सुस्वागतम्

 

संस्कृत भाषाया: संजालिय विकास हेतु वयम् भारतीय जनान् एकिभूय संस्कृतम् विश्वव्यापी भाषा रचयाम:।अतः भवताम् योगदानं आवश्यकम् अस्ति।

याति स्वयं प्रख्यार्पितगुणैः






संस्कृत भाषा एतादृशी भाषा अस्ति या चतुर्वेर्दै
:एकादश उपनिषदै: एवम् लक्ष ग्रन्थै: पवित्रां भवति।अस्याम् भाषायाम् अष्टोत्तर शतवर्णा: भवन्ति ये सूर्यस्य किरणै: च हिन्दू देवता शंकरस्य ढक्का द्वारा उत्पन्ना: अभवन् तत्कालीन समये एताम् भाषाम् मातृभाषा अमन्यत् परम् अद्यत्वे भारत एषा भाषा जीविता अस्ति।अतः अस्या: देवभाष्या:समुचित विकास एवं पुनरुद्धार हेतु एकम् संगठनं संचालितं येन संजालस्य माध्यमेन देववाणी संस्कृतम् जन भाषा भवेत्। यतोहि एषा भाषा एतादृशी भाषा अस्ति येन नासा सहित विश्वस्य अनेक संस्थानै: सिद्ध: कृत: यत् एषा एक ब्रह्माण्डस्य सर्वोतमा भाषा अस्ति । अतः एतस्य: सुमधुरं च सुंदरम् वैज्ञानिक भाषाया: विकास हेतु स्व अमूल्य समयः आवश्यकः। विश्वस्य उपलब्धासु भाषासु संस्कृतभाषा प्राचीनतमा भाषास्ति। भाषेयं अनेकाषां भाषाणां जननी मता। प्रचीनयो: ज्ञानविज्ञानयो: निधि: अस्यां सुरक्षितः। संस्कृतस्य महत्वविषये केनापि कथितम्-'भारतस्य प्रतिष्ठेद्वे संस्कृतं संस्कृतस्तथा'; इयं भाषा अतीव वैज्ञानिकी। केचन कथयन्ति यत् संस्कृतमेव संग्णकस्य कृते सर्वोत्तमा भाषा।अस्या: वाङ्मयं वेदै:, पुराणै:, नीतिशास्त्रै: चिकित्साशास्त्रादिभीश्च समृद्धमस्ति।कालिदासादीनां विश्वकवीनां काव्यसौन्दर्यम् अनुपमम्। कौटिल्यरचितम् अर्थशास्त्रं जगति प्रसिद्धमस्ति। गणितशास्त्रे शून्यस्य प्रतिपादनं सर्वप्रथमम् आर्यभट: अकरोत्। चिकित्साशास्त्रे चरकसुश्रुतयो: योगदानं विश्वप्रसिद्धम्। संस्कृते यानि अन्यानि शास्त्राणि विद्यन्ते तेषु वास्तुशास्त्रं, रसायनशास्त्रं, खगोलविज्ञानं, ज्योतिषशास्त्रं, विमांशास्त्रम् इत्यादीनि उल्लेखनियानि।

सनातन समय

देववाणी एंड्रायड एप डाउनलोड

संस्कृत का परिचय:-

User Rating: 0 / 5

Star InactiveStar InactiveStar InactiveStar InactiveStar Inactive
 

संस्कृतम्

 संस्कृत (संस्कृतम्) भारत की एक शास्त्रीय भाषा है। इसे देववाणी अथवा सुरभारती भी कहा जाता है। यह विश्व की सबसे पुरानी उल्लिखित भाषाओं में से एक है। संस्कृत हिन्द-यूरोपीय भाषा-परिवार की हिन्द-ईरानी शाखा की हिन्द-आर्य उपशाखा में शामिल है। ये आदिम-हिन्द-यूरोपीय भाषा से बहुत अधिक मेल खाती है। आधुनिक भारतीय भाषाएँ जैसे मैथिली, हिन्दी, उर्दू, कश्मीरी, उड़िया, बांग्ला, मराठी, सिन्धी, पंजाबी, (नेपाली), आदि इसी से उत्पन्न हुई हैं। इन सभी भाषाओं में यूरोपीय बंजारों की रोमानी भाषा भी शामिल है। संस्कृत में हिन्दू धर्म से सम्बंधित लगभग सभी धर्मग्रन्थ लिखे गये हैं। बौद्ध धर्म (विशेषकर महायान) तथा जैन धर्म के भी कई महत्त्वपूर्ण ग्रन्थ संस्कृत में लिखे गये हैं। आज भी हिन्दू धर्म के अधिकतर यज्ञ और पूजा संस्कृत में ही होती हैं।

संस्कृत को सभी उच्च भाषाओं की जननी माना जाता है। इसका कारण हैं इसकी सर्वाधिक शुद्धता और इसीलिए यह कम्प्यूटर सॉफ्टवेयर के लिए एक उपयुक्त भाषा है (फ़ोर्ब्स पत्रिका जुलाई 1987 की एक रिपोर्ट में)।

भारत के संविधान में संस्कृत आठवीं अनुसूची में सम्मिलित अन्य भाषाओं के साथ विराजमान है। त्रिभाषा सूत्र के अन्तर्गत संस्कृत भी आती है। हिन्दी एवं अन्य भारतीय भाषाओं की की वैज्ञानिक तथा तकनीकी शब्दावली संस्कृत से निर्मित है। संस्कृत भाषा के संजालीय विकास हेतु १३ अगस्त २०१३ को दुनिया का पहला संस्कृत भाषा के देवनागरी लिपि लिखित वेबपोर्टल देववाणी(devwani.org) शैक्षणिक एवं संगणकीय विकास हेतु वीरेंद्र त्रिपाठी द्वारा तैयार किया गया जिसके माध्यम से सभी प्रकार के वैदिक एवं पौराणिक ग्रंथ वेद एवं श्रुति,स्मृति आदि पढे व प्राप्त किये जा सकते हैं ।भारत देश में अनेक विश्व विद्यालय सरकारी एवं गैर सरकारी संस्थान संस्कृत के प्रचार प्रसार में अग्रसित हैं।

 

 

 

विस्तारः

भारतम्

भाषाकुटुम्बः

ऐन्द्ययौरोपी (Indo-European)

लिपिः

देवनागिरी[१]

ब्रह्मी तमिऴ्

आधिकारिकस्थितिः

व्यावहारिकभाषा

भारतम्उत्तराखण्डम्

भारतस्य २२ भाषाणाम्एकम्

नियन्त्रणम्

राजकीयनियन्त्रणं नास्ति।

भाषा कोड्

ISO 639-1

sa

ISO 639-2

san

ISO 639-3

san

संस्कृतम्

संस्कृतम् (IAST: saṃskṛtam) जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतं भारतस्य जगत: वा भाषास्वेकतमा‌ प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक्‌ इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।

भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।

व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्‍टाध्‍यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं इवास्ति।

संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं दववाणी।

इतिहास:

 
संस्कृतस्य तालपत्रम् (नेपाललिपिः प्रयुक्तम्)

इयं भाषा न केवलं भारतस्‍य अपि तु विश्वस्य प्राचीनतमा भाषा इति मन्यते। इयं भाषा तावती समृद्धा अस्ति यत् प्राय: सर्वासु भारतीयभाषासु न्‍यूनाधिकरूपेण अस्‍या: शब्‍दा: प्रयुज्‍यन्‍ते. अत: भाषाविदां मतेन इयं सर्वासां भाषाणां जननी मन्‍यते। पुरा संस्कृतं लोकभाषा आसीत्‌। जना: संस्कृतेन वदन्ति स्म॥

विश्‍वस्‍य आदिम: ग्रन्‍थ: ऋग्‍वेद: संस्‍कृतभाषायामेवास्‍ति। अन्‍ये च वेदा: यथा यजुर्वेद:सामवेद:अथर्ववेदश्‍च संस्‍कृतभाषायामेव सन्‍ति। आयुर्वेद-धनुर्वेद-गन्‍धर्ववेदार्थवेदाख्‍या: चत्‍वार: उपवेदा: अपि संस्‍कृतेन एव विरचिता:॥

सर्वा: उपनिषद: संस्‍कृते उपनिबद्धाः । अन्‍ये ग्रन्‍था: - शिक्षाकल्‍प:निरुक्तम्ज्‍यौतिषम्छन्‍द:व्‍याकरणम्दर्शनम्इतिहास:,पुराणंकाव्‍यंशास्‍त्रं चेत्यादयः ॥

महर्षि-पाणिनिना विरचित: अष्‍टाध्‍यायी इति संस्‍कृतव्‍याकरणग्रन्थ: अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते ॥

वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |

पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥

सुकुमार:

लिपि:

 
अनेकेषु लिपिषु संस्कृतम्

संस्‍कृतलेखनं पूर्वं सरस्वतीलिप्या आसीत्‌| कालान्‍तरे एतस्‍य लेखनं ब्राह्मीलिप्या अभवत्। तदनन्तरम् एतस्य लेखनं देवनागर्या आरब्धम् ।

अन्‍यरूपान्‍तराणि अधोनिर्दिष्टनि सन्‍ति -- बाङ्गलालिपिःशारदालिपिःतेलुगुलिपिःतमिळलिपिःयव-द्वीपलिपि:कम्‍बोजलिपिःकन्नडलिपिःनेपाललिपिः,मलयाळमलिपिःगुजरातीलिपिः, इत्यादय: ॥

मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तया एव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्र एवमेव आसीत्, अत एव प्राचीना: हस्तलिखितग्रन्था; अनेकासु लिपिषु लिखिता: सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते।

अक्षरमाला[सम्पादयतु]

संस्कृतभाषाया लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजागम्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणव इव भाषाया उपादानकारणं वर्णाः। निरवत्र एकत्वव्यवहारार्हः स्फुटो नादो वर्ण इति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः स्वरः; तदनर्हं व्यञ्जनम्। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरः अकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।

संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते -

प्रणवः
स्वराः
ह्रस्वस्वराः दीर्घस्वराः
 
 
 
 
 
अयोगवाहौ
अनुस्वारः विसर्गः
अं अः
व्यञ्जनानि
  खराः अतिखराः मृदवः घोषाः अनुनासिकाः
कवर्गः
चवर्गः
टवर्गः
तवर्गः
पवर्गः
मध्यमाः
(अन्तस्थाः)
ऊष्माणः

यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णनामेव लिपिभिः विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वात् अक्षराणामेव लिपिसंज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्व्स्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्यकां लिपिं Sri इति तिस्रृभिर्लिखन्त्याङ्गलेयाः।

अविभाज्य एको नादो वर्णः; केवलो व्यञ्जनसंसृष्टो वा स्वर एकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्ण इत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्ण एव। केवला एव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।

यथा -

क् + अ = क

क् + आ = का

क् + इ = कि

क् + ई = की

क् + उ = कु

क् + ऊ = कू

क् + ऋ = कृ

क् + ॠ = कॄ

क् + ऌ = कॢ

क् + ए = के

क् + ऐ = कै

क् + ओ = को

क् + औ = कौ

इत्यादि।

'क्’ इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणा वर्णैर्व्यवहरन्ति। अतश्च 'क', 'कि’, 'कु’ इत्याद्या लिपय एकैकचिह्नात्मिका अपि स्वरव्यञ्जनरूपवर्णद्वयघटिता।

अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभाग उक्त एव।

स्वराः

‘अच्’ इति स्वरस्य पाणिनिकृता संज्ञा। येषां वर्णानाम् उच्चारणं स्वतन्त्रतया भवति ते स्वराः कथ्यन्ते।

उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः -

  1. एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो ह्रस्वः।

  2. आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो दीर्घः।

  3. अ...३, इ...३, उ...३ इत्यादिवत् तिसृभिरुच्चार्यमाणः प्लुतः (प्ळुतः‌)।

ह्रस्वस्वराः

येषां स्वराणाम् उच्चारणम् एकमात्राकलेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।

अ इ उ ऋ लृ

दीर्घस्वराः

येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।

आ ई ऊ ॠ ए ऐ ओ औ

प्लुतस्वराः

येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।

अ...३ आ...३ इ...३ ई...३ उ...३ ऊ...३ ऋ...३ ऋृ...३

लृ...३ ए...३ ऐ...३ ओ...३ औ...३

  • एषु ह्रस्वदीर्धाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।

  • स्वरेषु 'ऌ'कारोऽतीव विरलः - 'कॢप्तम्’, 'कॢप्तिः’ इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।

  • ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपः आधुनिककाले उपयुज्यते। 'ए'कारस्य ह्रस्वरूपं देवनागर्यां 'ए' इति लिखति। 'ओ'कारस्य ह्रस्वरूपं देवनागर्यां 'ओ'इति लिखति।

  • ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते - ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)

सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविधमस्ति।

 
ऋग्वेदस्य प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्

अयमपि भेदः सूत्रकारवचनैरेवोच्यते -

उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।

उच्चः स्वर उदात्तः; नीचोऽनुदात्तः; उच्चनीचमिश्रितः स्वरितः।

लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। - अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनक्ङितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।

अयोगवाहौ

मुख्यलेखाः : अनुस्वारःविसर्गः

अनुस्वारः

अर्ध-‘म’कारसदृशाध्वनिरनुस्वारः।

विसर्गः

विसर्गापरपर्यायो विसर्जनीयः। अर्ध-‘ह’कारसदृशाध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।

विसर्गादयो न स्वतन्त्रा वर्णाः; नैभि किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।

व्यञ्जनानि

क् ख् ग् घ् ङ्

च् छ् ज् झ् ञ्

ट् ठ् ड् ढ् ण्

त् थ् द् ध् न्

प् फ् ब् भ् म्

य् र् ल् व् श्

ष् स् ह् ळ्

उच्चारणशास्त्रम्

वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।

यथोक्तं पाणिनीयशिक्ष्यायाम् -

आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
मारुतस्तूरसि चरन् मन्द्र्ं जनयति स्वरम् ॥
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥

एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. उरः, २. कण्ठः, ३. शिरः (मूर्धा), ४. जिह्वामूलम्, ५. दन्ता, ६. नासिका, ७. ओष्ठौ, ५. तालुः।

तद्यथा -

वर्णस्य उत्पत्तिस्थानम् वर्णानां संज्ञा स्वराः व्यञ्जनानि अयोगवाहौ
कण्ठ कण्ठ्यः अ आ क् ख् ग् घ् ङ् ह् अः
(विसर्गः)
तालुः तालव्यः इ ई च् छ् ज् झ् ञ् य् श्  
मूर्धा मूर्धन्यः ऋ ॠ ट् ठ् ड् ढ् ण् र् ष् ळ्  
दन्ताः दन्त्यः ऌ ॡ त् थ् द् ध् न् ल् स्  
ओष्ठौ ओष्ठ्यः उ ऊ प् फ् ब् भ् म्  
कण्ठतालु कण्ठतालव्यः ऐ ए ऐ    
कण्ठोष्ठम् कण्ठोष्ठ्यः ओ ओ औ    
दन्तोष्ठम् दन्तोष्ठ्यः    
नासिका नासिक्यः     अं
(अनुस्वारः)

उच्चारणभेदाः

देशभेदादुच्चारणभेदाः। यथा - यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र वङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।

 

 

संस्कृत संसाधन

संस्कृत सामग्री

शब्दकोश[संपादित करें]

डाउनलोड योग्य शब्दकोश

  • SanDic - Sanskrit-English Dictionary based on V. S. Apte's 'The practical Sanskrit-English dictionary', Arthur Anthony Macdonell's 'A practical Sanskrit dictionary' and Monier Williams 'Sanskrit-English Dictionary'.
  • मुदगलकोश - software, which searches an offline version of the monier-williams dictionary, and integrates with several online tools
  • stardict-mw-Sanskrit-English-2.4.2.tar.bz2 MW Sanskrit-English Dictionary in StarDict format. (can be used with GoldenDict also)
  • Monier-Williams: DICT & HTML

संस्कृत विषयक लेख

संस्कृत साफ्टवेयर एवं उपकरण

संस्कृत जालस्थल

वार्ताः