वाराहपुराण

  • वाराहपुराण

    वाराहपुराण-

    Loading...

    अष्टादशसु पुराणेषु अन्यतमं वर्तते वाराहपुराणम्(VarahaPurana) । इदं किञ्चन प्राचीनं पुराणम्। पुराणस्य पञ्च अपि लक्षणानि अत्र दृश्यन्ते।वराहरूपीनारायणः भूदेवीम् प्रति उक्तमिदं पुराणम् नारदपुराणे १०३ अध्याये वाराहपुराणस्य लक्षणम् एवम् उक्तम् अस्ति। भागद्वययुतं पुराणं भवति।

    शृणु वत्स ! प्रवक्ष्यामि वाराहं वै पुराणकम्।
    भागद्वययुतं शश्वद्विष्णुमाहात्म्यसूचकम्॥इति॥

    महावराहस्य पुनर्माहात्म्यमधिकृत्य च।
    विष्णुनाभिहितं क्षोण्यै तद्वाराहमिहोच्यते॥

    मानवस्य प्रसङ्गेन कल्पस्य मुनिसत्तमाः।
    चतुर्विंशसहस्राणि तत्पुराणमिहोच्यते॥

    अस्मिन् पुराणे २४,००० सहस्र सङ्ख्याकाः श्लोकाः सन्ति। नारदपुराणे एवं मत्स्यपुराणेच २४,००० श्लोकाः सन्ति इति उल्लेखः अस्ति। किन्तु सध्यःकालीन ग्रन्थेषु १७,००० श्लोकाः लभ्यन्ते। अस्मिन् पुराणे व्रताणाम् विवरणानि सन्ति। तानि विष्णुविषयकानि व्रतानि भवन्ति। अस्मिन् महत्वपूर्णौ अंशौ भवतः। एकं मथुरामाहात्म्यम्, अत्र मथुरा तथा अन्यतीर्थक्षेत्राणाञ्च निरूपणं दृश्यते। अपरं नचिकेतोपाख्यानम्,दशावतारद्वादशीव्रथा,गोदान,शालग्रामपूजा, यमनचिकेतयोः संवादरूपात्मकाः कथाः लभ्यन्ते। एवं स्वर्गनरकयोः निरूपणं कृतं दृश्यते। कठोपनिषदि विद्यमानानां कथानां छायाः दृश्यन्ते।

     

    अस्मिन् वाराहपुराणे २१७, २१८ अध्यायाः सन्ति। उत्तरार्दम्, पूर्वार्दम् इति विभागद्वये विभक्तम् अस्ति इति नारदपुराणे उल्लेखः अस्ति।

    व्रतानि

    मत्स्यद्वादशिव्रतम् कूर्मद्वादशिव्रतम्
    वराहद्वादशिव्रतम् नृसिंहद्वादशिव्रतम्
    वामनद्वादशिव्रतम् जमदग्निद्वादशिव्रतम्
    कल्किद्वादशिव्रतम् पद्मनाभद्वादशिव्रतम्
    बुद्धद्वादशिव्रतम् धरणीव्रतम्
    शुभव्रतम् धान्यव्रतम्
    कान्तिव्रतम् सौभाग्यव्रतम्
    अविघ्नव्रतम् कामव्रतम्
    आरोग्यव्रतम् पुत्रप्राप्तिव्रतम्
    शौर्यसार्वभौमव्रतम्  

    दानानि

    • तिलधेनुदानम्
    • जलधेनुदानम्
    • रसधेनुदानम्
    • गुडधेनुदानम्
    • शर्कराधेनुदानम्
  • सन्धिप्रकरणम्

    सन्धिप्रकरणम्

    उच्चारणसमये वर्णानाम् अत्यन्तं सामीप्यं संहिता। यत्र संहिता भवति तत्र क्वचित् वर्णव्ययः भवति। अयमेव सन्धिः।

    • वर्णस्य वर्णयोः वा स्थाने यदि अन्यः वर्णः भवति सः आदेशः।

    • एकेन वर्णेन सह यदि अन्यः वर्णः अपि भवति सः आगमः।

    ( शत्रुवत् आदेशः। मित्रवत् आगमः।)

    सन्धयः त्रिविधाः १) स्वरसन्धिः २) व्यञ्जनसन्धिः ३) विसर्गसन्धिः

    स्वरसन्धिः (अच् सन्धिः)

    यत्र द्वयोः स्वरयोः संहिता तत्र सन्धिकार्यं भवति। तत्र एकस्य वर्णस्य क्वचित् आदेशो भवति क्वचित् द्वयोः वर्णयोः। अयं स्वरसन्धिः भवति।

    प्रकाराः - १) सवर्णदीर्घसन्धिः २) गुणसन्धिः ३) वृद्धिसन्धिः ४) यण्सन्धिः ५) पूर्वरूपसन्धिः ६) यान्तवान्तादेशसन्धिः ७) प्रकृतिभावसन्धिः

    सवर्णदीर्घसन्धिः

    • पाणिनीयसूत्रम् - अकः सवर्णे दीर्घः - अकः सवर्णे अचि परे दीर्घ एकादेशः स्यात्।

    अ इ उ ऋ एतेषां वर्णानां सवर्णे परे द्वयोः वर्णानां स्थाने एकः सवर्णः दीर्घः आदिष्टः भवति। अयं सवर्णदीर्घसन्धिः।

    उदा -

    अल्प + अपराधः = अल्पापराधः

    मुनि + इन्द्रः = मुनीन्द्रः

    गुरु + उपदेशः = गुरूपदेशः

    पितृ + ऋणम् = पितॄणम्

    गुणसन्धिः

    • पाणिनीसूत्रम् - आद्गुणः

    (ए, ओ, अर् एतेषां गुण इति नाम।) अकारस्य वा आकारस्य इकारे परे एकारः उकारे परे ओकारः ऋकारे परे अर्कारः च द्वयोः वर्णयोः स्थाने आदिष्टः भवति। अयं गुनसन्धिः।

    उदा -

    राम + इति = रामेति

    सूर्य + उदयः = सूर्योदयः

    ब्रह्म + ऋषिः = ब्रह्मर्षिः

    महा + ईश्वरः = महेश्वरः

    वृद्धिसन्धिः

    • पाणिनीसूत्रम् - व्रुद्धिरेचि - आदेचि परे वृद्धिरेकादेशः स्यात्।, उपसर्गादृति धातौ

    (ऐ, औ, आर् एतेषां वृद्धि इति नामः।) अवर्णस्य एकारे ऐकारे च परे द्वयोः वर्णयोः स्थाने ऐकारः ओकारे औकारे च परे द्वयोः वर्णयोः स्थाने औकारः ऋकारे ॠकारे च परे द्वयोः वर्णयोः स्थाने आर्कारः आदिष्टः भवति। अयं वृद्धिसन्धिः।

    उदा -

    एक + एकम् = एकैकम्

    वन + औषधिः = वनौषधिः

    प्र + ऋच्छति = प्रार्च्छति

    देव + ऐश्वर्यम् = देवैश्वर्यम्

    यण्सन्धिः

    • पाणीनीसूत्रम् - इकोयणचि - इकः स्थाने यण् स्यादचि सहितायाम्।

    (य्, व्, र्, ल् एतेषां यण् इति नाम।) इ, उ, ऋ, लृ एतेषां वर्णानाम् असवर्णे स्वरे परे य्, व्, र्, ल् वर्णाः क्रमशः आदिष्टाः भवन्ति। अयं यण् सन्धिः।

    उदा -

    इति + आदि = इत्यादि

    मधु + अरिः = मध्वरिः

    पितृ + अंशः = पित्रंशः

    लृ + आकृतिः = लाकृतिः

    पूर्वरूपसन्धिः

    • पाणिनीसूत्रम् - एङः पदान्तादति

    पदान्ते स्थितस्य एकारस्य ओकारस्य वा ह्रस्वे अकारे परे द्वयोः वर्णयोः स्थाने पूर्वरूप्ः आदेशः भवति। अयं पूर्वरूपसन्धिः। (अवग्रहचिह्नम् - ऽ)

    उदा -

    के + अपि = केऽपि

    को + अपि = कोऽपि

    सो + अयम् = सोऽयम्

    रामो + अवदत् =रामोऽवदत्

    यान्तवान्तादेशसन्धिः

    • पाणिनीसूत्रम् - एचोऽयवायावः

    ए, ओ, ऐ, औ इत्येतेषां वर्णानां स्थाने स्वरे परे अय्, अव्, आय्, आव् इत्येते आदेशाः क्रमशः भवन्ति। अयं यान्तवान्तादेशसन्धिः।

    उदा -

    हरे + ए = हरये

    नै + अकः = नायकः

    विष्णो + ए = विष्णवे

    उभौ + अपि = उभावपि

    प्रकृतिभावः

    • पाणिनीसूत्रम् - प्लुतप्रगृह्या अचि नित्यम्

    वर्णयोः यत्र सन्धिः न भवति सः प्रकृतिभावः। ईकारात्, ऊकारात्, एकारात् वा द्विवचनात् स्व्ररे परे सन्धिः न भवति। अयमं प्रकृतिभावः।

    उदा -

    हरी + एतौ = हरी एतौ

    साधू + ऊचतुः = साधू ऊचतुः

    व्यञ्जनसन्धिः (हल्सन्धिः)

    यत्र द्वयोः व्यञ्जनयोः संहिता तत्र सन्धिकार्यं भवति। अयं व्यञ्जनसन्धिः भवति। क्वचित् व्यञ्जनाक्षरस्य स्वरे परेऽपि व्यञ्जनसन्धिः भवति।

    प्रकाराः - १) श्चुत्वसन्धिः २) ष्टुत्वसन्धिः ३) जश्त्वसन्धिः ४) अनुनासिकसन्धिः ५) अनुस्वारसन्धिः ६) परसवर्णसन्धिः ७) ङमुडागमसन्धिः ८) छत्वसन्धिः

    श्चुत्वसन्धिः

    • पाणिनीसूत्रम् - स्तोः श्चुना श्चुः - सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः।

    सकारतवर्गयोः शकारे चवर्गे च परे शकारचवर्गौ एव क्रमशः आदेशौ स्तः। अयं श्चुत्वसन्धिः।

    उदा -

    तत् + च = तच्च

    गुणिन् + जयः = गुणिञ्जयः

    मन्दास् + चरितम् = मन्दाश्चरितम्

    रामस् + शेते = रामश्शेते

    ष्टुत्वसन्धिः

    • पाणिनीसूत्रम् - ष्टुना ष्टुः।

    सकारतवर्गयोः षकारटवर्गाभ्यां योगे षकारटवर्गौ स्तः।

    उदा -

    तत् + टीका = तट्टीका

    रामस् + षष्टः = रामष्षष्टः

    जिस् + णुः = जिष्णुः

    पतत् + डयते = पतड्डयते

    जश्त्वसन्धिः

    • पाणिनीसूत्रम् - झलां झशोन्ते।

    पदान्ते स्थितस्य वर्गीयप्रथमाक्षरस्य स्वरे परे अथवा अनुनासिकं विहाय मृदुव्यञ्जने परे तस्य वर्गस्य तृतीयवर्णः आदिष्टः भवति। अयं जश्त्वसन्धिः।

    उदा -

    सत् + गुणः = सद्गुणः

    प्राक् + एव = प्रागेव

    षट् + एते = षडेते

    अप् + धिः = अब्धिः

    अनुनासिकसन्धिः

    • पाणिनीसूत्रम् - यरोनुनासिकेऽनुनासिको वा।

    पदान्ते स्थितस्य वर्गीयप्रथमवर्णस्य अनुनासिकाक्षरे परे तस्य तस्य वर्गस्य पञ्चमवर्णः आदिष्टः भवति। अयं अनुनासिकसन्धिः।

    उदा -

    वाक् + मयः = वाङ्मयः

    षट् + मुखः = षण्मुखः

    चित् + मयः = चिन्मयः

    उत् + नसः = उन्नसः

    अनुस्वारसन्धिः

    पाणिनीसूत्रम् - मोऽनुस्वारः।

    पदान्ते विद्यमानस्य मकारस्य व्यञ्जने परे मकारस्य स्थाने अनुस्वारः आदिष्टः भवति।

    उदा -

    देवम् + वन्दे = देवं वन्दे

    एवम् + रूपेण = एवं रूपेण

    परसवर्णसन्धिः

    • पाणिनीसूत्रम् - अनुस्वारस्य ययि परसवर्णः वा पदान्तस्य।

    अनुस्वारस्य वर्गीयव्यञ्जने परे तस्य वर्गस्य पञ्चमवर्णः आदिष्टः भवति। अयं परसवर्णसन्धिः।

    उदा -

    अं + कितः = अङ्कितः

    दं + डः = दण्डः

    इदं + च = इदञ्च

    आनं + दः = आनन्दः

    ङमुडागमसन्धिः

    • पाणिनीसूत्रम् - ङमो ह्रस्वादचि ङमुण्नित्यम्।

    ह्रस्वस्वरात् परं विद्यमानानां ङ्, ण्, न् एतेषां वर्णानां स्वरे परे द्वित्यं भवति। अयं ङमुडागमसन्धिः।

    उदा -

    वसन् + अस्ति = वसन्नस्ति

    रुदन् + उपविशति = रुदन्नुपविशति

    कुर्वन् + एव = कुर्वन्नेव

    रुदन् + इति = रुदन्निति

    छत्वसन्धिः

    अनुनासिकं विहाय वर्गीयव्यञ्जनानां पुरतः विद्यमानस्य शकारस्य स्वरे अथवा ह्, य्, व्, र्, ल्, परे शकारस्य स्थाने छ्कारः आदिष्टः भवति। अयं छत्वसन्धिः।

    उदा -

    तत् + शिवः = तच्छिवः

    उत् + श्वासः = उच्छ्वासः

    एतत् + शास्त्रम् = एतच्छास्त्रम्

    तत् + श्रुत्वा = तच्छृत्वा

    विसर्गसन्धिः

    विसर्गस्थाने सादेशेन, विसर्गलोपेन, रेफेन, उत्वेन च विसर्गसन्धयः भवन्ति।

    प्रकाराः - १) सकारादेशः २) उकारादेशः ३) रेफादेशः ४) विसर्गलोपः

    सकारादेशः

    विसर्गात्परं यदि क-ख प-फ वर्णान् वर्जयित्वा कर्कशव्यञ्जनानि भवन्ति तदा विसर्गस्थाने सकारस्य आदेशः भवति।

    उदा -

    कः + चित् = कश्चित्

    रामः + तत्र = रामस्तत्र

    रामः + षष्ठः = रामष्षष्ठः

    धनुः + ठङ्कारः = धनुष्ठङ्का

    उकारादेशः

    ह्रस्वाकारात् परं विसर्गः ततः परम् अकारः मृदुव्यञ्जनं वा भवेत् चेत् विसर्गस्थाने उकारः भवति।

    उदा -

    देवः + अयम् = देवोऽयम्

    रामः + अत्र = रामोऽत्र

    शिवः + वन्द्यः = शिवो वन्द्यः

    रामः + जयति = रामो जयति

    रेफादेशः

    अ आ कारौ विहाय इतरेभ्यः स्वरेभ्यः परं विसर्गः ततः परं स्वरः अथवा मृदुव्यञ्जनं भवति चेत् विसर्गः रेफत्वेन परिणमते।

    उदा -

    गुरुः + इच्छा = गुरुरिच्छा

    मुनिः + नमति = मुनिर्नमति

    रविः + उदेति = रविरुदेति

    वधूः + एषाः = वधूरेषा

    विसर्गलोपः

    आकारात् परं विद्यमानस्य विसर्गस्य पुरतः स्वरः अथवा मृदुव्यञ्जनं भवेत् चेत् विसर्गस्य लोपः भवति। अकारात् परं विद्यमानस्य विसर्गस्य पुरस्तात् अकारं विना इतरेषु स्वरेषु आगतेषु विसर्गः लुप्यते।

    उदा -

    देवाः + यान्ति = देवा यान्ति

    सुराः + नम्याः = सुरा नम्याः

    अर्जुनः + उवाच = अर्जुन उवाच

    वेदः + इति = वेद इति

  • हिंदू सम्राटः

    हिंदू सम्राटः


प्रवेश पटलं

वार्ताः