्द्र उपाध्याय[३३]

वार्ताः


हकीकतरायः

हकीकतरायः कश्चन स्वतन्त्रसेनानी बालकः आसीत्, यः मुस्लिम [ ... ]

अधिकम् पठतु
भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (ISRO)...

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् (इसरो, आङ्ग्ल: Indian Space Res [ ... ]

अधिकम् पठतु
ऐतरेयोपनिषत्

ऐतरेयोपनिषत् (Aitareyopanishat) ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता  [ ... ]

अधिकम् पठतु
आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

Swaha आहुति के दौरान “स्वाहा” क्यों कहा जाता है?...

स्वाहा का म [ ... ]

अधिकम् पठतु
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवसर...

Importance of rakhi
वैदिक ब्राह्मणों को वर्ष भर में आत्मशुद्धि का अवस [ ... ]

अधिकम् पठतु
भानु सप्तमी व कर्क संक्रान्ति 16 जुलाई 2017 को...

भानु सप्तमी व कर्क संक्रान्ति
16 जुलाई 2017 को

अकाल मृत्यु पर  [ ... ]

अधिकम् पठतु
भागवत में लिखी ये 10 भयंकर बातें कलयुग में हो रही ...

पंडित अंकित पांडेय - देववाणी समूह
*भागवत📜 में लिखी ये 10 भयं [ ... ]

अधिकम् पठतु
नाग पंचमी विशेष-27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उ...

27 जुलाई नाग पंचमी 28 जुलाई जनेऊ उपाकर्म। जानिए नाग पंचमी ब् [ ... ]

अधिकम् पठतु
about

हमारे समूह में आप भी जुडकर देववाणी व देश का समुचित विकास व  [ ... ]

अधिकम् पठतु
परिमिलनम्


आप मुझे फेसबुक गूगल ग्रुप या ई-मेलThis email address is being protected from spambots. You need J [ ... ]

अधिकम् पठतु
उपनिषद्ब्राह्मणम्...

उपनिषद्ब्राह्मणं दशसु प्रपाठकेषु विभक्तमस्ति । अस्मिन [ ... ]

अधिकम् पठतु
गोपथब्राह्मणम्

गोपथब्राह्मणम् अथर्ववेदस्य एकमात्रं ब्राह्मणमस्ति। गो [ ... ]

अधिकम् पठतु
वंशब्राह्मणम्

वंशब्राह्मणं स्वरूपेणेदं ब्राह्मणं लघ्वाकारकमस्ति । ग [ ... ]

अधिकम् पठतु
संहितोपनिषद्ब्राह्मणम्...

संहितोपनिषद्ब्राह्मणं सामगायनस्य विवरणप्रदाने स्वकीय [ ... ]

अधिकम् पठतु
आर्षेयब्राह्मणम्

आर्षेयब्राह्मणं सामवेदस्य चतुर्थं ब्राह्मणम् अस्ति । स [ ... ]

अधिकम् पठतु
अन्य लेख